Living Bliss — Awakening Inner Bliss
Hindu Digital Library
ॐ श्री गुरुभ्यो नमःॐ श्री परमात्मने नमः
Living Bliss — Awakening Inner Bliss
Bhagavad Gita: FoundationsLiving Bliss reference edition
Course/Chapter 13/Shloka 21
Bhagavad Gita

Chapter 13 · Kṣetra Kṣetrajña Vibhāga Yoga

Shloka 13.21
Lesson 510 of 701 · database edition c6fce3959544
Scene and context

Field, knower, nature and consciousness. How does distinguishing the field from its knower change self-understanding?

Selected languageEnglish
01

Shloka · Devanagari

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते।पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥

02

Shloka · Roman transliteration

kārya-kāraṇa-kartṛitve hetuḥ prakṛitir uchyatepuruṣhaḥ sukha-duḥkhānāṁ bhoktṛitve hetur uchyate

03

Sandhi-vicheda

kārya+kāraṇa+kartṛitve+hetuḥ+prakṛitiḥ+uchyate+puruṣhaḥ+sukha-duḥkhānām+bhoktṛitve+hetuḥ+uchyate

Review statusThe source token sequence is shown in Roman transliteration. A scholar-reviewed Devanagari sandhi-vicheda will replace it.

04

Meaning of each word

kāryasource form
effect
kāraṇasource form
cause
kartṛitvesource form
in the matter of creation
hetuḥsource form
the medium
prakṛitiḥsource form
the material energy
uchyatesource form
is said to be
puruṣhaḥsource form
the individual soul
sukha-duḥkhānāmsource form
of happiness and distress
bhoktṛitvesource form
in experiencing
hetuḥsource form
is responsible
uchyatesource form
is said to be
05

Translation

Approved English translation pending

This layer is reserved for a named translator, edition, source locator and publication approval. No unattributed translation is presented as authoritative.

06

Bhāṣya · Commentary

Commentarial traditionĀdi ŚaṅkarācāryaAdvaita VedāntaEditionBhagavad Gītā Bhāṣya of Ādi Śaṅkarācārya — Sanskrit draft · classical-sa-draft-1
Editorial statusDraft Sanskrit text · scholarly review pending

।।13.21।। --,कार्यकरणकर्तृत्वे -- कार्यं शरीरं करणानि तत्स्थानि त्रयोदश। देहस्यारम्भकाणि भूतानि पञ्च विषयाश्च प्रकृतिसंभवाः विकाराः पूर्वोक्ताः इह कार्यग्रहणेन गृह्यन्ते। गुणाश्च प्रकृतिसंभवाः सुखदुःखमोहात्मकाः करणाश्रयत्वात् करणग्रहणेन गृह्यन्ते। तेषां कार्यकरणानां कर्तृत्वम् उत्पादकत्वं यत् तत् कार्यकरणकर्तृत्वं तस्मिन् कार्यकरणकर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिः उच्यते। एवं कार्यकरणकर्तृत्वेन संसारस्य कारणं प्रकृतिः। कार्यकारणकर्तृत्वे इत्यस्मिन्नपि पाठे? कार्यं यत् यस्य विपरिणामः तत् तस्य कार्यं विकारः विकारि कारणं तयोः विकारविकारिणोः कार्यकारणयोः कर्तृत्वे इति। अथवा? षोडश विकाराः कार्यं सप्त प्रकृतिविकृतयः कारणम् तान्येव कार्यकारणान्युच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिः उच्यते? आरम्भकत्वेनैव। पुरुषश्च संसारस्य कारणं यथा स्यात् तत् उच्यते -- पुरुषः जीवः क्षेत्रज्ञः भोक्ता इति पर्यायः? सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुः उच्यते।।कथं पुनः अनेन कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च प्रकृतिपुरुषयोः संसारकारणत्वमुच्यते इति? अत्र उच्यते -- कार्यकरणसुखदुःखरूपेण हेतुफलात्मना प्रकृतेः परिणामाभावे? पुरुषस्य च चेतनस्य असति तदुपलब्धृत्वे? कुतः संसारः स्यात् यदा पुनः कार्यकरणसुखदुःखस्वरूपेण हेतुफलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्विपरीतस्य भोक्तृत्वे न अविद्यारूपः संयोगः स्यात्? तदा संसारः स्यात् इति। अतः यत् प्रकृतिपुरुषयोः कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च संसारकारणत्वमुक्तम्? तत् युक्तम्। कः पुनः अयं संसारो नाम सुखदुःखसंभोगः संसारः। पुरुषस्य च सुखदुःखानां संभोक्तृत्वं संसारित्वमिति।।यत् पुरुषस्य सुखदुःखानां भोक्तृत्वं संसारित्वम् इति उक्तं तस्य तत् किं निमित्तमिति उच्यते --,

Commentary remains separate from the Sanskrit source and shows commentator, tradition, edition, rights and version details. Approved passages are stored and served by Living Bliss.

Academic recordBhagavad Gita 13.21
Course position510 / 701
Content storageLiving Bliss database

Sanskrit text, transliteration and source glosses are edition-labelled. Translation, Devanagari sandhi analysis and bhāṣya remain protected review layers.

Hindu Digital Library
ॐ श्री गुरुभ्यो नमःॐ श्री परमात्मने नमः