Living Bliss — Awakening Inner Bliss
Hindu Digital Library
ॐ श्री गुरुभ्यो नमःॐ श्री परमात्मने नमः
Kūrma Purāṇa

Vibhāga 2 · Chapter 33

कूर्मपुराणम्

KūrmP_2,33.

59 ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वात्रिशो ऽध्यायः व्यास उवाच मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च । वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु

59 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvātriśo 'dhyāyaḥ vyāsa uvāca manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca / vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu

KūrmP_2,33.

1 ॥ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः । चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये

1 // dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ / caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye

KūrmP_2,33.

2 ॥ धान्यान्नधनचौर्यं तु कृत्वा कामाद् द्विजोत्तमः । स्वजातीयगृहादेव कृच्छ्रार्धेन विशुद्ध्यति

2 // dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ / svajātīyagṛhādeva kṛcchrārdhena viśuddhyati

KūrmP_2,33.

3 ॥ भक्षभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम्

3 // bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca / puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam

KūrmP_2,33.

4 ॥ तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम्

4 // tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca / cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam

KūrmP_2,33.

5 ॥ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयः कांस्योपलानां च द्वादशाहं कणाशनम्

5 // maṇimuktāpravālānāṃ tāmrasya rajatasya ca / ayaḥ kāṃsyopalānāṃ ca dvādaśāhaṃ kaṇāśanam

KūrmP_2,33.

6 ॥ कार्पासकीटजोर्णानां द्विशफैकशफस्य च । पक्षिगन्धौषधीनां च रज्वाश्चैव त्र्यहं पयः

6 // kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca / pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ

KūrmP_2,33.

7 ॥ नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् । काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च । वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति

7 // naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret / kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca / varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati

KūrmP_2,33.

8 ॥ क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च । गोगोमायुकपीनां च तदेव व्रतमाचरेत् । उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम्

8 // kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca / gogomāyukapīnāṃ ca tadeva vratamācaret / upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam

KūrmP_2,33.

9 ॥ नकुलोलूकमार्जारं जग्ध्वा सांतपनं चरेत् । श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति । व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु

9 // nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret / śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śuddhyati / vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu

KūrmP_2,33.

10 ॥ बकं चैव बलाकं च हंसं कारण्डवं तथा । चक्रवाकं प्लवं जग्घ्वा द्वादशाहमभोजनम्

10 // bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā / cakravākaṃ plavaṃ jagghvā dvādaśāhamabhojanam

KūrmP_2,33.

11 ॥ कपोतं टिट्टिभं चैव शुकं सारसमेव च । उलूकं जालपादं च जग्ध्वाप्येतद् व्रतं चरेत्

11 // kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca / ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret

KūrmP_2,33.

12 ॥ शिशुमारं तथा चाषं मत्स्यमांसं तथैव च । जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम्

12 // śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca / jagdhvā caiva kaṭāhārametadeva cared vratam

KūrmP_2,33.

13 ॥ कोकिलं चैव मत्स्यांश्च मण्डुकं भुजगं तथा । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति

13 // kokilaṃ caiva matsyāṃśca maṇḍukaṃ bhujagaṃ tathā / gomūtrayāvakāhāro māsenaikena śuddhyati

KūrmP_2,33.

14 ॥ जलेचरांश्च जलजान् प्रत्तुदान्नखविष्किरान् । रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत्

14 // jalecarāṃśca jalajān prattudānnakhaviṣkirān / raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret

KūrmP_2,33.

15 ॥ शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् । भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये

15 // śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam / bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye

KūrmP_2,33.

16 ॥ वार्ताकं भुस्तृणं शिग्रुं खुखुण्डं करकं तथा । प्राजापत्यं चरेज्जग्ध्वा शङ्खं कुम्भीकमेव च

16 // vārtākaṃ bhustṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā / prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca

KūrmP_2,33.

17 ॥ पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् । नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति

17 // palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret / nālikāṃ taṇḍulīyaṃ ca prājāpatyena śuddhyati

KūrmP_2,33.

18 ॥ अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति । प्राजापत्येन शुद्धिः स्यात् कक्कुभाण्डस्य भक्षणे

18 // aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śuddhyati / prājāpatyena śuddhiḥ syāt kakkubhāṇḍasya bhakṣaṇe

KūrmP_2,33.

