अथ षट्त्रिंशदधिकशततमो ऽध्यायः
atha ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ
नक्षत्रचक्रं
nakṣatracakraṃ
ईश्वर उवाच
īśvara uvāca
अथ चक्रं प्रवक्ष्यामि यात्रादौ च फलप्रदम्
atha cakraṃ pravakṣyāmi yātrādau ca phalapradam
अश्विन्यादौ लिखेच्चक्रं त्रिनाडीपरिभूषितं
aśvinyādau likheccakraṃ trināḍīparibhūṣitaṃ
अश्विन्यार्द्रादिभिः पूर्वा ततश्चोत्तरफल्गुनी
aśvinyārdrādibhiḥ pūrvā tataścottaraphalgunī
हस्ता ज्येष्ठा तथा मूलं वारुणं चाप्यजैकपात्
hastā jyeṣṭhā tathā mūlaṃ vāruṇaṃ cāpyajaikapāt
नाडीयं प्रथमा चान्या याम्यं मृगशिरस् तथा
nāḍīyaṃ prathamā cānyā yāmyaṃ mṛgaśiras tathā
पुष्यं भाग्यन्तथा चित्रा मैत्रञ्चाप्यं च वासवं
puṣyaṃ bhāgyantathā citrā maitrañcāpyaṃ ca vāsavaṃ
अहिर्व्रध्रं तृतीयाथ कृत्तिका रोहिणी ह्य् अहिः
ahirvradhraṃ tṛtīyātha kṛttikā rohiṇī hy ahiḥ
चित्रा स्वाती विशाखा च श्रवणा रेवती च भं
citrā svātī viśākhā ca śravaṇā revatī ca bhaṃ
नाडीत्रितयसंजुष्टग्रहाज् ज्ञेयं शुभाशुभं
nāḍītritayasaṃjuṣṭagrahāj jñeyaṃ śubhāśubhaṃ
चक्रम्फणीश्वरन्तत्तु त्रिनाडीपरिभूषितं
cakramphaṇīśvarantattu trināḍīparibhūṣitaṃ
रविभौमार्कराहुस्थमशुभं स्याच्छुभं परं
ravibhaumārkarāhusthamaśubhaṃ syācchubhaṃ paraṃ
देशग्रामयुता भ्रातृभार्याद्या एकशः शुभाः
deśagrāmayutā bhrātṛbhāryādyā ekaśaḥ śubhāḥ
अ, भ, कृ, रो, मृ, आ, पु, पु, अ, म, पू, उ, ह, चि, स्वा, वि, अ, ज्ये, मू, पू, उ, अ, ध, श, पू, उ, रे । अत्र सप्तविंशतिनक्षत्राणि ज्ञेयानि
a, bha, kṛ, ro, mṛ, ā, pu, pu, a, ma, pū, u, ha, ci, svā, vi, a, jye, mū, pū, u, a, dha, śa, pū, u, re / atra saptaviṃśatinakṣatrāṇi jñeyāni
इत्य् आग्नेये महापुराणे युद्धजयार्णवे नक्षत्रचक्रं नाम षट्त्रिंशदधिकशततमो ऽध्यायः ॥
ity āgneye mahāpurāṇe yuddhajayārṇave nakṣatracakraṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ ||
