अथाष्टनवतितमो ऽध्यायः ॥
athāṣṭanavatitamo 'dhyāyaḥ ||
गौरीप्रतिष्ठाकथनं
gaurīpratiṣṭhākathanaṃ
ईश्वर उवाच
īśvara uvāca
वक्ष्ये गौरीप्रतिष्ठाञ्च पूजया सहितां शृणु
vakṣye gaurīpratiṣṭhāñca pūjayā sahitāṃ śṛṇu
मण्डपाद्यं पुरो यच्च संस्थाप्य चाधिरोपयेत्
maṇḍapādyaṃ puro yacca saṃsthāpya cādhiropayet
शय्यायान्तांश् च विन्यस्य मन्त्रान्मूर्त्यादिकान् गुह
śayyāyāntāṃś ca vinyasya mantrānmūrtyādikān guha
आत्मविद्याशिवान्तञ्च कुर्यादीशनिवेशनं
ātmavidyāśivāntañca kuryādīśaniveśanaṃ
शक्तिं परां ततो न्यस्य हुत्वा जप्त्वा च पूर्ववत्
śaktiṃ parāṃ tato nyasya hutvā japtvā ca pūrvavat
सन्धाय च तथा पिण्डीं क्रियाशक्तिस्वरूपिणीं
sandhāya ca tathā piṇḍīṃ kriyāśaktisvarūpiṇīṃ
सदेशव्यापिकां ध्यात्वा न्यस्तरत्नादिकां तथा
sadeśavyāpikāṃ dhyātvā nyastaratnādikāṃ tathā
एवं संस्थाप्य तां पश्चाद्देवीन्तस्यान्नियोजयेत्
evaṃ saṃsthāpya tāṃ paścāddevīntasyānniyojayet
परशक्तिस्वरूपान्तां स्वाणुना शक्तियोगतः
paraśaktisvarūpāntāṃ svāṇunā śaktiyogataḥ
ततो न्यसेत् क्रियाशक्तिं पीठे ज्ञानञ्च विग्रहे
tato nyaset kriyāśaktiṃ pīṭhe jñānañca vigrahe
ततोपि व्यापिनीं शक्तिं समावाह्य नियोजयेत्
tatopi vyāpinīṃ śaktiṃ samāvāhya niyojayet
अम्बिकां शिवनाम्नीञ्च समालभ्य प्रपूजयेत्
ambikāṃ śivanāmnīñca samālabhya prapūjayet
ओं आधारशक्तये नमः । ओं कूर्माय नमः । ओं स्कन्दाय च तथा नमः । ओं ह्रीं नारायणाय नमः । ओं ऐश्वर्याय नमः
oṃ ādhāraśaktaye namaḥ / oṃ kūrmāya namaḥ / oṃ skandāya ca tathā namaḥ / oṃ hrīṃ nārāyaṇāya namaḥ / oṃ aiśvaryāya namaḥ
ओं अं अधश्छदनाय नमः । ओं पद्मासनाय नमः । ओं ऊर्ध्वच्छदनाय नमः । ओं पद्मासनाय नमः । अथ सम्पूज्याः केशवास् तथा । ओं ह्रीं कर्णिकाय नमः । ओं क्षं पुष्कराक्षेभ्य इहार्चयेत् । ओं हां पुष्ट्यै ह्रीं च ज्ञानायै ह्रूं क्रियायै ततो नमः । ओं नालाय नमः । रुं धर्माय नमः । रुं ज्ञानाय वै नमः । ओं वैराग्याय वै नमः । ओं वै अधर्माय नमः । ओं रुं अज्ञानाय वै
oṃ aṃ adhaśchadanāya namaḥ / oṃ padmāsanāya namaḥ / oṃ ūrdhvacchadanāya namaḥ / oṃ padmāsanāya namaḥ / atha sampūjyāḥ keśavās tathā / oṃ hrīṃ karṇikāya namaḥ / oṃ kṣaṃ puṣkarākṣebhya ihārcayet / oṃ hāṃ puṣṭyai hrīṃ ca jñānāyai hrūṃ kriyāyai tato namaḥ / oṃ nālāya namaḥ / ruṃ dharmāya namaḥ / ruṃ jñānāya vai namaḥ / oṃ vairāgyāya vai namaḥ / oṃ vai adharmāya namaḥ / oṃ ruṃ ajñānāya vai
नमः । ओं अवैराग्याय वै नमः । अं अनैश्वर्याय नमः ।
namaḥ / oṃ avairāgyāya vai namaḥ / aṃ anaiśvaryāya namaḥ /
हुं वाचे हुं च रागिण्यै क्रैं ज्वालिन्यै ततो नमः । ओं ह्रौं शमायै च नमः । ह्रुं ज्येष्ठायै ततो नमः । ओं ह्रौं रौं क्रौं नवशक्त्यै गौं च गौर्यासनाय च । गौं गौरीमूर्तये नमः । गौर्या मूलमथोच्यते । ओं ह्रीं सः महागौरि रुद्रदयिते स्वाहा । गौर्यै नमः । गां ह्रूं ह्रीं शिवो गूं स्यात् शिवायै कवचाय च । गों नेत्राय च गों अस्त्राय ओं गौं विज्ञानशक्तये, ओं गूं क्रियाशक्तये नमः । पूर्वादौ शाक्रादिकान् । ओं सुं सुभागायै नमः । ह्रीं वीजललिता ततः । ओं ह्रीं कामिन्यै च नमः । ओं ह्रूं स्यात् कामशालिनीमन्त्रैर् गौरीं प्रतिष्ठाप्य प्रार्च्य जप्त्वाथ सर्वभाक् ॥
huṃ vāce huṃ ca rāgiṇyai kraiṃ jvālinyai tato namaḥ / oṃ hrauṃ śamāyai ca namaḥ / hruṃ jyeṣṭhāyai tato namaḥ / oṃ hrauṃ rauṃ krauṃ navaśaktyai gauṃ ca gauryāsanāya ca / gauṃ gaurīmūrtaye namaḥ / gauryā mūlamathocyate / oṃ hrīṃ saḥ mahāgauri rudradayite svāhā / gauryai namaḥ / gāṃ hrūṃ hrīṃ śivo gūṃ syāt śivāyai kavacāya ca / goṃ netrāya ca goṃ astrāya oṃ gauṃ vijñānaśaktaye, oṃ gūṃ kriyāśaktaye namaḥ / pūrvādau śākrādikān / oṃ suṃ subhāgāyai namaḥ / hrīṃ vījalalitā tataḥ / oṃ hrīṃ kāminyai ca namaḥ / oṃ hrūṃ syāt kāmaśālinīmantrair gaurīṃ pratiṣṭhāpya prārcya japtvātha sarvabhāk ||
इत्य् आग्नेये महापुराणे गौरीप्रतिष्ठा नामाष्टनवतितमो ऽध्यायः
ity āgneye mahāpurāṇe gaurīpratiṣṭhā nāmāṣṭanavatitamo 'dhyāyaḥ