19 ॥ अलाबुं किंशुकं चैव भुक्त्वा चैतद् व्रतं चरेत् । उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति

19 // alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret / udumbaraṃ ca kāmena taptakṛcchreṇa śuddhyati

KūrmP_2,33.

20 ॥ वृथा कृसरसंयावं पायसापूपसंकुलम् । भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति

20 // vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam / bhuktvā caivaṃ vidhaṃ tvannaṃ trirātreṇa viśuddhyati

KūrmP_2,33.

21 ॥ पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति

21 // pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ / gomūtrayāvakāhāro māsenaikena śuddhyati

KūrmP_2,33.

22 ॥ अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च । संधिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत्

22 // anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca / saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret

KūrmP_2,33.

23 ॥ एतेषां च विकाराणि पीत्वा मोहेन मानवः । गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति

23 // eteṣāṃ ca vikārāṇi pītvā mohena mānavaḥ / gomūtrayāvakāhāraḥ saptarātreṇa śuddhyati

KūrmP_2,33.

24 ॥ भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा । चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः

24 // bhuktvā caiva navaśrāddhe mṛtake sūtake tathā / cāndrāyaṇena śuddhyeta brāhmaṇastu samāhitaḥ

KūrmP_2,33.

25 ॥ यस्याग्नौ हूयते नित्यं न यस्याग्रं न दीयते । चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः

25 // yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate / cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ

KūrmP_2,33.

26 ॥ अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् । अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति

26 // abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam / antāvasāyināṃ caiva taptakṛcchreṇa śuddhyati

KūrmP_2,33.

27 ॥ चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् । बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च

27 // cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret / buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca

KūrmP_2,33.

28 ॥ असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् । अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति

28 // asurāmadyapānena kuryāccāndrāyaṇavratam / abhojyānnaṃ tu bhuktvā ca prājāpatyena śuddhyati

KūrmP_2,33.

29 ॥ विण्मूत्रपाशनं कृत्वा रेतसश्चैतदाचरेत् । अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः

29 // viṇmūtrapāśanaṃ kṛtvā retasaścaitadācaret / anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ

KūrmP_2,33.

30 ॥ विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत्

30 // viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ / prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret

KūrmP_2,33.

31 ॥ अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः

31 // ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca / punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ

KūrmP_2,33.

32 ॥ क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् । महासांतपनं मोहात् तथा कुर्याद् द्विजोत्तमः । भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत्

32 // kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam / mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ / bhāsamaṇḍūkakurare viṣkire kṛcchramācaret

KūrmP_2,33.

33 ॥ प्राजापत्येन शुद्ध्येत ब्राहामणोच्छिष्टभोजने । क्षत्रिये तप्तकृच्छ्रं स्याद् वैश्ये चैवातिकृच्छ्रकम् । शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम्

33 // prājāpatyena śuddhyeta brāhāmaṇocchiṣṭabhojane / kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam / śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam

KūrmP_2,33.

34 ॥ सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् । शुनोच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति । गोमूत्रयावकाहारः पीतशेषं च रागवान्

34 // surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret / śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśuddhyati / gomūtrayāvakāhāraḥ pītaśeṣaṃ ca rāgavān

KūrmP_2,33.

35 ॥ अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा । तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम्

35 // apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā / tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam

KūrmP_2,33.

36 ॥ चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् । चरेत् सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम्

36 // cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam / caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam

KūrmP_2,33.

37 ॥ चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः । त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि

37 // cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ / trirātreṇa viśuddhyeta pañcagavyena caiva hi

KūrmP_2,33.

38 ॥ महापातकिसंस्पर्शे भुङ्क्ते ऽस्नात्वा द्विजो यदि । बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत्

38 // mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi / buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret

KūrmP_2,33.

39 ॥ स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् । प्रमादाद् भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति

39 // spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām / pramādād bhojanaṃ kṛtvā trirātreṇa viśuddhyati

KūrmP_2,33.

40 ॥ स्नानार्हे यदि भुञ्जीत अहोरात्रेण शुद्ध्यति । बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः

40 // snānārhe yadi bhuñjīta ahorātreṇa śuddhyati / buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ

KūrmP_2,33.

41 ॥ शुष्कपर्युषितादीनि गवादिप्रतिदूषितम् । भुक्त्वोपवासं कुर्वोत कृच्छ्रपादमथापि वा

41 // śuṣkaparyuṣitādīni gavādipratidūṣitam / bhuktvopavāsaṃ kurvota kṛcchrapādamathāpi vā

KūrmP_2,33.

