7 ॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मासोपवासव्रतं नाम द्वाविंशत्युत्तरशततमो ऽध्यायः श्रीगरुडमहापुराणम्- 123 ब्रह्मोवाच । व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् । एकभक्तेन नक्तेन मासं वायाचितेन वा
7 // iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 123 brahmovāca / vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet / ekabhaktena naktena māsaṃ vāyācitena vā
1 ॥ दुग्धशाकफलाद्यैर्वा उपवासेन वा पुनः । सर्वपापविनिर्मुक्तः प्राप्तकामो हरिं व्रजेत्
1 // dugdhaśākaphalādyairvā upavāsena vā punaḥ / sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet
2 ॥ सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने । चातुर्मास्ये ततस्तस्मात्कार्तिके भीष्मपञ्चकम्
2 // sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane / cāturmāsye tatastasmātkārtike bhīṣmapañcakam
3 ॥ ततः श्रेष्ठव्रतं शुक्लस्यैकादश्यां समाचरेत् । स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिम्
3 // tataḥ śreṣṭhavrataṃ śuklasyaikādaśyāṃ samācaret / snātvā trikālaṃ pitrādīnyavādyairarcayeddharim
4 ॥ यजेन्मौनी घृताद्यैश्च पञ्चगव्येन वारिभिः । स्नापयित्वाथ कर्पूरमुखैश्चैवानुलेपयेत्
4 // yajenmaunī ghṛtādyaiśca pañcagavyena vāribhiḥ / snāpayitvātha karpūramukhaiścaivānulepayet
5 ॥ घृताक्तगुग्गुलैर्धूपं द्विजः पञ्चदिनं दहेत् । नैवद्यं परमान्नं तु जपेदष्टोत्तरं शतम्
5 // ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet / naivadyaṃ paramānnaṃ tu japedaṣṭottaraṃ śatam
6 ॥ ओं नमो वासुदेवाय घृतव्रीहितिलादिकम् । अष्टाक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत्
6 // oṃ namo vāsudevāya ghṛtavrīhitilādikam / aṣṭākṣareṇa mantreṇa svāhāntena tu homayet
7 ॥ प्रथमे ऽह्नि हरेः पादौ यजेत्पद्मैर्द्वितयिक । बिल्वपत्रैर्जानुदेशं नाभि गन्धेन चापरे
7 // prathame 'hni hareḥ pādau yajetpadmairdvitayika / bilvapatrairjānudeśaṃ nābhi gandhena cāpare
8 ॥ स्कन्धा बिल्वजवाभिश्च पञ्चमे ऽह्नि शिरोर्ऽचयत् । मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्क्रमात्
8 // skandhā bilvajavābhiśca pañcame 'hni śiror'cayat / mālatyā bhūmiśāyī syādgomayaṃ prāśayetkramāt
9 ॥ गोमूत्रं च दधि क्षीरं पञ्चमे पञ्चगव्यकम् । नक्तं कुर्यात्पञ्चदश्यां व्रती स्याद्भुक्तिमुक्तिभाक्
9 // gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam / naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk
10 ॥ एकादशीव्रतं नित्यं तत्कुर्यात्पक्षयोर्द्वयोः । अघौघनरकं हन्यात्सर्वदं विष्णुलोकदम्
10 // ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ / aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam
11 ॥ एकादशी द्वादशी च निशान्ते च त्रयोदशी । नित्यमेकादशी यत्र तत्र सन्निहितो हरिः
11 // ekādaśī dvādaśī ca niśānte ca trayodaśī / nityamekādaśī yatra tatra sannihito hariḥ
12 ॥ दशम्येकादशी यत्र तत्रस्थाश्चासुरादयः । द्वादश्यां पारण कुर्यात्सूतके मृतके चरेत्
12 // daśamyekādaśī yatra tatrasthāścāsurādayaḥ / dvādaśyāṃ pāraṇa kuryātsūtake mṛtake caret
13 ॥ चतुर्दशीं प्रतिपदं पूर्वमिश्रामुपावसेत् । पौर्णमास्या ममावास्यां प्रतिपन्मिश्रितां मुने
13 // caturdaśīṃ pratipadaṃ pūrvamiśrāmupāvaset / paurṇamāsyā mamāvāsyāṃ pratipanmiśritāṃ mune
14 ॥ द्वितीयां तृतीयामिश्रां तृतीयाञ्चाप्युपावसेत् । चतुर्थ्या सङ्गतां नित्यं चतुर्थोञ्चनया युताम् । पञ्चमींषष्ठ्यसंयुक्तां षष्ठ्या युक्ताञ्च सप्तमीम्
14 // dvitīyāṃ tṛtīyāmiśrāṃ tṛtīyāñcāpyupāvaset / caturthyā saṅgatāṃ nityaṃ caturthoñcanayā yutām / pañcamīṃṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāñca saptamīm
