श्रीशिवमहापुराणम् अथ श्रीशिवमहापुराणं विद्येश्वरसंहिता प्रारभ्यते ॥ श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रिसरस्वत्यै नमः ॥ अथ शिवपुरणे प्रथमा विद्येश्वरसंहिताप्रारभ्यते ॥ आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम् ॥ Śइव्P_1,Mअन्ग्_अब्। पञ्चाननं प्रबलपञ्चविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् ॥ Śइव्P_1,Mअन्ग्_च्द्। Cहप्तेर् 1 व्यास उवाच धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ॥ Śइव्P_1,1.1अब्। प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ Śइव्P_1,1.1च्द्। मुनयः शंसितात्मनस्सत्यव्रतपरायणाः ॥ Śइव्P_1,1.2अब्। महौजसो महाभागा महासत्रं वितेनिरे ॥ Śइव्P_1,1.2च्द्। तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ॥ Śइव्P_1,1.3अब्। आजगाम मुनीन्द्रष्टुं सूतः पौराणिकोत्तमः ॥ Śइव्P_1,1.3च्द्। तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ॥ Śइव्P_1,1.4अब्। चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ Śइव्P_1,1.4च्द्। ततो विनयसंयुक्ता प्रोचुः सांजलयश्चते ॥ Śइव्P_1,1.5अब्। सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ॥ Śइव्P_1,1.5च्द्। रोमहर्षण सर्वज्ञ भवान् वै भाग्यगौरवात् ॥ Śइव्P_1,1.6अब्। पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ Śइव्P_1,1.6च्द्। तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ Śइव्P_1,1.7अब्। रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ Śइव्P_1,1.7च्द्। यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ॥ Śइव्P_1,1.8अब्। न त्वया ऽविदितं किंचित्त्रिषु लोकेषु विद्यते ॥ Śइव्P_1,1.8च्द्। त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ॥ Śइव्P_1,1.9अब्। कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ॥ Śइव्P_1,1.9च्द्। तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ॥ Śइव्P_1,1.10अब्। न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ Śइव्P_1,1.10च्द्। इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ॥ Śइव्P_1,1.11अब्। तद्रहस्यमपि ब्रूहि यदि ते ऽनुग्रहो भवेत् ॥ Śइव्P_1,1.11च्द्। प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ॥ Śइव्P_1,1.12अब्। दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ Śइव्P_1,1.12च्द्। परापवादनिरताः परद्रव्याभिलाषिणः ॥ Śइव्P_1,1.13अब्। परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ Śइव्P_1,1.13च्द्। देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ॥ Śइव्P_1,1.14अब्। मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः ॥ Śइव्P_1,1.14च्द्। विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ॥ Śइव्P_1,1.15अब्। धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ Śइव्P_1,1.15च्द्। त्यक्तस्वजातिकर्माणः प्राय्हशःपरवंचकाः ॥ Śइव्P_1,1.16अब्। त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः ॥ Śइव्P_1,1.16च्द्। अदयाः पंडितंमन्यास्स्वाचारव्रतलोपकाः ॥ Śइव्P_1,1.17अब्। कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ Śइव्P_1,1.17च्द्। क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ॥ Śइव्P_1,1.18अब्। असत्संगाः पापरता व्यभिचारपरायणाः ॥ Śइव्P_1,1.18च्द्। अशूरा अरणप्रीताः पलायनपरायणाः ॥ Śइव्P_1,1.19अब्। कुचौरवृत्तयः शूद्राः कामकिंकरचेतसः ॥ Śइव्P_1,1.19च्द्। शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ॥ Śइव्P_1,1.20अब्। शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा ॥ Śइव्P_1,1.20च्द्। प्रजापालनसद्धर्मविहीना भोगतत्पराः ॥ Śइव्P_1,1.21अब्। प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ Śइव्P_1,1.21च्द्। वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ॥ Śइव्P_1,1.22अब्। कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ Śइव्P_1,1.22च्द्। गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ॥ Śइव्P_1,1.23अब्। अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ Śइव्P_1,1.23च्द्। कामिनीजारभावेषु सुरता मलिनाशयाः ॥ Śइव्P_1,1.24अब्। लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ॥ Śइव्P_1,1.24च्द्। तद्वच्छूद्राश्च ये केचिद्ब्राह्मणाचारतत्पराः ॥ Śइव्P_1,1.25अब्। उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ Śइव्P_1,1.25च्द्। कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ॥ Śइव्P_1,1.26अब्। शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ॥ Śइव्P_1,1.26च्द्। शीलिग्रामशिलादीनां पूजकाहोमतत्पराः ॥ Śइव्P_1,1.27अब्। प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ Śइव्P_1,1.27च्द्। धनवंतः कुकर्माणो विद्यावन्तो विवादिनः ॥ Śइव्P_1,1.28अब्। आख्यायोपासना धर्मवक्तारो धर्मलोपकाः ॥ Śइव्P_1,1.28च्द्। सुभूपाकृतयो दंभाः सुदातारो महामदाः ॥ Śइव्P_1,1.29अब्। विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ॥ Śइव्P_1,1.29च्द्। स्वधर्मरहिता मूडाः संकराः क्रूरबुद्धयः ॥ Śइव्P_1,1.30अब्। महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ Śइव्P_1,1.30च्द्। सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ॥ Śइव्P_1,1.31अब्। सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ॥ Śइव्P_1,1.31च्द्। स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ॥ Śइव्P_1,1.32अब्। श्वशुरद्रोहकारिण्यो निर्भया मलिनाशनाः ॥ Śइव्P_1,1.32च्द्। कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ॥ Śइव्P_1,1.33अब्। जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ॥ Śइव्P_1,1.33च्द्। तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ॥ Śइव्P_1,1.34अब्। अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ Śइव्P_1,1.34च्द्। एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ॥ Śइव्P_1,1.35अब्। परलोकेपीह लोके कथं सूत गतिर्भवेत् ॥ Śइव्P_1,1.35च्द्। इति चिंताकुलं चित्तं जायते सततं हि नः ॥ Śइव्P_1,1.36अब्। परोपकारसदृशो नास्ति धर्मो परः खलु ॥ Śइव्P_1,1.36च्द्। लघूपायेन येनैषां भवेत्सद्योघनाशनम् ॥ Śइव्P_1,1.37अब्। सर्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ Śइव्P_1,1.37च्द्। व्यास उवाच इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ॥ Śइव्P_1,1.38अब्। मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ Śइव्P_1,1.38च्द्। इति श्रीशैवे महापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनोनामप्रथमो ऽध्यायः Cहप्तेर् 2 सूतौवाच साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ॥ Śइव्P_1,2.1अब्। गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ Śइव्P_1,2.1च्द्। वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ॥ Śइव्P_1,2.2अब्। सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ Śइव्P_1,2.2च्द्। कलिकल्मषविध्वंसि यस्मिञ्च्छिवयशः परम् ॥ Śइव्P_1,2.3अब्। विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ Śइव्P_1,2.3च्द्। तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ॥ Śइव्P_1,2.4अब्। सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ Śइव्P_1,2.4च्द्। तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ॥ Śइव्P_1,2.5अब्। यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ Śइव्P_1,2.5च्द्। तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ॥ Śइव्P_1,2.6अब्। यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ Śइव्P_1,2.6च्द्। तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ॥ Śइव्P_1,2.7अब्। यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ Śइव्P_1,2.7च्द्। तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ॥ Śइव्P_1,2.8अब्। यावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ Śइव्P_1,2.8च्द्। तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ॥ Śइव्P_1,2.9अब्। यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ Śइव्P_1,2.9च्द्। तावत्सर्वपुराणानि प्रगर्जंति महीतले ॥ Śइव्P_1,2.10अब्। यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ Śइव्P_1,2.10च्द्। तावत्सर्वाणि तीर्थानि विवदंति महीतले ॥ Śइव्P_1,2.11अब्। यावछिवपुराणं हि नोदेष्यति जगत्यहो ॥ Śइव्P_1,2.11च्द्। तावत्सर्वाणि मंत्राणि विवदंति महीतले ॥ Śइव्P_1,2.12अब्। यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ Śइव्P_1,2.12च्द्। तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ॥ Śइव्P_1,2.13अब्। यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ Śइव्P_1,2.13च्द्। तावत्सर्वाणि पीठानि विवदंति महीतले ॥ Śइव्P_1,2.14अब्। यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ Śइव्P_1,2.14च्द्। तावत्सर्वाणि दानानि विवदंति महीतले ॥ Śइव्P_1,2.15अब्। यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ Śइव्P_1,2.15च्द्। तावत्सर्वे च ते देवा विवदंति महीतले ॥ Śइव्P_1,2.16अब्। यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ Śइव्P_1,2.16च्द्। तावत्सर्वे च सिद्धान्ता विवदंति महीतले ॥ Śइव्P_1,2.17अब्। यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ Śइव्P_1,2.17च्द्। अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ॥ Śइव्P_1,2.18अब्। फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ Śइव्P_1,2.18च्द्। तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ॥ Śइव्P_1,2.19अब्। चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ Śइव्P_1,2.19च्द्। एतच्छिवपुराणं हि श्लोकं श्लोकार्धमेव च ॥ Śइव्P_1,2.20अब्। यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् ॥ Śइव्P_1,2.20च्द्। एतच्छिवपुराणं हि यः प्रत्यहमतंद्रितः ॥ Śइव्P_1,2.21अब्। यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ Śइव्P_1,2.21च्द्। एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ॥ Śइव्P_1,2.22अब्। दिने दिने ऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ Śइव्P_1,2.22च्द्। एतच्छिवपुराणं यस्साधारणपदेच्छया ॥ Śइव्P_1,2.23अब्। अन्यतः शृणुयात्सो ऽपि मत्तो मुच्येत पातकात् ॥ Śइव्P_1,2.23च्द्। एतच्छिवपुराणं यो नमस्कुर्याददूरतः ॥ Śइव्P_1,2.24अब्। सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ Śइव्P_1,2.24च्द्। एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ॥ Śइव्P_1,2.25अब्। यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ Śइव्P_1,2.25च्द्। अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ॥ Śइव्P_1,2.26अब्। यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् ॥ Śइव्P_1,2.26च्द्। एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ॥ Śइव्P_1,2.27अब्। शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ Śइव्P_1,2.27च्द्। प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं लभेत् ॥ Śइव्P_1,2.28अब्। इह भुक्त्वाखिलान्कामानंते निर्वाणतां व्रजेत् ॥ Śइव्P_1,2.28च्द्। उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ॥ Śइव्P_1,2.29अब्। यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ Śइव्P_1,2.29च्द्। कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ॥ Śइव्P_1,2.30अब्। आत्मतुल्यधनं सूर्यग्रहणे सर्वतोमुखे ॥ Śइव्P_1,2.30च्द्। विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ॥ Śइव्P_1,2.31अब्। तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ॥ Śइव्P_1,2.31च्द्। एतच्छिवपुराणं हि गायते योप्यहर्निशम् ॥ Śइव्P_1,2.32अब्। आज्ञां तस्य प्रतीक्षेरन्दवा इन्द्रपुरोगमाः ॥ Śइव्P_1,2.32च्द्। एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ॥ Śइव्P_1,2.33अब्। यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ Śइव्P_1,2.33च्द्। समाहितः पठेद्यस्तु तत्र श्रीरुद्रसंहिताम् ॥ Śइव्P_1,2.34अब्। स ब्रह्मघ्नो ऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् ॥ Śइव्P_1,2.34च्द्। तां रुद्रसंहितां यस्तु भैरवप्रतिमांतिके ॥ Śइव्P_1,2.35अब्। त्रिः पठेत्प्रत्यहं मौनी स कामानखिलांल्लभेत् ॥ Śइव्P_1,2.35च्द्। तां रुद्रसंहितां यस्तु सपठेद्वटबिल्वयोः ॥ Śइव्P_1,2.36अब्। प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ Śइव्P_1,2.36च्द्। कैलाससंहिता तत्र ततो ऽपि परमस्मृता ॥ Śइव्P_1,2.37अब्। ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ Śइव्P_1,2.37च्द्। कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ॥ Śइव्P_1,2.38अब्। कृत्स्नं तदर्धं व्यासश्च तदर्धं वेद्म्यहं द्विजाः ॥ Śइव्P_1,2.38च्द्। तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ॥ Śइव्P_1,2.39अब्। यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ Śइव्P_1,2.39च्द्। न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ॥ Śइव्P_1,2.40अब्। तन्न पश्याम्यहं लोके मार्गमाणो ऽपि सर्वदा ॥ Śइव्P_1,2.40च्द्। शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ॥ Śइव्P_1,2.41अब्। कुमारायार्पितां तां वै सुधां पीत्वा ऽमरो भवेत् ॥ Śइव्P_1,2.41च्द्। ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ॥ Śइव्P_1,2.42अब्। मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ Śइव्P_1,2.42च्द्। दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ॥ Śइव्P_1,2.43अब्। पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ Śइव्P_1,2.43च्द्। शिवालये विल्ववने संहितां तां पठेत्तु यः ॥ Śइव्P_1,2.44अब्। स तत्फलमवाप्नोति यद्वाचो ऽपि न गोचरे ॥ Śइव्P_1,2.44च्द्। संहितां तां पठन् भक्त्या यः श्राद्धे भोजयेद्द्विजान् ॥ Śइव्P_1,2.45अब्। तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ॥ Śइव्P_1,2.45च्द्। चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ॥ Śइव्P_1,2.46अब्। बिल्वमूले शिवः साक्षात्सदेवैश्च प्रपूज्यते ॥ Śइव्P_1,2.46च्द्। अन्यापि संहिता तत्र सर्वकामफलप्रदा ॥ Śइव्P_1,2.47अब्। उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ Śइव्P_1,2.47च्द्। तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ Śइव्P_1,2.48अब्। निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ॥ Śइव्P_1,2.48च्द्। विद्येशंच तथारौद्रं वैनायकमथौमिकम् ॥ Śइव्P_1,2.49अब्। मात्रं रुद्रैकादशकं कैलासं शतरुद्रकम् ॥ Śइव्P_1,2.49च्द्। कोटिरुद्रसहस्राद्यं कोटिरुद्रं तथैव च ॥ Śइव्P_1,2.50अब्। वायवीयं धर्मसंज्ञं पुराणमिति भेदतः ॥ Śइव्P_1,2.50च्द्। संहिता द्वादशमिता महापुण्यतरा मता ॥ Śइव्P_1,2.51अब्। तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ॥ Śइव्P_1,2.51च्द्। विद्येशं दशासाहस्रं रुद्रं वैनायकं तथा ॥ Śइव्P_1,2.52अब्। औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ Śइव्P_1,2.52च्द्। त्रयोदशसहस्रं हि रुद्रैकादशकं द्विजाः ॥ Śइव्P_1,2.53अब्। षट्सहस्रं च कैलासं शतरुद्रं तदर्धकम् ॥ Śइव्P_1,2.53च्द्। कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ॥ Śइव्P_1,2.54अब्। सहस्रकोटिरुद्राख्यमुदितं ग्रंथसंख्यया ॥ Śइव्P_1,2.54च्द्। वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ॥ Śइव्P_1,2.55अब्। तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ॥ Śइव्P_1,2.55च्द्। व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ Śइव्P_1,2.56अब्। शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ Śइव्P_1,2.56च्द्। शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ॥ Śइव्P_1,2.57अब्। शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ Śइव्P_1,2.57च्द्। व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ॥ Śइव्P_1,2.58अब्। चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ॥ Śइव्P_1,2.58च्द्। प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ॥ Śइव्P_1,2.59अब्। श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ Śइव्P_1,2.59च्द्। विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ॥ Śइव्P_1,2.60अब्। तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ Śइव्P_1,2.60च्द्। पञ्चमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका ॥ Śइव्P_1,2.61अब्। सप्तमी वायवीयाख्या सप्तैवं संहितामताः ॥ Śइव्P_1,2.61च्द्। ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ॥ Śइव्P_1,2.62अब्। वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ Śइव्P_1,2.62च्द्। एतच्छिवपुराणं हि सप्तसंहितमादरात् ॥ Śइव्P_1,2.63अब्। परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ Śइव्P_1,2.63च्द्। श्रुतिस्मृतिपुराणेतिहासागमशतानि च ॥ Śइव्P_1,2.64अब्। एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ॥ Śइव्P_1,2.64च्द्। शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न संगृहीतम् ॥ Śइव्P_1,2.65अब्। संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां हि ॥ Śइव्P_1,2.65च्द्। विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः ॥ Śइव्P_1,2.66अब्। अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ॥ Śइव्P_1,2.66च्द्। शैवं पुराणतिलकं खलु सत्पुराणं वेदांतवेदविलसत्परवस्तुगीतम् ॥ Śइव्P_1,2.67अब्। यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां गतिं वै ॥ Śइव्P_1,2.67च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्विदीयो ऽध्यायः Cहप्तेर् 3 व्यास उवाच इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ॥ Śइव्P_1,3.1अब्। वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ Śइव्P_1,3.1च्द्। इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ॥ Śइव्P_1,3.2अब्। संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ॥ Śइव्P_1,3.2च्द्। सूत उवाच शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ॥ Śइव्P_1,3.3अब्। पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ Śइव्P_1,3.3च्द्। यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ Śइव्P_1,3.4अब्। वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ Śइव्P_1,3.5अब्। सूत उवाच शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ॥ Śइव्P_1,3.6अब्। पुरा कालेन महता कल्पे ऽतीते पुनःपुनः ॥ Śइव्P_1,3.6च्द्। अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ॥ Śइव्P_1,3.7अब्। मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ Śइव्P_1,3.7च्द्। इदं परमिदं नेति विवादः सुमहानभूत् ॥ Śइव्P_1,3.8अब्। ते ऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ Śइव्P_1,3.8च्द्। वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयो ऽब्रुवन् ॥ Śइव्P_1,3.9अब्। त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ Śइव्P_1,3.9च्द्। कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ॥ Śइव्P_1,3.10अब्। ब्रह्मोवाच यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ Śइव्P_1,3.10च्द्। यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेंद्रपूर्वकम् ॥ Śइव्P_1,3.11अब्। सहभूतेंद्रियैः सर्वैः प्रथमं संप्रसूयते ॥ Śइव्P_1,3.11च्द्। एष देवो महादेवः सर्वज्ञो जगदीश्वरः ॥ Śइव्P_1,3.12अब्। अयं तु परया भक्त्या दृश्यते ना ऽन्यथा क्वचित् ॥ Śइव्P_1,3.12च्द्। रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ॥ Śइव्P_1,3.13अब्। भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः ॥ Śइव्P_1,3.13च्द्। बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते ॥ Śइव्P_1,3.14अब्। प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ॥ Śइव्P_1,3.14च्द्। यथेहांकुरतो बीजं बीजतो वा यथांकुरः ॥ Śइव्P_1,3.14एf। तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ॥ Śइव्P_1,3.15अब्। दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ Śइव्P_1,3.15च्द्। अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ॥ Śइव्P_1,3.16अब्। वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥ Śइव्P_1,3.16च्द्। मुनय ऊचुः अथ किं परमं साध्यं किंवा तत्साधनं परम् ॥ Śइव्P_1,3.17अब्। साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ Śइव्P_1,3.17च्द्। ब्रह्मोवाच साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ॥ Śइव्P_1,3.18अब्। साधकस्तत्प्रसादाद्यो ऽनित्यादिफलनिःस्पृहः ॥ Śइव्P_1,3.18च्द्। कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ॥ Śइव्P_1,3.19अब्। परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥ Śइव्P_1,3.19च्द्। तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ॥ Śइव्P_1,3.20अब्। तत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ Śइव्P_1,3.20च्द्। संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ॥ Śइव्P_1,3.21अब्। श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ Śइव्P_1,3.21च्द्। मनसा मननं तस्य महासाधनमुच्यते ॥ Śइव्P_1,3.22अब्। श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ Śइव्P_1,3.22च्द्। इति श्रुतिप्रमाणं नः साधनेना ऽमुना परम् ॥ Śइव्P_1,3.23अब्। साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ Śइव्P_1,3.23च्द्। प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ॥ Śइव्P_1,3.24अब्। अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ Śइव्P_1,3.24च्द्। तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ॥ Śइव्P_1,3.25अब्। ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः ॥ Śइव्P_1,3.25च्द्। क्रमान्मननपर्यंते साधने ऽस्मिन्सुसाधिते ॥ Śइव्P_1,3.26अब्। शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ Śइव्P_1,3.26च्द्। सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते ॥ Śइव्P_1,3.27अब्। अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् ॥ Śइव्P_1,3.27च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे तृतीयो ऽध्यायः Cहप्तेर् 4 मुनय ऊचुः मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ॥ Śइव्P_1,4.1अब्। कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ Śइव्P_1,4.1च्द्। ब्रह्मोवच पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् ॥ Śइव्P_1,4.2अब्। तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ Śइव्P_1,4.2च्द्। गीतात्मना श्रुतिपदेन च भाषया वा शंभुप्रतापगुणरूपविलासनाम्नाम् ॥ Śइव्P_1,4.3अब्। वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति सा धनमत्र मध्यम् ॥ Śइव्P_1,4.3च्द्। येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रियेण ॥ Śइव्P_1,4.4अब्। स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ Śइव्P_1,4.4च्द्। सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् ॥ Śइव्P_1,4.5अब्। सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते ॥ Śइव्P_1,4.5च्द्। सूत उवाच अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ॥ Śइव्P_1,4.6अब्। युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ Śइव्P_1,4.6च्द्। पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ॥ Śइव्P_1,4.7अब्। तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे ॥ Śइव्P_1,4.7च्द्। गच्छन्यदृछया तत्र विमानेनार्करोचिषा ॥ Śइव्P_1,4.8अब्। सनत्कुमारो भगवान्ददर्श मम देशिकम् ॥ Śइव्P_1,4.8च्द्। ध्यानारूढः प्रबुद्धो ऽसौ ददर्श तमजात्मजम् ॥ Śइव्P_1,4.9अब्। प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः ॥ Śइव्P_1,4.9च्द्। दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् ॥ Śइव्P_1,4.10अब्। प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा ॥ Śइव्P_1,4.10च्द्। सनत्कुमार उवाच सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ॥ Śइव्P_1,4.11अब्। स शिवोथासहायोत्र तपश्चरसि किं कृते ॥ Śइव्P_1,4.11च्द्। एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ॥ Śइव्P_1,4.12अब्। धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ Śइव्P_1,4.12च्द्। बहुधा स्थापिता लोके मया त्वत्कृपया तथा ॥ Śइव्P_1,4.13अब्। एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः ॥ Śइव्P_1,4.13च्द्। मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ॥ Śइव्P_1,4.14अब्। तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ Śइव्P_1,4.14च्द्। इत्थं कुमारो भगवान् व्यासेन मुनिनार्थितः ॥ Śइव्P_1,4.15अब्। समर्थः प्राह विप्रेंद्रा निश्चयं मुक्तिकारणम् ॥ Śइव्P_1,4.15च्द्। श्रवणं कीर्तनं शंभोर्मननं च महत्तरम् ॥ Śइव्P_1,4.16अब्। त्रयं साधनमुक्तं च विद्यते वेदसंमतम् ॥ Śइव्P_1,4.16च्द्। पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः ॥ Śइव्P_1,4.17अब्। अचले मंदरे शैले तपश्चरणमाचरम् ॥ Śइव्P_1,4.17च्द्। शिवाज्ञया ततः प्राप्तो भगवान्नन्दिकेश्वरः ॥ Śइव्P_1,4.18अब्। स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः ॥ Śइव्P_1,4.18च्द्। उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ॥ Śइव्P_1,4.19अब्। श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम् ॥ Śइव्P_1,4.19च्द्। त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम् ॥ Śइव्P_1,4.20अब्। श्रवणादिं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः ॥ Śइव्P_1,4.20च्द्। एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः ॥ Śइव्P_1,4.21अब्। जगाम स्वविमानेन पदं परमशोभनम् ॥ Śइव्P_1,4.21च्द्। एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम् ॥ Śइव्P_1,4.22अब्। ऋषय ऊचुः श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः ॥ Śइव्P_1,4.22च्द्। श्रवणादित्रिके ऽशक्तः किं कृत्वा मुच्यते जनः ॥ Śइव्P_1,4.23अब्। अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना ॥ Śइव्P_1,4.23च्द्। इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायं साध्यसाधनखण्डे चतुर्थो ऽध्यायः Cहप्तेर् 5 सूत उवाच श्रवणादित्रिके ऽशक्तो लिंगं बेरं च शांकरम् ॥ Śइव्P_1,5.1अब्। संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम् ॥ Śइव्P_1,5.1च्द्। अपि द्रव्यं वहेदेव यथाबलमवंचयन् ॥ Śइव्P_1,5.2अब्। अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम् ॥ Śइव्P_1,5.2च्द्। मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ॥ Śइव्P_1,5.3अब्। वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः ॥ Śइव्P_1,5.3च्द्। विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम् ॥ Śइव्P_1,5.4अब्। छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम् ॥ Śइव्P_1,5.4च्द्। राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः ॥ Śइव्P_1,5.5अब्। प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ Śइव्P_1,5.5च्द्। आवाहनादिसर्गांतं नित्यं कुर्यात्सुभक्तितः ॥ Śइव्P_1,5.6अब्। इत्थमभ्यर्च्य यन्देवं लिंगेबेरे च शांकरे ॥ Śइव्P_1,5.6च्द्। सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ॥ Śइव्P_1,5.7अब्। लिंगबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ Śइव्P_1,5.7च्द्। मनुय ऊचुः बेरमात्रे तु सर्वत्र पूज्यंते देवतागणाः ॥ Śइव्P_1,5.8अब्। लिंगेबेरे च सर्वत्र कथं संपूज्यते शिवः ॥ Śइव्P_1,5.8च्द्। सूत उवाच अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ॥ Śइव्P_1,5.9अब्। अत्र वक्ता महादेवो नान्यो ऽस्ति पुरुषः क्वचित् ॥ Śइव्P_1,5.9च्द्। शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् ॥ Śइव्P_1,5.10अब्। शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः ॥ Śइव्P_1,5.10च्द्। रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः ॥ Śइव्P_1,5.11अब्। निष्कलत्वान्निराकारं लिंगं तस्य समागतम् ॥ Śइव्P_1,5.11च्द्। सकलत्वात्तथा बेरं साकारं तस्य संगतम् ॥ Śइव्P_1,5.12अब्। सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः ॥ Śइव्P_1,5.12च्द्। अपि लिंगे च बेरे च नित्यमभ्यर्च्यते जनैः ॥ Śइव्P_1,5.13अब्। अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित् ॥ Śइव्P_1,5.13च्द्। तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः ॥ Śइव्P_1,5.14अब्। अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः ॥ Śइव्P_1,5.14च्द्। तूष्णीं सकलमात्रत्वादर्च्यंते बेरमात्रके ॥ Śइव्P_1,5.15अब्। जीवत्वं शंकरान्येषां ब्रह्मत्वं शंकरस्य च ॥ Śइव्P_1,5.15च्द्। वेदांतसारसंसिद्धं प्रणवार्थे प्रकाशनात् ॥ Śइव्P_1,5.16अब्। एवमेव पुरा पृष्टो मंदरे नन्दिकेश्वरः ॥ Śइव्P_1,5.16च्द्। सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता ॥ Śइव्P_1,5.17अब्। सनत्कुमार उवाच शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ॥ Śइव्P_1,5.17च्द्। बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ॥ Śइव्P_1,5.18अब्। शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते ॥ Śइव्P_1,5.18च्द्। अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ॥ Śइव्P_1,5.19अब्। नन्दिकेश्वर उवाच अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ॥ Śइव्P_1,5.19च्द्। कथयामि शिवेनोक्तं भक्तियुक्तस्य ते ऽनघ ॥ Śइव्P_1,5.20अब्। शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् ॥ Śइव्P_1,5.20च्द्। लिंगं तस्यैव पूजायां सर्ववेदेषु संमतम् ॥ Śइव्P_1,5.21अब्। तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ॥ Śइव्P_1,5.21च्द्। सकलं च तथा बेरं पूजायां लोकसंमतम् ॥ Śइव्P_1,5.22अब्। शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः ॥ Śइव्P_1,5.22च्द्। बेरमात्रं च पूजायां संमतं वेदनिर्णये ॥ Śइव्P_1,5.23अब्। स्वाविर्भावे च देवानां सकलं रूपमेव हि ॥ Śइव्P_1,5.23च्द्। शिवस्य लिंगं बेरं च दर्शने दृश्यते खलु ॥ Śइव्P_1,5.24अब्। सनत्कुमार उवाच उक्तं त्वया महाभाग लिंगबेरप्रचारणम् ॥ Śइव्P_1,5.24च्द्। शिवस्य च तदन्येषां विभज्य परमार्थतः ॥ Śइव्P_1,5.25अब्। तस्मात्तदेव परमं लिंगबेरादिसंभवम् ॥ Śइव्P_1,5.25च्द्। श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् ॥ Śइव्P_1,5.26अब्। नन्दिकेश्वर उवाच शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ॥ Śइव्P_1,5.26च्द्। पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ॥ Śइव्P_1,5.27अब्। आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ॥ Śइव्P_1,5.27च्द्। तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ॥ Śइव्P_1,5.28अब्। निष्कलस्तंभरूपेण स्वरूपं समदर्शयत् ॥ Śइव्P_1,5.28च्द्। ततः स्वलिंगचिह्नत्वात्स्तम्भतो निष्कलं शिवः ॥ Śइव्P_1,5.29अब्। स्वलिंगं दर्शयामास जगतां हितकाम्यया ॥ Śइव्P_1,5.29च्द्। तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् ॥ Śइव्P_1,5.30अब्। सकलं च तथा बेरं शिवस्यैव प्रकल्पितम् ॥ Śइव्P_1,5.30च्द्। शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् ॥ Śइव्P_1,5.31अब्। तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् ॥ Śइव्P_1,5.31च्द्। शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम् ॥ Śइव्P_1,5.31एf। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पञ्चमो ऽध्यायः Cहप्तेर् 6 नन्दिकेश्वर उवाच पुरा कदाचिद्योगींद्र विष्णुर्विषधरासनः ॥ Śइव्P_1,6.1अब्। सुष्वाप परया भूत्या स्वानुगैरपि संवृतः ॥ Śइव्P_1,6.1च्द्। यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदांवरः ॥ Śइव्P_1,6.2अब्। अपृच्छत्पुंडरीकाक्षं शयनं सर्वसुन्दरम् ॥ Śइव्P_1,6.2च्द्। कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत् ॥ Śइव्P_1,6.3अब्। उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम् ॥ Śइव्P_1,6.3च्द्। आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत् ॥ Śइव्P_1,6.4अब्। द्रोहिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते ॥ Śइव्P_1,6.4च्द्। इति श्रुत्वा वचः क्रुद्धो बहिः शांतवदाचरत् ॥ Śइव्P_1,6.5अब्। स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश ॥ Śइव्P_1,6.5च्द्। किमु ते व्याग्रवद्वक्त्रं विभाति विषमेक्षणम् ॥ Śइव्P_1,6.6अब्। ब्रह्मोवाच वत्स विष्णो महामानमागतं कालवेगतः ॥ Śइव्P_1,6.6च्द्। पितामहश्च जगतः पाता च तव वत्सक ॥ Śइव्P_1,6.7अब्। विष्णुरुवाच मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत् ॥ Śइव्P_1,6.7च्द्। मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा ॥ Śइव्P_1,6.8अब्। नन्दिकेश्वर उवाच एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा ॥ Śइव्P_1,6.8च्द्। अहमेव बरो न त्वमहं प्रभुरहं प्रभुः ॥ Śइव्P_1,6.9अब्। परस्परं हंतुकामौ चक्रतुः समरोद्यमम् ॥ Śइव्P_1,6.9च्द्। युयुधाते ऽमरौ वीरौ हंसपक्षींद्रवाहनौ ॥ Śइव्P_1,6.10अब्। वैरंच्या वैष्णवाश्चैवं मिथो युयुधिरे तदा ॥ Śइव्P_1,6.10च्द्। तावद्विमानगतयः सर्वा वै देवजातयः ॥ Śइव्P_1,6.11अब्। दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम् ॥ Śइव्P_1,6.11च्द्। क्षिपंतः पुष्पवर्षाणि पश्यंतः स्वैरमंबरे ॥ Śइव्P_1,6.12अब्। सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि ॥ Śइव्P_1,6.12च्द्। मुमोच बाणानसहानस्त्रांश्च विविधान्बहून् ॥ Śइव्P_1,6.13अब्। मुमोचा ऽथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान् ॥ Śइव्P_1,6.13च्द्। बाणाननलसंकाशानस्त्रांश्च बहुशस्तदा ॥ Śइव्P_1,6.14अब्। तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् ॥ Śइव्P_1,6.14च्द्। समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ॥ Śइव्P_1,6.15अब्। ततो विष्णुः सुसंक्रुद्धः श्वसन्व्यसनकर्शितः ॥ Śइव्P_1,6.15च्द्। माहेश्वरास्त्रं मतिमान् संदधे ब्रह्मणोपरि ॥ Śइव्P_1,6.16अब्। ततो ब्रह्मा भृशं क्रुद्धः कंपयन्विश्वमेव हि ॥ Śइव्P_1,6.16च्द्। अस्त्रं पाशुपतं घोरं संदधे विष्णुवक्षसि ॥ Śइव्P_1,6.17अब्। ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम् ॥ Śइव्P_1,6.17च्द्। सहस्रमुखमत्युग्रं चंडवातभयंकरम् ॥ Śइव्P_1,6.18अब्। अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयंकरम् ॥ Śइव्P_1,6.18च्द्। इत्थं बभूव समरो ब्रह्मविष्ण्वोः परस्परम् ॥ Śइव्P_1,6.19अब्। ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ॥ Śइव्P_1,6.19च्द्। ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः ॥ Śइव्P_1,6.19एf। सृष्टिः स्थितिश्च संहारस्तिरो भावोप्यनुग्रहः ॥ Śइव्P_1,6.20अब्। यस्मात्प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने ॥ Śइव्P_1,6.20च्द्। अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोप्यत्र यदृच्छया क्वचित् ॥ Śइव्P_1,6.21अब्। इति देवाभयं कृत्वा विचिन्वंतः शिवक्षयम् ॥ Śइव्P_1,6.22अब्। जग्मुः कैलासशिखरं यत्रास्ते चंद्रशेखरः ॥ Śइव्P_1,6.22च्द्। दृष्ट्वैवममरा हृष्टाः पदंतत्पारमेश्वरम् ॥ Śइव्P_1,6.23अब्। प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि ॥ Śइव्P_1,6.23च्द्। तेपि तत्र सभामध्ये मंडपे मणिविष्टरे ॥ Śइव्P_1,6.24अब्। विराजमानमुमया ददृशुर्देवपुंगवम् ॥ Śइव्P_1,6.24च्द्। सव्योत्तरेतरपदं तदर्हितकरां बुजम् ॥ Śइव्P_1,6.25अब्। स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम् ॥ Śइव्P_1,6.25च्द्। वीज्यमानं विशोषजैः स्त्रीजनैस्तीव्रभावनैः ॥ Śइव्P_1,6.26अब्। शस्यमानं सदावेदैरनुगृह्णंतमीश्वरम् ॥ Śइव्P_1,6.26च्द्। दृष्ट्वैवमीशममराः संतोषसलिलेक्षणाः ॥ Śइव्P_1,6.27अब्। दंडवद्दूरतो वत्स नमश्चक्रुर्महागणाः ॥ Śइव्P_1,6.27च्द्। तानवेक्ष्य पतिर्देवान्समीपे चाह्वयद्गणैः ॥ Śइव्P_1,6.28अब्। अथ संह्लादयन्देवान्देवो देवशिखामणिः ॥ Śइव्P_1,6.28च्द्। अवोचदर्थगंभीरं वचनं मधुमंगलम् ॥ Śइव्P_1,6.28एf। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षष्ठो ऽध्यायः Cहप्तेर् 7 ईश्वर उवाच वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ॥ Śइव्P_1,7.1अब्। जगच्च देवतावंशः स्वस्वकर्मणि किं नवा ॥ Śइव्P_1,7.1च्द्। प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ॥ Śइव्P_1,7.2अब्। भवतामभितापेन पौनरुक्त्येन भाषितम् ॥ Śइव्P_1,7.2च्द्। इति सस्मितया माध्व्या कुमारपरिभाषया ॥ Śइव्P_1,7.3अब्। समतोषयदंबायाः स पतिस्तत्सुरव्रजम् ॥ Śइव्P_1,7.3च्द्। अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः ॥ Śइव्P_1,7.4अब्। आज्ञापयद्गणेशानां शतं तत्रैव संसदि ॥ Śइव्P_1,7.4च्द्। ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ॥ Śइव्P_1,7.5अब्। गणेश्वराश्च संनद्धा नानावाहनभूषणाः ॥ Śइव्P_1,7.5च्द्। प्रणवाकारमाद्यंतं पञ्चमंडलमंडितम् ॥ Śइव्P_1,7.6अब्। आरुरोह रथं भद्रमंबिकापतिरीश्वरः ॥ Śइव्P_1,7.6च्द्। ससूनुगणमिंद्राद्याः सर्वेप्यनुययुः सुराः ॥ Śइव्P_1,7.6एf। चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरैपि वाद्यवर्गैः ॥ Śइव्P_1,7. 7अब्। संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः ॥ Śइव्P_1,7.7च्द्। समीक्ष्यं तु तयोर्युद्धं निगूढो ऽभ्रं समास्थितः ॥ Śइव्P_1,7.8अब्। समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः ॥ Śइव्P_1,7.8च्द्। अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् ॥ Śइव्P_1,7.9अब्। माहेश्वरेण चा ऽस्त्रेण तथा पाशुपतेन च ॥ Śइव्P_1,7.9च्द्। अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ॥ Śइव्P_1,7.10अब्। ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् ॥ Śइव्P_1,7.10च्द्। महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ॥ Śइव्P_1,7.11अब्। ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ॥ Śइव्P_1,7.12अब्। निपतेतुः क्षणे नैव ह्याविर्भूते महानले ॥ Śइव्P_1,7.12च्द्। दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् ॥ Śइव्P_1,7.13अब्। किमेतदद्भुताकारमित्यूचुश्च परस्परम् ॥ Śइव्P_1,7.13च्द्। अतींद्रियमिदं स्तंभमग्निरूपं किमुत्थितम् ॥ Śइव्P_1,7.14अब्। अस्योर्ध्वमपि चाधश्चावयोर्लक्ष्यमेव हि ॥ Śइव्P_1,7.14च्द्। इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ॥ Śइव्P_1,7.15अब्। तत्परौ तत्परीक्षार्थं प्रतस्थाते ऽथ सत्वरम् ॥ Śइव्P_1,7.15च्द्। आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् ॥ Śइव्P_1,7.16अब्। इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ॥ Śइव्P_1,7.16च्द्। तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ ॥ Śइव्P_1,7.17अब्। भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ॥ Śइव्P_1,7.17च्द्। ना ऽपि श्यात्तस्य संस्थानं स्तंभस्यानलवर्चसः ॥ Śइव्P_1,7.18अब्। श्रांतः स सूकरहरीः प्राप पूर्वं रणांगणम् ॥ Śइव्P_1,7.18च्द्। अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ॥ Śइव्P_1,7.19अब्। ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम् ॥ Śइव्P_1,7.19च्द्। अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ॥ Śइव्P_1,7.20अब्। अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः ॥ Śइव्P_1,7.20च्द्। परिहासं तु कृतवान्कंपनाच्चलितं शिरः ॥ Śइव्P_1,7.21अब्। तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ॥ Śइव्P_1,7.21च्द्। किं त्वं पतसि पुष्पेश पुष्पराट् केन वा धृतम् ॥ Śइव्P_1,7.22अब्। आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम् ॥ Śइव्P_1,7.22च्द्। न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने ॥ Śइव्P_1,7.23अब्। अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः ॥ Śइव्P_1,7.23च्द्। इतः परं सखे मे ऽद्य त्वया कर्तव्यमीप्सितम् ॥ Śइव्P_1,7.24अब्। मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ॥ Śइव्P_1,7.24च्द्। स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ॥ Śइव्P_1,7.25अब्। इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ॥ Śइव्P_1,7.25च्द्। असत्यमपि शस्तं स्यादापदीत्यनुशासनम् ॥ Śइव्P_1,7.25एf। समीक्ष्य तत्रा ऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ॥ Śइव्P_1,7.26अब्। उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततो ऽच्युतम् ॥ Śइव्P_1,7.26च्द्। स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ॥ Śइव्P_1,7.27अब्। ततो ऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके ॥ Śइव्P_1,7.27च्द्। हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् ॥ Śइव्P_1,7.28अब्। षोडशैरुपचारैश्च पूजयामास तं विधिम् ॥ Śइव्P_1,7.28च्द्। विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः ॥ Śइव्P_1,7.29अब्। समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम् ॥ Śइव्P_1,7.29च्द्। आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ॥ Śइव्P_1,7.30अब्। स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या ॥ Śइव्P_1,7.30च्द्। ईश्वर उवाच वत्सप्रसन्नो ऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ॥ Śइव्P_1,7.31अब्। ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः ॥ Śइव्P_1,7.31च्द्। इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च ॥ Śइव्P_1,7.32अब्। इति देवः पुरा प्रीतः सत्येन हरये परम् ॥ Śइव्P_1,7.33अब्। ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति ॥ Śइव्P_1,7.33च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमो ऽध्यायः Cहप्तेर् 8 नन्दिकेश्वर उवाच ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम् ॥ Śइव्P_1,8.1अब्। भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया ॥ Śइव्P_1,8.1च्द्। स वै तदा तत्र पतिं प्रणम्य शिवमंगणे ॥ Śइव्P_1,8.2अब्। किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥ Śइव्P_1,8.2च्द्। वत्सयो ऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ॥ Śइव्P_1,8.3अब्। नूनमर्चय खड्गं स्वं तिग्मेन जवसा परम् ॥ Śइव्P_1,8.3च्द्। स वै गृहीत्वैककरेण केशं तत्पञ्चमं दृप्तमसत्यभाषणम् ॥ Śइव्P_1,8.4अब्। छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ॥ Śइव्P_1,8.4च्द्। पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः ॥ Śइव्P_1,8.5अब्। प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे ॥ Śइव्P_1,8.5च्द्। तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् ॥ Śइव्P_1,8.6अब्। निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम् ॥ Śइव्P_1,8.6च्द्। अच्युत उवाच त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पञ्चाननमीशचिह्नम् ॥ Śइव्P_1,8.7अब्। तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ॥ Śइव्P_1,8.7च्द्। इत्यर्थितो ऽच्युतेनेशस्तुष्टः सुरगणांगणे ॥ Śइव्P_1,8.8अब्। निवर्तयामास तदा भैरवं ब्रह्मदंडतः ॥ Śइव्P_1,8.8च्द्। अथाह देवः कितवं विधिं विगतकंधरम् ॥ Śइव्P_1,8.9अब्। ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः ॥ Śइव्P_1,8.9च्द्। नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् ॥ Śइव्P_1,8.10अब्। ब्रह्मोवच स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् ॥ Śइव्P_1,8.10च्द्। नमस्तुभ्यं भगवते बंधवे विश्वयोनये ॥ Śइव्P_1,8.11अब्। सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने ॥ Śइव्P_1,8.11च्द्। ईश्वर उवाच अराजभयमेतद्वै जगत्सर्वं न शिष्यति ॥ Śइव्P_1,8.12अब्। ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो ॥ Śइव्P_1,8.12च्द्। वरं ददामि ते तत्र गृहाण दुर्लभं परम् ॥ Śइव्P_1,8.13अब्। वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः ॥ Śइव्P_1,8.13च्द्। निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः ॥ Śइव्P_1,8.14अब्। अथाह देवः कितवं केतकं कूटसाक्षिणम् ॥ Śइव्P_1,8.14च्द्। रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ॥ Śइव्P_1,8.15अब्। ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् ॥ Śइव्P_1,8.15च्द्। इत्युक्ते तत्र देवेन केतकं देवजातयः ॥ Śइव्P_1,8.16अब्। सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा ॥ Śइव्P_1,8.16च्द्। केतक उवाच नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया ॥ Śइव्P_1,8.17अब्। सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥ Śइव्P_1,8.17च्द्। ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ॥ Śइव्P_1,8.18अब्। तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥ Śइव्P_1,8.18च्द्। तथा स्तुतस्तु भगवान्केतकेन सभातले ॥ Śइव्P_1,8.19अब्। न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः ॥ Śइव्P_1,8.19च्द्। मदीयास्त्वां धरिष्यंइ जन्म ते सफलं ततः ॥ Śइव्P_1,8.20अब्। त्वं वै वितानव्याजेन ममोपरि भविष्यसि ॥ Śइव्P_1,8.20च्द्। इत्यनुगृह्य भगवान्केतकं विधिमाधवौ ॥ Śइव्P_1,8.21अब्। विरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥ Śइव्P_1,8.21च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमो ऽध्यायः Cहप्तेर् 9 नन्दिकेश्वर उवाच तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ ॥ Śइव्P_1,9.1अब्। बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ॥ Śइव्P_1,9.1च्द्। तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने ॥ Śइव्P_1,9.2अब्। पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ॥ Śइव्P_1,9.2च्द्। पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् ॥ Śइव्P_1,9.3अब्। हारनूपुरकेयूरकिरीटमणिकुंडलैः ॥ Śइव्P_1,9.3च्द्। यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः ॥ Śइव्P_1,9.4अब्। पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः ॥ Śइव्P_1,9.4च्द्। धूपदीपसितच्छत्रव्यजनध्वजचामरैः ॥ Śइव्P_1,9.5अब्। अन्यैर्दिव्योपहारैश्च वाङ्मनोतीतवैभवैः ॥ Śइव्P_1,9.5च्द्। पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् ॥ Śइव्P_1,9.6अब्। यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे ॥ Śइव्P_1,9.6च्द्। तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया ॥ Śइव्P_1,9.7अब्। सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ॥ Śइव्P_1,9.7च्द्। कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् ॥ Śइव्P_1,9.8अब्। तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा ॥ Śइव्P_1,9.8च्द्। प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ॥ Śइव्P_1,9.9अब्। ईश्वर उवाच तुष्टो ऽहमद्य वां वत्सौ पूजया ऽस्मिन्महादिने ॥ Śइव्P_1,9.9च्द्। दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ॥ Śइव्P_1,9.10अब्। शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥ Śइव्P_1,9.10च्द्। एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः ॥ Śइव्P_1,9.11अब्। कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ॥ Śइव्P_1,9.11च्द्। शिवरात्रावहोरात्रं निराहारो जितेंद्रियः ॥ Śइव्P_1,9.12अब्। अर्चयेद्वा यथान्यायं यथाबलमवंचकः ॥ Śइव्P_1,9.12च्द्। यत्फलं मम पूजायां वर्षमेकं निरंतरम् ॥ Śइव्P_1,9.13अब्। तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ॥ Śइव्P_1,9.13च्द्। मद्धर्मवृद्धिकालो ऽयं चंद्रकाल इवांबुधेः ॥ Śइव्P_1,9.14अब्। प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः ॥ Śइव्P_1,9.14च्द्। यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा ॥ Śइव्P_1,9.15अब्। स कालो मार्गशीर्षे तु स्यादार्द्रा ऋक्षमर्भकौ ॥ Śइव्P_1,9.15च्द्। आर्द्रायां मार्गशीर्षे तु यः पश्येन्मामुमासखम् ॥ Śइव्P_1,9.16अब्। मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः ॥ Śइव्P_1,9.16च्द्। अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ॥ Śइव्P_1,9.17अब्। अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ॥ Śइव्P_1,9.17च्द्। रणरंगतले ऽमुष्मिन्यदहं लिंगवर्ष्मणा ॥ Śइव्P_1,9.18अब्। जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत् ॥ Śइव्P_1,9.18च्द्। अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति ॥ Śइव्P_1,9.19अब्। दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको ॥ Śइव्P_1,9.19च्द्। भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम् ॥ Śइव्P_1,9.20अब्। दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम् ॥ Śइव्P_1,9.20च्द्। अनलाचलसंकाशं यदिदं लिंगमुत्थितम् ॥ Śइव्P_1,9.21अब्। अरुणाचलमित्येव तदिदं ख्यातिमेष्यति ॥ Śइव्P_1,9.21च्द्। अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ॥ Śइव्P_1,9.22अब्। मुक्तिरप्यत्र जंतूनां वासेन मरणेन च ॥ Śइव्P_1,9.22च्द्। स्थोत्सवादिकल्याणं जनावासं तु सर्वतः ॥ Śइव्P_1,9.23अब्। अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥ Śइव्P_1,9.23च्द्। मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ॥ Śइव्P_1,9.24अब्। अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ॥ Śइव्P_1,9.24च्द्। तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् ॥ Śइव्P_1,9.25अब्। सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम् ॥ Śइव्P_1,9.25च्द्। अर्चयित्वा ऽत्र मामेव लिंगे लिंगिनमीश्वरम् ॥ Śइव्P_1,9.26अब्। सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ॥ Śइव्P_1,9.26च्द्। सायुज्यमिति पञ्चैते क्रियादीनां फलं मतम् ॥ Śइव्P_1,9.27अब्। सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ॥ Śइव्P_1,9.27च्द्। नन्दिकेश्वर उवाच इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ॥ Śइव्P_1,9.28अब्। यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् ॥ Śइव्P_1,9.28च्द्। तदुत्थापयदत्यर्थं स्वशक्त्यामृतधारया ॥ Śइव्P_1,9.29अब्। तयोर्माढ्यं च वैरं च व्यपनेतुमुवाच तौ ॥ Śइव्P_1,9.29च्द्। सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ॥ Śइव्P_1,9.30अब्। नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः ॥ Śइव्P_1,9.30च्द्। पुरस्तात्स्तंभरूपेण पश्चाद्रूपेण चार्भकौ ॥ Śइव्P_1,9.31अब्। ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ॥ Śइव्P_1,9.31च्द्। द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ॥ Śइव्P_1,9.32अब्। तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ॥ Śइव्P_1,9.32च्द्। तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् ॥ Śइव्P_1,9.33अब्। तन्निराकर्तुमत्रैवमुत्थितो ऽहं रणक्षितौ ॥ Śइव्P_1,9.33च्द्। त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् ॥ Śइव्P_1,9.34अब्। मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते ॥ Śइव्P_1,9.34च्द्। गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः ॥ Śइव्P_1,9.35अब्। ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ॥ Śइव्P_1,9.35च्द्। अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ॥ Śइव्P_1,9.36अब्। ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ॥ Śइव्P_1,9.36च्द्। बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ॥ Śइव्P_1,9.37अब्। समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ॥ Śइव्P_1,9.37च्द्। अनात्मानः परे सर्वे जीवा एव न संशयः ॥ Śइव्P_1,9.38अब्। अनुग्रहाद्यं सर्गांगं जगत्कृत्यं च पंकजम् ॥ Śइव्P_1,9.38च्द्। ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ॥ Śइव्P_1,9.39अब्। आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम् ॥ Śइव्P_1,9.39च्द्। तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ॥ Śइव्P_1,9.40अब्। सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् ॥ Śइव्P_1,9.40च्द्। सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ॥ Śइव्P_1,9.41अब्। यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम् ॥ Śइव्P_1,9.41च्द्। लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम् ॥ Śइव्P_1,9.42अब्। तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ॥ Śइव्P_1,9.42च्द्। मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ॥ Śइव्P_1,9.43अब्। महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः ॥ Śइव्P_1,9.43च्द्। यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम् ॥ Śइव्P_1,9.44अब्। तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ ॥ Śइव्P_1,9.44च्द्। मत्साम्यमेकलिंगस्य स्थापने फलमीरितम् ॥ Śइव्P_1,9.45अब्। द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि ॥ Śइव्P_1,9.45च्द्। लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् ॥ Śइव्P_1,9.46अब्। लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ॥ Śइव्P_1,9.46च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमो ऽध्यायः Cहप्तेर् 10 ब्रह्मविष्णू ऊचतुः सर्गादिपञ्चकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ॥ Śइव्P_1,10.1अब्। शिव उवाच मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ Śइव्P_1,10.1च्द्। सृष्टिः स्थितिश्च संहारस्तिरोभावो ऽप्यनुग्रहः ॥ Śइव्P_1,10.2अब्। पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ Śइव्P_1,10.2च्द्। सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता ॥ Śइव्P_1,10.3अब्। संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ Śइव्P_1,10.3च्द्। तन्मोक्षो ऽनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकम् ॥ Śइव्P_1,10.4अब्। कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ॥ Śइव्P_1,10.4च्द्। सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम् ॥ Śइव्P_1,10.5अब्। पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ॥ Śइव्P_1,10.5च्द्। तदिदं पञ्चभूतेषु दृश्यते मामकैर्जनैः ॥ Śइव्P_1,10.6अब्। सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ Śइव्P_1,10.6च्द्। तिरोभावो ऽनिले तद्वदनुग्रह इहाम्बरे ॥ Śइव्P_1,10.7अब्। सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्धते ॥ Śइव्P_1,10.7च्द्। अर्द्यते तेजसा सर्वं वायुना चापनीयते ॥ Śइव्P_1,10.8अब्। व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ Śइव्P_1,10.8च्द्। पञ्चकृत्यमिदं बोढुं ममास्ति मुखपञ्चकम् ॥ Śइव्P_1,10.9अब्। चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम् ॥ Śइव्P_1,10.9च्द्। युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ॥ Śइव्P_1,10.10अब्। सृष्टिस्थित्यभीधं भाग्यं मत्तः प्रीतादतिप्रियम् ॥ Śइव्P_1,10.10च्द्। तथा रुद्रमहेशाभ्यामन्यत्कृत्यद्वयं परम् ॥ Śइव्P_1,10.11अब्। अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ Śइव्P_1,10.11च्द्। तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ॥ Śइव्P_1,10.12अब्। न तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम् ॥ Śइव्P_1,10.12च्द्। रूपे वेशे च कृत्ये च वाहने चासने तथा ॥ Śइव्P_1,10.13अब्। आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ Śइव्P_1,10.13च्द्। मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ॥ Śइव्P_1,10.14अब्। मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत् ॥ Śइव्P_1,10.14च्द्। तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमोंकारनामकम् ॥ Śइव्P_1,10.15अब्। इतः परं प्रजपतं मामकं मानभंजनम् ॥ Śइव्P_1,10.15च्द्। उपादिशं निजं मंत्रमोंकारमुरुमंगलम् ॥ Śइव्P_1,10.16अब्। ओंकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ Śइव्P_1,10.16च्द्। वाचको ऽयमहं वाच्यो मंत्रो ऽयं हि मदात्मकः ॥ Śइव्P_1,10.17अब्। तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ Śइव्P_1,10.17च्द्। अकारौत्तरात्पूर्वमुकारः पश्चिमाननात् ॥ Śइव्P_1,10.18अब्। मकारो दक्षिणमुखाद्बिंदुः प्राङ्मुखतस्तथा ॥ Śइव्P_1,10.18च्द्। नादो मध्यमुखादेवं पञ्चधा ऽसौ विजृंभितः ॥ Śइव्P_1,10.19अब्। एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् ॥ Śइव्P_1,10.19च्द्। नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ॥ Śइव्P_1,10.20अब्। व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः ॥ Śइव्P_1,10.20च्द्। अस्मात्पञ्चाक्षरं जज्ञे बोधकं सकलस्यतत् ॥ Śइव्P_1,10.21अब्। आकारादिक्रमेणैव नकारादियथाक्रमम् ॥ Śइव्P_1,10.21च्द्। अस्मात्पञ्चाक्षराज्जाता मातृकाः पञ्चभेदतः ॥ Śइव्P_1,10.22अब्। तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि ॥ Śइव्P_1,10.22च्द्। वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः ॥ Śइव्P_1,10.23अब्। तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ Śइव्P_1,10.23च्द्। अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति ॥ Śइव्P_1,10.24अब्। सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः ॥ Śइव्P_1,10.24च्द्। नंदिकेश्वर उवाच पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् ॥ Śइव्P_1,10.25अब्। निधाय तच्छीर्ष्णि करांबुजं शनैरुदङ्मुखं संस्थितयोः सहांबिकः ॥ Śइव्P_1,10.25च्द्। त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् ॥ Śइव्P_1,10.26अब्। शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् ॥ Śइव्P_1,10.26च्द्। प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम् ॥ Śइव्P_1,10.27अब्। ब्रह्माच्युतावूचतुः नमो निष्कलरूपाय नमो निष्कलतेजसे ॥ Śइव्P_1,10.28अब्। नमः सकलनाथाय नमस्ते सकलात्मने ॥ Śइव्P_1,10.28च्द्। नमः प्रणववाच्याय नमः प्रणवलिंगिने ॥ Śइव्P_1,10.29अब्। नमः सृष्ट्यादिकर्त्रे च नमः पञ्चमुखायते ॥ Śइव्P_1,10.29च्द्। पञ्चब्रह्मस्वरूपाय पञ्च कृत्यायते नमः ॥ Śइव्P_1,10.30अब्। आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये ॥ Śइव्P_1,10.30च्द्। सकलाकलरूपाय शंभवे गुरवे नमः ॥ Śइव्P_1,10.31अब्। इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश् च नेमतुः ॥ Śइव्P_1,10.31च्द्। ईश्वर उवाच वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम् ॥ Śइव्P_1,10.32अब्। जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम् ॥ Śइव्P_1,10.32च्द्। ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ॥ Śइव्P_1,10.33अब्। आर्द्रायां च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ॥ Śइव्P_1,10.33च्द्। सूर्यगत्या महार्द्रायामेकं कोटिगुणं भवेत् ॥ Śइव्P_1,10.34अब्। मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा ॥ Śइव्P_1,10.34च्द्। आर्द्रासमः सदा ज्ञेयः पूजाहोमादितर्पणे ॥ Śइव्P_1,10.35अब्। दर्शनं तु प्रभाते च प्रातःसंगवकालयोः ॥ Śइव्P_1,10.35च्द्। चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् ॥ Śइव्P_1,10.36अब्। प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ॥ Śइव्P_1,10.36च्द्। लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम् ॥ Śइव्P_1,10.37अब्। तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः ॥ Śइव्P_1,10.37च्द्। लिंगमोंकारमंत्रेण बेरं पञ्चाक्षरेण तु ॥ Śइव्P_1,10.38अब्। स्वयमेव हि द्रव्यैः प्रतिष्ठाप्यं परैरपि ॥ Śइव्P_1,10.38च्द्। पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् ॥ Śइव्P_1,10.39अब्। इति शास्य तथा शिष्यौ तत्रैवां ऽतर्हितः शिवः ॥ Śइव्P_1,10.39च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां दशमो ऽध्यायः Cहप्तेर् 11 ऋषय ऊचुः कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ॥ Śइव्P_1,11.1अब्। कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥ Śइव्P_1,11.1च्द्। सूत उवाच युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ॥ Śइव्P_1,11.2अब्। अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ Śइव्P_1,11.2च्द्। यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् ॥ Śइव्P_1,11.3अब्। पार्थिवेन तथाप्येनं तैजसेन यथारुचि ॥ Śइव्P_1,11.3च्द्। कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् ॥ Śइव्P_1,11.4अब्। सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥ Śइव्P_1,11.4च्द्। चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ॥ Śइव्P_1,11.5अब्। सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ॥ Śइव्P_1,11.5च्द्। मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ॥ Śइव्P_1,11.6अब्। खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ॥ Śइव्P_1,11.6च्द्। प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ॥ Śइव्P_1,11.7अब्। येन लिंगं तेन पीठं स्थावरे हि विशिष्यते ॥ Śइव्P_1,11.7च्द्। लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना ॥ Śइव्P_1,11.8अब्। लिंगप्रमाणं कर्त्ःणां द्वादशांगुलमुत्तमम् ॥ Śइव्P_1,11.8च्द्। न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ॥ Śइव्P_1,11.9अब्। कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ॥ Śइव्P_1,11.9च्द्। आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ॥ Śइव्P_1,11.10अब्। तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभो भूषिते ॥ Śइव्P_1,11.10च्द्। नवरत्नैश्च दिग्द्वारे च प्रधानकैः ॥ Śइव्P_1,11.11अब्। नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ॥ Śइव्P_1,11.11च्द्। मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् ॥ Śइव्P_1,11.12अब्। मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके ॥ Śइव्P_1,11.12च्द्। संपूज्य लिंगं सद्याद्यैः पञ्चस्थाने यथाक्रमम् ॥ Śइव्P_1,11.13अब्। अग्नौ च हुत्वा बहुधा हविषास कलं च माम् ॥ Śइव्P_1,11.13च्द्। अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् ॥ Śइव्P_1,11.14अब्। दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥ Śइव्P_1,11.14च्द्। स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः ॥ Śइव्P_1,11.15अब्। सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ॥ Śइव्P_1,11.15च्द्। सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ॥ Śइव्P_1,11.16अब्। उदीर्य च महामंत्रमोंकारं नादघोषितम् ॥ Śइव्P_1,11.16च्द्। लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ॥ Śइव्P_1,11.17अब्। लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् ॥ Śइव्P_1,11.17च्द्। एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ॥ Śइव्P_1,11.18अब्। पञ्चाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा ॥ Śइव्P_1,11.18च्द्। बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ॥ Śइव्P_1,11.19अब्। एवं लिंगे च बेरे च पूजा शिवपदप्रदा ॥ Śइव्P_1,11.19च्द्। पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा ॥ Śइव्P_1,11.20अब्। स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा ॥ Śइव्P_1,11.20च्द्। जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा ॥ Śइव्P_1,11.21अब्। स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् ॥ Śइव्P_1,11.21च्द्। तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ॥ Śइव्P_1,11.22अब्। पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् ॥ Śइव्P_1,11.22च्द्। यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः ॥ Śइव्P_1,11.23अब्। तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् ॥ Śइव्P_1,11.23च्द्। एवं स्थाप्य महालिंगं पूजयेदुपचारकैः ॥ Śइव्P_1,11.24अब्। नित्यपूजा यथा शक्तिध्वजादिकरणं तथा ॥ Śइव्P_1,11.24च्द्। इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् ॥ Śइव्P_1,11.25अब्। अथवा चरलिंगं तु षोडशैरुपचारकैः ॥ Śइव्P_1,11.25च्द्। पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ॥ Śइव्P_1,11.26अब्। आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥ Śइव्P_1,11.26च्द्। तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् ॥ Śइव्P_1,11.27अब्। वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् ॥ Śइव्P_1,11.27च्द्। नीराजनं च तांबूलं नमस्कारो विसर्जनम् ॥ Śइव्P_1,11.28अब्। अथवा ऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि ॥ Śइव्P_1,11.28च्द्। अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ॥ Śइव्P_1,11.29अब्। यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् ॥ Śइव्P_1,11.29च्द्। अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि ॥ Śइव्P_1,11.30अब्। स्थापिते ऽपूर्वके लिंगे सोपचारं यथा तथा ॥ Śइव्P_1,11.30च्द्। पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते ॥ Śइव्P_1,11.31अब्। प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥ Śइव्P_1,11.31च्द्। लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् ॥ Śइव्P_1,11.32अब्। मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥ Śइव्P_1,11.32च्द्। गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ॥ Śइव्P_1,11.33अब्। लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ॥ Śइव्P_1,11.33च्द्। अंगुष्ठादावपि तथा पूजामिच्छंति केचन ॥ Śइव्P_1,11.34अब्। लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ॥ Śइव्P_1,11.34च्द्। सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ॥ Śइव्P_1,11.35अब्। अथवा लिंगदानं वा लिंगमौल्यमथापि वा ॥ Śइव्P_1,11.35च्द्। श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ॥ Śइव्P_1,11.36अब्। अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥ Śइव्P_1,11.36च्द्। संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ Śइव्P_1,11.37अब्। जपकाले मकारांतं मनःशुद्धिकरं भजेत् ॥ Śइव्P_1,11.37च्द्। समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ॥ Śइव्P_1,11.38अब्। समानप्रणवं चेमं बिंदुनादयुतं विदुः ॥ Śइव्P_1,11.38च्द्। अथ पञ्चाक्षरं नित्यं जपेदयुतमादरात् ॥ Śइव्P_1,11.39अब्। संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ Śइव्P_1,11.39च्द्। प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ॥ Śइव्P_1,11.40अब्। दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये ॥ Śइव्P_1,11.40च्द्। कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ॥ Śइव्P_1,11.41अब्। ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥ Śइव्P_1,11.41च्द्। द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ॥ Śइव्P_1,11.42अब्। स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ॥ Śइव्P_1,11.42च्द्। विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन ॥ Śइव्P_1,11.43अब्। पञ्चकोटिजपं कृत्वा सदा शिवसमो भवेत् ॥ Śइव्P_1,11.43च्द्। एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ॥ Śइव्P_1,11.44अब्। जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ॥ Śइव्P_1,11.44च्द्। अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ॥ Śइव्P_1,11.45अब्। सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥ Śइव्P_1,11.45च्द्। जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ॥ Śइव्P_1,11.46अब्। अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥ Śइव्P_1,11.46च्द्। ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ॥ Śइव्P_1,11.47अब्। वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ॥ Śइव्P_1,11.47च्द्। एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् ॥ Śइव्P_1,11.48अब्। अयुतं च सहस्रं च शतमेकं विना भवेत् ॥ Śइव्P_1,11.48च्द्। वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ॥ Śइव्P_1,11.49अब्। अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः ॥ Śइव्P_1,11.49च्द्। एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः ॥ Śइव्P_1,11.50अब्। ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् ॥ Śइव्P_1,11.50च्द्। एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ॥ Śइव्P_1,11.51अब्। नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ॥ Śइव्P_1,11.51च्द्। जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ॥ Śइव्P_1,11.52अब्। पुष्पारामादिकं वापि तथा संमार्जनादिकम् ॥ Śइव्P_1,11.52च्द्। शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ॥ Śइव्P_1,11.53अब्। शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥ Śइव्P_1,11.53च्द्। जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ॥ Śइव्P_1,11.54अब्। तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ॥ Śइव्P_1,11.54च्द्। लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ॥ Śइव्P_1,11.55अब्। सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ॥ Śइव्P_1,11.55च्द्। दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः ॥ Śइव्P_1,11.56अब्। धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ॥ Śइव्P_1,11.56च्द्। पुण्यक्षेत्रे स्थिता वापी कूपाद्यपुष्कराणि च ॥ Śइव्P_1,11.57अब्। शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ॥ Śइव्P_1,11.57च्द्। तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ॥ Śइव्P_1,11.58अब्। शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥ Śइव्P_1,11.58च्द्। दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ॥ Śइव्P_1,11.59अब्। आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ॥ Śइव्P_1,11.59च्द्। सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ॥ Śइव्P_1,11.60अब्। अथवा सप्तरात्रं वा वसेद्वा पञ्चरात्रकम् ॥ Śइव्P_1,11.60च्द्। त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ॥ Śइव्P_1,11.61अब्। स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥ Śइव्P_1,11.61च्द्। वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ॥ Śइव्P_1,11.62अब्। सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥ Śइव्P_1,11.62च्द्। सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ॥ Śइव्P_1,11.63अब्। प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥ Śइव्P_1,11.63च्द्। प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ॥ Śइव्P_1,11.64अब्। सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ॥ Śइव्P_1,11.64च्द्। कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ॥ Śइव्P_1,11.65अब्। शिवपूजा विशेषेण तत्काले ऽभीष्टसिद्धिदा ॥ Śइव्P_1,11.65च्द्। एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ॥ Śइव्P_1,11.66अब्। कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ Śइव्P_1,11.66च्द्। उक्तेन केनचिद्वापि अधिकारविभेदतः ॥ Śइव्P_1,11.67अब्। सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥ Śइव्P_1,11.67च्द्। ऋषय ऊचुः अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ॥ Śइव्P_1,11.68अब्। सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ॥ Śइव्P_1,11.68च्द्। सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ॥ Śइव्P_1,11.69अब्। सूत उवाच शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ॥ Śइव्P_1,11.69च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांएकदशो ऽध्यायः Cहप्तेर् 12 सूत उवाच शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ॥ Śइव्P_1,12.1अब्। तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥ Śइव्P_1,12.1च्द्। पञ्चाशत्कोटिविस्तीर्णा सशैलवनकानना ॥ Śइव्P_1,12.2अब्। शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥ Śइव्P_1,12.2च्द्। तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ॥ Śइव्P_1,12.3अब्। मोक्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥ Śइव्P_1,12.3च्द्। परिग्रहादृषीणां च देवानां परिग्रहात् ॥ Śइव्P_1,12.4अब्। स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि ॥ Śइव्P_1,12.4च्द्। तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम् ॥ Śइव्P_1,12.5अब्। अन्यथा रोगदारिद्र्यमूकत्वाद्याप्नुयान्नरः ॥ Śइव्P_1,12.5च्द्। अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ॥ Śइव्P_1,12.6अब्। स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥ Śइव्P_1,12.6च्द्। क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ॥ Śइव्P_1,12.7अब्। पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥ Śइव्P_1,12.7च्द्। येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ॥ Śइव्P_1,12.8अब्। सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः ॥ Śइव्P_1,12.8च्द्। सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ॥ Śइव्P_1,12.9अब्। तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत् ॥ Śइव्P_1,12.9च्द्। हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी ॥ Śइव्P_1,12.10अब्। तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः ॥ Śइव्P_1,12.10च्द्। तत्र तीरं प्रशस्तं हि मृगबृहस्पतौ ॥ Śइव्P_1,12.11अब्। शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ॥ Śइव्P_1,12.11च्द्। तत्र स्नानोपवासेन पदं वैनायकं लभेत् ॥ Śइव्P_1,12.12अब्। चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥ Śइव्P_1,12.12च्द्। तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ॥ Śइव्P_1,12.13अब्। तमसा द्वादशमुखा रेवा दशमुखा नदी ॥ Śइव्P_1,12.13च्द्। गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ॥ Śइव्P_1,12.14अब्। एकविंशमुखा प्रोक्ता रुद्रलोकप्रदायिनी ॥ Śइव्P_1,12.14च्द्। कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा ॥ Śइव्P_1,12.15अब्। साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी ॥ Śइव्P_1,12.15च्द्। तुंगभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ॥ Śइव्P_1,12.16अब्। सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ Śइव्P_1,12.16च्द्। तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा ॥ Śइव्P_1,12.17अब्। सरस्वती च पंपा च कन्याश्वेतनदी शुभा ॥ Śइव्P_1,12.17च्द्। एतासां तीरवासेन इंद्रलोकमवाप्नुयात् ॥ Śइव्P_1,12.18अब्। सह्याद्रिजा महापुण्या कावेरीति महानदी ॥ Śइव्P_1,12.18च्द्। सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी ॥ Śइव्P_1,12.19अब्। तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥ Śइव्P_1,12.19च्द्। शिवलोकप्रदा शैवास् तथा ऽभीष्टफलप्रदाः ॥ Śइव्P_1,12.20अब्। नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ ॥ Śइव्P_1,12.20च्द्। ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ॥ Śइव्P_1,12.21अब्। सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥ Śइव्P_1,12.21च्द्। केदारोदकपानं च स्नानं च ज्ञानदं विदुः ॥ Śइव्P_1,12.22अब्। गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥ Śइव्P_1,12.22च्द्। शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ॥ Śइव्P_1,12.23अब्। यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ ॥ Śइव्P_1,12.23च्द्। धर्मलोके दंतिलोके महाभोगप्रदं विदुः ॥ Śइव्P_1,12.24अब्। कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ ॥ Śइव्P_1,12.24च्द्। विष्णोर्वचनमहात्म्यात्सर्वाभीष्टप्रदं विदुः ॥ Śइव्P_1,12.25अब्। वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके ॥ Śइव्P_1,12.25च्द्। नर्मदायां नदीस्नानाद्विष्णुलोकम्वाप्नुयात् ॥ Śइव्P_1,12.26अब्। सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ ॥ Śइव्P_1,12.26च्द्। शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ॥ Śइव्P_1,12.27अब्। मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥ Śइव्P_1,12.27च्द्। शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ॥ Śइव्P_1,12.28अब्। ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात् ॥ Śइव्P_1,12.28च्द्। गंगायां माघमासे तु तथाकुंभगते रवौ ॥ Śइव्P_1,12.29अब्। श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा ॥ Śइव्P_1,12.29च्द्। वंशद्वयपित्ःणां च कुलकोट्युद्धरं विदुः ॥ Śइव्P_1,12.30अब्। कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ ॥ Śइव्P_1,12.30च्द्। तत्तत्तीर्थे च तन्मासि स्नानमिंद्रपदप्रदम् ॥ Śइव्P_1,12.31अब्। गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ॥ Śइव्P_1,12.31च्द्। तत्कालकृतपापस्य क्षयो भवति निश्चितम् ॥ Śइव्P_1,12.32अब्। रुद्रलोकप्रदान्येव संति क्षेत्राण्यनेकशः ॥ Śइव्P_1,12.32च्द्। ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे ॥ Śइव्P_1,12.33अब्। तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च ॥ Śइव्P_1,12.33च्द्। संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः ॥ Śइव्P_1,12.34अब्। तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ॥ Śइव्P_1,12.34च्द्। सदाचारेण सद्वृत्त्या सदा भावनयापि च ॥ Śइव्P_1,12.35अब्। वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ॥ Śइव्P_1,12.35च्द्। पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति ॥ Śइव्P_1,12.36अब्। पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते ॥ Śइव्P_1,12.36च्द्। तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति ॥ Śइव्P_1,12.37अब्। पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ॥ Śइव्P_1,12.37च्द्। मानसं च तथा पापं तादृशं नाशयेद्द्विजाः ॥ Śइव्P_1,12.38अब्। मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ॥ Śइव्P_1,12.38च्द्। ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति ॥ Śइव्P_1,12.39अब्। वाचिकं जपजालेन कायिकं कायशोषणात् ॥ Śइव्P_1,12.39च्द्। दानाद्धनकृतं नश्येन्ना ऽन्यथाकल्पकोटिभिः ॥ Śइव्P_1,12.40अब्। क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति ॥ Śइव्P_1,12.40च्द्। बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ॥ Śइव्P_1,12.41अब्। ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ॥ Śइव्P_1,12.41च्द्। भोजांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः ॥ Śइव्P_1,12.42अब्। बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ॥ Śइव्P_1,12.42च्द्। देवानां पूजया चैव ब्रह्मणानां च दानतः ॥ Śइव्P_1,12.43अब्। तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् ॥ Śइव्P_1,12.43च्द्। तस्मात्पापमकृत्वैव वस्तव्यंस्सुखमिच्छता ॥ Śइव्P_1,12.43एf। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वादशो ऽध्यायः Cहप्तेर् 13 ऋषय ऊचुः सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ॥ Śइव्P_1,13.1अब्। धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ Śइव्P_1,13.1च्द्। सूत उवाच सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ॥ Śइव्P_1,13.2अब्। वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ Śइव्P_1,13.2च्द्। अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ॥ Śइव्P_1,13.3अब्। किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥ Śइव्P_1,13.3च्द्। शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ॥ Śइव्P_1,13.4अब्। असूयालुः परद्रोही चंडालद्विज उच्यते ॥ Śइव्P_1,13.4च्द्। पृथिवीपालको राजा इतरेक्षत्रिया मताः ॥ Śइव्P_1,13.5अब्। धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥ Śइव्P_1,13.5च्द्। ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ॥ Śइव्P_1,13.6अब्। कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ Śइव्P_1,13.6च्द्। सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् ॥ Śइव्P_1,13.7अब्। धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ Śइव्P_1,13.7च्द्। आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ॥ Śइव्P_1,13.8अब्। व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ Śइव्P_1,13.8च्द्। निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते ॥ Śइव्P_1,13.9अब्। तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ॥ Śइव्P_1,13.9च्द्। गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा ॥ Śइव्P_1,13.10अब्। उदङ्मुखः समाविश्य प्रतिबंधे ऽन्यदिङ्मुखः ॥ Śइव्P_1,13.10च्द्। जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ॥ Śइव्P_1,13.11अब्। लिंगं पिधाय वामेन मुखमन्येन पाणिना ॥ Śइव्P_1,13.11च्द्। मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ॥ Śइव्P_1,13.12अब्। उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ॥ Śइव्P_1,13.12च्द्। अथवा देवपित्रार्षतीर्थावतरणं विना ॥ Śइव्P_1,13.13अब्। सप्त वा पञ्च वा त्रीन्वा गुदं संशोधयेन्मृदा ॥ Śइव्P_1,13.13च्द्। लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ॥ Śइव्P_1,13.14अब्। तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ Śइव्P_1,13.14च्द्। येन केन च पत्रेण काष्ठेन च जलाद्बहिः ॥ Śइव्P_1,13.15अब्। कार्यं संत्यज्य तर्जनीं दंतधावनमीरितम् ॥ Śइव्P_1,13.15च्द्। जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् ॥ Śइव्P_1,13.16अब्। अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा ॥ Śइव्P_1,13.16च्द्। आजानु जलमाविश्य मंत्रस्नानं समाचरेत् ॥ Śइव्P_1,13.17अब्। देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ Śइव्P_1,13.17च्द्। धौतवस्त्रं समादाय पञ्चकच्छेन धारयेत् ॥ Śइव्P_1,13.18अब्। उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु ॥ Śइव्P_1,13.18च्द्। नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् ॥ Śइव्P_1,13.19अब्। वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ॥ Śइव्P_1,13.19च्द्। शिलादार्वादिके वापि जले वापि स्थलेपि वा ॥ Śइव्P_1,13.20अब्। संशोध्य पीडयेद्वस्त्रं पित्ःणां तृप्तये द्विजाः ॥ Śइव्P_1,13.20च्द्। जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम् ॥ Śइव्P_1,13.21अब्। अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति ॥ Śइव्P_1,13.21च्द्। आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये ॥ Śइव्P_1,13.22अब्। यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते ॥ Śइव्P_1,13.22च्द्। पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च ॥ Śइव्P_1,13.23अब्। हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः ॥ Śइव्P_1,13.23च्द्। ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभये ऽपि च ॥ Śइव्P_1,13.24अब्। अत्यागतिकाले च मंत्रस्नानं समाचरेत् ॥ Śइव्P_1,13.24च्द्। प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ॥ Śइव्P_1,13.25अब्। अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ॥ Śइव्P_1,13.25च्द्। गायत्र्या जपमंत्रांते वीरूर्ध्वं प्राग्विनिक्षिपेत् ॥ Śइव्P_1,13.26अब्। मंत्रेण सह चैकं वै मध्ये ऽर्घ्यं तु रवेर्द्विजा ॥ Śइव्P_1,13.26च्द्। अथ जाते च सायाह्ने भुवि पश्चिमदिङ्मुखः ॥ Śइव्P_1,13.27अब्। उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा ॥ Śइव्P_1,13.27च्द्। अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम् ॥ Śइव्P_1,13.28अब्। आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ Śइव्P_1,13.28च्द्। सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत् ॥ Śइव्P_1,13.29अब्। अकालात्काल इत्युक्तो दिने ऽतीते यथाक्रमम् ॥ Śइव्P_1,13.29च्द्। दिवा ऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ॥ Śइव्P_1,13.30अब्। आदर्शाहात्परा ऽतीते गायत्रीं लक्षमभ्यसेत् ॥ Śइव्P_1,13.30च्द्। मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ॥ Śइव्P_1,13.31अब्। ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्रश्च वै यमः ॥ Śइव्P_1,13.31च्द्। एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ॥ Śइव्P_1,13.32अब्। ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥ Śइव्P_1,13.32च्द्। तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः ॥ Śइव्P_1,13.33अब्। तत्र देवालये वापि गृहे वा नियतस्थले ॥ Śइव्P_1,13.33च्द्। सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ॥ Śइव्P_1,13.34अब्। प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥ Śइव्P_1,13.34च्द्। जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ॥ Śइव्P_1,13.35अब्। त्रैलोक्यसृष्टिकर्तारं स्थितिकर्तारमच्युतम् ॥ Śइव्P_1,13.35च्द्। संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ॥ Śइव्P_1,13.36अब्। ज्ञानकर्मेंद्रियाणां च मनोवृत्तीर्धियस्तथा ॥ Śइव्P_1,13.36च्द्। भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ॥ Śइव्P_1,13.37अब्। इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ॥ Śइव्P_1,13.37च्द्। केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ॥ Śइव्P_1,13.38अब्। सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः ॥ Śइव्P_1,13.38च्द्। अन्येषां च यथा शक्तिम् अध्याह्ने च शतं जपेत् ॥ Śइव्P_1,13.39अब्। सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ॥ Śइव्P_1,13.39च्द्। मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा ॥ Śइव्P_1,13.40अब्। विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् ॥ Śइव्P_1,13.40च्द्। ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् ॥ Śइव्P_1,13.41अब्। तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत् ॥ Śइव्P_1,13.41च्द्। महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ॥ Śइव्P_1,13.42अब्। एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥ Śइव्P_1,13.42च्द्। परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ॥ Śइव्P_1,13.43अब्। शतद्विदशकं देहं शिखाष्टकसमन्वितम् ॥ Śइव्P_1,13.43च्द्। मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः ॥ Śइव्P_1,13.44अब्। सहस्रं ब्राह्मदं विद्याच्छतमैंद्रप्रदं विदुः ॥ Śइव्P_1,13.44च्द्। इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ॥ Śइव्P_1,13.45अब्। दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥ Śइव्P_1,13.45च्द्। लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ॥ Śइव्P_1,13.46अब्। गायत्र्या लक्षहीनं तु वेदकार्येन योजयेत् ॥ Śइव्P_1,13.46च्द्। आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ॥ Śइव्P_1,13.47अब्। प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ॥ Śइव्P_1,13.47च्द्। दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत् ॥ Śइव्P_1,13.48अब्। मासादौ क्रमशो ऽतीते सार्धलक्षजपेन हि ॥ Śइव्P_1,13.48च्द्। अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत् ॥ Śइव्P_1,13.49अब्। एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत् ॥ Śइव्P_1,13.49च्द्। धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ॥ Śइव्P_1,13.50अब्। ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् ॥ Śइव्P_1,13.50च्द्। धर्मादर्थो ऽर्थतो भोगो भोगाद्वैराग्यसंभवः ॥ Śइव्P_1,13.51अब्। धर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥ Śइव्P_1,13.51च्द्। विपरीतार्थभोगेन राग एव प्रजायते ॥ Śइव्P_1,13.52अब्। धर्मश्च द्विविधः प्रोक्तो द्रव्यदेहद्वयेन च ॥ Śइव्P_1,13.52च्द्। द्रव्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ॥ Śइव्P_1,13.53अब्। धनेन धनमाप्नोति तपसा दिव्यरूपताम् ॥ Śइव्P_1,13.53च्द्। निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ॥ Śइव्P_1,13.54अब्। कृतादौ हि तपःश्लोघ्यं द्रव्यधर्मः कलौ युगे ॥ Śइव्P_1,13.54च्द्। कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ॥ Śइव्P_1,13.55अब्। द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥ Śइव्P_1,13.55च्द्। यादृशं पुण्यं पापं वा तादृशं फलमेव हि ॥ Śइव्P_1,13.56अब्। द्रव्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम् ॥ Śइव्P_1,13.56च्द्। अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ॥ Śइव्P_1,13.57अब्। अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ॥ Śइव्P_1,13.57च्द्। विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ॥ Śइव्P_1,13.58अब्। धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ॥ Śइव्P_1,13.58च्द्। सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च ॥ Śइव्P_1,13.59अब्। शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ॥ Śइव्P_1,13.59च्द्। चांद्रायणसहस्रं तु ब्रह्मलोकप्रदं विदुः ॥ Śइव्P_1,13.60अब्। सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत् ॥ Śइव्P_1,13.60च्द्। इंद्रलोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ॥ Śइव्P_1,13.61अब्। यां देवतां पुरस्कृत्य दानमाचरते नरः ॥ Śइव्P_1,13.61च्द्। तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ॥ Śइव्P_1,13.62अब्। अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ॥ Śइव्P_1,13.62च्द्। तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ॥ Śइव्P_1,13.63अब्। अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥ Śइव्P_1,13.63च्द्। कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः ॥ Śइव्P_1,13.64अब्। अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ॥ Śइव्P_1,13.64च्द्। क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ॥ Śइव्P_1,13.65अब्। न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥ Śइव्P_1,13.65च्द्। ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ॥ Śइव्P_1,13.66अब्। मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥ Śइव्P_1,13.66च्द्। सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः ॥ Śइव्P_1,13.67अब्। धनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥ Śइव्P_1,13.67च्द्। यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ॥ Śइव्P_1,13.68अब्। तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ॥ Śइव्P_1,13.68च्द्। जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये ॥ Śइव्P_1,13.69अब्। क्षेत्रं धान्यं तथा ऽ ऽमान्नमन्नमेवं चतुर्विधम् ॥ Śइव्P_1,13.69च्द्। यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ॥ Śइव्P_1,13.70अब्। तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः ॥ Śइव्P_1,13.70च्द्। ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा ॥ Śइव्P_1,13.71अब्। पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥ Śइव्P_1,13.71च्द्। आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ॥ Śइव्P_1,13.72अब्। नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ॥ Śइव्P_1,13.72च्द्। वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ॥ Śइव्P_1,13.73अब्। हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ॥ Śइव्P_1,13.73च्द्। कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ॥ Śइव्P_1,13.74अब्। शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥ Śइव्P_1,13.74च्द्। अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ॥ Śइव्P_1,13.75अब्। वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ॥ Śइव्P_1,13.75च्द्। शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः ॥ Śइव्P_1,13.76अब्। अकस्मादुत्थिते ऽर्थे हि देयमर्धं द्विजोत्तमैः ॥ Śइव्P_1,13.76च्द्। असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत् ॥ Śइव्P_1,13.77अब्। आहूय दानं कर्तव्यमात्मभोगसमृद्धये ॥ Śइव्P_1,13.77च्द्। पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ॥ Śइव्P_1,13.78अब्। जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥ Śइव्P_1,13.78च्द्। परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ॥ Śइव्P_1,13.79अब्। विशेषेण तथाब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ॥ Śइव्P_1,13.79च्द्। न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः ॥ Śइव्P_1,13.80अब्। संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये ॥ Śइव्P_1,13.80च्द्। अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ॥ Śइव्P_1,13.81अब्। तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा ॥ Śइव्P_1,13.81च्द्। स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ॥ Śइव्P_1,13.82अब्। प्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥ Śइव्P_1,13.82च्द्। नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ॥ Śइव्P_1,13.83अब्। अथवा जपमात्रं वा सूर्यवंदनमेव च ॥ Śइव्P_1,13.83च्द्। एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ॥ Śइव्P_1,13.84अब्। ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ Śइव्P_1,13.84च्द्। अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ॥ Śइव्P_1,13.85अब्। ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ Śइव्P_1,13.85च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशो ऽध्यायः Cहप्तेर् 14 ऋषय ऊचुः अग्नियज्ञदेवयज्ञं ब्रह्मयज्ञं तथैव च ॥ Śइव्P_1,14.1अब्। गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ Śइव्P_1,14.1च्द्। सूत उवाच अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ॥ Śइव्P_1,14.2अब्। ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ Śइव्P_1,14.2च्द्। समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ॥ Śइव्P_1,14.3अब्। प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ Śइव्P_1,14.3च्द्। आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ॥ Śइव्P_1,14.4अब्। हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ Śइव्P_1,14.4च्द्। औपासनाग्निसंधानं समारभ्य सुरक्षितम् ॥ Śइव्P_1,14.5अब्। कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ॥ Śइव्P_1,14.5च्द्। अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ॥ Śइव्P_1,14.6अब्। अग्नित्यागभयादुक्तं समारोपितमुच्यते ॥ Śइव्P_1,14.6च्द्। संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ॥ Śइव्P_1,14.7अब्। आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥ Śइव्P_1,14.7च्द्। अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ॥ Śइव्P_1,14.8अब्। इंद्रादीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ॥ Śइव्P_1,14.8च्द्। देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ॥ Śइव्P_1,14.9अब्। चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥ Śइव्P_1,14.9च्द्। ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ॥ Śइव्P_1,14.10अब्। ब्रह्मयज्ञ इति प्रोक्तो वेदस्या ऽध्ययनं भवेत् ॥ Śइव्P_1,14.10च्द्। नित्यानंतरमासोयं ततस्तु न विधीयते ॥ Śइव्P_1,14.11अब्। अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ॥ Śइव्P_1,14.11च्द्। आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ॥ Śइव्P_1,14.12अब्। सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥ Śइव्P_1,14.12च्द्। संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ Śइव्P_1,14.13अब्। आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ॥ Śइव्P_1,14.13च्द्। संपत्कारं स्वमायाया वरं च कृतवांस्ततः ॥ Śइव्P_1,14.14अब्। जनने दुर्गतिक्रांते कुमारस्य ततः परम् ॥ Śइव्P_1,14.14च्द्। आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः ॥ Śइव्P_1,14.15अब्। रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ॥ Śइव्P_1,14.15च्द्। पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ॥ Śइव्P_1,14.16अब्। आयुष्करं ततो वारमायुषां कर्तुरेव हि ॥ Śइव्P_1,14.16च्द्। त्रैलोक्यसृष्टिकर्तुर्हि ब्रह्मणः परमेष्ठिनः ॥ Śइव्P_1,14.17अब्। जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ॥ Śइव्P_1,14.17च्द्। आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ॥ Śइव्P_1,14.18अब्। तयोः कर्त्रोस्ततो वारमिंद्रस्य च यमस्य च ॥ Śइव्P_1,14.18च्द्। भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ॥ Śइव्P_1,14.19अब्। आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥ Śइव्P_1,14.19च्द्। वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ॥ Śइव्P_1,14.20अब्। स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा ॥ Śइव्P_1,14.20च्द्। आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च ॥ Śइव्P_1,14.21अब्। पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥ Śइव्P_1,14.21च्द्। वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ॥ Śइव्P_1,14.22अब्। अन्येषामपि देवानां पूजायाः फलदः शिवः ॥ Śइव्P_1,14.22च्द्। देवानां प्रीतये पूजापञ्चधैव प्रकल्पिता ॥ Śइव्P_1,14.23अब्। तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा ॥ Śइव्P_1,14.23च्द्। स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ॥ Śइव्P_1,14.24अब्। समाराधनमित्येवं षोडशैरुपचारकैः ॥ Śइव्P_1,14.24च्द्। उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ॥ Śइव्P_1,14.25अब्। नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये ॥ Śइव्P_1,14.25च्द्। आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ॥ Śइव्P_1,14.26अब्। दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥ Śइव्P_1,14.26च्द्। प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रोगजरादिकम् ॥ Śइव्P_1,14.27अब्। जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥ Śइव्P_1,14.27च्द्। पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत् ॥ Śइव्P_1,14.28अब्। आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥ Śइव्P_1,14.28च्द्। सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः ॥ Śइव्P_1,14.29अब्। आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् ॥ Śइव्P_1,14.29च्द्। काल्यादीन्भौम वारे तु यजेद्रोगप्रशांतये ॥ Śइव्P_1,14.30अब्। माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत् ॥ Śइव्P_1,14.30च्द्। सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः ॥ Śइव्P_1,14.31अब्। पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ॥ Śइव्P_1,14.31च्द्। आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ॥ Śइव्P_1,14.32अब्। उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः ॥ Śइव्P_1,14.32च्द्। भोगार्थं भृगवारे तु यजेद्देवान्समाहितः ॥ Śइव्P_1,14.33अब्। षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये ॥ Śइव्P_1,14.33च्द्। स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् ॥ Śइव्P_1,14.34अब्। अपमृत्युहरे मंदे रुद्राद्रींश्च यजेद्बुधः ॥ Śइव्P_1,14.34च्द्। तिलहोमेन दानेन तिलान्नेन च भोजयेत् ॥ Śइव्P_1,14.35अब्। इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥ Śइव्P_1,14.35च्द्। देवानां नित्ययजने विशेषयजनेपि च ॥ Śइव्P_1,14.36अब्। स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥ Śइव्P_1,14.36च्द्। तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ॥ Śइव्P_1,14.37अब्। आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥ Śइव्P_1,14.37च्द्। ततद्रूपेण सर्वेषामारोग्यादिफलप्रदः ॥ Śइव्P_1,14.38अब्। देशकालानुसारेण तथा पात्रानुसारतः ॥ Śइव्P_1,14.38च्द्। द्रव्यश्रद्धानुसारेण तथा लोकानुसारतः ॥ Śइव्P_1,14.39अब्। तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ॥ Śइव्P_1,14.39च्द्। शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही ॥ Śइव्P_1,14.40अब्। आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् ॥ Śइव्P_1,14.40च्द्। तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ॥ Śइव्P_1,14.41अब्। समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम् ॥ Śइव्P_1,14.41च्द्। यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः ॥ Śइव्P_1,14.42अब्। सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ॥ Śइव्P_1,14.42च्द्। दरिद्रस्तपसा देवान्यजेदाढ्यो धनेन हि ॥ Śइव्P_1,14.43अब्। पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥ Śइव्P_1,14.43च्द्। पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ॥ Śइव्P_1,14.44अब्। छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ॥ Śइव्P_1,14.44च्द्। सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ॥ Śइव्P_1,14.45अब्। कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ Śइव्P_1,14.45च्द्। य इमं शृणुते ऽध्यायं पठते वा नरो द्विजाः ॥ Śइव्P_1,14.46अब्। श्रवणस्योपकर्ता च देवयज्ञफलं लभेत् ॥ Śइव्P_1,14.46च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां चतुर्दशो ऽध्यायः Cहप्तेर् 15 ऋषय ऊचुः देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ॥ Śइव्P_1,15.1अब्। सूत उवाच शुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ Śइव्P_1,15.1च्द्। ततो दशगुणं गोष्ठं जलतीरं ततो दश ॥ Śइव्P_1,15.2अब्। ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ Śइव्P_1,15.2च्द्। ततो देवालयं विद्यात्तीर्थतीरं ततो दश ॥ Śइव्P_1,15.3अब्। ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ Śइव्P_1,15.3च्द्। सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ॥ Śइव्P_1,15.4अब्। गंगा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ Śइव्P_1,15.4च्द्। सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः ॥ Śइव्P_1,15.5अब्। ततो ऽब्धितीरं दश च पर्वताग्रे ततो दश ॥ Śइव्P_1,15.5च्द्। सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ॥ Śइव्P_1,15.6अब्। कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ॥ Śइव्P_1,15.6च्द्। त्रेतायुगे त्रिपादं च द्वापरे ऽर्धं सदा स्मृतम् ॥ Śइव्P_1,15.7अब्। कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्धके ॥ Śइव्P_1,15.7च्द्। शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ॥ Śइव्P_1,15.8अब्। तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः ॥ Śइव्P_1,15.8च्द्। विषुवे तद्दशगुणमयने तद्दश स्मृतम् ॥ Śइव्P_1,15.9अब्। तद्दश मृगसंक्रांतौ तच्चंद्रग्रहणे दश ॥ Śइव्P_1,15.9च्द्। ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ॥ Śइव्P_1,15.10अब्। जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् ॥ Śइव्P_1,15.10च्द्। अतस्तद्विषशांत्यर्थं स्नानदानजपां चरेत् ॥ Śइव्P_1,15.11अब्। विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ॥ Śइव्P_1,15.11च्द्। जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः ॥ Śइव्P_1,15.12अब्। महतां संगकालश्च कोट्यर्कग्रहणं विदुः ॥ Śइव्P_1,15.12च्द्। तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ॥ Śइव्P_1,15.13अब्। पूजायाः पात्रमेते हि पापसंक्षयकारणम् ॥ Śइव्P_1,15.13च्द्। चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ॥ Śइव्P_1,15.14अब्। ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम् ॥ Śइव्P_1,15.14च्द्। पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ॥ Śइव्P_1,15.15अब्। दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते ॥ Śइव्P_1,15.15च्द्। गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ॥ Śइव्P_1,15.16अब्। यथा ऽर्थहिनो लोके ऽस्मिन्परस्यार्थं न यच्छति ॥ Śइव्P_1,15.16च्द्। अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ॥ Śइव्P_1,15.17अब्। स्वयं शुद्धो हि पूतात्मा नरान्सत्रातुमर्हति ॥ Śइव्P_1,15.17च्द्। गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ॥ Śइव्P_1,15.18अब्। तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि ॥ Śइव्P_1,15.18च्द्। दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति ॥ Śइव्P_1,15.19अब्। अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् ॥ Śइव्P_1,15.19च्द्। ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ॥ Śइव्P_1,15.20अब्। तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् ॥ Śइव्P_1,15.20च्द्। इच्छावतः प्रदानं च संपूर्णफलदं विदुः ॥ Śइव्P_1,15.21अब्। यत्प्रश्नानंतरं दत्तं तदर्थफलदं विदुः ॥ Śइव्P_1,15.21च्द्। यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ॥ Śइव्P_1,15.22अब्। जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः ॥ Śइव्P_1,15.22च्द्। दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् ॥ Śइव्P_1,15.23अब्। वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् ॥ Śइव्P_1,15.23च्द्। गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ॥ Śइव्P_1,15.24अब्। विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः ॥ Śइव्P_1,15.24च्द्। शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ॥ Śइव्P_1,15.25अब्। तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते ॥ Śइव्P_1,15.25च्द्। दशांगमन्नं विप्रस्य भानुवारे ददन्नरः ॥ Śइव्P_1,15.26अब्। परजन्मनि चारोग्यं दशवर्षं समश्नुते ॥ Śइव्P_1,15.26च्द्। बहुमानमथाह्वानमभ्यंगं पादसेवनम् ॥ Śइव्P_1,15.27अब्। वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम् ॥ Śइव्P_1,15.27च्द्। षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम् ॥ Śइव्P_1,15.28अब्। नमश्चानुगमश्चैव स्वन्नदानं दशांगकम् ॥ Śइव्P_1,15.28च्द्। दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ॥ Śइव्P_1,15.29अब्। अर्कवारे तथा ऽ ऽरोग्यं शतवर्षं समश्नुते ॥ Śइव्P_1,15.29च्द्। सोमवारादिवारेषु तत्तद्वारगुणं फलम् ॥ Śइव्P_1,15.30अब्। अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि ॥ Śइव्P_1,15.30च्द्। सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् ॥ Śइव्P_1,15.31अब्। अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ॥ Śइव्P_1,15.31च्द्। एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ॥ Śइव्P_1,15.32अब्। सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ॥ Śइव्P_1,15.32च्द्। सहस्रेभ्यस्तथा दत्त्वा ऽयुतवर्षं समश्नुते ॥ Śइव्P_1,15.33अब्। एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ॥ Śइव्P_1,15.33च्द्। भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ॥ Śइव्P_1,15.34अब्। अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ॥ Śइव्P_1,15.34च्द्। अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ॥ Śइव्P_1,15.35अब्। अन्नं दत्त्वा तु लक्षाणां रुद्रलोके समश्नुते ॥ Śइव्P_1,15.35च्द्। बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ॥ Śइव्P_1,15.36अब्। यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ॥ Śइव्P_1,15.36च्द्। वृद्धानां रुद्रबुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ॥ Śइव्P_1,15.37अब्। बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ॥ Śइव्P_1,15.37च्द्। लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ॥ Śइव्P_1,15.38अब्। वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ॥ Śइव्P_1,15.38च्द्। शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ॥ Śइव्P_1,15.39अब्। शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ॥ Śइव्P_1,15.39च्द्। शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ॥ Śइव्P_1,15.40अब्। कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते ॥ Śइव्P_1,15.40च्द्। क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ॥ Śइव्P_1,15.41अब्। उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ॥ Śइव्P_1,15.41च्द्। स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ॥ Śइव्P_1,15.42अब्। गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम् ॥ Śइव्P_1,15.42च्द्। संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये ॥ Śइव्P_1,15.43अब्। गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ॥ Śइव्P_1,15.43च्द्। रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा ॥ Śइव्P_1,15.44अब्। गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ॥ Śइव्P_1,15.44च्द्। धनधान्याद्याश्रितानां दुरितानां निवारणम् ॥ Śइव्P_1,15.45अब्। जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ॥ Śइव्P_1,15.45च्द्। कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा ॥ Śइव्P_1,15.46अब्। तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ॥ Śइव्P_1,15.46च्द्। भूदानं तु प्रतिष्ठार्थमिह चा ऽमुत्र च द्विजाः ॥ Śइव्P_1,15.47अब्। तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ॥ Śइव्P_1,15.47च्द्। हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ॥ Śइव्P_1,15.48अब्। आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ॥ Śइव्P_1,15.48च्द्। धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् ॥ Śइव्P_1,15.49अब्। रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ॥ Śइव्P_1,15.49च्द्। सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः ॥ Śइव्P_1,15.50अब्। प्राप्तिदं सर्वभोगानामिह चा ऽमुत्र च द्विजाः ॥ Śइव्P_1,15.50च्द्। यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ॥ Śइव्P_1,15.51अब्। पनसाम्रकपित्थानां वृक्षाणां फलमेव च ॥ Śइव्P_1,15.51च्द्। कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा ॥ Śइव्P_1,15.52अब्। माषादीनां च मुद्गानां फलं शाकादिकं तथा ॥ Śइव्P_1,15.52च्द्। मरीचिसर्षपाद्यानां शाकोपकरणं तथा ॥ Śइव्P_1,15.53अब्। यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ॥ Śइव्P_1,15.53च्द्। श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता ॥ Śइव्P_1,15.54अब्। शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ॥ Śइव्P_1,15.54च्द्। वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ॥ Śइव्P_1,15.55अब्। कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ॥ Śइव्P_1,15.55च्द्। बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी ॥ Śइव्P_1,15.56अब्। सर्वाभावे दरिद्रस्तु वाचा वा कर्मणा यजेत् ॥ Śइव्P_1,15.56च्द्। वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम् ॥ Śइव्P_1,15.57अब्। तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः ॥ Śइव्P_1,15.57च्द्। येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ॥ Śइव्P_1,15.58अब्। देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ॥ Śइव्P_1,15.58च्द्। तपश्चर्या च दानं च कर्तव्यमुभयं सदा ॥ Śइव्P_1,15.59अब्। प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् ॥ Śइव्P_1,15.59च्द्। देवानां तृप्तये ऽत्यर्थं सर्वभोगप्रदं बुधैः ॥ Śइव्P_1,15.60अब्। इहा ऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः ॥ Śइव्P_1,15.60च्द्। ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् ॥ Śइव्P_1,15.60एf। य इमं पठते ऽध्यायं यः शृणोति सदा नरः ॥ Śइव्P_1,15.61अब्। तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ॥ Śइव्P_1,15.61च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पञ्चदशोध्यायः Cहप्तेर् 16 ऋषय ऊचुः पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ॥ Śइव्P_1,16.1अब्। येन पूजाविधानेन सर्वाभिष्टमवाप्यते ॥ Śइव्P_1,16.1च्द्। सूत उवाच सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम् ॥ Śइव्P_1,16.2अब्। सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः ॥ Śइव्P_1,16.2च्द्। अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ॥ Śइव्P_1,16.3अब्। सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ॥ Śइव्P_1,16.3च्द्। अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ॥ Śइव्P_1,16.4अब्। ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ॥ Śइव्P_1,16.4च्द्। पुरुषाणां च नारीणामधिकारोत्र निश्चितम् ॥ Śइव्P_1,16.5अब्। नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत् ॥ Śइव्P_1,16.5च्द्। संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे ॥ Śइव्P_1,16.6अब्। हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ॥ Śइव्P_1,16.6च्द्। अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम् ॥ Śइव्P_1,16.7अब्। पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ॥ Śइव्P_1,16.7च्द्। विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च ॥ Śइव्P_1,16.8अब्। शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज ॥ Śइव्P_1,16.8च्द्। षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ॥ Śइव्P_1,16.9अब्। पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम् ॥ Śइव्P_1,16.9च्द्। शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ॥ Śइव्P_1,16.10अब्। गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते ॥ Śइव्P_1,16.10च्द्। दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपञ्चकम् ॥ Śइव्P_1,16.11अब्। एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ॥ Śइव्P_1,16.11च्द्। सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः ॥ Śइव्P_1,16.12अब्। द्वादशांगुलमायामं द्विगुणं च ततो ऽधिकम् ॥ Śइव्P_1,16.12च्द्। प्रमाणमंगुलस्यैकं तदूर्ध्वं पञ्चकत्रयम् ॥ Śइव्P_1,16.13अब्। अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ॥ Śइव्P_1,16.13च्द्। तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् ॥ Śइव्P_1,16.14अब्। दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ॥ Śइव्P_1,16.14च्द्। जलतैलादिगंधानां यथायोग्यं च मानतः ॥ Śइव्P_1,16.15अब्। मानुषार्षस्वयंभूनां महापूजेति कथ्यते ॥ Śइव्P_1,16.15च्द्। अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते ॥ Śइव्P_1,16.16अब्। आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते ॥ Śइव्P_1,16.16च्द्। दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् ॥ Śइव्P_1,16.17अब्। तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ॥ Śइव्P_1,16.17च्द्। नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ॥ Śइव्P_1,16.18अब्। पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः ॥ Śइव्P_1,16.18च्द्। संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ॥ Śइव्P_1,16.19अब्। देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ॥ Śइव्P_1,16.19च्द्। तदवांतरलोके च यथेष्टं भोग्यमाप्यते ॥ Śइव्P_1,16.20अब्। तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः ॥ Śइव्P_1,16.20च्द्। विघ्नेशपूजया सम्यग्भूर्लोके ऽभीष्टमाप्नुयात् ॥ Śइव्P_1,16.21अब्। शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्रके ॥ Śइव्P_1,16.21च्द्। भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ॥ Śइव्P_1,16.22अब्। शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् ॥ Śइव्P_1,16.22च्द्। देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ॥ Śइव्P_1,16.23अब्। सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ॥ Śइव्P_1,16.23च्द्। वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः ॥ Śइव्P_1,16.24अब्। तीथिनक्षत्रयोगानामाधारं सार्वकामिकम् ॥ Śइव्P_1,16.24च्द्। तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ॥ Śइव्P_1,16.25अब्। उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् ॥ Śइव्P_1,16.25च्द्। तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ॥ Śइव्P_1,16.26अब्। पूर्वभागः पित्ःणां तु निशि युक्तः प्रशस्यते ॥ Śइव्P_1,16.26च्द्। परभागस्तु देवानां दिवा युक्तः प्रशास्यते ॥ Śइव्P_1,16.27अब्। उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ Śइव्P_1,16.27च्द्। देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः ॥ Śइव्P_1,16.28अब्। सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् ॥ Śइव्P_1,16.28च्द्। पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना ॥ Śइव्P_1,16.29अब्। पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा ॥ Śइव्P_1,16.29च्द्। मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् ॥ Śइव्P_1,16.30अब्। पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः ॥ Śइव्P_1,16.30च्द्। नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते ॥ Śइव्P_1,16.31अब्। नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ॥ Śइव्P_1,16.31च्द्। तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् ॥ Śइव्P_1,16.32अब्। महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ॥ Śइव्P_1,16.32च्द्। पक्षपापक्षयकरी पक्षभोगफलप्रदा ॥ Śइव्P_1,16.33अब्। चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ॥ Śइव्P_1,16.33च्द्। वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्रके ॥ Śइव्P_1,16.34अब्। श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ॥ Śइव्P_1,16.34च्द्। माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ॥ Śइव्P_1,16.35अब्। ज्येष्ठभाद्रकसौम्ये च द्वादश्यां श्रवर्णक्षके ॥ Śइव्P_1,16.35च्द्। द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः ॥ Śइव्P_1,16.36अब्। श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ॥ Śइव्P_1,16.36च्द्। गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम् ॥ Śइव्P_1,16.37अब्। तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ॥ Śइव्P_1,16.37च्द्। द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः ॥ Śइव्P_1,16.38अब्। षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ॥ Śइव्P_1,16.38च्द्। एवं च सर्वदेवानां तत्तद्द्वादशनामकैः ॥ Śइव्P_1,16.39अब्। द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ॥ Śइव्P_1,16.39च्द्। कर्कटे सोमवारे च नवम्यां मृगशीर्षके ॥ Śइव्P_1,16.40अब्। अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् ॥ Śइव्P_1,16.40च्द्। आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा ॥ Śइव्P_1,16.41अब्। आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ Śइव्P_1,16.41च्द्। आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते ॥ Śइव्P_1,16.42अब्। माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ॥ Śइव्P_1,16.42च्द्। आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ॥ Śइव्P_1,16.43अब्। ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ॥ Śइव्P_1,16.43च्द्। मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः ॥ Śइव्P_1,16.44अब्। तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ॥ Śइव्P_1,16.44च्द्। शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् ॥ Śइव्P_1,16.45अब्। वारादिदेवयजनं कार्तिके हि विशिष्यते ॥ Śइव्P_1,16.45च्द्। कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः ॥ Śइव्P_1,16.46अब्। दानेन तपसा होमैर्जपेन नियमेन च ॥ Śइव्P_1,16.46च्द्। षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ॥ Śइव्P_1,16.47अब्। ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ॥ Śइव्P_1,16.47च्द्। कार्तिके देवयजनं सर्वभोगप्रदं भवेत् ॥ Śइव्P_1,16.48अब्। व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ॥ Śइव्P_1,16.48च्द्। कार्तिकादित्यवारेषु नृणामादित्यपूजनात् ॥ Śइव्P_1,16.49अब्। तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः ॥ Śइव्P_1,16.49च्द्। हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ॥ Śइव्P_1,16.50अब्। ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् ॥ Śइव्P_1,16.50च्द्। दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् ॥ Śइव्P_1,16.51अब्। कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ॥ Śइव्P_1,16.51च्द्। महादारिद्र्यशमनं सर्वसंपत्करं भवेत् ॥ Śइव्P_1,16.52अब्। गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ॥ Śइव्P_1,16.52च्द्। कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् ॥ Śइव्P_1,16.53अब्। दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ॥ Śइव्P_1,16.53च्द्। कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् ॥ Śइव्P_1,16.54अब्। दध्योदनस्य दानं च सत्संतानकरं भवेत् ॥ Śइव्P_1,16.54च्द्। कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः ॥ Śइव्P_1,16.55अब्। मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ॥ Śइव्P_1,16.55च्द्। कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात् 1 ॥ Śइव्P_1,16.56अब्। गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ॥ Śइव्P_1,16.56च्द्। वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः ॥ Śइव्P_1,16.57अब्। कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम् ॥ Śइव्P_1,16.57च्द्। दिग्गजानां च नागानां सेतुपानां च पूजनम् ॥ Śइव्P_1,16.58अब्। गजकोमेडो गजवक्त्रः त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च ॥ Śइव्P_1,16.58च्द्। ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा ॥ Śइव्P_1,16.59अब्। रोगापमृत्युहरणं तत्कालव्याधिशांतिदम् ॥ Śइव्P_1,16.59च्द्। लवणायसतैलानां माषादीनां च दानतः ॥ Śइव्P_1,16.60अब्। त्रिकटुफलगंधानां जलादीनां च दानतः ॥ Śइव्P_1,16.60च्द्। द्रवाणां कठिनानां च प्रस्थेन पलमानतः ॥ Śइव्P_1,16.61अब्। स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ॥ Śइव्P_1,16.61च्द्। शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये ॥ Śइव्P_1,16.62अब्। शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते ॥ Śइव्P_1,16.62च्द्। विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते ॥ Śइव्P_1,16.63अब्। मार्गशीर्षे ऽन्नदस्यैव सर्वमिष्टफलं भवेत् ॥ Śइव्P_1,16.63च्द्। पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च ॥ Śइव्P_1,16.64अब्। सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ॥ Śइव्P_1,16.64च्द्। इहामुत्र महाभोगानंते योगं च शाश्वतम् ॥ Śइव्P_1,16.65अब्। वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ॥ Śइव्P_1,16.65च्द्। मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा ॥ Śइव्P_1,16.66अब्। यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ॥ Śइव्P_1,16.66च्द्। यावत्संगवकालं तु धनुर्मासो विधीयते ॥ Śइव्P_1,16.67अब्। धनुर्मासे निराहारो मासमात्रं जितेंद्रियः ॥ Śइव्P_1,16.67च्द्। आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् ॥ Śइव्P_1,16.68अब्। पञ्चाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत् ॥ Śइव्P_1,16.68च्द्। ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात् ॥ Śइव्P_1,16.69अब्। अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ॥ Śइव्P_1,16.69च्द्। सदा पञ्चाक्षरस्यैव विशुद्धं ज्ञानमाप्यते ॥ Śइव्P_1,16.70अब्। इष्टमन्त्रान्सदाजप्त्वा महापापक्षयं लभेत् ॥ Śइव्P_1,16.70च्द्। धनुर्मासे विशेषेण महानैवेद्यमाचरेत् ॥ Śइव्P_1,16.71अब्। शालितंडुलभारेण मरीचप्रस्थकेन च ॥ Śइव्P_1,16.71च्द्। गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि ॥ Śइव्P_1,16.72अब्। द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च ॥ Śइव्P_1,16.72च्द्। घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः ॥ Śइव्P_1,16.73अब्। द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ॥ Śइव्P_1,16.73च्द्। नारिकेलफलादीनां तथा गणनया सह ॥ Śइव्P_1,16.74अब्। द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ॥ Śइव्P_1,16.74च्द्। कर्पूरखुरचूर्णेन पञ्चसौगंधिकैर्युतम् ॥ Śइव्P_1,16.75अब्। तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम् ॥ Śइव्P_1,16.75च्द्। महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् ॥ Śइव्P_1,16.76अब्। वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ॥ Śइव्P_1,16.76च्द्। एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् ॥ Śइव्P_1,16.77अब्। महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ॥ Śइव्P_1,16.77च्द्। महानैवेद्यदानेन सहस्रेण द्विजर्षभाः ॥ Śइव्P_1,16.78अब्। सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ॥ Śइव्P_1,16.78च्द्। सहस्राणां च त्रिंशत्या महानैवेद्यदानतः ॥ Śइव्P_1,16.79अब्। तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ॥ Śइव्P_1,16.79च्द्। सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् ॥ Śइव्P_1,16.80अब्। तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते ॥ Śइव्P_1,16.80च्द्। महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते ॥ Śइव्P_1,16.81अब्। जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ॥ Śइव्P_1,16.81च्द्। ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् ॥ Śइव्P_1,16.82अब्। संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते ॥ Śइव्P_1,16.82च्द्। अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् ॥ Śइव्P_1,16.83अब्। मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च ॥ Śइव्P_1,16.83च्द्। मेलनेचशनेर्वापितावत्साहस्रमाचरेत् ॥ Śइव्P_1,16.84अब्। जन्मनैवेद्यदानेनजन्मार्पणफलंलभेत् ॥ Śइव्P_1,16.84च्द्। जन्मार्पणाच्छिवः प्रीतिःस्वसायुज्यंददातिहि ॥ Śइव्P_1,16.85अब्। इदंतज्जन्मनैवेद्यंशिवस्यैवप्रदापयेत् ॥ Śइव्P_1,16.85च्द्। योनिलिंगस्वरूपेणशिवोजन्मानिरूपकः ॥ Śइव्P_1,16.86अब्। तस्माज्जन्मनिवृत्त्यर्थंजन्म पूजा शिवस्य हि ॥ Śइव्P_1,16.86च्द्। बिंदुनादात्मकंसर्वंजगत्स्थावरजंगमम् ॥ Śइव्P_1,16.87अब्। बिंदुःशक्तिःशिवोनादःशिवशक्त्यात्मकंजगत् ॥ Śइव्P_1,16.87च्द्। नादाधारमिदंबिंदुर्बिंद्वाधारमिदं जगत् ॥ Śइव्P_1,16.88अब्। जगदाधारभूतौहिबिंदुनादौ व्यवस्थितौ ॥ Śइव्P_1,16.88च्द्। विन्दुनादयुतंसर्वंसकलीकरणंभवेत् ॥ Śइव्P_1,16.89अब्। सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ॥ Śइव्P_1,16.89च्द्। बिंदुनादात्मकंलिंगंजगत्कारणमुच्यते ॥ Śइव्P_1,16.90अब्। बिंदुर्देर्वीशिवोनादःशिवलिंगंतुकथ्यते ॥ Śइव्P_1,16.90च्द्। तस्माज्जन्मनिवृत्त्यर्थंशिवलिंगंप्रपूजयेत् ॥ Śइव्P_1,16.91अब्। मातादेवीबिंदुरूपानादरूपः शिवः पिता ॥ Śइव्P_1,16.91च्द्। पूजिताभ्यांपितृभ्यांतुपरमानंद एव हि ॥ Śइव्P_1,16.92अब्। परमानंदलाभार्थंशिवलिंगंप्रपूजयेत् ॥ Śइव्P_1,16.92च्द्। सादेवीजगतांमातासशिवोजगतः पिता ॥ Śइव्P_1,16.93अब्। पित्रोः शुश्रूषकेनित्यंकृपाधिक्यं हि वर्धते ॥ Śइव्P_1,16.93च्द्। कृपयांतर्गतैश्वर्यंपूजकस्यददातिहि ॥ Śइव्P_1,16.94अब्। तस्मादंतर्गतानंदलाभार्थंमुनिपुंगवाः ॥ Śइव्P_1,16.94च्द्। पितृमातृस्वरूपेणशिवलिंगंप्रपूजयेत् ॥ Śइव्P_1,16.95अब्। भर्गः पुरुषरूपो हि भर्गाप्रकृतिरुच्यते ॥ Śइव्P_1,16.95च्द्। अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते ॥ Śइव्P_1,16.96अब्। सुव्यक्तांतरधिष्ठानंगर्भः प्रकृतिरुच्यते ॥ Śइव्P_1,16.96च्द्। पुरुषत्वादिगर्भोहिगर्भवाञ्जनकोयतः ॥ Śइव्P_1,16.97अब्। पुरुषात्प्रकृतोयुक्तंप्रथमंजन्मकथ्यते ॥ Śइव्P_1,16.97च्द्। प्रकृतेर्व्यक्ततांयातंद्वितीयं जन्म कथ्यते ॥ Śइव्P_1,16.98अब्। जन्मजंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ॥ Śइव्P_1,16.98च्द्। अन्यतोभाव्यते ऽवश्यंमाययाजन्मकथ्यते ॥ Śइव्P_1,16.99अब्। जीर्यतेजन्मकालाद्यत्तस्माज्जीव इति स्मृतः ॥ Śइव्P_1,16.99च्द्। जन्मतेतन्यते पाशैर्जीवशब्दार्थ एव हि ॥ Śइव्P_1,16.100अब्। जन्मपाशनिवृत्त्यर्थंजन्मलिंगंप्रपूजयेत् ॥ Śइव्P_1,16.100च्द्। भं वृद्धिं गच्छतीत्यर्थाद्भगःप्रकृतिरुच्यते ॥ Śइव्P_1,16.101अब्। प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रियभोजनात् ॥ Śइव्P_1,16.101च्द्। भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः ॥ Śइव्P_1,16.102अब्। मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते ॥ Śइव्P_1,16.102च्द्। भगवान्भोगदाताहिना ऽन्योभोगप्रदायकः ॥ Śइव्P_1,16.103अब्। भगस्वामीचभगवान्भर्ग इत्युच्यतेबुधैः ॥ Śइव्P_1,16.103च्द्। भगेनसहितंलिंगं भगंलिंगेनसंयुतम् ॥ Śइव्P_1,16.104अब्। इहामुत्रचभोगार्थंनित्यभोगार्थमेव च ॥ Śइव्P_1,16.104च्द्। भगवंतंमहादेवं शिवलिंगंप्रपूजयेत् ॥ Śइव्P_1,16.105अब्। लोकप्रसवितासूर्यस्तच्चिह्नं प्रसवाद्भवेत् ॥ Śइव्P_1,16.105च्द्। लिंगेप्रसूतिकर्तारंलिंगिनंपुरुषोयजेत् ॥ Śइव्P_1,16. 106अब्। लिंगार्थगमकंचिह्नंलिंगमित्यभिधीयते ॥ Śइव्P_1,16.106च्द्। लिंगमर्थंहिपुरुषं शिवंगमयतीत्यदः ॥ Śइव्P_1,16.107अब्। शिवशक्त्योश्चचिह्नस्यमेलनंलिंगमुच्यते ॥ Śइव्P_1,16.107च्द्। स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते ॥ Śइव्P_1,16.108अब्। चिह्नकार्यंतुजन्मादिजन्माद्यंविनिवर्तते ॥ Śइव्P_1,16.108च्द्। प्राकृतैः पुरुषैश्चापिबाह्याभ्यंतरसंभवैः ॥ Śइव्P_1,16.109अब्। षोडशैरुपचारैश्च शिवलिंगंप्रपूजयेत् ॥ Śइव्P_1,16.109च्द्। एवमादित्यवारेहिपूजाजन्मनिवर्तिका ॥ Śइव्P_1,16.110अब्। आदिवारेमहालिंगंप्रणवेनैवपूजयेत् ॥ Śइव्P_1,16.110च्द्। आदिवारे पञ्चगव्यैरभिषेको विशिष्यते ॥ Śइव्P_1,16.111अब्। गोमयंगोजलंक्षीरंदध्याज्यं पञ्चगव्यकम् ॥ Śइव्P_1,16.111च्द्। क्षीराद्यंचपृथक्च्चैवमधुनाचेक्षुसारकैः ॥ Śइव्P_1,16.112अब्। गव्यक्षीरान्ननैवेद्यंप्रणवेनैवकारयेत् ॥ Śइव्P_1,16.112च्द्। प्रणवंध्वनिलिंगंतुनादलिंगंस्वयंभुवः ॥ Śइव्P_1,16.113अब्। बिंदुलिंगं तु यंत्रंस्यान्मकारंतुप्रतिष्ठितम् ॥ Śइव्P_1,16.113च्द्। उकारंचरलिंगंस्यादकारंगुरुविग्रहम् ॥ Śइव्P_1,16.114अब्। षड्लिंगपूजयानित्यंजीवन्मुक्तोनसंशयः ॥ Śइव्P_1,16.114च्द्। शिवस्यभक्त्यापूजा हि जन्ममुक्तिकरीनृणाम् ॥ Śइव्P_1,16.115अब्। रुद्राक्षधारणात्पादमर्धं वैभूतिधारणात् ॥ Śइव्P_1,16.115च्द्। त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान् ॥ Śइव्P_1,16.116अब्। शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः ॥ Śइव्P_1,16.116च्द्। य इमं पठते ऽध्यायं शृणुयाद्वा समाहितः ॥ Śइव्P_1,16.117अब्। तस्यैव शिवभक्तिश्च वर्धतेसुदृढा द्विजाः ॥ Śइव्P_1,16.117च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशो ऽध्यायः Cहप्तेर् 17 ऋषय ऊचुः प्रणवस्यचमाहात्म्यंषड्लिंगस्यमहामुने ॥ Śइव्P_1,17.1अब्। शिवभक्तस्यपूजांचक्रमशोब्रूहिनःप्रभो ॥ Śइव्P_1,17.1च्द्। सूत उवाच तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः ॥ Śइव्P_1,17.2अब्। अस्योत्तरंमहादेवोजानातिस्मनचापरः ॥ Śइव्P_1,17.2च्द्। अथापिवक्ष्येतमहंशिवस्यकृपयैवहि ॥ Śइव्P_1,17.3अब्। शिवो ऽस्माकंचयुष्माकंरक्षांगृह्णातुभूरिशः ॥ Śइव्P_1,17.3च्द्। प्रोहिप्रकृतिजातस्यसंसारस्यमहोदधेः ॥ Śइव्P_1,17.4अब्। नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ॥ Śइव्P_1,17.4च्द्। प्रःप्रपञ्चोननास्तिवो युष्माकंप्रणवंविदुः ॥ Śइव्P_1,17.5अब्। प्रकर्षेणनयेद्यस्मान्मोक्षंवः प्रणवं विदुः ॥ Śइव्P_1,17.5च्द्। स्वजापकानांयोगिनांस्वमंत्रपूजकस्यच ॥ Śइव्P_1,17.6अब्। सर्वकर्मक्षयंकृत्वादिव्यज्ञानंतुनूतनम् ॥ Śइव्P_1,17.6च्द्। तमेव मायारहितं नूतनं परिचक्षते ॥ Śइव्P_1,17.7अब्। प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥ Śइव्P_1,17.7च्द्। नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ॥ Śइव्P_1,17.8अब्। प्रणवंद्विविधंप्रोक्तंसूक्ष्मस्थूलविभेदतः ॥ Śइव्P_1,17.8च्द्। सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पञ्चाक्षरं विदुः ॥ Śइव्P_1,17.9अब्। सूक्ष्ममव्यक्तपञ्चार्णं सुव्यक्तार्णं तथेतरत् ॥ Śइव्P_1,17.9च्द्। जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्यहि ॥ Śइव्P_1,17.10अब्। मंत्रेणार्थानुसंधानं स्वदेहविलयावधि ॥ Śइव्P_1,17.10च्द्। स्वदेहेगलितेपूर्णंशिवंप्राप्नोतिनिश्चयः ॥ Śइव्P_1,17.11अब्। केवलंमंत्रजापीतुयोगंप्राप्नोतिनिश्चयः ॥ Śइव्P_1,17.11च्द्। षट्त्रिंशत्कोटिजापीतुनिश्चयंयोगमाप्नुयात् ॥ Śइव्P_1,17.12अब्। सूक्ष्मंचद्विविधंज्ञेयंह्रस्वदीर्घविभेदतः ॥ Śइव्P_1,17.12च्द्। अकारश्च उकारश्चमकारश्चततःपरम् ॥ Śइव्P_1,17.13अब्। बिंदुनादयुतं तद्धि शब्दकालकलान्वितम् ॥ Śइव्P_1,17.13च्द्। दीर्घप्रणवमेवंहियोगिनामेवहृद्गतम् ॥ Śइव्P_1,17.14अब्। मकारंतंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते ॥ Śइव्P_1,17.14च्द्। शिवःशक्तिस्तयोरैक्यंमकारंतुत्रिकात्मकम् ॥ Śइव्P_1,17.15अब्। ह्रस्वमेवंहिजाप्यंस्यात्सर्वपापक्षयैषिणाम् ॥ Śइव्P_1,17.15च्द्। भूवायुकनकार्णोद्योःशब्दाद्याश्चतथादश ॥ Śइव्P_1,17.16अब्। आशान्वयेदशपुनः प्रवृत्ता इतिकथ्यते ॥ Śइव्P_1,17.16च्द्। ह्रस्वमेवप्रवृत्तानांनिवृत्तानांतुदीर्घकम् ॥ Śइव्P_1,17.17अब्। व्याहृत्यादौचमंत्रादौकामंशब्दकलायुतम् ॥ Śइव्P_1,17.17च्द्। वेदादौचप्रयोज्यंस्याद्वंदनेसंध्ययोरपि ॥ Śइव्P_1,17.18अब्। नवकौटिजपाञ्जप्त्वासंशुद्धःपुरुषोभवेत् ॥ Śइव्P_1,17.18च्द्। पुनश्चनवकोट्यातुपृथिवीजयमाप्नुयात् ॥ Śइव्P_1,17.19अब्। पुनश्चनवकोट्यातुह्यपांजयमवाप्नुयात् ॥ Śइव्P_1,17.19च्द्। पुनश्चनवकोट्यातुतेजसांजयमाप्नुयात् ॥ Śइव्P_1,17.20अब्। पुनश्चनवकोट्या तु वायोर्जयमवाप्नुयात् ॥ Śइव्P_1,17.20च्द्। आकाशजयमाप्नोति नवकोटिजपेन वै ॥ Śइव्P_1,17.20एf। गंधादीनांक्रमेणैवनवकोटिजपेणवै ॥ Śइव्P_1,17.21अब्। अहंकारस्य च पुनर्नव कोटिजपेन वै ॥ Śइव्P_1,17.21च्द्। सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान् ॥ Śइव्P_1,17.22अब्। ततः परंस्वसिद्ध्यर्थंजपोभवतिहिद्विजाः ॥ Śइव्P_1,17.22च्द्। एवमष्टोत्तरशतकोटिजप्तेनवैपुनः ॥ Śइव्P_1,17.23अब्। प्रणवेनप्रबुद्धस्तुशुद्धयोगमवाप्नुयात् ॥ Śइव्P_1,17.23च्द्। शुद्धयोगेनसंयुक्तोजीवन्मुक्तोनसंशयः ॥ Śइव्P_1,17.24अब्। सदाजपन्सदाध्यायञ्छिवं प्रणवरूपिणम् ॥ Śइव्P_1,17.24च्द्। समाधिस्थोमहायोगीशिव एव नसंशयः ॥ Śइव्P_1,17.25अब्। ऋषिच्छंदोदेवतादिन्यस्यदेहेपुनर्जपेत् ॥ Śइव्P_1,17.25च्द्। प्रणवं मातृकायुक्तंदेहेत्यस्य ऋषिर्भवेत् ॥ Śइव्P_1,17.26अब्। दशमातृषडध्वादि सर्वंन्यासफलं लभेत् ॥ Śइव्P_1,17.26च्द्। प्रवृत्तानां चमिश्राणांस्थूलप्रणवमिष्यते ॥ Śइव्P_1,17.27अब्। क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ॥ Śइव्P_1,17.27च्द्। धनादिविभवैश्चैवकराद्यंगैर्नमादिभिः ॥ Śइव्P_1,17.28अब्। क्रियया पूजयायुक्तःक्रियायोगीति कथ्यते ॥ Śइव्P_1,17.28च्द्। पूजायुक्तश्चमितभुग्बाह्यंद्रियजयान्वितः ॥ Śइव्P_1,17.29अब्। परद्रोहादिरहितस्तपोयोगीति कथ्यते ॥ Śइव्P_1,17.29च्द्। एतैर्युक्तःसदाक्रुद्धःसर्वकामादिवर्जितः ॥ Śइव्P_1,17.30अब्। सदाजपपरःशांतोजपयोगीति तंविदुः ॥ Śइव्P_1,17.30च्द्। उपचारैः षोडशभिः पूजया शिवयोगिनाम् ॥ Śइव्P_1,17.31अब्। सालोक्यादिक्रमेणैवशुद्धोमुक्तिंलभेन्नरः ॥ Śइव्P_1,17.31च्द्। जपयोगमथोवक्ष्येगदतः शृणुतद्विजाः ॥ Śइव्P_1,17.32अब्। तपःकर्तुर्जपः प्रोक्तोयज्जमन्परिमार्जते ॥ Śइव्P_1,17.32च्द्। शिवनामनमःपूर्वंचतुर्थ्यांपञ्चतत्त्वकम् ॥ Śइव्P_1,17.33अब्। स्थूलप्रणवरूपं हि शिवपञ्चाक्षरं द्विजाः ॥ Śइव्P_1,17.33च्द्। पञ्चाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ॥ Śइव्P_1,17.34अब्। प्रणवेनादिसंयुक्तंसदापञ्चाक्षरंजपेत् ॥ Śइव्P_1,17.34च्द्। गुरूपदेशंसंगम्यसुखवासेसुभूतले ॥ Śइव्P_1,17.35अब्। पूर्वपक्षेसमारभ्यकृष्णभूतावधिद्विजाः ॥ Śइव्P_1,17.35च्द्। माघंभाद्रंविशिष्टंतुसर्वकालोत्तमोत्तमम् ॥ Śइव्P_1,17.36अब्। एकवारंमिताशीतुवाग्यतोनियतेंद्रियः ॥ Śइव्P_1,17.36च्द्। स्वस्यराजपित्ःणांचशुश्रूषणंचनित्यशः ॥ Śइव्P_1,17.37अब्। सहस्रजपमात्रेणभवेच्छुद्धो ऽन्यथा ऋणी ॥ Śइव्P_1,17.37च्द्। पञ्चाक्षरंपञ्चलक्षंजपेच्छिवमनुस्मरन् ॥ Śइव्P_1,17.38अब्। पद्मासनस्थंशिवदंगंगाचंद्रकलान्वितम् ॥ Śइव्P_1,17.38च्द्। वामोरुस्थितशक्त्याचविराजंतंमहागणैः ॥ Śइव्P_1,17.39अब्। मृगटंकधरंदेवंवरदाभयपाणिकम् ॥ Śइव्P_1,17.39च्द्। सदानुग्रहकर्तारं सदाशिवमनुस्मरन् ॥ Śइव्P_1,17.40अब्। संपूज्यमनसा पूर्वंहृदिवासूर्यमंडले ॥ Śइव्P_1,17.40च्द्। जपेत्पञ्चाक्षरींविद्यांप्राङ्मुखः शुद्धकर्मकृत् ॥ Śइव्P_1,17.41अब्। प्रातःकृष्णचतुर्दश्यां नित्यकर्मसमाप्यच ॥ Śइव्P_1,17.41च्द्। मनोरमेशुचौदेशेनियतः शुद्धमानसः ॥ Śइव्P_1,17.42अब्। पञ्चाक्षरस्यमंत्रस्य सहस्रंद्वादशंजपेत् ॥ Śइव्P_1,17.42च्द्। वरयेच्चसपत्नीकाञ्छैवान्वैब्राह्मणोत्तमान् ॥ Śइव्P_1,17.43अब्। एकंगुरुवरंशिष्टंवरयेत्सांबमूर्तिकम् ॥ Śइव्P_1,17.43च्द्। ईशानंचाथपुरुषमघोरंवाममेव च ॥ Śइव्P_1,17.44अब्। सद्योजातं चपञ्चैवशिवभक्तान्द्विजोत्तमान् ॥ Śइव्P_1,17.44च्द्। पूजाद्रव्याणिसंपाद्यशिवपूजांसमारभेत् ॥ Śइव्P_1,17.45अब्। शिवपूजांचविधिवत्कृत्वाहोमंसमारभेत् ॥ Śइव्P_1,17.45च्द्। मुखांतं च स्वसूत्रेणकृत्याहोमंसमारभेत् ॥ Śइव्P_1,17.46अब्। दशैकंवाशतैकंवासहस्रैकमथापिवा ॥ Śइव्P_1,17.46च्द्। कापिलेनघृतेनैवजुहुयात्स्वयमेवहि ॥ Śइव्P_1,17.47अब्। कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतंबुधः ॥ Śइव्P_1,17.47च्द्। होमान्ते दक्षिणादेयागुरोर्गोमिथुनं तथा ॥ Śइव्P_1,17.48अब्। ईशानादिस्वरूपांस्तान्गुरुंसांबंविभाव्य च ॥ Śइव्P_1,17.48च्द्। तेषां पत्सिक्ततोयेनस्वशिरः स्नानमाचरेत् ॥ Śइव्P_1,17.49अब्। षट्त्रिंशत्कोटितीर्थेषुसद्यःस्नानफलंलभेत् ॥ Śइव्P_1,17.49च्द्। दशांगमन्नंतेषां वैदद्याद्वैभक्तिपूर्वकम् ॥ Śइव्P_1,17.50अब्। पराबुद्ध्यागुरोः पत्नीमीशानादिक्रमेण तु ॥ Śइव्P_1,17.50च्द्। परमान्नेनसंपूज्ययथाविभवविस्तरम् ॥ Śइव्P_1,17.51अब्। रुद्राक्षवस्त्रपूर्वंचवटकापूपकैर्युतम् ॥ Śइव्P_1,17.51च्द्। बलिदानंततः कृत्वाभूरिभोजनमाचरेत् ॥ Śइव्P_1,17.52अब्। ततः संप्रार्थ्यदेवेशंजपंतावत्समापयेत् ॥ Śइव्P_1,17.52च्द्। पुरश्चरणमेवंतुकृत्वामन्त्रीभवेन्नरः ॥ Śइव्P_1,17.53अब्। पुनश्चपञ्च लक्षेणसर्वपापक्षयोभवेत् ॥ Śइव्P_1,17.53च्द्। अतलादिसमारभ्यसत्यलोकावधिक्रमात् ॥ Śइव्P_1,17.54अब्। पञ्चलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ॥ Śइव्P_1,17.54च्द्। मध्येमृतश्चेद्भोगांतेभूमौतज्जापकोभवेत् ॥ Śइव्P_1,17.55अब्। पुनश्चपञ्चलक्षेणब्रह्मसामीप्यमाप्नुयात् ॥ Śइव्P_1,17.55च्द्। पुनश्चपञ्चलक्षेण सारूप्यैश्वर्यमाप्नुयात् ॥ Śइव्P_1,17.56अब्। आहत्यशतलक्षेणसाक्षाद्ब्रह्मसमोभवेत् ॥ Śइव्P_1,17.56च्द्। कार्यब्रह्मण एवं हि सायुज्यंप्रतिपद्य वै ॥ Śइव्P_1,17.57अब्। यथेष्टंभोगमाप्नोतितद्ब्रह्मप्रलयावधि ॥ Śइव्P_1,17.57च्द्। पुनः कल्पांतरेवृत्ते ब्रह्मपुत्रः सजायते ॥ Śइव्P_1,17.58अब्। पुनश्चतपसादीप्तःक्रमान्मुक्तोभविष्यति ॥ Śइव्P_1,17.58च्द्। पृथ्व्यादिकार्यभूतेभ्योलोकावैनिर्मिताःक्रमात् ॥ Śइव्P_1,17.59अब्। पातालादि च सत्यांतंब्रह्मलोकाश्चतुर्दश ॥ Śइव्P_1,17.59च्द्। सत्यादूर्ध्वंक्षमांतंवैविष्णुलोकाश्चतुर्दश ॥ Śइव्P_1,17.60अब्। क्षमलोकेकार्यविष्णुर्वैकुंठेवरपत्तने ॥ Śइव्P_1,17.60च्द्। कार्यलक्ष्म्यामहाभोगिरक्षांकृत्वा ऽधितिष्ठति ॥ Śइव्P_1,17.61अब्। तदूर्ध्वगाश्चाशुच्यंतालोकाष्टाविंशतिः स्थिताः ॥ Śइव्P_1,17.61च्द्। शुचौलोकेतुकैलासेरुद्रोवैभूतहृत्स्थितः ॥ Śइव्P_1,17.62अब्। षडुत्तराश्चपञ्चाशदहिंसांतास्तदूर्ध्वगाः ॥ Śइव्P_1,17.62च्द्। अहिंसालोकमास्थायज्ञानकैलासकेपुरे ॥ Śइव्P_1,17.63अब्। कार्येश्वरस्तिरोभावंसर्वान्कृत्वाधितिष्ठति ॥ Śइव्P_1,17.63च्द्। तदंतेकालचक्रंहिकालातीतस्ततःपरम् ॥ Śइव्P_1,17.64अब्। शिवेनाधिष्ठितस्तत्रकालश्चक्रेश्वराह्वयः ॥ Śइव्P_1,17.64च्द्। माहिषं धर्ममास्थायसर्वान्कालेन युंजति ॥ Śइव्P_1,17.65अब्। असत्यश्चाशुचिश्चैव हिंसाचैवाथनिर्घृणा ॥ Śइव्P_1,17.65च्द्। असत्यादिचतुष्पादःसर्वांशः कामरूपधृक् ॥ Śइव्P_1,17.66अब्। नास्तिक्यलक्ष्मीर्दुःसंगोवेदबाह्यध्वनिःसदा ॥ Śइव्P_1,17.66च्द्। क्रोधसंगःकृष्णवर्णोमहामहिषवेषवान् ॥ Śइव्P_1,17.67अब्। तावन्महेश्वरःप्रोक्तस्तिरोधास्तावदेव हि ॥ Śइव्P_1,17.67च्द्। तदर्वाक्कर्मभोगो हि तदूर्ध्वंज्ञानभोगकम् ॥ Śइव्P_1,17.68अब्। तदर्वाक्कर्म मायाहिज्ञानमाया तदूर्ध्वकम् ॥ Śइव्P_1,17.68च्द्। मा लक्ष्मीः कर्मभोगोवैयातिमायेतिकथ्यते ॥ Śइव्P_1,17.69अब्। मा लक्ष्मीर्ज्ञानभोगोवैयातिमायेतिकथ्यते ॥ Śइव्P_1,17.69च्द्। तदूर्ध्वंनित्यभोगोहितदर्वाङ्नश्वरंविदुः ॥ Śइव्P_1,17.70अब्। तदर्वाक्चतिरोधानंतदूर्ध्वंनतिरोधनम् ॥ Śइव्P_1,17.70च्द्। तदर्वाक्पाशबंधोहितदूर्ध्वंनहिबंधनम् ॥ Śइव्P_1,17.71अब्। तदर्वाक्परिवर्तंतेकाम्यकर्मानुसारिणः ॥ Śइव्P_1,17.71च्द्। निष्कामकर्मभोगस्तुतदूर्ध्वंपरिकीर्तितः ॥ Śइव्P_1,17.72अब्। तदर्वाक्परिवर्तंतेबिंदुपूजापरायणाः ॥ Śइव्P_1,17.72च्द्। तदूर्ध्वंहिव्रजंत्येवनिष्कामालिंगपूजकाः ॥ Śइव्P_1,17.73अब्। तदर्वाक्परिवर्तंतंशिवान्यसुरपूजकाः ॥ Śइव्P_1,17.73च्द्। शिवैकनिरताये च तदूर्ध्वंसंप्रयांतिते ॥ Śइव्P_1,17.74अब्। तदर्वाग्जीवकोटिःस्यात्तदूर्ध्वंपरकोटिकाः ॥ Śइव्P_1,17.74च्द्। सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः ॥ Śइव्P_1,17.75अब्। तदर्वाक्परिवर्तंते प्राकृतद्रव्यपूजकाः ॥ Śइव्P_1,17.75च्द्। तदूर्ध्वंहिव्रजंत्येतेपौरुषद्रव्यपूजकाः ॥ Śइव्P_1,17.76अब्। तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ॥ Śइव्P_1,17.76च्द्। तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति ॥ Śइव्P_1,17.77अब्। तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ॥ Śइव्P_1,17.77च्द्। तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् ॥ Śइव्P_1,17. 78अब्। तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ॥ Śइव्P_1,17.78च्द्। तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् ॥ Śइव्P_1,17.79अब्। तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ॥ Śइव्P_1,17.79च्द्। नमस्कारस्तदूर्ध्वंहिमदाहंकारनाशनः ॥ Śइव्P_1,17.80अब्। जनिजंतिरोधानंनानिषिद्ध्यातते इति ॥ Śइव्P_1,17.80च्द्। ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् ॥ Śइव्P_1,17.81अब्। तदर्वाक्परिवर्तंतेह्याधिभौतिकपूजकाः ॥ Śइव्P_1,17.81च्द्। आध्यात्मिकार्चका एव तदूर्ध्वंसंप्रयांतिवै ॥ Śइव्P_1,17.82अब्। तावद्वैवेदिभागंतन्महालोकात्मलिंगके ॥ Śइव्P_1,17.82च्द्। प्रकृत्याद्यष्टबंधोपिवेद्यंतेसंप्रतिष्ठतः ॥ Śइव्P_1,17.83अब्। एवमेतादृशंज्ञेयंसर्वंलौकिकवैदिकम् ॥ Śइव्P_1,17.83च्द्। अधर्ममहिषारूढंकालचक्रंतरंतिते ॥ Śइव्P_1,17.84अब्। सत्यादिधर्मयुक्तायेशिवपूजापराश्चये ॥ Śइव्P_1,17.84च्द्। तदूर्ध्वंवृषभोधर्मोब्रह्मचर्यस्वरूपधृक् ॥ Śइव्P_1,17.85अब्। सत्यादिपादयुक्तस्तुशिवलोकाग्रतःस्थितः ॥ Śइव्P_1,17.85च्द्। क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः ॥ Śइव्P_1,17.86अब्। आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ॥ Śइव्P_1,17.86च्द्। क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा ॥ Śइव्P_1,17.87अब्। तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति ॥ Śइव्P_1,17.87च्द्। ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते ॥ Śइव्P_1,17.88अब्। तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ॥ Śइव्P_1,17. 88च्द्। पुनः कारणसत्यांताः कारणब्रह्मणस्तथा ॥ Śइव्P_1,17.89अब्। गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ॥ Śइव्P_1,17.89च्द्। सूक्ष्मगंधस्वरूपाहिस्थितालोकाश्चतुर्दश ॥ Śइव्P_1,17.90अब्। पुनः कारणविष्णोर्वैस्थिता लोकाश्चतुर्दश ॥ Śइव्P_1,17.90च्द्। पुनःकारणरुद्रस्यलोकाष्टाविंशका मताः ॥ Śइव्P_1,17.91अब्। पुनश्चकारणेशस्यषट्पञ्चाशत्तदूर्ध्वगाः ॥ Śइव्P_1,17.91च्द्। ततः परंब्रह्मचर्यलोकाख्यं शिवसंमतम् ॥ Śइव्P_1,17.92अब्। तत्रैवज्ञानकैलासेपञ्चावरणसंयुते ॥ Śइव्P_1,17.92च्द्। पञ्चमंडलसंयुक्तंपञ्चब्रह्मकलान्वितम् ॥ Śइव्P_1,17.93अब्। आदिशक्तिसमायुक्तमादिलिंगंतुतत्रवै ॥ Śइव्P_1,17.93च्द्। शिवालयमिदंप्रोक्तंशिवस्यपरमात्मनः ॥ Śइव्P_1,17.94अब्। परशक्त्यासमायुक्तस्तत्रैवपरमेश्वरः ॥ Śइव्P_1,17.94च्द्। सृष्टिः स्थितिश्चसंहारस्तिरोभावोप्यनुग्रहः ॥ Śइव्P_1,17.95अब्। पञ्चकृत्यप्रवीणो ऽसौसच्चिदानंदविग्रहः ॥ Śइव्P_1,17.95च्द्। ध्यानधर्मः सदायस्यसदानुग्रहतत्परः ॥ Śइव्P_1,17.96अब्। समाध्यासनमासीनः स्वात्मारामोविराजते ॥ Śइव्P_1,17.96च्द्। तस्यसंदर्शनंसांध्यंकर्मध्यानादिभिः क्रमात् ॥ Śइव्P_1,17.97अब्। नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ॥ Śइव्P_1,17.97च्द्। क्रियादिशिवकर्मभ्यः शिवज्ञानंप्रसाधयेत् ॥ Śइव्P_1,17.98अब्। तद्दर्शनगताःसर्वेमुक्ता एव नसंशयः ॥ Śइव्P_1,17.98च्द्। मुक्तिरात्मस्वरूपेणस्वात्मारामत्वमेवहि ॥ Śइव्P_1,17.99अब्। क्रियातपोजपज्ञानध्यानधर्मेषुसुस्थितः ॥ Śइव्P_1,17.99च्द्। शिवस्यदर्शनंलब्धास्वात्मारामत्वमेवहि ॥ Śइव्P_1,17.100अब्। यथारविःस्वकिरणादशुद्धिमपनेष्यति ॥ Śइव्P_1,17.100च्द्। कृपाविचक्षणःशंभुरज्ञानमपनेष्यति ॥ Śइव्P_1,17.101अब्। अज्ञानविनिवृत्तौतुशिवज्ञानंप्रवर्तते ॥ Śइव्P_1,17.101च्द्। शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ॥ Śइव्P_1,17.102अब्। आत्मारामत्वसंसिद्धौकृतकृत्योभवेन्नरः ॥ Śइव्P_1,17.102च्द्। पुनश्चशतलक्षेणब्रह्मणःपदमाप्नुयात् ॥ Śइव्P_1,17.103अब्। पुनश्चशतलक्षेणविष्णोःपदमवाप्नुयात् ॥ Śइव्P_1,17.103च्द्। पुनश्चशतलक्षेणरुद्रस्यपदमाप्नुयात् ॥ Śइव्P_1,17.104अब्। पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ॥ Śइव्P_1,17.104च्द्। पुनश्चैवंविधेनैव जपेन सुसमाहितः ॥ Śइव्P_1,17.105अब्। शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् ॥ Śइव्P_1,17.105च्द्। कालचक्रंपञ्चचक्रमेकैकेनक्रमोत्तरे ॥ Śइव्P_1,17.106अब्। सृष्टिमोहौब्रह्मचक्रंभोगमोहौतुवैष्णवम् ॥ Śइव्P_1,17.106च्द्। कोपमोहौरौद्रचक्रंभ्रमणंचैश्वरंविदुः ॥ Śइव्P_1,17.107अब्। शिवचक्रंज्ञानमोहौपञ्चचक्रंविदुर्बुधाः ॥ Śइव्P_1,17.107च्द्। पुनश्चदशकोट्या हि कारणब्रह्मणः पदम् ॥ Śइव्P_1,17.108अब्। पुनश्च दशकोट्याहितत्पदैश्वर्यमाप्नुयात् ॥ Śइव्P_1,17.108च्द्। एवं क्रमेण विष्ण्वादेः पदंलब्ध्वामहौजसः ॥ Śइव्P_1,17.109अब्। क्रमेणतत्पदैश्वर्यं लब्ध्वाचैवमहात्मनः ॥ Śइव्P_1,17.109च्द्। शतकोटिमनुं जप्त्वा पञ्चोत्तरमतंद्रितः ॥ Śइव्P_1,17.110अब्। शिवलोकमवाप्नोतिपञ्चमावरणाद्बहिः ॥ Śइव्P_1,17.110च्द्। राजसंमंडपंतत्रनंदीसंस्थानमुत्तमम् ॥ Śइव्P_1,17.111अब्। तपोरूपश्चवृषभस्तत्रैवपरिदृश्यते ॥ Śइव्P_1,17.111च्द्। सद्योजातस्यतत्स्थानंपञ्चमावरणंपरम् ॥ Śइव्P_1,17.112अब्। वामदेवस्यचस्थानंचतुर्थावरणंपुनः ॥ Śइव्P_1,17.112च्द्। अघोरनिलयंपश्चात्तृतीयावरणंपरम् ॥ Śइव्P_1,17.113अब्। पुरुषस्यैवसांबस्यद्वितीयावरणंशुभम् ॥ Śइव्P_1,17.113च्द्। ईशानस्यपरस्यैवप्रथमावरणंततः ॥ Śइव्P_1,17.114अब्। ध्यानधर्मस्य च स्थानंपञ्चमंमंडपंततः ॥ Śइव्P_1,17.114च्द्। बलिनाथस्यसंस्थानंतत्रपूर्णामृतप्रदम् ॥ Śइव्P_1,17.115अब्। चतुर्थंमंडपंपश्चाच्चंद्रशेखरमूर्तिमत् ॥ Śइव्P_1,17.115च्द्। सोमस्कंदस्यचस्थानंतृतीयंमंडपंपरम् ॥ Śइव्P_1,17.116अब्। द्वितीयंमंडपंनृत्यमंडपंप्राहुरास्तिकाः ॥ Śइव्P_1,17.116च्द्। प्रथमंमूलमायायाः स्थानंतत्रैवशोभनम् ॥ Śइव्P_1,17.117अब्। ततः परं गर्भगृहंलिंगस्थानं परं शुभम् ॥ Śइव्P_1,17.117च्द्। नन्दिसंस्थानतः पश्चान्नविदुः शिववैभवम् ॥ Śइव्P_1,17.118अब्। नंदीश्वरोबहिस्तिष्ठन्पञ्चाक्षरमुपासते ॥ Śइव्P_1,17.118च्द्। एवं गुरुक्रमाल्लब्धं नंदीशाच्च मयापुनः ॥ Śइव्P_1,17.119अब्। ततः परंस्वसंवेद्यं शिवे नैवानुभावितम् ॥ Śइव्P_1,17.119च्द्। शिवस्यकृपयासाक्षाच्छिवलोकस्यवैभवम् ॥ Śइव्P_1,17.120अब्। विज्ञातुंशक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः ॥ Śइव्P_1,17.120च्द्। एवंक्रमेणमुक्ताःस्युर्ब्राह्मणावैजितेंद्रियः ॥ Śइव्P_1,17.121अब्। अन्येषां च क्रमंवक्ष्ये गदतः शृणुतादरात् ॥ Śइव्P_1,17.121च्द्। गुरूपदेशाज्जाप्यंवैब्राह्मणानांनमो ऽंतकम् ॥ Śइव्P_1,17.122अब्। पञ्चाक्षरं पञ्चलक्षमायुष्यंप्रजपेद्विधिः ॥ Śइव्P_1,17.122च्द्। स्त्रीत्वापनयनार्थंतुपञ्चलक्षंजपेत्पुनः ॥ Śइव्P_1,17.123अब्। मंत्रेणपुरुषोभूत्वाक्रमान्मुक्तोभवेद्बुधः ॥ Śइव्P_1,17.123च्द्। क्षत्रियःपञ्चलक्षेणक्षत्त्रत्वमपनेष्यति ॥ Śइव्P_1,17.124अब्। पुनश्चपञ्चलक्षेणक्षत्त्रियोब्राह्मणोभवेत् ॥ Śइव्P_1,17.124च्द्। मंत्रसिद्धिर्जपाच्चैवक्रमान्मुक्तोभवैन्नरः ॥ Śइव्P_1,17.125अब्। वैश्यस्तुपञ्चलक्षेणवैश्यत्वमपनेष्यति ॥ Śइव्P_1,17.125च्द्। पुनश्चपञ्चलक्षेणमंत्रक्षत्त्रिय उच्यते ॥ Śइव्P_1,17.126अब्। पुनश्चपञ्चलक्षेण क्षत्त्रत्वमपनेष्यति ॥ Śइव्P_1,17.126च्द्। पुनश्चपञ्चलक्षेणमंत्रब्राह्मण उच्यते ॥ Śइव्P_1,17.127अब्। शूद्रश्चैवनमोंतेन पञ्चविंशतिलक्षतः ॥ Śइव्P_1,17.127च्द्। मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः ॥ Śइव्P_1,17.128अब्। नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा ॥ Śइव्P_1,17.128च्द्। नमोन्तं वा नमः पूर्वमातुरः सर्वमातुरः सर्वदा जपेत् ॥ Śइव्P_1,17.129अब्। ततः स्त्रीणांतथैवोह्यगुरुर्निर्दर्शयेत्क्रमात् ॥ Śइव्P_1,17.129च्द्। साधकः पञ्चलक्षान्ते शिवप्रीत्यर्थमेव हि ॥ Śइव्P_1,17.130अब्। महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् ॥ Śइव्P_1,17.130च्द्। पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ॥ Śइव्P_1,17.131अब्। शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ॥ Śइव्P_1,17.131च्द्। शिवस्वरूपमंत्रस्यधारणाच्छिव एव हि ॥ Śइव्P_1,17.132अब्। शिवभक्तशरीरे हि शिवेतत्परमोभवेत् ॥ Śइव्P_1,17.132च्द्। शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियांविदुः ॥ Śइव्P_1,17.133अब्। यावद्यावच्छिवंमंत्रंयेनजप्तंभवेत्क्रमात् ॥ Śइव्P_1,17.133च्द्। तावद्वैशिवसान्निध्यं तस्मिन्देहे न संशयः ॥ Śइव्P_1,17.134अब्। देवीलिंगंभवेद्रूपं शिवभक्तस्त्रियास्तथा ॥ Śइव्P_1,17.134च्द्। यावन्मंत्रंजपेद्देव्यास्तावत्सान्निध्यमस्ति हि ॥ Śइव्P_1,17.135अब्। शिवंसंपूजयेद्धीमान्स्वयंवैशब्दरूपभाक् ॥ Śइव्P_1,17.135च्द्। स्वयंचैवशिवोभूत्वापरांशक्तिंप्रपूजयेत् ॥ Śइव्P_1,17.136अब्। शक्तिंबेरंचलिंगं च ह्यालेख्यामाययायजेत् ॥ Śइव्P_1,17.136च्द्। शिवलिंगं शिवंमत्वास्वात्मानंशक्तिरूपकम् ॥ Śइव्P_1,17.137अब्। शक्तिलिंगंचदेवींचमत्वास्वंशिवरूपकम् ॥ Śइव्P_1,17.137च्द्। शिवलिंगंनादरूपबिंदुरूपंतुशक्तिकम् ॥ Śइव्P_1,17.138अब्। उपप्रधानभावेन अन्योन्यासक्तलिंगकम् ॥ Śइव्P_1,17.138च्द्। पूजयेच्च शिवंशक्तिसशिवोमूलभावनात् ॥ Śइव्P_1,17.139अब्। शिवभक्ताञ्छिवमत्ररूपकाञ्छिवरूपकान् ॥ Śइव्P_1,17.139च्द्। षोडशैरुपचारैश्चपूजयेदिष्टमाप्नुयात् ॥ Śइव्P_1,17.140अब्। येनशुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः ॥ Śइव्P_1,17.140च्द्। आनंदंजनयेद्विद्वाञ्छिवःप्रीततरो भवेत् ॥ Śइव्P_1,17.141अब्। शिवभक्तान्सपत्नीकान्पत्न्यासहसदैवतत् ॥ Śइव्P_1,17.141च्द्। पूजयेद्भोजनाद्यैश्चपञ्चवादशवाशतम् ॥ Śइव्P_1,17.142अब्। धनेदेहेचमंत्रेचभावनायामवंचकः ॥ Śइव्P_1,17.142च्द्। शिवशक्तिस्वरूपेणनपुनर्जायते भुवि ॥ Śइव्P_1,17.143अब्। नाभेरधो ब्रह्मभागमाकंठंविष्णुभागकम् ॥ Śइव्P_1,17.143च्द्। मुखंलिंगमितिप्रोक्तंशिवभक्तशरीरकम् ॥ Śइव्P_1,17.144अब्। मृतान्दाहादियुक्तान्वादाहादिरहितान्मृतान् ॥ Śइव्P_1,17.144च्द्। उद्दिश्यपूजयेदादिपितरंशिवमेवहि ॥ Śइव्P_1,17.145अब्। पूजांकृत्वादिमातुश्चशिवभक्तांश्च पूजयेत् ॥ Śइव्P_1,17.145च्द्। पितृलोकंसमासाद्यक्रमान्मुक्तोभवेन्मृतः ॥ Śइव्P_1,17.146अब्। क्रियायुक्तदशभ्यश्चतपोयुक्तोविशिष्यते ॥ Śइव्P_1,17.146च्द्। तपोयुक्तशतेभ्यश्चजपयुक्तोविशिष्यते ॥ Śइव्P_1,17.147अब्। जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते ॥ Śइव्P_1,17.147च्द्। शिवज्ञानिषुलक्षेषु ध्यानयुक्तो विशिष्यते ॥ Śइव्P_1,17.148अब्। ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते ॥ Śइव्P_1,17.148च्द्। उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम् ॥ Śइव्P_1,17.149अब्। फलंवैशिष्ट्यरूपञ्चदुर्विज्ञेयंमनीषिभिः ॥ Śइव्P_1,17.149च्द्। तस्माद्वैशिवभक्तस्यमहिमानंवेत्तिकोनरः ॥ Śइव्P_1,17.150अब्। शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् ॥ Śइव्P_1,17.150च्द्। कुरुतेयोनरोभक्त्यासशिवः शिवमेधते ॥ Śइव्P_1,17.151अब्। य इमं पठते ऽध्यायमर्थवद्वेदसंमतम् ॥ Śइव्P_1,17.151च्द्। शिवज्ञानीभवेद्विप्रःशिवेन सहमोदते ॥ Śइव्P_1,17.152अब्। श्रावयेच्छिवभक्तांश्चविशेषज्ञो मनीश्वराः ॥ Śइव्P_1,17.152च्द्। शिवप्रसादशिद्धिः स्याच्छिवस्यकृपया बुधाः ॥ Śइव्P_1,17.153अब्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तदशो ऽध्यायः Cहप्तेर् 18 ऋष्य ऊचुः बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ॥ Śइव्P_1,18.1अब्। सूत उवाच बंधमोक्षंतथोपायंवक्ष्ये ऽहंशृणुतादरात् ॥ Śइव्P_1,18.1च्द्। प्रकृत्याद्यष्टबंधेनबद्धोजीवः स उच्यते ॥ Śइव्P_1,18.2अब्। प्रकृत्याद्यष्टबंधेननिर्मुक्तोमुक्त उच्यते ॥ Śइव्P_1,18.2च्द्। प्रकृत्यादिवशीकारोमोक्ष इत्युच्यतेस्वतः ॥ Śइव्P_1,18.3अब्। बद्धजीवस्तुनिर्मुक्तोमुक्तजीवः स कथ्यते ॥ Śइव्P_1,18.3च्द्। प्रकृत्यग्रेततोबुद्धिरहंकारोगुणात्मकः ॥ Śइव्P_1,18.4अब्। पञ्चतन्मात्रमित्येतेप्रकृत्याद्यष्टकंविदुः ॥ Śइव्P_1,18.4च्द्। प्रकृट्याद्यष्टजोदेहोदेहजंकर्म उच्यते ॥ Śइव्P_1,18.5अब्। पुनश्चकर्मजोदेहोजन्मकर्मपुनःपुनः ॥ Śइव्P_1,18.5च्द्। शरीरंत्रिविधंज्ञेयंस्थूलंसूक्ष्मंचकारणम् ॥ Śइव्P_1,18.6अब्। स्थूलंव्यापारदंप्रोक्तंसूक्ष्ममिंद्रियभोगदम् ॥ Śइव्P_1,18.6च्द्। कारणंत्वात्मभोगार्थंजीवकर्मानुरूपतः ॥ Śइव्P_1,18.7अब्। सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥ Śइव्P_1,18.7च्द्। तस्माद्धिकर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ॥ Śइव्P_1,18.8अब्। शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ॥ Śइव्P_1,18.8च्द्। चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ॥ Śइव्P_1,18.9अब्। प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥ Śइव्P_1,18.9च्द्। चक्रकर्तामहेशो हि प्रकृतेः परतोयतः ॥ Śइव्P_1,18.10अब्। पिबतिवाथवमतिजीवन्बालोजलंयथा ॥ Śइव्P_1,18.10च्द्। शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ॥ Śइव्P_1,18.11अब्। सर्वंवशीकृतंयस्मात्तस्माच्छिव इति स्मृतः ॥ Śइव्P_1,18.11च्द्। शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥ Śइव्P_1,18.11एf। सर्वज्ञतातृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः ॥ Śइव्P_1,18.12अब्। अनंतशक्तिश्चमहेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ॥ Śइव्P_1,18.12च्द्। अतः शिवप्रसादेन प्रकृत्यादिवशंभवेत् ॥ Śइव्P_1,18.13अब्। शिवप्रसादलाभार्थं शिवमेवप्रपूजयतेत् ॥ Śइव्P_1,18.13च्द्। निःस्पृहस्य च पूर्णस्यतस्य पूजाकथं भवेत् ॥ Śइव्P_1,18.14अब्। शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥ Śइव्P_1,18.14च्द्। लिंगेबेरेभक्तजनेशिवमुद्दिश्यपूजयेत् ॥ Śइव्P_1,18.15अब्। कायेनमनसावाचाधनेनापिप्रपूजयेत् ॥ Śइव्P_1,18.15च्द्। पुजया तु महेशो हि प्रकृतेः परमः शिवः ॥ Śइव्P_1,18.16अब्। प्रसादंकुरुतेसत्यंपूजकस्यविशेषतः ॥ Śइव्P_1,18.16च्द्। शिवप्रसादात्कर्माद्यंक्रमेणस्ववशंभवेत् ॥ Śइव्P_1,18.17अब्। कर्मारभ्यप्रकृत्यंतंयदासर्वं वशंभवेत् ॥ Śइव्P_1,18.17च्द्। तदामुक्त इतिप्रोक्तःस्वात्मारामोविराजते ॥ Śइव्P_1,18.18अब्। प्रसादात्परमेशस्यकर्म देहोयदावशः ॥ Śइव्P_1,18.18च्द्। तदावैशिवलोकेतुवासःसालोक्यमुच्यते ॥ Śइव्P_1,18.19अब्। सामीप्यंयातिसांबस्यतन्मात्रेचवशंगते ॥ Śइव्P_1,18.19च्द्। तदातुशिवसायुज्यमायुधाद्यैः क्रियादिभिः ॥ Śइव्P_1,18.20अब्। महाप्रसादलाभेचबुद्धिश्चापिवशाभवेत् ॥ Śइव्P_1,18.20च्द्। बुद्धिस्तुकार्यंप्रकृतेस्तत्सृष्टिरितिकथ्यते ॥ Śइव्P_1,18.21अब्। पुनर्महाप्रसादेनप्रकृतिर्वशमेष्यति ॥ Śइव्P_1,18.21च्द्। शिवस्यमानसैश्वर्यंतदा ऽयत्नंभविष्यति ॥ Śइव्P_1,18.22अब्। सार्वज्ञाद्यंशिवैश्वर्यंलब्ध्वास्वात्मनि राजते ॥ Śइव्P_1,18.22च्द्। तत्सायुज्यमितिप्राहुर्वेदागमपरायणाः ॥ Śइव्P_1,18.23अब्। एवंक्रमेणमुक्तिःस्याल्लिंगादौपूजयास्वतः ॥ Śइव्P_1,18.23च्द्। अतःशिवप्रसादार्थंक्रियाद्यैःपूजयेच्छिवम् ॥ Śइव्P_1,18.24अब्। शिवक्रिया शिवतपः शिवमंत्रजपः सदा ॥ Śइव्P_1,18.24च्द्। शिवज्ञानंशिवध्यानमुत्तरोत्तरमभ्यसेत् ॥ Śइव्P_1,18.25अब्। आसुप्तेरामृतेःकालंनयेद्वैशिवचिंतया ॥ Śइव्P_1,18.25च्द्। सद्यादिभिश्चकुसुमैरर्चयेच्छिंवमेष्यति ॥ Śइव्P_1,18. 26अब्। ऋषय ऊचुः लिंगादौशिवपूजायाविधानंब्रूहिसर्वतः ॥ Śइव्P_1,18.26च्द्। सूत उवाच लिंगानांचक्रमंवक्ष्येयथावच्छृणुत द्विजाः ॥ Śइव्P_1,18.27अब्। तदेवलिंगं प्रथमं प्रणवं सार्वकामिकम् ॥ Śइव्P_1,18.27च्द्। सूक्ष्मप्रणवरूपंहिसूक्ष्मरूपंतुनिष्फलम् ॥ Śइव्P_1,18.28अब्। स्थूललिंगं हि सकलंतत्पञ्चाक्षरमुच्यते ॥ Śइव्P_1,18.28च्द्। तयोः पूजातपः प्रोक्तंसाक्षान्मोक्षप्रदे उभे ॥ Śइव्P_1,18.29अब्। पौरुषप्रकृतिभूतानिलिंगानिसुबहूनिच ॥ Śइव्P_1,18.29च्द्। तानि विस्तरतोवक्तुं शिवो वेत्तिनचापरः ॥ Śइव्P_1,18.30अब्। भूविकाराणिलिंगानिज्ञातानिप्रब्रवीमिवः ॥ Śइव्P_1,18.30च्द्। स्वयंभूलिंगंप्रथमंबिंदुलिंगंद्वितीयकम् ॥ Śइव्P_1,18.31अब्। प्रतिष्ठितंचरंचैवगुरुलिंगंतु पञ्चमम् ॥ Śइव्P_1,18.31च्द्। देवर्षितपसा तुष्टः सान्निध्यार्थंतुतत्रवै ॥ Śइव्P_1,18.32अब्। पृथिव्यन्तर्गतःशर्वोबीजं वै नादरूपतः ॥ Śइव्P_1,18.32च्द्। स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः ॥ Śइव्P_1,18.33अब्। स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः ॥ Śइव्P_1,18.33च्द्। तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्धते ॥ Śइव्P_1,18.34अब्। सुवर्णरजतादौ वा पृथिव्यांस्थिंडिलेपिवा ॥ Śइव्P_1,18.34च्द्। स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम् ॥ Śइव्P_1,18.35अब्। यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत् ॥ Śइव्P_1,18.35च्द्। बिंदुनादमयंलिंगंस्थावरंजंगमंचयत् ॥ Śइव्P_1,18.36अब्। भावनामयमेतद्धि शिवदृष्टं न संशयः ॥ Śइव्P_1,18.36च्द्। यत्र विश्वस्यते शंभुस्तत्र तस्मै फलप्रदः ॥ Śइव्P_1,18.37अब्। स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे ॥ Śइव्P_1,18.37च्द्। आवाह्यपूजयेच्छंभुंषोडशैरुपचारकैः ॥ Śइव्P_1,18.38अब्। स्वयमैस्वर्यमाप्नोतिज्ञानमभ्यासतोभवेत् ॥ Śइव्P_1,18.38च्द्। देवैश्च ऋषिभिश्चापिस्वात्मसिद्ध्यर्थमेवहि ॥ Śइव्P_1,18.39अब्। समंत्रेणात्महस्तेनकृतंयच्छुद्धमंडले ॥ Śइव्P_1,18.39च्द्। शुद्धभावनया चैवस्थापितं लिंगमुत्तमम् ॥ Śइव्P_1,18.40अब्। तल्लिंगंपौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥ Śइव्P_1,18.40च्द्। तल्लिंगपूजयानित्यंपौरुषैश्वर्यमाप्नुयात् ॥ Śइव्P_1,18.41अब्। महद्भिर्ब्राह्मणैश्चापिराजभिश्चमहाधनैः ॥ Śइव्P_1,18.41च्द्। शिल्पिनाकल्पितंलिंगंमंत्रेणस्थापितंचयत् ॥ Śइव्P_1,18.42अब्। प्रतिष्ठितंप्राकृतंहिप्राकृतैश्वर्यभोगदम् ॥ Śइव्P_1,18.42च्द्। यदूर्जितंचनित्यं च तद्धि पौरुषमुच्यते ॥ Śइव्P_1,18.43अब्। यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥ Śइव्P_1,18.43च्द्। लिंगंनाभिस्तथाजिह्वानासाग्रञ्चशिखाक्रमात् ॥ Śइव्P_1,18.44अब्। कट्यादिषुत्रिलोकेषु लिंगमाध्यात्मिकंचरम् ॥ Śइव्P_1,18.44च्द्। पर्वतंपौरुषं प्रोक्तंभूतलं प्राकृतं विदुः ॥ Śइव्P_1,18.45अब्। वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥ Śइव्P_1,18.45च्द्। षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ॥ Śइव्P_1,18.46अब्। ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥ Śइव्P_1,18.46च्द्। सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ॥ Śइव्P_1,18.47अब्। प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते ॥ Śइव्P_1,18.47च्द्। रसलिंगंब्राह्मणानांसर्वाभीष्टप्रदंभवेत् ॥ Śइव्P_1,18.48अब्। बाणलिंगंक्षत्रियाणां महाराज्यप्रदंशुभम् ॥ Śइव्P_1,18.48च्द्। स्वर्णलिंगं तु वैश्यानांमहाधनपतित्वदम् ॥ Śइव्P_1,18.49अब्। शिलालिंगंतुशूद्राणांमहाशुद्धिकरंशुभम् ॥ Śइव्P_1,18.49च्द्। स्फाटिकंबाणलिंगं च सर्वेषांसर्वकामदम् ॥ Śइव्P_1,18.50अब्। स्वीयाभावे ऽन्यदीयंतुपूजायांननिषिद्ध्यते ॥ Śइव्P_1,18.50च्द्। स्त्रीणांतुपार्थिवंलिंगंसभत्ःणांविशेषतः ॥ Śइव्P_1,18.51अब्। विधवानांप्रवृत्तानांस्फाटिकं परिकीर्तितम् ॥ Śइव्P_1,18.51च्द्। विधवानां निवृत्तानां रसलिंगं विशिष्यते ॥ Śइव्P_1,18.52अब्। बाल्येवायौवनेवापिवार्धकेवापिसुव्रताः ॥ Śइव्P_1,18.52च्द्। शुद्धस्फटिकलिंगंतुस्त्रीणांतत्सर्वभोगदम् ॥ Śइव्P_1,18.53अब्। प्रवृत्तानांपीठपूजासर्वाभीष्टप्रदा भुवि ॥ Śइव्P_1,18.53च्द्। पात्रेणैवप्रवृत्तस्तुसर्वपूजांसमाचरेत् ॥ Śइव्P_1,18.54अब्। अभिषेकांतेनैवेद्यंशाल्यन्नेनसमाचरेत् ॥ Śइव्P_1,18.54च्द्। पूजांतेस्थापयेल्लिंगंसंपुटेषुपृथग्गृहे ॥ Śइव्P_1,18.55अब्। करपूजानिवृत्तानांस्वभोज्यंतुनिवेदयेत् ॥ Śइव्P_1,18.55च्द्। निवृत्तानांपरंसूक्ष्मलिंगमेवविशिष्यते ॥ Śइव्P_1,18.56अब्। विभूत्यभ्यर्चनं कुर्याद्विभूतिंचनिवेदयेत् ॥ Śइव्P_1,18.56च्द्। पूजांकृत्वाथतल्लिंगंशिरसाधारयेत्सदा ॥ Śइव्P_1,18.57अब्। विभूतिस्त्रिविधाप्रोक्तालोकवेदशिवाग्निभिः ॥ Śइव्P_1,18.57च्द्। लोकाग्निजमथो भस्मद्रव्यशुद्ध्यर्थमावहेत् ॥ Śइव्P_1,18.58अब्। मृद्दारुलोहरूपाणांधान्यानांचतथैवच ॥ Śइव्P_1,18.58च्द्। तिलादीनां च द्रव्याणांवस्त्रादीनांतथैव च ॥ Śइव्P_1,18.59अब्। तथापर्युषितानांचभस्मनाशिद्धिरिष्यते ॥ Śइव्P_1,18.59च्द्। श्वादिभिर्दूषितानांचभस्मनाशुद्धिरिष्यते ॥ Śइव्P_1,18.60अब्। सजलंनिर्जलंभस्म यथायोग्यं तु योजयेत् ॥ Śइव्P_1,18.60च्द्। वेदाग्निजंतथाभस्मतत्कर्मांतेषु धारयेत् ॥ Śइव्P_1,18.61अब्। मंत्रेणक्रिययाजन्यंकर्माग्नौ भस्मरूपधृक् ॥ Śइव्P_1,18.61च्द्। तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ॥ Śइव्P_1,18.62अब्। अघोरेणात्मंत्रेण बिल्वकाष्ठंप्रदाहयेत् ॥ Śइव्P_1,18.62च्द्। शिवाग्निरितिसंप्रोक्तस्तेनदग्धंशिवाग्निजम् ॥ Śइव्P_1,18.63अब्। कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥ Śइव्P_1,18.63च्द्। शम्यस्वत्थपलाशान्वावटारम्वधबिल्वकान् ॥ Śइव्P_1,18.64अब्। शिवाग्निनादहेच्छुद्धंतद्वैभस्म शिवाग्निजम् ॥ Śइव्P_1,18.64च्द्। दर्भाग्नौ वादहेत्काष्ठंशिवमंत्रंसमुच्चरन् ॥ Śइव्P_1,18.65अब्। सम्यक्संशोध्यवस्त्रेणनवकुंभेनिधापयेत् ॥ Śइव्P_1,18.65च्द्। दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च ॥ Śइव्P_1,18.66अब्। भस्मशब्दार्थ एवं हि शिवःपूर्वंतथा ऽकरोत् ॥ Śइव्P_1,18.66च्द्। यथास्वविषयेराजासारंगृह्णातियत्करम् ॥ Śइव्P_1,18.67अब्। यथामनुष्याःसस्यादीन्दग्ध्वासारंभजंतिवै ॥ Śइव्P_1,18.67च्द्। यथाहिजाठराग्निश्चभक्ष्यादीन्विविधान्बहून् ॥ Śइव्P_1,18.68अब्। दग्ध्वासारतरंसारात्स्वदेहंपरिपुष्यति ॥ Śइव्P_1,18.68च्द्। तथाप्रपञ्चकर्तापिसशिवःपरमेश्वरः ॥ Śइव्P_1,18.69अब्। स्वाधिष्ठेयप्रपञ्चस्यदग्ध्वासारंगृहीतवान् ॥ Śइव्P_1,18.69च्द्। दग्ध्वाप्रपञ्चंतद्भस्मस्वात्मन्यारोपयच्छिवः ॥ Śइव्P_1,18.70अब्। उद्धूलनेनव्याजेन जगत्सारं गृहीतवान् ॥ Śइव्P_1,18.70च्द्। स्वरत्नंस्थापयामास स्वकीयेहिशरीरके ॥ Śइव्P_1,18.71अब्। केशमाकाशसारेणवायुसारेणवैमुखम् ॥ Śइव्P_1,18.71च्द्। हृदयंचाग्निसारेणत्वपांसारेणवैकटिम् ॥ Śइव्P_1,18.72अब्। जानुचावनिसारेणतद्वत्सर्वं तदंगकम् ॥ Śइव्P_1,18.72च्द्। ब्रह्मविष्ण्वोश्चरुद्राणांसारंचैवत्रिपुंड्रकम् ॥ Śइव्P_1,18.73अब्। तथातिलकरूपेणललाटान्तेमहेश्वरः ॥ Śइव्P_1,18.73च्द्। भवृद्ध्यासर्वमेतद्धिमन्यतेस्वयमैत्यसौ ॥ Śइव्P_1,18.74अब्। प्रपञ्चसारसर्वस्वमनेनैववशीकृतम् ॥ Śइव्P_1,18.74च्द्। तस्मादस्यवशीकर्तानास्तीतिसशिवःस्मृतः ॥ Śइव्P_1,18.75अब्। यथासर्वमृगाणांचहिंसकोमृगहिंसकः ॥ Śइव्P_1,18.75च्द्। अस्यहिंसामृगोनास्तिततस्मात्सिंह इतीरितः ॥ Śइव्P_1,18.76अब्। शं नित्यंसुखमानंदमिकारः पुरुषः स्मृतः ॥ Śइव्P_1,18.76च्द्। वकारः शक्तिरमृतंमेलनंशिव उच्यते ॥ Śइव्P_1,18.77अब्। तस्मादेवंस्वमात्मानं शिवंकृत्वार्चयेच्छिवम् ॥ Śइव्P_1,18.77च्द्। तस्मादुद्धूलनंपूर्वं त्रिपुंड्रंधारयेत्परम् ॥ Śइव्P_1,18.78अब्। पूजाकालेहिसजलंशुद्ध्यर्थंनिर्जलंभवेत् ॥ Śइव्P_1,18.78च्द्। दिवावा यदिवारात्रौनारीवाथनरोपिवा ॥ Śइव्P_1,18.79अब्। पूजार्थंसजलंभस्मत्रिपुंड्रेणैवधारयेत् ॥ Śइव्P_1,18.79च्द्। त्रिपुंड्रंसजलंभस्मधृत्वापूजांकरोतियः ॥ Śइव्P_1,18.80अब्। शिवपूजांफलंसांगंतस्यैवहिसुनिश्चितम् ॥ Śइव्P_1,18.80च्द्। भस्मवैशिवमंत्रेणधृत्वाह्यत्याश्रमीभवेत् ॥ Śइव्P_1,18.81अब्। शिवाश्रमीतिसंप्रोक्तः शिवैकपरमोयतः ॥ Śइव्P_1,18.81च्द्। शिवव्रतैकनिष्ठस्यनाशौचंनचसूतकम् ॥ Śइव्P_1,18.82अब्। ललाटे ऽग्रेसितंभस्मतिलकंधारयेन्मृदा ॥ Śइव्P_1,18.82च्द्। स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्यलक्षणम् ॥ Śइव्P_1,18.83अब्। गुणान्रुंध इति प्रोक्तोगुरुशब्दस्यविग्रहः ॥ Śइव्P_1,18.83च्द्। सविकारान्राजसादीन्गुणान्रुंधेव्यपोहति ॥ Śइव्P_1,18.84अब्। गुणातीतः परशिवोगुरुरूपंसमाश्रितः ॥ Śइव्P_1,18.84च्द्। गुणत्रयंव्यपोह्याग्रेशिवंबोधयतीतिसः ॥ Śइव्P_1,18.85अब्। विश्वस्तानांतुशिष्याणांगुरुरित्यभिधीयते ॥ Śइव्P_1,18.85च्द्। तस्माद्गुरुशरीरंतुगुरुलिंगंभवेद्बुधः ॥ Śइव्P_1,18.86अब्। गुरुलिंगस्यपूजातुगुरुशुश्रूषणं भवेत् ॥ Śइव्P_1,18.86च्द्। श्रुतंकरोतिशुश्रूषाकायेनमनसागिरा ॥ Śइव्P_1,18.87अब्। उक्तं यद्गुरुणापूर्वं शक्यंवा ऽशक्यमेववा ॥ Śइव्P_1,18.87च्द्। करोत्येवहिपूतात्माप्राणैरपिधनैरपि ॥ Śइव्P_1,18.88अब्। तस्माद्वैशासनेयोग्यः शिष्य इत्यभिधीयते ॥ Śइव्P_1,18.88च्द्। शरीराद्यर्थकंसर्वंगुरोर्दत्त्वासुशिष्यकः ॥ Śइव्P_1,18.89अब्। अग्रपाकंनिवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया ॥ Śइव्P_1,18.89च्द्। शिष्यःपुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ॥ Śइव्P_1,18.90अब्। जिह्वालिंगान्मंत्रशुक्रंकर्णयोनौनिषिच्यवै ॥ Śइव्P_1,18.90च्द्। जातःपुत्रोमंत्रपुत्रःपितरंपूजयेद्गुरुम् ॥ Śइव्P_1,18.91अब्। निमज्जयतिपुत्रंवैसंसारेजनकःपिता ॥ Śइव्P_1,18.91च्द्। संतारयतिसंसाराद्गुरुर्वैबोधकः पिता ॥ Śइव्P_1,18.92अब्। उभयोरंतरंज्ञात्वापितरंगुरुमर्चयेत् ॥ Śइव्P_1,18.92च्द्। अंगशुश्रूषयाचापि धनाद्यैः स्वार्जितैर्गुरुम् ॥ Śइव्P_1,18.93अब्। पादादिकेशपर्यंतंलिंगान्यंगानियद्गुरोः ॥ Śइव्P_1,18.93च्द्। धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः ॥ Śइव्P_1,18.94अब्। स्नानाभिषेकनैवेद्यैर्भोजनैश्चप्रपूजयेत् ॥ Śइव्P_1,18.94च्द्। गुरुपूजैवपूजास्याच्छिवस्यपरमात्मनः ॥ Śइव्P_1,18.95अब्। गुरुशेषंतुयत्सर्वमात्मशुद्धिकरंभवेत् ॥ Śइव्P_1,18.95च्द्। गुरोःशेषःशिवोच्छिष्टंजलमन्नादिनिर्मितम् ॥ Śइव्P_1,18.96अब्। शिष्याणांशिवभक्तानांग्राह्यंभोज्यंभवेद्द्विजाः ॥ Śइव्P_1,18.96च्द्। गुर्वनुज्ञाविरहितंचोरवत्सकलंभवेत् ॥ Śइव्P_1,18.97अब्। गुरोरपिविशेषज्ञंयत्नाद्गृह्णीतवैगुरुम् ॥ Śइव्P_1,18.97च्द्। अज्ञानमोचनंसाध्यंविशेषज्ञोहिमोचकः ॥ Śइव्P_1,18.98अब्। आदौचविघ्नशमनंकर्तव्यंकर्मपूर्तये ॥ Śइव्P_1,18.98च्द्। निर्विघ्नेनकृतंसांगंकर्मवैसफलं भवेत् ॥ Śइव्P_1,18.99अब्। तस्मात्सकलकर्मादौविघ्नेशं पूजयेद् बुधः ॥ Śइव्P_1,18.99च्द्। सर्वबाधानिवृत्त्यर्थंसर्वान्देवान्यजेद्बुधः ॥ Śइव्P_1,18.100अब्। ज्वरादिग्रंथिरोगाश्चबाधाह्याध्यात्मिकामता ॥ Śइव्P_1,18.100च्द्। पिशाचजंबुकादीनांवल्मीकाद्युद्भवेतथा ॥ Śइव्P_1,18.101अब्। अकस्मादेवगोधादिजंतूनांपतनेपिच ॥ Śइव्P_1,18.101च्द्। गृहेकच्छपसर्पस्त्रीदुर्जनादर्शनेपिच ॥ Śइव्P_1,18.102अब्। वृक्षनारीगवादीनांप्रसूतिविषयेपिच ॥ Śइव्P_1,18.102च्द्। भाविदुःखंसमायातितस्मात्तेभौतिकामता ॥ Śइव्P_1,18.103अब्। अमेध्या शनिपातश्चमहामारीतथैवच ॥ Śइव्P_1,18.103च्द्। ज्वरमारीविषूचिश्चगोमारीचमसूरिका ॥ Śइव्P_1,18.104अब्। जन्मर्क्षग्रहसंक्रांतिग्रहयोगास्वराशिके ॥ Śइव्P_1,18.104च्द्। दुःस्वप्नदर्शनाद्याश्चमतावैह्यधिदैविकाः ॥ Śइव्P_1,18.105अब्। शवचांडालपतितस्पर्शाद्येंतर्गृहेगते ॥ Śइव्P_1,18.105च्द्। एतादृशेसमुत्पन्नेभाविदुःखस्यसूचके ॥ Śइव्P_1,18.106अब्। शांतियज्ञंतुमतिमान्कुर्यात्तद्दोषशांतये ॥ Śइव्P_1,18.106च्द्। देवालये ऽथगोष्ठेवाचैत्येवापिगृहांगणे ॥ Śइव्P_1,18.107अब्। प्रादेशोन्नतधिष्ण्येवैद्विहस्तेयस्वलंकृते ॥ Śइव्P_1,18.107च्द्। भारमात्रव्रीहिधान्यंप्रस्थाप्यपरिसृत्यच ॥ Śइव्P_1,18.108अब्। मध्येविलिख्यकमलंतथादिक्षुविलिख्यवै ॥ Śइव्P_1,18.108च्द्। तंतुनावेष्टितंकुंभं नवगुग्गुलधूपितम् ॥ Śइव्P_1,18.109अब्। मध्येस्थाप्यमहाकुंभंतथादिक्ष्वपिविन्यसेत् ॥ Śइव्P_1,18.109च्द्। सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ॥ Śइव्P_1,18.110अब्। पूरयेन्मंत्रपूतेनपञ्चद्रव्ययुतेनहि ॥ Śइव्P_1,18.110च्द्। प्रक्षिपेन्नवरत्नानिनीलादीन्क्रमशस्तथा ॥ Śइव्P_1,18.111अब्। कर्मज्ञंचसपत्नीकमाचार्यंवरयेद्बुधः ॥ Śइव्P_1,18.111च्द्। सुवर्णप्रतिमां विष्णोरिंद्रादीनांच निक्षिपेत् ॥ Śइव्P_1,18.112अब्। सशिरस्केमध्यकुंभेविष्णुमाबाह्यपूजयेत् ॥ Śइव्P_1,18.112च्द्। प्रागादिषुयथामंत्रमिंद्रादीन्क्रमशोयजेत् ॥ Śइव्P_1,18.113अब्। तत्तन्नाम्नाचतुर्थ्यांचनमोन्ते नयथाक्रमम् ॥ Śइव्P_1,18.113च्द्। आवाहनादिकंसर्वमाचार्येणैवकारयेत् ॥ Śइव्P_1,18.114अब्। आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥ Śइव्P_1,18.114च्द्। कुंभस्य पश्चिमे भागेजपांतेहोममाचरेत् ॥ Śइव्P_1,18.115अब्। कोटिंलक्षंसहस्रंवाशतमष्टोत्तरं बुधाः ॥ Śइव्P_1,18.115च्द्। एकाहंवानवाहंवातथामंडलमेव वा ॥ Śइव्P_1,18.116अब्। यथायोग्यंप्रकुर्वीतकालदेशानुसारतः ॥ Śइव्P_1,18.116च्द्। शमीहोमश्च शांत्यर्थे वृत्त्यर्थेचपलाशकम् ॥ Śइव्P_1,18.117अब्। समिदन्नाज्यकैर्द्रव्यैर्नाम्नामंत्रेण वा हुनेत् ॥ Śइव्P_1,18.117च्द्। प्रारंभेयत्कृतंद्रव्यंतत्क्रियांतंसमाचरेत् ॥ Śइव्P_1,18.118अब्। पुण्याहंवाचयित्वांते दिनेसंप्रोक्ष्ययेज्जलैः ॥ Śइव्P_1,18.118च्द्। ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया ॥ Śइव्P_1,18.119अब्। आचार्यश्चहविष्याशीत्विजश्चभवेद्बुधाः ॥ Śइव्P_1,18.119च्द्। आदित्यादीन्ग्रहानिष्ट्वासर्वहोमांत एवहि ॥ Śइव्P_1,18.120अब्। ऋत्विभ्योदक्षिणांदद्यान्नवरत्नंयथा क्रमम् ॥ Śइव्P_1,18.120च्द्। दशदानंततःकुर्याद्भूरिदानंततः परम् ॥ Śइव्P_1,18.121अब्। बालानामुपनीतानांगृहिणांवनिनांधनम् ॥ Śइव्P_1,18.121च्द्। कन्यानांचसभर्त्ःणांविधवानांततःपरम् ॥ Śइव्P_1,18.122अब्। तंत्रोपकरणंसर्वमाचार्यायनिवेदयेत् ॥ Śइव्P_1,18.122च्द्। उत्पातानांचमारीणांदुःखस्वामीयमःस्मृतः ॥ Śइव्P_1,18.123अब्। तस्माद्यमस्यप्रीत्यर्थंकालदानंप्रदापयेत् ॥ Śइव्P_1,18.123च्द्। शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ॥ Śइव्P_1,18.124अब्। पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥ Śइव्P_1,18.124च्द्। तत्स्वर्णप्रतिमादानंकुर्याद्दक्षिणयासह ॥ Śइव्P_1,18.125अब्। तिलदानंततःकुर्यात्पूर्णायुष्यप्रसिद्धये ॥ Śइव्P_1,18.125च्द्। आज्यावेक्षणदानंचकुर्याद्व्याधिनिवृत्तये ॥ Śइव्P_1,18.126अब्। सहस्रंभोजयेद्विप्रान्दरिद्रःशतमेववा ॥ Śइव्P_1,18.126च्द्। वित्ताभावेदरिद्रस्तुयथाशक्तिसमाचरेत् ॥ Śइव्P_1,18.127अब्। भैरवस्यमहापूजांकुर्याद्भूतादिशांतये ॥ Śइव्P_1,18.127च्द्। महाभिषेकंनैवेद्यंशिवस्यान्तेतुकारयेत् ॥ Śइव्P_1,18.128अब्। ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ॥ Śइव्P_1,18.128च्द्। एवंकृतेनयज्ञेनदोषशांतिमवाप्नुयात् ॥ Śइव्P_1,18.129अब्। शांतियज्ञमिमंकुर्याद्वर्षेवर्षेतुफाल्गुने ॥ Śइव्P_1,18.129च्द्। दुर्दर्शनादौ सद्यो वै मासमात्रेसमाचरेत् ॥ Śइव्P_1,18.130अब्। महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम् ॥ Śइव्P_1,18.130च्द्। महाव्याधिसमुत्पत्तौसंकल्पंपुनराचरेत् ॥ Śइव्P_1,18.131अब्। सर्वभावे दरिद्रस्तु दीपदानमथाचरेत् ॥ Śइव्P_1,18.131च्द्। तदप्यशक्तः स्नात्वावैयत्किंचिद्दानमाचरेत् ॥ Śइव्P_1,18.132अब्। दिवाकरंनमस्कुर्यान्मन्त्रेणाष्टोत्तरंशतम् ॥ Śइव्P_1,18.132च्द्। सहस्रमयुतंलक्षंकोटिंवाकारयेद् बुधः ॥ Śइव्P_1,18.133अब्। नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥ Śइव्P_1,18.133च्द्। त्वत्स्वरूपेर्पिताबुद्धिर्नते ऽशून्ये च रोचति ॥ Śइव्P_1,18.134अब्। या चास्त्यस्मदहंतेति त्वयिदृष्टे विवर्जिता ॥ Śइव्P_1,18.134च्द्। नम्रो ऽहंहिस्वदेहेनभोमहांस्त्वमसिप्रभो ॥ Śइव्P_1,18.135अब्। नशून्योमत्स्वरूपोवैतवदासो ऽस्मिसांप्रतम् ॥ Śइव्P_1,18.135च्द्। यथायोग्यंस्वात्मयज्ञंनमस्कारंप्रकल्पयेत् ॥ Śइव्P_1,18.136अब्। अथात्रशिवनैवेद्यंदत्त्वातांबूलमाहरेत् ॥ Śइव्P_1,18.136च्द्। शिवप्रदक्षिणंकुर्यात्स्वयमष्टोत्तरं शतम् ॥ Śइव्P_1,18.137अब्। सहस्रमयुतंलक्षं कोटिमन्येन कारयेत् ॥ Śइव्P_1,18.137च्द्। शिवप्रदक्षिणात्सर्वंपातकंनश्यतिक्षणात् ॥ Śइव्P_1,18.138अब्। दुःखस्यमूलंव्याधिर्हिव्याधेर्मूलंहिपातकम् ॥ Śइव्P_1,18.138च्द्। धर्मेणैवहिपापानामपनोदनमीरितम् ॥ Śइव्P_1,18.139अब्। शिवोद्देशकृतोधर्मःक्षमःपापविनोदने ॥ Śइव्P_1,18.139च्द्। अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ॥ Śइव्P_1,18.140अब्। क्रियया जपरूपंहिप्रणवंतुप्रदक्षिणम् ॥ Śइव्P_1,18.140च्द्। जननंमरणंद्वंद्वंमायाचक्रमितीरितम् ॥ Śइव्P_1,18.141अब्। शिवस्यमायाचक्रंहिबलिपीठंतदुच्यते ॥ Śइव्P_1,18.141च्द्। बलिपीठंसमारभ्यप्रादक्षिण्यक्रमेणवै ॥ Śइव्P_1,18.142अब्। पदेपदांतरंगत्वाबलिपीठं समाविशेत् ॥ Śइव्P_1,18.142च्द्। नमस्कारंततः कुर्यात्प्रदक्षिणमितीरितम् ॥ Śइव्P_1,18.143अब्। निर्गमाज्जननंप्राप्तंनमस्त्वात्मसमर्पणम् ॥ Śइव्P_1,18.143च्द्। जननं मरणं द्वंद्वं शिवमायासमर्पितम् ॥ Śइव्P_1,18.144अब्। शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत् ॥ Śइव्P_1,18.144च्द्। यावद्देहंक्रियाधीनःसजीवोबद्ध उच्यते ॥ Śइव्P_1,18.145अब्। देहत्रयवशीकारेमोक्ष इत्युच्यते बुधैः ॥ Śइव्P_1,18.145च्द्। मायाचक्रप्रणेताहिशिवः परमकारणम् ॥ Śइव्P_1,18.146अब्। शिवमायार्पितद्वंद्वंशिवस्तुपरिमार्जति ॥ Śइव्P_1,18.146च्द्। शिवेनकल्पितंद्वंद्वंतस्मिन्नेव समर्पयेत् ॥ Śइव्P_1,18.147अब्। शिवस्यातिप्रियंविद्यात्प्रदक्षिणंनमोबुधाः ॥ Śइव्P_1,18.147च्द्। प्रदक्षिणनमस्काराः शिवस्यपरमात्मनः ॥ Śइव्P_1,18.148अब्। षोडशैरुपचारैश्चकृतपूजाफलप्रदा ॥ Śइव्P_1,18.148च्द्। प्रदक्षिणा ऽविनाश्यंहि पातकंनास्ति भूतले ॥ Śइव्P_1,18.149अब्। तस्मात्प्रदक्षिणेनैवसर्वपापंविनाशयेत् ॥ Śइव्P_1,18.149च्द्। शिवपूजापरोमौनीसत्यादिगुणसंयुतः ॥ Śइव्P_1,18.150अब्। क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥ Śइव्P_1,18.150च्द्। ऐश्वर्यंदिव्यदेहश्चज्ञानमज्ञानसंशयः ॥ Śइव्P_1,18.151अब्। शिवसान्निध्यमित्येतेक्रियादीनांफलंभवेत् ॥ Śइव्P_1,18.151च्द्। करणेनफलंयातितमसः परिहापनात् ॥ Śइव्P_1,18.152अब्। जन्मनःपरिमार्जित्वाज्ज्ञबुद्ध्याजनितानिच ॥ Śइव्P_1,18.152च्द्। यथादेशं यथाकालं यथादेहं यथाधनम् ॥ Śइव्P_1,18.153अब्। यथायोग्यंप्रकुर्वीत क्रियादीञ्छिवभक्तिमान् ॥ Śइव्P_1,18.153च्द्। न्यायार्जितसुवित्तेनवसेत्प्राज्ञः शिवस्थले ॥ Śइव्P_1,18.154अब्। जीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥ Śइव्P_1,18.154च्द्। पञ्चाक्षरेणजप्तंचतोयमन्नंविदुः सुखम् ॥ Śइव्P_1,18.155अब्। अथवा ऽहुर्दरिद्रस्यभिक्षान्नंज्ञानदंभवेत् ॥ Śइव्P_1,18.155च्द्। शिवभक्तस्यभिक्षान्नंशिवभक्तिविवर्धनम् ॥ Śइव्P_1,18.156अब्। शंभुसत्रमितिप्राहुर्भिक्षान्नंशिवयोगिनः ॥ Śइव्P_1,18.156च्द्। येनकेनाप्युपायेनयत्रकुत्रापिभूतले ॥ Śइव्P_1,18.157अब्। शुद्धान्नभुक्सदामौनीरहस्यं न प्रकाशयेत् ॥ Śइव्P_1,18.157च्द्। प्रकाशयेत्तुभक्तानांशिवमाहात्म्यमेवहि ॥ Śइव्P_1,18.158अब्। रहस्यंशिवमंत्रस्यशिवोजानातिनापरः ॥ Śइव्P_1,18.158च्द्। शिवभक्तोवसेन्नित्यंशिवलिंगंसमाश्रितः ॥ Śइव्P_1,18.159अब्। स्थाणुलिंगाश्रयेणैवस्थाणुर्भवतिभूसुराः ॥ Śइव्P_1,18.159च्द्। पूजयाचरलिंगस्यक्रमान्मुक्तोभवेद्ध्रुवम् ॥ Śइव्P_1,18.160अब्। सर्वमुक्तंसमासेनसाध्यसाधनमुत्तमम् ॥ Śइव्P_1,18.160च्द्। व्यासेनयत्पुराप्रोक्तंयच्छ्रुतंहिमयापुरा ॥ Śइव्P_1,18.161अब्। भद्रमस्तुहिवो ऽस्माकं शिवभक्तिर्दृढा ऽस्तुसा ॥ Śइव्P_1,18.161च्द्। य इमंपठते ऽध्यायं यः शृणोति नरः सदा ॥ Śइव्P_1,18.162अब्। शिवज्ञानंसलभतेशिवस्यकृपयाबुधाः ॥ Śइव्P_1,18.162च्द्। इति श्रीशैवे महापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं नामाष्टादशो ऽध्यायः Cहप्तेर् 19 ऋषय ऊचुः सूतसूतचिरंजीवधन्यस्त्वंशिवभक्तिमान् ॥ Śइव्P_1,19.1अब्। सम्यगुक्तस्त्वयालिंगमहिमासत्फलप्रदः ॥ Śइव्P_1,19.1च्द्। यत्रपार्थिवमाहेशलिंगस्यमहिमाधुना ॥ Śइव्P_1,19.2अब्। सर्वोत्कृष्टश्चकथितोव्यासतोब्रूहितंपुनः ॥ Śइव्P_1,19.2च्द्। सूत उवाच शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः ॥ Śइव्P_1,19.3अब्। शिवपार्थिवलिंगस्यमहिमाप्रोच्यतेमया ॥ Śइव्P_1,19.3च्द्। उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् ॥ Śइव्P_1,19.4अब्। तस्यपूजनतोविप्राबहवः सिद्धिमागताः ॥ Śइव्P_1,19.4च्द्। हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ॥ Śइव्P_1,19.5अब्। संपूज्य पार्थिवंलिंगंप्रापुःसर्वेप्सितंद्विजाः ॥ Śइव्P_1,19.5च्द्। देवासुरमनुष्याश्चगंधर्वोरगराक्षसाः ॥ Śइव्P_1,19.6अब्। अन्येपिबहवस्तंसंपूज्यसिद्धिंगताःपरम् ॥ Śइव्P_1,19.6च्द्। कृतेरत्नमयंलिंगंत्रेतायांहेमसंभवम् ॥ Śइव्P_1,19.7अब्। द्वापरेपारदंश्रेष्ठंपार्थिवंतुकलौयुगे ॥ Śइव्P_1,19.7च्द्। अष्टमूर्तिषुसर्वासुमूर्तिर्वैपार्थिवीवराः ॥ Śइव्P_1,19.8अब्। अनन्यपूजिताविप्रास्तपस्तस्मान्महत्फलम् ॥ Śइव्P_1,19.8च्द्। यथासर्वेषुदेवेषुज्येष्ठःश्रेष्ठोमहेश्वरः ॥ Śइव्P_1,19.9अब्। एवंसर्वेषु लिंगेषुपार्थिवंश्रेष्टमुच्यते ॥ Śइव्P_1,19.9च्द्। यथानदीषुसर्वासुज्येष्ठाश्रेष्ठासुरापगा ॥ Śइव्P_1,19.10अब्। तथासर्वेषुलिंगेषुपार्थिवंश्रेष्ठमुच्यते ॥ Śइव्P_1,19.10च्द्। यथासर्वेषुमंत्रेषुप्रणवो हि महान्स्मृतः ॥ Śइव्P_1,19.11अब्। तथेदंपार्थिवंश्रेष्ठमाराध्यंपूज्यमेवहि ॥ Śइव्P_1,19.11च्द्। यथासर्वेषुवर्णेषुब्राह्मणःश्रेष्ठ उच्यते ॥ Śइव्P_1,19.12अब्। तथासर्वेषुलिंगेषुपार्थिवं श्रेष्ठमुच्यते ॥ Śइव्P_1,19.12च्द्। यथापुरीषुसर्वासुकाशीश्रेष्ठतमास्मृता ॥ Śइव्P_1,19.13अब्। तथासर्वेषुलिंगेषुपार्थिवंश्रेष्ठमुच्यते ॥ Śइव्P_1,19.13च्द्। यथाव्रतेषुसर्वेषुशिवरात्रिव्रतंपरम् ॥ Śइव्P_1,19.14अब्। तथासर्वेषुलिंगेषुपार्थिवंश्रेष्थमुच्यते ॥ Śइव्P_1,19.14च्द्। यथादेवीषुसर्वासुशैवीशक्तिः परास्मृता ॥ Śइव्P_1,19.15अब्। तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ Śइव्P_1,19.15च्द्। प्रकृत्यपार्थिवंलिंगंयोन्यदेवंप्रपूजयेत् ॥ Śइव्P_1,19.16अब्। वृथा भवति सा पूजा स्नानदानादिकंवृथा ॥ Śइव्P_1,19.16च्द्। पार्थिवाराधनंपुण्यंधन्यमायुर्विवर्धनम् ॥ Śइव्P_1,19.17अब्। तुष्टिदंपुष्टिदंश्रीदंकार्यंसाधकसत्तमैः ॥ Śइव्P_1,19.17च्द्। यथालब्धोपचारैश्चभक्त्या श्रद्धासमन्वितः ॥ Śइव्P_1,19.18अब्। पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम् ॥ Śइव्P_1,19.18च्द्। यःकृत्वापार्थिवंलिंगेपूजयेच्छुभवेदिकम् ॥ Śइव्P_1,19.19अब्। इहैवधनवाञ्छ्रीमानंतेरुद्रोभिजायते ॥ Śइव्P_1,19.19च्द्। त्रिसंध्यंयोर्चयंल्लिंगंकृत्वाबिल्वेनपार्थिवम् ॥ Śइव्P_1,19.20अब्। दशैकादशकंयावत्तस्यपुण्यफलंशृणु ॥ Śइव्P_1,19.20च्द्। अनेनैव स्वदेहेन रुद्रलोकेमहीयते ॥ Śइव्P_1,19.21अब्। पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥ Śइव्P_1,19.21च्द्। जीवन्मुक्तः सवैज्ञानीशिव एव न संशयः ॥ Śइव्P_1,19.22अब्। तस्यदर्शनमात्रेणभुक्तिर्मुक्तिश्च जायते ॥ Śइव्P_1,19.22च्द्। शिवं यः पूजयेन्नित्यं कृत्वालिंगं तु पार्थिवम् ॥ Śइव्P_1,19.23अब्। यावज्जीवनपर्यंतं स याति शिवमन्दिरम् ॥ Śइव्P_1,19.23च्द्। मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ॥ Śइव्P_1,19.24अब्। सकामः पुनरागत्य राजेन्द्रोभारतेभवेत् ॥ Śइव्P_1,19.24च्द्। निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् ॥ Śइव्P_1,19.25अब्। शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात् ॥ Śइव्P_1,19.25च्द्। पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् ॥ Śइव्P_1,19.26अब्। सयातिनरकंघोरंशूलप्रोतं सुदारुणम् ॥ Śइव्P_1,19.26च्द्। यथाकथंचिद्विधिनारम्यं लिंगं प्रकारयेत् ॥ Śइव्P_1,19.27अब्। पञ्चसूत्रविधानां च पार्थिवेन विचारयेत् ॥ Śइव्P_1,19.27च्द्। अखण्डंतद्धिकर्तव्यंनविखण्डंप्रकारयेत् ॥ Śइव्P_1,19.28अब्। द्विखण्डंतुप्रकुर्वाणोनैवपूजाफलंलभेत् ॥ Śइव्P_1,19.28च्द्। रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा ॥ Śइव्P_1,19.29अब्। पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् ॥ Śइव्P_1,19.29च्द्। अखंडं तु चरं लिंगंद्विखंडमचरं स्मृतम् ॥ Śइव्P_1,19.30अब्। खंडाखंडविचारोयं सचराचरयोः स्मृतः ॥ Śइव्P_1,19.30च्द्। वेदिकातुमहाविद्यालिंगंदेवो महेश्वरः ॥ Śइव्P_1,19.31अब्। अतो हि स्थावरेलिंगे स्मृताश्रेष्ठादिखंडिता ॥ Śइव्P_1,19.31च्द्। द्विखंडंस्थावरंलिंगंकर्तव्यंहिविधानतः ॥ Śइव्P_1,19.32अब्। अखंडंजंगमंप्रोक्तंशैवसिद्धान्तवेदिभिः ॥ Śइव्P_1,19.32च्द्। द्विखंडंतुचरांलिंगंकुर्वन्त्यज्ञानमोहिताः ॥ Śइव्P_1,19.33अब्। नैवसिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥ Śइव्P_1,19.33च्द्। अखंडंस्थावरंलिंगंद्विखंडंचरमेवच ॥ Śइव्P_1,19.34अब्। येकुर्वन्तिनरामूढानपूजाफलभागिनः ॥ Śइव्P_1,19.34च्द्। तस्माच्छास्त्रोक्तविधिना अखंडंचरसंज्ञकम् ॥ Śइव्P_1,19.35अब्। द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा ॥ Śइव्P_1,19.35च्द्। अखंडे तु चरे पूजासम्पूर्णफलदायिनी ॥ Śइव्P_1,19.36अब्। द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता ॥ Śइव्P_1,19.36च्द्। अखंडे स्थावरे पूजा न कामफलदायिनी ॥ Śइव्P_1,19.37अब्। प्रत्यवायकरीनित्यमित्युक्तंशास्त्रवेदिभिः ॥ Śइव्P_1,19.37च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनं नामैकोनविंशो ऽध्यायः Cहप्तेर् 20 सूत उवाच अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ॥ Śइव्P_1,20.1अब्। वैदिकेनैवमार्गेणभुक्तिमुक्तिप्रदायिनी ॥ Śइव्P_1,20.1च्द्। सूत्रोक्तविधिनास्नात्वासंध्यां कृत्वा यथाविधि ॥ Śइव्P_1,20.2अब्। ब्रह्मयज्ञंविधायादौततस्तर्पणमाचरेत् ॥ Śइव्P_1,20.2च्द्। नैत्यिकं सकलंकामं विधायानंतरंपुमान् ॥ Śइव्P_1,20. 3अब्। शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारकः ॥ Śइव्P_1,20.3च्द्। वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ॥ Śइव्P_1,20.4अब्। पूजयेत्परयाभक्त्यापार्थिवंलिंगमुत्तमम् ॥ Śइव्P_1,20.4च्द्। नदीतीरे तडागे च पर्वतेकानने ऽपिच ॥ Śइव्P_1,20.5अब्। शिवालये शुचौ देशे पार्थिवार्चा विधीयते ॥ Śइव्P_1,20.5च्द्। शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ॥ Śइव्P_1,20.6अब्। शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ॥ Śइव्P_1,20.6च्द्। विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ॥ Śइव्P_1,20.7अब्। वैश्येकृष्णा पादजाते ह्यथवा यत्र या भवेत् ॥ Śइव्P_1,20.7च्द्। संगृह्यमृत्तिकांलिंगनिर्माणार्थंप्रयत्नतः ॥ Śइव्P_1,20.8अब्। अतीवशुभदेशेचस्थापयेत्तांमृदंशुभाम् ॥ Śइव्P_1,20.8च्द्। संशोध्यचजलेनापिपिंडीकृत्य शनैः शनैः ॥ Śइव्P_1,20.9अब्। विधीयेतशुभंलिंगंपार्थिवंवेदमार्गतः ॥ Śइव्P_1,20.9च्द्। ततः संपूजयेद्भक्त्याभुक्तिमुक्तिफलाप्तये ॥ Śइव्P_1,20.10अब्। तत्प्रकारमहंवच्मिशृणुध्वंसंविधानतः ॥ Śइव्P_1,20.10च्द्। नमः शिवायमंत्रेणार्चनंद्रव्यंचप्रोक्षयेत् ॥ Śइव्P_1,20.11अब्। भूरसीतिचमंत्रेणक्षेत्रसिद्धिंप्रकारयेत् ॥ Śइव्P_1,20.11च्द्। आपोस्मानितिमंत्रेणजलसंस्कारमाचरेत् ॥ Śइव्P_1,20.12अब्। नमस्ते रुद्रमंत्रेण फाटिकाबंधमुच्यते ॥ Śइव्P_1,20.12च्द्। शंभवायेतिमंत्रेणक्षेत्रशुद्धिं प्रकारयेत् ॥ Śइव्P_1,20.13अब्। नमः पूर्वेण कुर्यात्पञ्चामृतस्यापि प्रोक्षणम् ॥ Śइव्P_1,20.13च्द्। नीलग्रीवायमंत्रेणनमःपूर्वेणभक्तिमान् ॥ Śइव्P_1,20.14अब्। चरेच्छंकरलिंगस्यप्रतिष्ठापनमुत्तमम् ॥ Śइव्P_1,20.14च्द्। भक्तितस्तत एतत्तेरुद्रायेति च मंत्रतः ॥ Śइव्P_1,20.15अब्। आसनं रमणीयं वैदद्याद्वैदिकमार्गकृत् ॥ Śइव्P_1,20.15च्द्। मानोमहन्तमितिचमंत्रेणावाहनंचरेत् ॥ Śइव्P_1,20.16अब्। यातेरुद्रेणमंत्रेणसंचरेदुपवेशनम् ॥ Śइव्P_1,20.16च्द्। मंत्रेणयामिषुमिति न्यासंकुर्याच्छिवस्यच ॥ Śइव्P_1,20.17अब्। अध्यवोचदिति प्रेम्णाधिवासंमनुनाचरेत् ॥ Śइव्P_1,20.17च्द्। मनुनासौजीव इतिदेवतान्यासमाचरेत् ॥ Śइव्P_1,20.18अब्। असौयोवसर्पतीति चाचरेदपसर्पणम् ॥ Śइव्P_1,20.18च्द्। नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ॥ Śइव्P_1,20. 19अब्। अर्घ्यं च रुद्रगायत्र्या ऽचमनं त्र्यंबकेण च ॥ Śइव्P_1,20.19च्द्। पयःपृथिव्यामिति च पयसास्नानमाचरेत् ॥ Śइव्P_1,20.20अब्। दधिक्राव्णेतिमंत्रेणदधिस्नानं च कारयेत् ॥ Śइव्P_1,20.20च्द्। घृटंस्नानेखलुघृतंघृतंयावेतिमंत्रतः ॥ Śइव्P_1,20. 21अब्। मधुवातामधुनक्तंमधुमान्न इति त्र्यृचा ॥ Śइव्P_1,20. 21च्द्। मधुखंडस्नपनंप्रोक्तमितिपञ्चामृतं स्मृतम् ॥ Śइव्P_1,20.22अब्। अथवा पाद्यमंत्रेण स्नानंपञ्चामृतेन च ॥ Śइव्P_1,20.22च्द्। मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ॥ Śइव्P_1,20.23अब्। नमो धृष्णवे इति वा उत्तरीयं च धापयेत् ॥ Śइव्P_1,20.23च्द्। या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ॥ Śइव्P_1,20.24अब्। शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥ Śइव्P_1,20.24च्द्। नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ॥ Śइव्P_1,20.25अब्। नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् ॥ Śइव्P_1,20. 25च्द्। नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ॥ Śइव्P_1,20.26अब्। नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् ॥ Śइव्P_1,20.26च्द्। नमःकपर्दिनेचेति धूपं दद्याद्यथाविधि ॥ Śइव्P_1,20.27अब्। दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥ Śइव्P_1,20.27च्द्। नमोज्येष्ठायमंत्रेण दद्यान्नैवेद्यमुत्तमम् ॥ Śइव्P_1,20.28अब्। मनुनात्र्यम्बकमितिपुनराचमनंस्मृतम् ॥ Śइव्P_1,20.28च्द्। इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् ॥ Śइव्P_1,20.29अब्। नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत् ॥ Śइव्P_1,20.29च्द्। मनो महांतमिति च मानस्तोके इति ततः ॥ Śइव्P_1,20.30अब्। मंत्रेद्वयेनैकदशाक्षतै रुद्रान्प्रपूजयेत् ॥ Śइव्P_1,20.30च्द्। हिरण्यगर्भ इति त्र्यृचादक्षिणांहिसमर्पयेत् ॥ Śइव्P_1,20.31अब्। देवस्यत्वेतिमंत्रेणह्यभिषेकंचरेद्बुधः ॥ Śइव्P_1,20.31च्द्। दीपमंत्रेणवाशंभोर्नीराजनविधिंचरेत् ॥ Śइव्P_1,20.32अब्। पुष्पांजलिंचरेद्भक्त्या इमा रुद्रायचत्र्यृचा ॥ Śइव्P_1,20.32च्द्। मानोमहान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ॥ Śइव्P_1,20.33अब्। मानस्तोकेति मंत्रेण साष्टाङ्गंप्रणमेत्सुधीः ॥ Śइव्P_1,20.33च्द्। एषते इतिमंत्रेणशिवमुद्रांप्रदर्शयेत् ॥ Śइव्P_1,20. 34अब्। यतोयत इत्यभयांज्ञानाख्यां त्र्यंबकेण च ॥ Śइव्P_1,20.34च्द्। नमःसेनेति मंत्रेणमहामुद्रांप्रदर्शयेत् ॥ Śइव्P_1,20.35अब्। दर्शयेद्धेनुमुद्रांचनमोगेभ्य ऋचानया ॥ Śइव्P_1,20.35च्द्। पञ्चमुद्राःप्रदर्श्याथ शिवमंत्रजपं चरेत् ॥ Śइव्P_1,20.36अब्। शतरुद्रियमंत्रेण जपेद्वेदविचक्षणः ॥ Śइव्P_1,20.36च्द्। ततः पञ्चाङ्गपाठंचकुर्याद्वेदविचक्षणः ॥ Śइव्P_1,20.37अब्। देवागात्वितिमंत्रेणकुर्याच्छंभोर्विसर्जनम् ॥ Śइव्P_1,20.37च्द्। इत्युक्तः शिवपूजायाव्यासतोवैदिकोविधिः ॥ Śइव्P_1,20.38अब्। समासतश्चशृणुतवैदिकंविधिमुत्तमम् ॥ Śइव्P_1,20.38च्द्। ऋचासद्योजातमितिमृदाहरणमाचरेत् ॥ Śइव्P_1,20.39अब्। वामदेवाय इति च जलप्रक्षेपमाचरेत् ॥ Śइव्P_1,20.39च्द्। अघोरेण च मंत्रेणलिंगनिर्माणमाचरेत् ॥ Śइव्P_1,20.40अब्। तत्पुरुषायमंत्रेणाह्वानं कुर्याद्यथाविधि ॥ Śइव्P_1,20.40च्द्। संयोजयेद्वेदिकायामीशानमनुनाहरम् ॥ Śइव्P_1,20.41अब्। अन्यत्सर्वं विधानंचकुर्यात्संक्षेपतः सुधीः ॥ Śइव्P_1,20.41च्द्। पञ्चाक्षरेणमंत्रेणगुरुदत्तेनवातथा ॥ Śइव्P_1,20.42अब्। कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ॥ Śइव्P_1,20.42च्द्। भवायभवनाशायमहादेवायधीमहि ॥ Śइव्P_1,20.43अब्। उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥ Śइव्P_1,20.43च्द्। अनेन मनुना वापि पूजयेच्छंकरंसुधीः ॥ Śइव्P_1,20.44अब्। सुभक्त्या चभ्रमंत्यक्त्वाभक्त्यैवफलदः शिवः ॥ Śइव्P_1,20.44च्द्। इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ॥ Śइव्P_1,20.45अब्। प्रोच्यतेन्यविधिः सम्यक्साधारणतयाद्विजः ॥ Śइव्P_1,20.45च्द्। पूजापार्थिवलिंगस्यसंप्रोक्ताशिवनामभिः ॥ Śइव्P_1,20.46अब्। तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥ Śइव्P_1,20. 46च्द्। हरोमहेश्वरः शंभुःशूलपाणिः पिनाकधृक् ॥ Śइव्P_1,20.47अब्। शिवः पशुपतिश्चैवमहादेव इति क्रमात् ॥ Śइव्P_1,20.47च्द्। मृदाहरणसंघट्टप्रतिष्ठाह्वानमेवच ॥ Śइव्P_1,20.48अब्। स्नपनंपूजनंचैवक्षमस्वेतिविसर्जनम् ॥ Śइव्P_1,20.48च्द्। अंकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ॥ Śइव्P_1,20.49अब्। कर्तव्याचक्रियासर्वाभक्त्यापरमयामुदा ॥ Śइव्P_1,20.49च्द्। कृत्वा न्यासविधिंसम्यक्षडङ्गकरयोस्तथा ॥ Śइव्P_1,20.50अब्। षडक्षरेणमंत्रेणततोध्यानंसमाचरेत् ॥ Śइव्P_1,20.50च्द्। कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् ॥ Śइव्P_1,20.51अब्। भक्तर्तिदावानलमप्रमेयंध्यायेदुमालिंगितविश्वभूषणम् ॥ Śइव्P_1,20.51च्द्। ध्यायेन्नित्यंमहेशंरजतगिरिनिभंचारुचंद्रावतंसंरत्नाकल्पोज्ज्वलांगंपरशुमृगवराभीतिहस्तंप्रसन्नम् ॥ Śइव्P_1,20.52अब्। पद्मासीनंसमंतात्स्थितममरगणैर्व्याघ्रकृत्तिंवसानंविश्वाद्यंविश्वबीजंनिखिलभयहरंपञ्चवक्त्रंत्रिनेत्रम् ॥ Śइव्P_1,20.52च्द्। इतिध्यात्वाचसंपूज्यपार्थिवंलिंगमुत्तमम् ॥ Śइव्P_1,20.53अब्। जपेत्पञ्चाक्षरंमंत्रंगुरुदत्तंयथाविधि ॥ Śइव्P_1,20.53च्द्। स्तुतिभिश्चैवदेवेशंस्तुवीतप्रणमन्सुधीः ॥ Śइव्P_1,20.54अब्। नानाभिधाभिर्विप्रेन्द्राः पठेद्वैशतरुद्रियम् ॥ Śइव्P_1,20.54च्द्। ततः साक्षतपुष्पाणिगृहीत्वांजलिनामुदा ॥ Śइव्P_1,20.55अब्। प्रार्थयेच्छंकरंभक्त्यामंत्रैरेभिःसुभक्तितः ॥ Śइव्P_1,20.55च्द्। तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहंसदामृड ॥ Śइव्P_1,20.56अब्। कृपानिध इतिज्ञात्वाभूतनाथप्रसीदमे ॥ Śइव्P_1,20.56च्द्। अज्ञानाद्यदिवाज्ञानाज्जप पूजादिकं मया ॥ Śइव्P_1,20.57अब्। कृतं तदस्तुसफलंकृपयातवशंकर ॥ Śइव्P_1,20.57च्द्। अहंपापीमहानद्यपावनश्चभवान्महान् ॥ Śइव्P_1,20.58अब्। इतिविज्ञायगौरीशयदिच्छसितथाकुरु ॥ Śइव्P_1,20.58च्द्। वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ॥ Śइव्P_1,20.59अब्। नज्ञातोसिमहादेवकुतोहंत्वंमहाशिव ॥ Śइव्P_1,20.59च्द्। यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर ॥ Śइव्P_1,20.60अब्। रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर ॥ Śइव्P_1,20.60च्द्। इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ॥ Śइव्P_1,20.61अब्। प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने ॥ Śइव्P_1,20.61च्द्। ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ॥ Śइव्P_1,20.62अब्। पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ॥ Śइव्P_1,20.62च्द्। ततो गलरवंकृत्वा प्रणमेच्छुचिनम्रधीः ॥ Śइव्P_1,20.63अब्। कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ॥ Śइव्P_1,20.63च्द्। इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ॥ Śइव्P_1,20.64अब्। भुक्तिदामुक्तिदाचैवशिवभक्तिविवर्धिनी ॥ Śइव्P_1,20.64च्द्। इत्यध्यायंसुचित्तेनयःपठेच्छृणुयादपि ॥ Śइव्P_1,20.65अब्। सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात् ॥ Śइव्P_1,20.65च्द्। आयुरायोग्यदंचैवयशस्यंस्वर्ग्यमेवच ॥ Śइव्P_1,20.66अब्। पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ॥ Śइव्P_1,20.66च्द्। इति श्रीशिवमहापुराणे प्र- विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशो ऽध्यायः Cहप्तेर् 21 ऋषय ऊचुः सूतसूतमहाभागव्यासशिष्यनमोस्तुते ॥ Śइव्P_1,21. 