42 ॥ संवत्सरान्ते कृच्छ्रं तु चरेद् विप्रः पुनः पुनः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः

42 // saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ / ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ

KūrmP_2,33.

43 ॥ व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति

43 // vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca / abhicāramahīnaṃ ca tribhiḥ kṛcchrairviśuddhyati

KūrmP_2,33.

44 ॥ ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः । गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति

44 // brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ / gomūtrayāvakāhāraḥ prājāpatyena śuddhyati

KūrmP_2,33.

45 ॥ तैलाभ्यक्तो ऽथवा कुर्याद् यदि मूत्रपुरीषके । अहोरात्रेण शुद्ध्येत श्मश्रुकर्म च मैथुनम्

45 // tailābhyakto 'thavā kuryād yadi mūtrapurīṣake / ahorātreṇa śuddhyeta śmaśrukarma ca maithunam

KūrmP_2,33.

46 ॥ एकाहेन विवाहाग्निं परिहार्य द्विजोत्तमः । त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः

46 // ekāhena vivāhāgniṃ parihārya dvijottamaḥ / trirātreṇa viśaddhyeta trirātrāt ṣaḍahaṃ punaḥ

KūrmP_2,33.

47 ॥ दशाहं द्वादशाहं वा परिहार्य प्रमादतः । कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये

47 // daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ / kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye

KūrmP_2,33.

48 ॥ पतिताद् द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति । चरेत् सांतपनं कृच्छ्रमित्याह भगवान् प्रभुः

48 // patitād dravyamādāya tadutsargeṇa śuddhyati / caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ

KūrmP_2,33.

49 ॥ अनाशकनिवृत्तास्तु प्रव्रज्यावसितास्तथा । चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च

49 // anāśakanivṛttāstu pravrajyāvasitāstathā / careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca

KūrmP_2,33.

50 ॥ पुनश्च जातकर्मादिसंकारैः संस्कृता द्विजाः । शुद्ध्येयुस्तद् व्रतं सम्यक् चरेयुर्धर्मवर्धनाः

50 // punaśca jātakarmādisaṃkāraiḥ saṃskṛtā dvijāḥ / śuddhyeyustad vrataṃ samyak careyurdharmavardhanāḥ

KūrmP_2,33.

51 ॥ अनुपासितसंध्यस्तु तदहर्यापको वसेत् । अनश्नन् संयतमना रात्रौ चेद् रात्रिमेव हि

51 // anupāsitasaṃdhyastu tadaharyāpako vaset / anaśnan saṃyatamanā rātrau ced rātrimeva hi

KūrmP_2,33.

52 ॥ अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः । गायत्र्यष्टसहस्रस्य जप्यं कुर्याद् विशुद्धये

52 // akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ / gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye

KūrmP_2,33.

53 ॥ उपासीत न चेत् संध्यां गृहस्थो ऽपि प्रमादतः । स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात्

53 // upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ / snātvā viśuddhyate sadyaḥ pariśrāntastu saṃyamāt

KūrmP_2,33.

54 ॥ वेदोदितानि नित्यानि कर्माणि च विलोप्य तु । स्नातकव्रतलोपं तु कृत्वा चोपवसेद् दिनम्

54 // vedoditāni nityāni karmāṇi ca vilopya tu / snātakavratalopaṃ tu kṛtvā copavased dinam

KūrmP_2,33.

55 ॥ संवत्सरं चरेत् कृच्छ्रमग्न्युत्सादी द्विजोत्तमः । चान्द्रायणं चरेद् व्रात्यो गोप्रदानेन शुद्ध्यति

55 // saṃvatsaraṃ caret kṛcchramagnyutsādī dvijottamaḥ / cāndrāyaṇaṃ cared vrātyo gopradānena śuddhyati

KūrmP_2,33.

56 ॥ नास्तिक्यं यदि कुर्वोत प्राजापत्यं चरेद् द्विजः । देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति

56 // nāstikyaṃ yadi kurvota prājāpatyaṃ cared dvijaḥ / devadrohaṃ gurudrohaṃ taptakṛcchreṇa śuddhyati

KūrmP_2,33.

57 ॥ उष्ट्रयानं समारुह्य खरयानं च कामतः । त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम्

57 // uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ / trirātreṇa viśuddhyet tu nagno vā praviśejjalam

KūrmP_2,33.

