Chapter 4 · Jñāna Karma Sannyāsa Yoga
Shloka 4.39Knowledge, tradition, divine descent and wise action. How are knowledge, tradition and action brought together?
Shloka · Devanagari
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥
Shloka · Roman transliteration
śhraddhāvān labhate jñānaṁ tat-paraḥ sanyatendriyaḥjñānaṁ labdhvā parāṁ śhāntim achireṇādhigachchhati
Sandhi-vicheda
Review statusThe source token sequence is shown in Roman transliteration. A scholar-reviewed Devanagari sandhi-vicheda will replace it.
Meaning of each word
Translation
This layer is reserved for a named translator, edition, source locator and publication approval. No unattributed translation is presented as authoritative.
Bhāṣya · Commentary
।।4.39।। श्रद्धावान् श्रद्धालुः लभते ज्ञानम्। श्रद्धालुत्वेऽपि भवति कश्चित् मन्दप्रस्थानः अत आह तत्परः गुरूपासदनादौ अभियुक्तः ज्ञानलब्ध्युपाये श्रद्धावान्। तत्परः अपि अजितेन्द्रियः स्यात् इत्यतः आह संयतेन्द्रियः संयतानि विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि स संयतेन्द्रियः। य एवंभूतः श्रद्धावान् तत्परः संयतेन्द्रियश्च सः अवश्यं ज्ञानं लभते। प्रणिपातादिस्तु बाह्योऽनैकान्तिकोऽपि भवति मायावित्वादिसंभवात् न तु तत् श्रद्धावत्त्वादौ इत्येकान्ततः ज्ञानलब्ध्युपायः। किं पुनः ज्ञानलाभात् स्यात् इत्युच्यते ज्ञानं लब्ध्वा परं मोक्षाख्यां शान्तिम् उपरतिम् अचिरेण क्षिप्रमेव अधिगच्छति। सम्यग्दर्शनात् क्षिप्रमेव मोक्षो भवतीति सर्वशास्त्रन्यायप्रसिद्धः सुनिश्चितः अर्थः।।अत्र संशयः न कर्तव्यः पापिष्ठो हि संशयः कथम् इति उच्यते
Commentary remains separate from the Sanskrit source and shows commentator, tradition, edition, rights and version details. Approved passages are stored and served by Living Bliss.
Sanskrit text, transliteration and source glosses are edition-labelled. Translation, Devanagari sandhi analysis and bhāṣya remain protected review layers.
