Chapter 1 · Arjuna Viṣāda Yoga
Shloka 1.7Recognising moral conflict and the need for guidance. How can a sincere person respond when duty, relationship and consequence appear to conflict?
Shloka · Devanagari
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥
Shloka · Roman transliteration
asmākaṁ tu viśhiṣhṭā ye tānnibodha dwijottamanāyakā mama sainyasya sanjñārthaṁ tānbravīmi te
Sandhi-vicheda
Review statusThe source token sequence is shown in Roman transliteration. A scholar-reviewed Devanagari sandhi-vicheda will replace it.
Meaning of each word
Translation
This layer is reserved for a named translator, edition, source locator and publication approval. No unattributed translation is presented as authoritative.
Bhāṣya · Commentary
।।1.7।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।
Commentary remains separate from the Sanskrit source and shows commentator, tradition, edition, rights and version details. Approved passages are stored and served by Living Bliss.
Sanskrit text, transliteration and source glosses are edition-labelled. Translation, Devanagari sandhi analysis and bhāṣya remain protected review layers.