58 ॥ षष्ठान्नकालतामासं संहिताजप एव च । होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम्

58 // ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca / homāśca śākalā nityamapāṅktānāṃ viśodhanam

KūrmP_2,33.

59 ॥ नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि । अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति

59 // nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi / ahorātroṣitaḥ snātaḥ pañcagavyena śuddhyati

KūrmP_2,33.

60 ॥ वेदधर्मपुराणानां चण्डालस्य तु भाषणे । चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः

60 // vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe / cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ

KūrmP_2,33.

61 ॥ उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् । चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः

61 // udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit / cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ

KūrmP_2,33.

62 ॥ उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद् द्विजः । प्रमादाद् वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम्

62 // ucchiṣṭo yadyanācāntaścāṇḍālādīn spṛśed dvijaḥ / pramādād vai japet snātvā gāyatryaṣṭasahasrakam

KūrmP_2,33.

63 ॥ द्रुपदानां शतं वापि ब्रह्मचारी समाहितः । त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति

63 // drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ / trirātropoṣitaḥ samyak pañcagavyena śuddhyati

KūrmP_2,33.

64 ॥ चण्डालपतितादींस्तु कामाद् यः संस्पृशेद् द्विजः । उच्छिष्टस्तत्र कुर्वोत प्राजापत्यं विशुद्धये

64 // caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ / ucchiṣṭastatra kurvota prājāpatyaṃ viśuddhaye

KūrmP_2,33.

65 ॥ चाण्डालसूतकशवांस्तथा नारीं रजस्वलाम् । स्पृष्ट्वा स्नायाद् विशुद्ध्यर्थं तत्स्पृष्टं पतितिं तथा

65 // cāṇḍālasūtakaśavāṃstathā nārīṃ rajasvalām / spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitiṃ tathā

KūrmP_2,33.

66 ॥ चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद् यदि । प्रमादात् तत आचम्य जपं कुर्यात् समाहितः

66 // cāṇḍālasūtakaśavaiḥ saṃspṛṣṭaṃ saṃspṛśed yadi / pramādāt tata ācamya japaṃ kuryāt samāhitaḥ

KūrmP_2,33.

67 ॥ तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः । आचमेत् तद् विशुद्ध्यर्थं प्राह देवः पितामहः

67 // tat spṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ / ācamet tad viśuddhyarthaṃ prāha devaḥ pitāmahaḥ

KūrmP_2,33.

68 ॥ भुञ्जानस्य तु विप्रस्य कदाचित् संस्त्रवेद् गुदम् । कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद् घृतम्

68 // bhuñjānasya tu viprasya kadācit saṃstraved gudam / kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam

KūrmP_2,33.

69 ॥ चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद् विशुद्धये । स्पृष्ट्वाभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति

69 // cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye / spṛṣṭvābhyaktastvasaṃspṛśyamahorātreṇa śuddhyati

KūrmP_2,33.

70 ॥ सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः । पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः

70 // surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ / palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ

KūrmP_2,33.

71 ॥ ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् । नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत्

71 // brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet / nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet

KūrmP_2,33.

72 ॥ स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् । स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः

72 // syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam / snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ

KūrmP_2,33.

73 ॥ अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः । अनातुरः सति धने कृच्छ्रार्धेन स शुद्ध्यति

73 // anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ / anāturaḥ sati dhane kṛcchrārdhena sa śuddhyati

KūrmP_2,33.

74 ॥ आहिताग्निरुपस्थानं न कुर्याद् यस्तु पर्वणि । ऋतौ न गच्छेद् भार्यां वा सो ऽपि कृच्छ्रार्धमाचरेत्

74 // āhitāgnirupasthānaṃ na kuryād yastu parvaṇi / ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret

KūrmP_2,33.

75 ॥ विनाद्भिरप्सु नाप्यार्तः शरीरं सन्निवेश्य च । सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति

75 // vinādbhirapsu nāpyārtaḥ śarīraṃ sanniveśya ca / sacailo jalamāplutya gāmālabhya viśuddhyati

KūrmP_2,33.

76 ॥ बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः । गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती

76 // buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ / gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī

KūrmP_2,33.

77 ॥ अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः । गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च

77 // anugamyecchayā śūdraṃ pretībhūtaṃ dvijottamaḥ / gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca

KūrmP_2,33.

78 ॥ कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् । मृषैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम्

78 // kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam / mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam

KūrmP_2,33.

79 ॥ पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति । छायां श्वपाकस्यारुह्य स्नात्वा संप्राशयेद् घृतम्

79 // paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śuddhyati / chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam

KūrmP_2,33.

80 ॥ ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा । मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति

80 // īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā / mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśuddhyati

KūrmP_2,33.

81 ॥ कृत्वा तु मिथ्याध्ययनं चरेद् भैक्षं तु वत्सरम् । कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती

81 // kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram / kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī

KūrmP_2,33.

82 ॥ हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः । स्नात्वानश्नन्नहः शेषं प्रणिपत्य प्रसादयेत्

82 // huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ / snātvānaśnannahaḥ śeṣaṃ praṇipatya prasādayet

KūrmP_2,33.

83 ॥ ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा । विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत्

83 // tāḍayitvā tṛṇenāpi kaṇṭhaṃ baddhvāpi vāsasā / vivāde vāpi nirjitya praṇipatya prasādayet

KūrmP_2,33.

84 ॥ अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वोत विप्रस्योत्पाद्य शोणितम्

84 // avagūrya caret kṛcchramatikṛcchraṃ nipātane / kṛcchrātikṛcchrau kurvota viprasyotpādya śoṇitam

KūrmP_2,33.

85 ॥ गुरोराक्रोशमनृतं कृत्वा कुर्याद् विशोधनम् । एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये

85 // gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam / ekarātraṃ trirātraṃ vā tatpāpasyāpanuttaye

KūrmP_2,33.

86 ॥ देवर्षोणामभिमुखं ष्ठीवनाक्रोशने कृते । उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम्

86 // devarṣoṇāmabhimukhaṃ ṣṭhīvanākrośane kṛte / ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam

KūrmP_2,33.

87 ॥ देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद् द्विजः । छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा

87 // devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ / chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā

KūrmP_2,33.

88 ॥ देवतायतने मूत्रं कृत्वा मोहाद् द्विजोत्तमः । शिश्नस्योत्कर्तनं कृत्वा चान्द्रायणमथाचरेत्

88 // devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ / śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret

KūrmP_2,33.

89 ॥ देवतानामृषीणां च देवानां चैव कुत्सनम् । कृत्वा सम्यक् प्रकुर्वोत प्राजापत्यं द्विजोत्तमः

89 // devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam / kṛtvā samyak prakurvota prājāpatyaṃ dvijottamaḥ

KūrmP_2,33.

90 ॥ तैस्तु संभाषणं कृत्वा स्नात्वा देवान् समर्चयेत् । दृष्ट्वा वीक्षेत भास्वन्तं स्म्वत्वा विशेश्वरं स्मरेत्

90 // taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet / dṛṣṭvā vīkṣeta bhāsvantaṃ smvatvā viśeśvaraṃ smaret

KūrmP_2,33.

91 ॥ यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि

91 // yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati / na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi

KūrmP_2,33.

92 ॥ चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रकम् । प्रपन्नः शरणं देवं तस्मात् पापाद् विमुच्यते

92 // cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam / prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate

KūrmP_2,33.

93 ॥ सर्वस्वदानं विधिवत् सर्वपापविशोधनम् । चान्द्रायणं चविधिना कृच्छ्रं चैवातिकृच्छ्रकम्

93 // sarvasvadānaṃ vidhivat sarvapāpaviśodhanam / cāndrāyaṇaṃ cavidhinā kṛcchraṃ caivātikṛcchrakam

KūrmP_2,33.

94 ॥ पुण्यक्षेत्राभिगमनं सर्वपापविनाशनम् । देवताभ्यर्चनं नॄणामशेषाघविनाशनम्

94 // puṇyakṣetrābhigamanaṃ sarvapāpavināśanam / devatābhyarcanaṃ nṝṇāmaśeṣāghavināśanam

KūrmP_2,33.

95 ॥ अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् । ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते

95 // amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam / brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate

KūrmP_2,33.

96 ॥ कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् । संपूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते

96 // kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm / saṃpūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate

KūrmP_2,33.

97 ॥ त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः

97 // trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam / dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ

KūrmP_2,33.

98 ॥ उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः । यमाच धर्मराजाय मृत्यवे चान्तकाय च

98 // upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ / yamāca dharmarājāya mṛtyave cāntakāya ca

KūrmP_2,33.

99 ॥ वैवस्वताय कालाय सर्वभूतक्षयाय च । प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् । स्नात्वा नद्यां तु पूर्वाह्ने मुच्यते सर्वपातकैः

99 // vaivasvatāya kālāya sarvabhūtakṣayāya ca / pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn / snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ

KūrmP_2,33.

100 ॥ ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम् । व्रतेष्वेतेषु कुर्वोत शान्तः संयतमानसः

100 // brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam / vrateṣveteṣu kurvota śāntaḥ saṃyatamānasaḥ

KūrmP_2,33.

101 ॥ अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् । ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः

101 // amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham / brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ

KūrmP_2,33.

102 ॥ षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः । सप्तम्यामर्चयेद् भानुं मुच्यते सर्वपातकैः

102 // ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ / saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ

KūrmP_2,33.

103 ॥ भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् । पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः

103 // bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam / pūjayet saptajanmotthairmucyate pātakairnaraḥ

KūrmP_2,33.

104 ॥ एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते

104 // ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam / dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate

KūrmP_2,33.

105 ॥ तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् । ग्रहणादिषु कालेषु महापातकशोधनम्

105 // tapo japastīrthasevā devabrāhmaṇapūjanam / grahaṇādiṣu kāleṣu mahāpātakaśodhanam

KūrmP_2,33.

106 ॥ यः सर्वपापयुक्तो ऽपि पुण्यतीर्थेषु मानवः । नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः

106 // yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ / niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ

KūrmP_2,33.

107 ॥ ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् । भर्तारमुद्धरेन्नारी प्रविष्टा सह पावकम्

107 // brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam / bhartāramuddharennārī praviṣṭā saha pāvakam

KūrmP_2,33.

108 ॥ एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः । सर्वपापसमुद्भूतौ नात्र कार्या विचारणा

108 // etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ / sarvapāpasamudbhūtau nātra kāryā vicāraṇā

KūrmP_2,33.

109 ॥ पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका । न तस्या विद्यते पापमिह लोके परत्र च

109 // pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā / na tasyā vidyate pāpamiha loke paratra ca

KūrmP_2,33.

110 ॥ पतिव्रता धर्मरता रुद्राण्येव न संशयः । नास्याः पराभवं कर्तुं शक्नोतीह जनः क्वचित्

110 // pativratā dharmaratā rudrāṇyeva na saṃśayaḥ / nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit

KūrmP_2,33.

111 ॥ यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता । पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम्

111 // yathā rāmasya subhagā sītā trailokyaviśrutā / patnī dāśaratherdevī vijigye rākṣaseśvaram

KūrmP_2,33.

112 ॥ रामस्य भार्यां विमलां रावणो राक्षसेश्वरः । सीतां विशालनयनां चकमे कालचोदितः

112 // rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ / sītāṃ viśālanayanāṃ cakame kālacoditaḥ

KūrmP_2,33.

113 ॥ गृहीत्वा मायया वेषं चरन्तीं विजने वने । समाहर्तुं मतिं चक्रे तापसः किल कामिनीम्

113 // gṛhītvā māyayā veṣaṃ carantīṃ vijane vane / samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm

KūrmP_2,33.

114 ॥ विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् । जगाम शरणं वह्निमावसथ्यं शुचिस्मिता

114 // vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim / jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitā

KūrmP_2,33.

115 ॥ उपतस्थे महायोगं सर्वदोषविनाशनम् । कृताञ्जली रामपत्नी शाक्षात् पतिमिवाच्युतम्

115 // upatasthe mahāyogaṃ sarvadoṣavināśanam / kṛtāñjalī rāmapatnī śākṣāt patimivācyutam

KūrmP_2,33.

116 ॥ नमस्यामि महायोगं कृतान्तं गहनं परम् । दाहकं सर्वभूतानामीशानं कालरूपिणम्

116 // namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param / dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam

KūrmP_2,33.

117 ॥ नमस्ये पावकं देवं साक्षिणं विश्वतोमुखम् । आत्मानं दीप्तवपुषं सर्वभूतहृदी स्थितम्

117 // namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham / ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdī sthitam

KūrmP_2,33.

118 ॥ प्रपद्ये शरणं वह्निं ब्रह्मण्यं ब्रह्मरूपिणम् । भूतेशं कृत्तिवसनं शरण्यं परमं पदम्

118 // prapadye śaraṇaṃ vahniṃ brahmaṇyaṃ brahmarūpiṇam / bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam

KūrmP_2,33.

119 ॥ ओं प्रपद्ये जगन्मूर्तिं प्रभवं सर्वतेजसाम् । महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम्

119 // oṃ prapadye jaganmūrtiṃ prabhavaṃ sarvatejasām / mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam

KūrmP_2,33.

120 ॥ प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् । कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम्

120 // prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam / kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam

KūrmP_2,33.

121 ॥ प्रपद्ये त्वां विरूपाक्षं भुर्भुवः स्वः स्वरूपिणम् । हिरण्यमये गृहे गुप्तं महान्तममितौजसम्

121 // prapadye tvāṃ virūpākṣaṃ bhurbhuvaḥ svaḥ svarūpiṇam / hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam

KūrmP_2,33.

122 ॥ वैश्वानरं प्रपद्ये ऽहं सर्वभूतेष्ववस्थितम् । हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम्

122 // vaiśvānaraṃ prapadye 'haṃ sarvabhūteṣvavasthitam / havyakavyavahaṃ devaṃ prapadye vahnimīśvaram

KūrmP_2,33.

123 ॥ प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः स्वयम् । भर्गमग्निपरं ज्योती रक्ष मां हव्यवाहन

123 // prapadye tatparaṃ tattvaṃ vareṇyaṃ savituḥ svayam / bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana

KūrmP_2,33.

124 ॥ इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी । ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा

124 // iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī / dhyāyantī manasā tasthau rāmamunmīlitekṣaṇā

KūrmP_2,33.

125 ॥ अथावसथ्याद् भगवान् हव्यवाहो महेश्वरः । आविरासीत् सुदीप्तात्मा तेजसा प्रदहन्निव

125 // athāvasathyād bhagavān havyavāho maheśvaraḥ / āvirāsīt sudīptātmā tejasā pradahanniva

KūrmP_2,33.

126 ॥ स्वष्ट्वा मायामयीं सीतां स रावणवधेप्सया । सीतामादाय धर्मिष्ठां पावको ऽन्तरधीयत

126 // svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā / sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata

KūrmP_2,33.

127 ॥ तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः । समादाय ययौ लङ्कां सागरान्तरसंस्थिताम्

127 // tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ / samādāya yayau laṅkāṃ sāgarāntarasaṃsthitām

KūrmP_2,33.

128 ॥ कृत्वाथ रावणवधं रामो लक्ष्मणसंयुतः । मसादायाभवत् सीतां शङ्काकुलितमानसः

128 // kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ / masādāyābhavat sītāṃ śaṅkākulitamānasaḥ

KūrmP_2,33.

129 ॥ सा प्रत्ययाय भूतानां सीता मायामीय पुनः । विवेश पावकं दीप्तं ददाह ज्वलनो ऽपि ताम्

129 // sā pratyayāya bhūtānāṃ sītā māyāmīya punaḥ / viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām

KūrmP_2,33.

130 ॥ दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः । रामायादर्शयत् सीतां पावको ऽभूत् सुरप्रियः

130 // dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ / rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ

KūrmP_2,33.

131 ॥ प्रगृह्य भर्तुश्चरणौ कराभ्यां सा सुमध्यमा । चकार प्रणतिं भूमौ रामाय जनकात्मजा

131 // pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā / cakāra praṇatiṃ bhūmau rāmāya janakātmajā

KūrmP_2,33.

132 ॥ दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः । ननाम वह्निं सिरसा तोषयामास राघवः

132 // dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ / nanāma vahniṃ sirasā toṣayāmāsa rāghavaḥ

KūrmP_2,33.

133 ॥ उवाच वह्नेर्भगवान् किमेषा वरवर्णिनी । दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता

133 // uvāca vahnerbhagavān kimeṣā varavarṇinī / dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā

KūrmP_2,33.

134 ॥ तमाह देवो लोकानां दाहको हव्यवाहनः । यथावृत्तं दाशरथिं भूतानामेव सन्निधौ

134 // tamāha devo lokānāṃ dāhako havyavāhanaḥ / yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau

KūrmP_2,33.

135 ॥ इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् । आराध्य लब्धा तपसा देव्याश्चात्यन्तवल्लभा

135 // iyaṃ sā mithileśena pārvatīṃ rudravallabhām / ārādhya labdhā tapasā devyāścātyantavallabhā

KūrmP_2,33.

136 ॥ भर्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता । भवानीपार्श्वमानीता मया रावणकामिता

136 // bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā / bhavānīpārśvamānītā mayā rāvaṇakāmitā

KūrmP_2,33.

137 ॥ या नीता राक्षसेशेन सीता भगवताहृता । मया मायामयी सृष्टा रावणस्य वधाय सा

137 // yā nītā rākṣaseśena sītā bhagavatāhṛtā / mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā

KūrmP_2,33.

138 ॥ तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः । मयोपसंहृता चैव हतो लोकविनाशनः

138 // tadarthaṃ bhavatā duṣṭo rāvaṇo rākṣaseśvaraḥ / mayopasaṃhṛtā caiva hato lokavināśanaḥ

KūrmP_2,33.

139 ॥ गृहाण विमलामेनां जानकीं वचनान्मम । पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम्

139 // gṛhāṇa vimalāmenāṃ jānakīṃ vacanānmama / paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam

KūrmP_2,33.

140 ॥ इत्युक्त्वा भगवांश्चण्डो विश्चार्चिर्विश्वतोमुखः । मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत

140 // ityuktvā bhagavāṃścaṇḍo viścārcirviśvatomukhaḥ / mānito rāghaveṇāgnirbhūtaiścāntaradhīyata

KūrmP_2,33.

141 ॥ एतते पतिव्रतानां वैं माहात्म्यं कथितं मया । स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम्

141 // etate pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā / strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam

KūrmP_2,33.

142 ॥ अशेषपापयुक्तस्तु पुरुषो ऽपि सुसंयतः । स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात्

142 // aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ / svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt

KūrmP_2,33.

143 ॥ पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः । मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः

143 // pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ / mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ

KūrmP_2,33.

144 ॥ व्यास उवाच इत्येष मानवो धर्मो युष्माकं कथितो मया । महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम्

144 // vyāsa uvāca ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā / maheśārādhanārthāya jñānayogaṃ ca śāśvatam

KūrmP_2,33.

145 ॥ यो ऽनेन विधिना युक्तं ज्ञानयोगं समाचरेत् । स पश्यति महादेवं नान्यः कल्पशतैरपि

145 // yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret / sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi

KūrmP_2,33.

146 ॥ स्थापयेद् यः परं धर्मं ज्ञानं तत्पारमेश्वरम् । न तस्मादधिको लोके स योगी परमो मतः

146 // sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram / na tasmādadhiko loke sa yogī paramo mataḥ

KūrmP_2,33.

147 ॥ य संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः । स योगयुक्तो ऽपि मुनिर्नात्यर्थं भगवत्प्रियः

147 // ya saṃsthāpayituṃ śakto na kuryānmohito janaḥ / sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ

KūrmP_2,33.

148 ॥ तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः । धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै

148 // tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ / dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai

KūrmP_2,33.

149 ॥ यः पठेद् भवतां नित्यं संवादं मम चैव हि । सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम्

149 // yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi / sarvapāpavinirmukto gaccheta paramāṃ gatim

KūrmP_2,33.

150 ॥ श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ । पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः

150 // śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau / paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ

KūrmP_2,33.

151 ॥ योर्ऽथं विचार्य युक्तात्मा श्रावयेद् ब्राह्मणान् शुचीन् । स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम्

151 // yor'thaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn / sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram

KūrmP_2,33.

152 ॥ एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः । समाश्वास्य मुनीन् सूतं जगाम च यथागतम्

152 // etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ / samāśvāsya munīn sūtaṃ jagāma ca yathāgatam

Edition, source and reuse
Edition
Kūrma Purāṇa electronic text in GRETIL; printed edition is not identified in the header.
Electronic text
Members of the Sansknet Project · GRETIL, SUB Göttingen · 2020-07-31
Review status
Source imported; scholarly proofreading pending

The IAST Sanskrit is preserved from the source. Devanāgarī is generated from IAST and awaits proofreading. Source variants and edition notes are shown separately. Unusual numbering and repeated source lines are retained.

Inline GRETIL reference extraction, whitespace normalization and mechanical IAST-to-Devanāgarī conversion. Original XML preserved. No translation or commentary added.

This text and our script conversion are available under CC BY-NC-SA 4.0, including attribution, noncommercial use and share-alike requirements. This licence applies to the text, independently of the site design.

Hindu Digital Library
ॐ श्री गुरुभ्यो नमःॐ श्री परमात्मने नमः