1अब्। सम्यगुक्तंत्वयातातपार्थिवार्चाविधानकम् ॥ Śइव्P_1,21.1च्द्। कामनाभेदमाश्रित्यसंख्यांब्रूहिविधानतः ॥ Śइव्P_1,21.2अब्। शिवपार्थिवलिंगानां कृपयादीनवत्सल ॥ Śइव्P_1,21.2च्द्। सूत उवाच शृणुध्वमृषयः सर्वेपार्थिवार्चाविधानकम् ॥ Śइव्P_1,21.3अब्। यस्यानुष्ठानमात्रेणकृतकृत्योभवेन्नरः ॥ Śइव्P_1,21.3च्द्। अकृत्वा पार्थिवं लिंगं योन्यदेवंप्रपूजयेत् ॥ Śइव्P_1,21.4अब्। वृथाभवतिसापूजादमदानादिकंवृथा ॥ Śइव्P_1,21.4च्द्। संख्यापार्थिवलिंगानांयथाकामंनिगद्यते ॥ Śइव्P_1,21.5अब्। संख्यासद्योमुनिश्रेष्ठनिश्चयेनफलप्रदा ॥ Śइव्P_1,21.5च्द्। प्रथमावाहनंतत्रप्रतिष्ठापूजनंपृथक् ॥ Śइव्P_1,21.6अब्। लिंगाकारंसमंतत्रसर्वंज्ञेयंपृथक्पृथक् ॥ Śइव्P_1,21.6च्द्। विद्यार्थीपुरुषःप्रीत्यासहस्रमितपार्थिवम् ॥ Śइव्P_1,21.7अब्। पूजयेच्छिवलिंगंहिनिश्चयात्तत्फलप्रदम् ॥ Śइव्P_1,21.7च्द्। नरःपार्थिवलिंगानांधनार्थीचतदर्धकम् ॥ Śइव्P_1,21.8अब्। पुत्रार्थीसार्धसाहस्रंवस्त्रार्थीशतपञ्चक्रम् ॥ Śइव्P_1,21.8च्द्। मोक्षार्थीकोटिगुणितंभूकामश्चसहस्रकम् ॥ Śइव्P_1,21.9अब्। दयार्थीचत्रिसाहस्रंतीर्थार्थीद्विसहस्रकम् ॥ Śइव्P_1,21.9च्द्। सुहृत्कामीत्रिसाहस्रंवश्यार्थीशतमष्टकम् ॥ Śइव्P_1,21.10अब्। मारणार्थीसप्तशतंमोहनार्थीशताष्टकम् ॥ Śइव्P_1,21.10च्द्। उच्चाटनपरश्चैवसहस्रंचयथोक्ततः ॥ Śइव्P_1,21.11अब्। स्तंभनार्थीसहस्रंतुद्वेषणार्थी तदर्धकम् ॥ Śइव्P_1,21.11च्द्। निगडान्मुक्तिकामस्तुसहस्रंसर्धमुत्तमम् ॥ Śइव्P_1,21.12अब्। महाराजभयेपञ्चशतंज्ञेयंविचक्षणैः ॥ Śइव्P_1,21.12च्द्। चौरादिसंकटेज्ञेयंपार्थिवानांशतद्वयम् ॥ Śइव्P_1,21.13अब्। डाकिन्यादिभयेपञ्चशतमुक्तंजपार्थिवम् ॥ Śइव्P_1,21.13च्द्। दारिद्र्येपञ्चसाहस्रमयुतंसर्वकामदम् ॥ Śइव्P_1,21.14अब्। अथनित्यविधिंवक्ष्येशृणुध्वंमुनिसत्तमाः ॥ Śइव्P_1,21.14च्द्। एकंपापहरंप्रोक्तंद्विलिंगंचार्थसिद्धिदम् ॥ Śइव्P_1,21.15अब्। त्रिलिंगंसर्वकामानांकारणंपरमीरितम् ॥ Śइव्P_1,21.15च्द्। उत्तरोत्तरमेवंस्यात्पूर्वोक्तगणानाविधि ॥ Śइव्P_1,21.16अब्। मतांतरमथोवक्ष्येसंख्यायांमुनिभेदतः ॥ Śइव्P_1,21.16च्द्। लिंगानामयुतंकृत्वापार्थिवानांसुबुद्धिमान् ॥ Śइव्P_1,21.17अब्। निर्भयोहिभवेन्नूनंमहाराजभयंहरेत् ॥ Śइव्P_1,21.17च्द्। कारागृहादिमुक्त्यर्थमयुतंकारयेद्बुधः ॥ Śइव्P_1,21.18अब्। डाकिन्यादिभयेसप्तसहस्रंकारयेत्तथा ॥ Śइव्P_1,21.18च्द्। सहस्राणिपञ्चपञ्चाशदपुत्रःप्रकारयेत् ॥ Śइव्P_1,21.19अब्। लिंगानामयुतेनैवकन्यकासंततिंलभेत् ॥ Śइव्P_1,21.19च्द्। लिंगानामयुतेनैवविष्ण्वादैश्वर्यमाप्नुयात् ॥ Śइव्P_1,21.20अब्। लिंगानांप्रयुतेनैवह्यतुलांश्रियमाप्नुयात् ॥ Śइव्P_1,21.20च्द्। कोटिमेकांतुलिंगानां यः करोतिनरोभुवि ॥ Śइव्P_1,21.21अब्। शिव एवभवेत्सोपिनात्रकार्या विचारणा ॥ Śइव्P_1,21.21च्द्। अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा ॥ Śइव्P_1,21.22अब्। भुक्तिदामुक्तिदानित्यंततःकामर्थिनांनृणाम् ॥ Śइव्P_1,21.22च्द्। विनालिंगार्चनं यस्य कालोगच्छति नित्यशः ॥ Śइव्P_1,21.23अब्। महाहानिर्भवेत्तस्यदुर्वृत्तस्यदुरात्मनः ॥ Śइव्P_1,21.23च्द्। एकतः सर्वदानानि व्रतानि विविधानि च ॥ Śइव्P_1,21.24अब्। तीर्थानिनियमायज्ञालिंगार्चाचैकतः स्मृता ॥ Śइव्P_1,21.24च्द्। कलौलिंगार्चनंश्रेष्ठंतथालोकेप्रदृश्यते ॥ Śइव्P_1,21.25अब्। तथानास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः ॥ Śइव्P_1,21.25च्द्। भुक्तिमुक्तिप्रदंलिंगं विविधापन्निवारणम् ॥ Śइव्P_1,21.26अब्। पूजयित्वानरोनित्यं शिवसायुज्यमाप्नुयात् ॥ Śइव्P_1,21.26च्द्। शिवानाममयं लिंगंनित्यं पूज्यं महर्षिभिः ॥ Śइव्P_1,21.27अब्। यतश्च सर्वलिंगेषु तस्मात्पूज्यंविधानतः ॥ Śइव्P_1,21.27च्द्। उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् ॥ Śइव्P_1,21.28अब्। मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ॥ Śइव्P_1,21.28च्द्। चतुरंगुलमुच्छ्रायंरम्यंवेदिकयायुतम् ॥ Śइव्P_1,21.29अब्। उत्तमंलिंगमाख्यातंमुनिभिःशास्त्रकोविदैः ॥ Śइव्P_1,21.29च्द्। तदर्धंमध्यमंप्रोक्तंतदर्धमघमंस्मृतम् ॥ Śइव्P_1,21.30अब्। इत्थंत्रिविधमाख्यातमुत्तरोत्तरतःपरम् ॥ Śइव्P_1,21.30च्द्। अनेकलिंगंयोनित्यंभक्तिश्रद्धासमन्वितः ॥ Śइव्P_1,21.31अब्। पूजयेत्सलभेत्कामान्मनसा मानसेप्सितान् ॥ Śइव्P_1,21.31च्द्। नलिंगाराधनादन्यत्पुण्यंवेदचतुष्टये ॥ Śइव्P_1,21.32अब्। विद्यतेसर्वशास्त्राणामेष एवविनिश्चयः ॥ Śइव्P_1,21.32च्द्। सर्वमेतत्परित्यज्यकर्मजालमशेषतः ॥ Śइव्P_1,21.33अब्। भक्त्यापरमया विद्वांल्लिंगमेकंप्रपूजयेत् ॥ Śइव्P_1,21.33च्द्। लिंगेर्चितेर्चितंसर्वंजगत्स्थावरजंगमम् ॥ Śइव्P_1,21.34अब्। संसारांबुधिमग्नानांनान्यत्तारणसाधनम् ॥ Śइव्P_1,21.34च्द्। अज्ञानतिमिरांधानांविषयासक्तचेतसाम् ॥ Śइव्P_1,21.35अब्। प्लवोनान्योस्तिजगतिलिंगाराधनमंतरा ॥ Śइव्P_1,21.35च्द्। हरिब्रह्मादयोदेवामुनयोयक्षराक्षसाः ॥ Śइव्P_1,21.36अब्। गंधर्वाश्चरणास्सिद्धादैतेयादानवास्तथा ॥ Śइव्P_1,21.36च्द्। नागाःशेषप्रभृतयोगरुडाद्याःखगास्तथा ॥ Śइव्P_1,21.37अब्। सप्रजापतयश्चान्येमनवःकिन्नरानराः ॥ Śइव्P_1,21.37च्द्। पूजयित्वामहाभक्त्यालिंगंसर्वार्थसिद्धिदम् ॥ Śइव्P_1,21.38अब्। प्राप्ताःकामानभीष्टांश्चतांस्तान्सर्वान्हृदिस्थितान् ॥ Śइव्P_1,21.38च्द्। ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवाप्रतिलोमजः ॥ Śइव्P_1,21.39अब्। पूजयेत्सततंलिंगंतत्तन्मंत्रेणसादरम् ॥ Śइव्P_1,21.39च्द्। किंबहूक्तेनमुनयःस्त्रीणामपितथान्यतः ॥ Śइव्P_1,21.40अब्। अधिकारोस्तिसर्वेषांशिवलिंगार्चनेद्विजाः ॥ Śइव्P_1,21.40च्द्। द्विजानांवैदिकेनापिमार्गेणाराधनंवरम् ॥ Śइव्P_1,21.41अब्। अन्येषामपिजंतूनांवैदिकेननसंमतम् ॥ Śइव्P_1,21.41च्द्। वैदिकानांद्विजानांचपूजावैदिकमार्गतः ॥ Śइव्P_1,21.42अब्। कर्तव्यानान्यमार्गेण इत्याहभगवाञ्छिवः ॥ Śइव्P_1,21.42च्द्। दधीच गौतमादीनांशापेनादग्धचेतसाम् ॥ Śइव्P_1,21.43अब्। द्विजानां जायतेश्रद्धानैव वैदिककर्मणि ॥ Śइव्P_1,21.43च्द्। योवैदिकमनादृत्यकर्मस्मार्तमथापिवा ॥ Śइव्P_1,21.44अब्। अन्यत्समाचरेन्मर्त्योनसंकल्पफलंलभेत् ॥ Śइव्P_1,21.44च्द्। इत्थंकृत्वार्चनंशंभोर्नैवेद्यांतंविधानतः ॥ Śइव्P_1,21.45अब्। पूजयेदष्टमूर्तीश्चतत्रैवत्रिजगन्मयीः ॥ Śइव्P_1,21.45च्द्। क्षितिरापोनलोवायुराकाशः सूर्यसोमकौ ॥ Śइव्P_1,21.46अब्। यजमान इति त्वष्टौमूर्तयःपरिकीर्तिताः ॥ Śइव्P_1,21.46च्द्। शर्वोभवश्च रुद्रश्च उग्रोभीम इतीश्वरः ॥ Śइव्P_1,21.47अब्। महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ॥ Śइव्P_1,21.47च्द्। पूजयेत्परिवारं चततःशंभोःसुभक्तितः ॥ Śइव्P_1,21.48अब्। ईशानादिक्रमात्तत्रचंदनाक्षतपत्रकैः ॥ Śइव्P_1,21.48च्द्। ईशानंनन्दिनंचंडंमहाकालंचभृंगिणम् ॥ Śइव्P_1,21.49अब्। वृषंस्कंदंकपर्दीशंसोमंशुक्रंचतत्क्रमात् ॥ Śइव्P_1,21.49च्द्। अग्रतोवीरभद्रं च पृष्ठेकीर्तिमुखं तथा ॥ Śइव्P_1,21.50अब्। तत एकादशान्नुद्रान्पूजयेद्विधिनाततः ॥ Śइव्P_1,21.50च्द्। ततःपञ्चाक्षरं जप्त्वा शतरुद्रियमेव च ॥ Śइव्P_1,21.51अब्। स्तुतीर्नानाविधाः कृत्वा पञ्चांगपठनं तथा ॥ Śइव्P_1,21.51च्द्। ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् ॥ Śइव्P_1,21.52अब्। इतिप्रोक्तमशेषं च शिवपूजनमादरात् ॥ Śइव्P_1,21.52च्द्। रात्रावुदङ्मुखः कुर्याद्देवकार्यंसदैवहि ॥ Śइव्P_1,21.53अब्। शिवार्चनं सदाप्येवंशुचिः कुर्यादुदङ्मुखः ॥ Śइव्P_1,21.53च्द्। न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् ॥ Śइव्P_1,21.54अब्। नप्रतीचींयतः पृष्ठमतोग्राह्यं समाश्रयेत् ॥ Śइव्P_1,21.54च्द्। विनाभस्मत्रिपुंड्रेण विना रुद्राक्षमालया ॥ Śइव्P_1,21.55अब्। बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः ॥ Śइव्P_1,21.55च्द्। भस्माप्राप्तौमुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ॥ Śइव्P_1,21.56अब्। तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुण्ड्रकम् ॥ Śइव्P_1,21.56च्द्। इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशो ऽध्यायः Cहप्तेर् 22 ऋष्य ऊचुः अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ॥ Śइव्P_1,22.1अब्। ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ Śइव्P_1,22.1च्द्। सूत उवाच शृणुध्वंमुनयःसर्वेसावधानतयाधुना ॥ Śइव्P_1,22. 2अब्। सर्वंवदामिसंप्रीत्या धन्या यूयं शिवव्रताः ॥ Śइव्P_1,22.2च्द्। शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ॥ Śइव्P_1,22.3अब्। भक्षयेच्छिवनैवेद्यंत्यजेदग्राह्यभावनाम् ॥ Śइव्P_1,22.3च्द्। दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः ॥ Śइव्P_1,22.4अब्। भक्तेतुशिवनैवेद्येपुण्यान्या यांतिकोटिशः ॥ Śइव्P_1,22.4च्द्। अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ॥ Śइव्P_1,22.5अब्। भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ Śइव्P_1,22.5च्द्। यद्गृहेशिवनैवेद्यप्रचारोपिप्रजायते ॥ Śइव्P_1,22.6अब्। तद्गृहंपावनंसर्वमन्यपावनकारणम् ॥ Śइव्P_1,22.6च्द्। आगतं शिवनैवेद्यं गृहीत्वा शिरसामुदा ॥ Śइव्P_1,22.7अब्। भक्षणीयंप्रयत्ने न शिवस्मरणपूर्वकम् ॥ Śइव्P_1,22.7च्द्। आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ॥ Śइव्P_1,22.8अब्। विलंबेपापसंबंधोभवत्येव हि मानवे ॥ Śइव्P_1,22.8च्द्। न यस्य शिवनैवेद्यग्रहणेच्छाप्रजायते ॥ Śइव्P_1,22.9अब्। सपापिष्ठोगरिष्ठःस्यान्नरकंयात्यपिध्रुवम् ॥ Śइव्P_1,22.9च्द्। हृदये चन्द्रकान्ते च स्वर्णरूप्यादिनिर्मिते ॥ Śइव्P_1,22.10अब्। शिवदीक्षावताभक्तेनेदंभक्ष्यमितीर्यते ॥ Śइव्P_1,22.10च्द्। शिवदीक्षान्वितोभक्तो महाप्रसादसंज्ञकम् ॥ Śइव्P_1,22.11अब्। सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम् ॥ Śइव्P_1,22.11च्द्। अन्यदीक्षायुजांन्ःणांशिवभक्तिरतात्मनाम् ॥ Śइव्P_1,22.12अब्। शृणुध्वंनिर्णयंप्रीत्याशिवनैवेद्यभक्षणे ॥ Śइव्P_1,22.12च्द्। शालग्रामोद्भवे लिंगे रसलिंगेतथा द्विजाः ॥ Śइव्P_1,22.13अब्। पाषाणे राजतेस्वर्णेसुरसिद्धप्रतिष्ठिते ॥ Śइव्P_1,22.13च्द्। काश्मीरे स्फाटिकेरात्ने ज्योतिर्लिंगेषु सर्वशः ॥ Śइव्P_1,22.14अब्। चान्द्रायणसमं प्रोक्तं शंभोर्नैवेद्यभक्षणम् ॥ Śइव्P_1,22.14च्द्। ब्रह्महापि शुचिर्भूत्वा निर्माल्यंयस्तुधारयेत् ॥ Śइव्P_1,22.15अब्। भक्षयित्वाद्रुतंतस्यसर्वपापं प्रणश्यति ॥ Śइव्P_1,22.15च्द्। चंडाधिकारोयत्रास्तितद्भाक्तव्यंनमानवैः ॥ Śइव्P_1,22.16अब्। चंडाधिकारोनोयत्रभोक्तव्यंतच्चभक्तितः ॥ Śइव्P_1,22.16च्द्। बाणलिंगेचलौहेचसिद्धेलिंगेस्वयंभुवि ॥ Śइव्P_1,22.17अब्। प्रतिमासुचसर्वासुनचंडोधिकृतोभवेत् ॥ Śइव्P_1,22.17च्द्। स्नापयित्वाविधानेनयोलिंगस्नापनोदकम् ॥ Śइव्P_1,22.18अब्। त्रिःपिबेत्त्रिविधंपापंतस्येहाशु विनश्यति ॥ Śइव्P_1,22.18च्द्। अग्राह्यंशिवनैवेद्यं पत्रंपुष्पंफलंजलम् ॥ Śइव्P_1,22.19अब्। शालग्रामशिलासंगात्सर्वं याति पवित्रिताम् ॥ Śइव्P_1,22.19च्द्। लोंगोपरि च यद्द्रव्यंतदग्राह्यं मुनीश्वराः ॥ Śइव्P_1,22.20अब्। सुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः ॥ Śइव्P_1,22.20च्द्। नैवेद्यनिर्णयःप्रोक्त इत्थंवोमुनिसत्तमाः ॥ Śइव्P_1,22.21अब्। शृणुध्वं बिल्वमाहात्म्यं सावधानतया ऽदरात् ॥ Śइव्P_1,22.21च्द्। महादेवस्वरूपोयं बिल्वोदेवैरपिस्तुतिः ॥ Śइव्P_1,22.22अब्। यथाकथंचिदेतस्यमहिमाज्ञायतेकथम् ॥ Śइव्P_1,22.22च्द्। पुण्यतीर्थानियावंतिलोकेषुप्रथितान्यपि ॥ Śइव्P_1,22.23अब्। तानिसर्वाणितीर्थानिबिल्वमूलेवसंतिहि ॥ Śइव्P_1,22.23च्द्। बिल्वमूले महादेवं लिंगरूपिणमव्ययम् ॥ Śइव्P_1,22.24अब्। यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम् ॥ Śइव्P_1,22.24च्द्। बिल्वमूले जलैर्यस्तु मूर्धानमभिषिंचति ॥ Śइव्P_1,22.25अब्। स सर्वतीर्थस्नातःस्यात्स एव भुवि पावनः ॥ Śइव्P_1,22.25च्द्। एतस्यबिल्वमूलस्याथालवालमनुत्तमम् ॥ Śइव्P_1,22.26अब्। जलाकुलंमहादेवोदृष्ट्वातुष्टोभवत्यलम् ॥ Śइव्P_1,22.26च्द्। पूजयेद्विल्वमूलं यो गंधपुष्पादिभिर्नरः ॥ Śइव्P_1,22.27अब्। शिवलोकमवाप्नोतिसंततिर्वर्धते सुखम् ॥ Śइव्P_1,22.27च्द्। बिल्वमूले दीपमालांयः कल्पयति सादरम् ॥ Śइव्P_1,22.28अब्। सतत्त्वज्ञानसंपन्नोमहेशांतर्गतोभवेत् ॥ Śइव्P_1,22.28च्द्। बिल्वशाखां समादाय हस्तेन नवपल्लवम् ॥ Śइव्P_1,22.29अब्। गृहीत्वापूजयेद्बिल्वंसचपापैः प्रमुच्यते ॥ Śइव्P_1,22.29च्द्। बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ॥ Śइव्P_1,22.30अब्। एकंवाकोटिगुणितंतस्यपुण्यंप्रजायते ॥ Śइव्P_1,22.30च्द्। बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम् ॥ Śइव्P_1,22.31अब्। यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥ Śइव्P_1,22.31च्द्। सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम् ॥ Śइव्P_1,22.32अब्। प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः ॥ Śइव्P_1,22.32च्द्। प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत् ॥ Śइव्P_1,22.33अब्। अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत् ॥ Śइव्P_1,22.34अब्। पूजान्ते स्थापयेल्लिंगं पुटे शुद्धे पृथग्गृहे ॥ Śइव्P_1,22.34च्द्। करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ॥ Śइव्P_1,22.35अब्। निवृत्तानां परंसूक्ष्मं लिंगमेव विशिष्यते ॥ Śइव्P_1,22.35च्द्। विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ Śइव्P_1,22.36अब्। पूजां कृत्वा तथा लिंगंशिरसाधारयेत्सदा ॥ Śइव्P_1,22.36च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनामद्वाविंशो ऽध्यायः Cहप्तेर् 23 ऋषय ऊचुः सूतसूतमहाभागव्यासशिष्यनमोस्तुते ॥ Śइव्P_1,23.1अब्। तदेवव्यासतोब्रूहिभस्ममाहात्म्यमुत्तमम् ॥ Śइव्P_1,23.1च्द्। तथा रुद्राक्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ॥ Śइव्P_1,23.2अब्। त्रितयं ब्रूहिसुप्रीत्याममानंदयचेतसम् ॥ Śइव्P_1,23.2च्द्। सूत उवाच साधुपृष्टंभवद्भिश्चलोकानांहितकारकम् ॥ Śइव्P_1,23.3अब्। भवंतोवैमहाधन्याः पवित्राः कुलभूषणाः ॥ Śइव्P_1,23.3च्द्। येषांचैवशिवःसाक्षाद्दैवतंपरमंशुभम् ॥ Śइव्P_1,23.4अब्। सदाशिवकथालोकेवल्लभाभवतां सदा ॥ Śइव्P_1,23.4च्द्। तेधन्याश्चकृतार्थाश्चसफलंदेहधारणम् ॥ Śइव्P_1,23.5अब्। उद्धृतञ्चकुलंतेषांयेशिवंसमुपासते ॥ Śइव्P_1,23.5च्द्। मुखेयस्यशिवनामसदाशिवशिवेतिच ॥ Śइव्P_1,23.6अब्। पापानिनस्पृशंत्येवखदिरांगारंकयथा ॥ Śइव्P_1,23.6च्द्। श्रीशिवायनमस्तुभ्यंमुखंव्याहरतेयदा ॥ Śइव्P_1,23.7अब्। तन्मुखंपावनंतीर्थंसर्वपापविनाशनम् ॥ Śइव्P_1,23.7च्द्। तन्मुखञ्चतथायोवैपश्यतिप्रीतिमान्नरः ॥ Śइव्P_1,23.8अब्। तीर्थजन्यंफलंतस्यभवतीतिसुनिश्चितम् ॥ Śइव्P_1,23.8च्द्। यत्रत्रयंसदातिष्ठेदेतच्छुभतरंद्विजा ॥ Śइव्P_1,23.9अब्। तस्यदर्शनमात्रेणवेणीस्नानफलंलभेत् ॥ Śइव्P_1,23.9च्द्। शिवनामविभूतिश्चतथारुद्राक्ष एव च ॥ Śइव्P_1,23.10अब्। एतत्त्रयंमहापुण्यंत्रिवेणीसदृशंस्मृतम् ॥ Śइव्P_1,23.10च्द्। एतत्त्रयंशरीरेचयस्यतिष्ठतिनित्यशः ॥ Śइव्P_1,23.11अब्। तस्यैवदर्शनंलोकेदुर्लभंपापहारकम् ॥ Śइव्P_1,23.11च्द्। तद्दर्शनंयथावेणीनोभयोरंतरंमनाक् ॥ Śइव्P_1,23.12अब्। एवंयोनविजानातिसपापिष्ठोनसंशयः ॥ Śइव्P_1,23.12च्द्। विभूतिर्यस्यनोभालेनांगेरुद्राक्षधारणम् ॥ Śइव्P_1,23.13अब्। नास्ये शिवमयीवाणीतंत्यजेदधमंयथा ॥ Śइव्P_1,23.13च्द्। शैवंनामयथागंगाविभूतिर्यमुनामता ॥ Śइव्P_1,23.14अब्। रुद्राक्षं विधिजाप्रोक्तासर्वपापाविनाशिनी ॥ Śइव्P_1,23.14च्द्। शरीरेचत्रयंयस्यतत्फलंचैकतःस्थितम् ॥ Śइव्P_1,23.15अब्। एकतोवेणिकायाश्चस्नानजंतुफलंबुधैः ॥ Śइव्P_1,23.15च्द्। तदेवंतुलितंपूर्वंब्रह्मणाहितकारिणा ॥ Śइव्P_1,23.16अब्। समानं चैवतज्जातंतस्माद्धार्यंसदाबुधैः ॥ Śइव्P_1,23.16च्द्। तद्दिनंहिसमारभ्यब्रह्मविष्ण्वादिभिःसरैः ॥ Śइव्P_1,23.17अब्। धार्यते त्रितयंतच्चदर्शनात्पापहारकम् ॥ Śइव्P_1,23.17च्द्। ऋष्य ऊचुः ईदृशंहिफलंप्रोक्तंनामादित्रितयोद्भवम् ॥ Śइव्P_1,23.18अब्। तन्माहात्म्यंविशेषेणवक्तुमर्हसिसुव्रत ॥ Śइव्P_1,23.18च्द्। सूत उवाच ऋषयोहिमहाप्राज्ञाः सच्छैवाज्ञानिनांमराः ॥ Śइव्P_1,23.19अब्। तन्माहात्म्यंहिसद्भक्त्याशृणुतादरतोद्विजाः ॥ Śइव्P_1,23.19च्द्। सुगूढमपि शास्त्रेषुपुराणेश्रुतिष्वपि ॥ Śइव्P_1,23.20अब्। भवत्स्नेहान्मया विप्राःप्रकाशः क्रियते ऽधुना ॥ Śइव्P_1,23.20च्द्। कस्तत्त्रितयमाहात्म्यंसंजानातिद्विजोत्तमाः ॥ Śइव्P_1,23.21अब्। महेश्वरंविनासर्वंब्रह्माण्डेसदसत्परम् ॥ Śइव्P_1,23.21च्द्। वच्म्यहंनाममाहात्म्यंयथाभक्तिसमासतः ॥ Śइव्P_1,23.22अब्। शृणुतप्रीतितोविप्राः सर्वपापहरंपरम् ॥ Śइव्P_1,23.22च्द्। शिवेतिनामदावाग्नेर्महापातकपर्वताः ॥ Śइव्P_1,23.23अब्। भस्मीभवंत्यनायासात्सत्यंसत्यंनसंशयः ॥ Śइव्P_1,23.23च्द्। पापमूलानि दुःखानिविविधान्यपिशौनक ॥ Śइव्P_1,23.24अब्। शिवनामैकनश्यानिनान्यनश्यानिसर्वथा ॥ Śइव्P_1,23.24च्द्। सवैदिकः सपुण्यात्मासधन्यस्सबुधोमतः ॥ Śइव्P_1,23.25अब्। शिवनामजपासक्तोयोनित्यंभुविमानव ॥ Śइव्P_1,23.25च्द्। भवंतिविविधाधर्मास्तेषांसद्यःफलोन्मुखाः ॥ Śइव्P_1,23.26अब्। येषांभवतिविश्वासःशिवनामजपेमुने ॥ Śइव्P_1,23.26च्द्। पातकानिविनश्यंतियावंतिशिवनामतः ॥ Śइव्P_1,23.27अब्। भुवितावंतिपापानिक्रियंतेननरैर्मुने ॥ Śइव्P_1,23.27च्द्। ब्रह्महत्यादिपापानांराशीनप्रमितान्मुने ॥ Śइव्P_1,23.28अब्। शिवनामद्रुतंप्रोक्तंनाशयत्यखिलान्नरैः ॥ Śइव्P_1,23.28च्द्। शिवनामतरींप्राप्यसंसाराब्धिंतरंतिये ॥ Śइव्P_1,23.29अब्। संसारमूलपापानितानिनश्यंत्यसंशयम् ॥ Śइव्P_1,23.29च्द्। संसारमूलभूतानांपातकानांमहामुने ॥ Śइव्P_1,23.30अब्। शिवनामकुठारेणविनाशोजायतेध्रुवम् ॥ Śइव्P_1,23.30च्द्। शिवनामामृतंपेयंपापदावानलार्दितैः ॥ Śइव्P_1,23.31अब्। पापदावाग्नितप्तानांशांतिस्तेनविनानहि ॥ Śइव्P_1,23.31च्द्। शिवेतिनामपीयूषवर्षवर्षधारापरिप्लुताः ॥ Śइव्P_1,23.32अब्। संसारदवमध्येपिनशोचंतिकदाचन ॥ Śइव्P_1,23.32च्द्। शिवनाम्निमहद्भक्तिर्जातायेषांमहात्मनाम् ॥ Śइव्P_1,23.33अब्। तद्विधानांतुसहसामुक्तिर्भवतिसर्वथा ॥ Śइव्P_1,23.33च्द्। अनेकजन्मभिर्येनतपस्तप्तंमुनीश्वर ॥ Śइव्P_1,23.34अब्। शिवनाम्निभवेद्भक्तिःसर्वपापापहारिणी ॥ Śइव्P_1,23.34च्द्। यस्या साधारणं शंभुनाम्निभक्तिरखंडिता ॥ Śइव्P_1,23.35अब्। तस्यैवमोक्षः सुलभोनान्यस्येतिमतिर्मम ॥ Śइव्P_1,23.35च्द्। कृत्वाप्यनेकपापानिशिवनामजपादरः ॥ Śइव्P_1,23.36अब्। सर्वपापविनिर्मुक्तोभवत्येवनसंशयः ॥ Śइव्P_1,23.36च्द्। भवंतिभस्मसाद्वृक्षादवदग्धायथावने ॥ Śइव्P_1,23.37अब्। तथातावंतिदग्धानिपापानिशिवनामतः ॥ Śइव्P_1,23.37च्द्। योनित्यंभस्मपूतांगः शिवनामजपादरः ॥ Śइव्P_1,23.38अब्। संतरत्येवसंसारंसघोरमपिशौनक ॥ Śइव्P_1,23.38च्द्। ब्रह्मस्वहरणंकृत्वाहत्वापिब्राह्मणान्बहून् ॥ Śइव्P_1,23.39अब्। नलिप्यतेनरः पापैःशिवनामजपादरः ॥ Śइव्P_1,23.39च्द्। विलोक्यवेदानखिलाञ्छिवनामजपःपरम् ॥ Śइव्P_1,23.40अब्। संसारतारणोपाय इतिपूर्वैर्विनिश्चितः ॥ Śइव्P_1,23.40च्द्। किंबहूक्त्यामुनिश्रेष्ठाः श्लोकेनैकेनवच्म्यहम् ॥ Śइव्P_1,23.41अब्। शिवनाम्नोमहिमानंसर्वपापापहारिणम् ॥ Śइव्P_1,23.41च्द्। पापानांहरणेशंभोर्नामः शक्तिर्हिपावनी ॥ Śइव्P_1,23.42अब्। शक्नोतिपातकंतावत्कर्तुंनापिनरः क्वचित् ॥ Śइव्P_1,23.42च्द्। शिवनामप्रभावेणलेभेसद्गतिमुत्तमाम् ॥ Śइव्P_1,23.43अब्। इन्द्रद्युम्ननृपःपूर्वंमहापापः पुरामुने ॥ Śइव्P_1,23.43च्द्। तथाकाचिद्द्विजायोषासौमुनेबहुपापिनी ॥ Śइव्P_1,23.44अब्। शिवनामप्रभावेणलेभेसद्गतिमुत्तमाम् ॥ Śइव्P_1,23.44च्द्। इत्युक्तंवोद्विजश्रेष्ठानाममाहात्म्यमुत्तमम् ॥ Śइव्P_1,23.45अब्। शृणुध्वंभस्ममाहात्म्यंसर्वपावनपावनम् ॥ Śइव्P_1,23.45च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशो ऽध्यायः Cहप्तेर् 24 सूत उवाच द्विविधंभस्मसंप्रोक्तंसर्वमंगलदंपरम् ॥ Śइव्P_1,24.1अब्। तत्प्रकारमहंवक्ष्येसावधानतयाशृणु ॥ Śइव्P_1,24.1च्द्। एकंज्ञेयं महाभस्मद्वितीयंस्वल्पसंज्ञकम् ॥ Śइव्P_1,24.2अब्। महाभस्म इतिप्रोक्तंभस्मनानाविधंपरम् ॥ Śइव्P_1,24.2च्द्। तद्भस्मत्रिविधंप्रोक्तंश्रोतंस्मार्तंचलौकिकम् ॥ Śइव्P_1,24.3अब्। भस्मैव स्वल्पसज्ञाहिबहुधापरिकीर्तितम् ॥ Śइव्P_1,24.3च्द्। श्रौतंभस्मतथास्मार्तंद्विजानामेवकीर्तितम् ॥ Śइव्P_1,24.4अब्। अन्येषामपिसर्वेषामपरंभस्मलौकिकम् ॥ Śइव्P_1,24.4च्द्। धारणंमंत्रतः प्रोक्तंद्विजानांमुनिपुंगवैः ॥ Śइव्P_1,24.5अब्। केवलंधारणंज्ञेयमन्येषांमंत्रवर्जितम् ॥ Śइव्P_1,24.5च्द्। आग्नेयमुच्यतेभस्मदग्धगोमयसंभवम् ॥ Śइव्P_1,24.6अब्। तदापिद्रव्यमित्युक्तंत्रिपुंड्रस्यमहामुने ॥ Śइव्P_1,24.6च्द्। अग्निहोत्रोत्थितंभस्मसंग्राह्यंवामनीषिभिः ॥ Śइव्P_1,24.7अब्। अन्ययज्ञोत्थितंवापित्रिपुण्ड्रस्यचधारणे ॥ Śइव्P_1,24.7च्द्। अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः ॥ Śइव्P_1,24.8अब्। सप्तभिधूलनंकार्यंभस्मनासजलेनच ॥ Śइव्P_1,24.8च्द्। वर्णानामाश्रमाणांचमंत्रतोमंत्रतोपि च ॥ Śइव्P_1,24.9अब्। त्रिपुंड्रोद्धूलनंप्रोक्तजाबालैरादरेणच ॥ Śइव्P_1,24.9च्द्। भस्मनोद्धूलनंचैवयथातिर्यक्त्रिपुंड्रकम् ॥ Śइव्P_1,24.10अब्। प्रमादादपिमोक्षार्थीनत्यजेदितिविश्रुतिः ॥ Śइव्P_1,24.10च्द्। शिवेनविष्णुनाचैवतथातिर्यक्त्रिपुंड्रकम् ॥ Śइव्P_1,24.11अब्। उमादेवीचलक्ष्मींश्चवाचान्याभिश्चनित्यशः ॥ Śइव्P_1,24.11च्द्। ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपिचसंस्करैः ॥ Śइव्P_1,24.12अब्। अपभ्रंशैर्धृतंभस्मत्रिपुंड्रोद्धूलनात्मना ॥ Śइव्P_1,24.12च्द्। उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये ॥ Śइव्P_1,24.13अब्। तेषांनास्तिसमाचारोवर्णाश्रमसमन्वितः ॥ Śइव्P_1,24.13च्द्। उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये ॥ Śइव्P_1,24.14अब्। तेषांनास्तिविनिमुंक्तिस्संसाराज्जन्मकोटिभिः ॥ Śइव्P_1,24.14च्द्। उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्तिये ॥ Śइव्P_1,24.15अब्। तेषांनास्तिशिवज्ञानंकल्पकोटिशतैरपि ॥ Śइव्P_1,24.15च्द्। उद्धूलनंत्रिपुंड्रं च श्रद्धयानाचरन्तिये ॥ Śइव्P_1,24.16अब्। तेमहापातकैर्युक्ता इतिशास्त्रीयनिर्णयः ॥ Śइव्P_1,24.16च्द्। उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्ति ये ॥ Śइव्P_1,24.17अब्। तेषामाचरितं सर्वंविपरीतफलाय हि ॥ Śइव्P_1,24.17च्द्। महापातकयुक्तानां जंतूनांशर्वविद्विषाम् ॥ Śइव्P_1,24.18अब्। त्रिपुंड्रोद्धूलनद्वेषोजायतेसुदृढं मुने ॥ Śइव्P_1,24.18च्द्। शिवाग्निकार्यं यः कृत्वाकुर्यात्त्रियायुषात्मवित् ॥ Śइव्P_1,24.19अब्। मुच्यतेसर्वपापैस्तुस्पृष्टेनभस्मनानरः ॥ Śइव्P_1,24.19च्द्। सितेनभस्मनाकुर्यात्त्रिसन्ध्यंयस्त्रिपुण्ड्रकम् ॥ Śइव्P_1,24.20अब्। सर्वपापविनिर्मुक्तः शिवेनसहमोदते ॥ Śइव्P_1,24.20च्द्। सितेनभस्मना कुर्यालाटे तु त्रिपुण्ड्रकम् ॥ Śइव्P_1,24.21अब्। योसावनादिभूतान्हिलोकानाप्तो मृतोभवेत् ॥ Śइव्P_1,24.21च्द्। अकृत्वा भस्मनास्नानं न जपेद्वैषडक्षरम् ॥ Śइव्P_1,24.22अब्। त्रिपुंड्रं च रचित्वा तु विधिनाभस्मनाजपेत् ॥ Śइव्P_1,24.22च्द्। अदयो वाधमो वापि सर्वपापान्वितोपि वा ॥ Śइव्P_1,24.23अब्। उषःपापान्वितो वापिमूर्खो वा पतितोपि वा ॥ Śइव्P_1,24.23च्द्। यस्मिन्देशेवसेन्नित्यंभूतिशासनसंयुतः ॥ Śइव्P_1,24.24अब्। सर्वतीर्थैश्चक्रतुभिःसांनिध्यंक्रियतेसदा ॥ Śइव्P_1,24.24च्द्। त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ॥ Śइव्P_1,24.25अब्। पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥ Śइव्P_1,24.25च्द्। यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ॥ Śइव्P_1,24.26अब्। गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः ॥ Śइव्P_1,24.26च्द्। बहुनात्रकिमुक्तेनधार्यंभस्मसदा बुधैः ॥ Śइव्P_1,24.27अब्। लिंगार्चनंसदाकार्यंजप्योमंत्रःषडक्षरः ॥ Śइव्P_1,24.27च्द्। ब्रह्मणाविष्णुनावापि रुद्रेणमुनिभिः सुरैः ॥ Śइव्P_1,24.28अब्। भस्मधारणमाहात्म्यंनशक्यंपरिभाषितुम् ॥ Śइव्P_1,24.28च्द्। इति वर्णाश्रमाचारोलुप्तवर्णक्रियोपि च ॥ Śइव्P_1,24.29अब्। पापात्सकृत्त्रिपुंड्रस्यधारणात्सोपिमुच्यते ॥ Śइव्P_1,24.29च्द्। येभस्मधारिणंत्यक्त्वाकर्मकुर्वंतिमानवाः ॥ Śइव्P_1,24.30अब्। तेषां नास्तिविनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ Śइव्P_1,24.30च्द्। ते नाधीतंगुरोःसर्वंतेनसर्वमनुष्ठितम् ॥ Śइव्P_1,24.31अब्। येनविप्रेणशिरसित्रिपुंड्रंभस्मनाकृतम् ॥ Śइव्P_1,24.31च्द्। ये भस्मधारिणं दृष्ट्वानराः कुर्वंतिताडनम् ॥ Śइव्P_1,24.32अब्। तेषांचंडालतोजन्मब्रह्मन्नूह्यंविपश्चिता ॥ Śइव्P_1,24.32च्द्। मानस्तोकेनमंत्रेणमंत्रितंभस्मधारयेत् ॥ Śइव्P_1,24.33अब्। ब्राह्मणःक्षत्रियश्चैव प्रोक्तेष्वंगेषुभक्तिमान् ॥ Śइव्P_1,24.33च्द्। वैश्यस्त्रियंबकेनैवशूद्रःपञ्चाक्षरेणतु ॥ Śइव्P_1,24.34अब्। अन्येषां विधवास्त्रीणां विधिः प्रोक्तश्चशूद्रवत् ॥ Śइव्P_1,24.34च्द्। पञ्चब्रह्मादिमनुभिर्गृहस्थस्यविधीयते ॥ Śइव्P_1,24.35अब्। त्रियंबकेनमनुनाविधिर्वैब्रह्मचारिणः ॥ Śइव्P_1,24.35च्द्। अघोरेणाथमनुनाविपिनस्थविधिःस्मृतः ॥ Śइव्P_1,24.36अब्। यतिस्तुप्रणवेनैव त्रिपुंड्रादीनिकारयेत् ॥ Śइव्P_1,24.36च्द्। अतिवर्णाश्रमीनित्यंशिवोहंभावनात्परात् ॥ Śइव्P_1,24.37अब्। शिवयोगी च नियतमीशानेनापि धारयेत् ॥ Śइव्P_1,24.37च्द्। न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ॥ Śइव्P_1,24.38अब्। अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ॥ Śइव्P_1,24.38च्द्। भस्मस्नानेनयावंतः कणाः स्वाङ्गेप्रतिष्ठिताः ॥ Śइव्P_1,24.39अब्। तावंति शिवलिंगानि तनौधत्तेहिधारकः ॥ Śइव्P_1,24.39च्द्। ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चापि च संकराः ॥ Śइव्P_1,24.40अब्। स्त्रियोथविधवाबालाः प्राप्ताः पाखंडिकास्तथा ॥ Śइव्P_1,24.40च्द्। ब्रह्मचारीगृहीवन्यःसंन्यासीवाव्रतीतथा ॥ Śइव्P_1,24.41अब्। नार्योभस्मत्रिपुंड्रांकामुक्ता एवनसंशयः ॥ Śइव्P_1,24.41च्द्। ज्ञानधृज्ञानतोवापिवह्निदाहसमोयथा ॥ Śइव्P_1,24.42अब्। ज्ञानाज्ञानधृतंभस्मपावयेत्सकलंनरम् ॥ Śइव्P_1,24.42च्द्। नाश्नीयाज्जलमन्नमल्पमपिवा भस्माक्षधृत्याविना भुक्त्वावाथगृहीवनीपतियतिर्वर्णीतथासंकरः ॥ Śइव्P_1,24.43अब्। एनोभुङ्नरकंप्रयातिसतदागायत्रिजापेनतद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत् ॥ Śइव्P_1,24.43च्द्। त्रिपुंड्रं ये विनिंदंति निन्दन्तिशिवमेवते ॥ Śइव्P_1,24.44अब्। धारयंतिचयेभक्त्या धारयन्ति तमेवते ॥ Śइव्P_1,24.44च्द्। धिग्भस्मरहितं भालंधिग्ग्राममशिवालयम् ॥ Śइव्P_1,24.45अब्। धिगनीशार्चनं जन्मधिग्विद्यामशिवाश्रयाम् ॥ Śइव्P_1,24.45च्द्। येनिंदंतिमहेश्वरंत्रिजगतामाधारभूतंहरं ये निन्दंतित्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ॥ Śइव्P_1,24.46अब्। तेवैसंकरसूकरासुरखरश्वक्रोष्टुकीटोपमाजाता एव भवंतिपापपरमास्तेनारकाः केवलम् ॥ Śइव्P_1,24.46च्द्। तेदृष्ट्वा शशिभास्करौनिशि दिनेस्वप्नेपिनोकेवलंपश्यंतुश्रुतिरुद्रसूक्तजपतोमुच्येततेनादृताः ॥ Śइव्P_1,24.47अब्। सत्संभाषणतोभवेद्धिनरकंनिस्तारवानास्थितंयेभस्मादिविधारणंहिपुरुषंनिंदंतिमंदाहिते ॥ Śइव्P_1,24.47च्द्। नतांत्रिकस्त्वधिकृतोनोर्ध्वपुंड्रधरोमुने ॥ Śइव्P_1,24.48अब्। संतप्तचक्रचिह्नोत्रशिवयज्ञेबहिष्कृतः ॥ Śइव्P_1,24.48च्द्। तत्रैतेबहवोलोकाबृहज्जाबालचोदिताः ॥ Śइव्P_1,24.49अब्। तेविचार्याःप्रयत्नेनततोभस्मरतोभवेत् ॥ Śइव्P_1,24.49च्द्। यच्चंदनैश्चंदनकेपिमिश्रंधार्यंहिभस्मैवत्रिपुंड्रभस्मना ॥ Śइव्P_1,24.50अब्। विभूतिभालोपरिकिंचनापिधार्यंसदानोयदिसंतिबुद्धयः ॥ Śइव्P_1,24.50च्द्। स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्मद्विजादिभिरथो विधवाभिरेवम् ॥ Śइव्P_1,24.51अब्। तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदासकलाघहन्त्री ॥ Śइव्P_1,24.51च्द्। त्रिपुण्ड्रंकुरुतेयस्तु भस्मना विधिपूर्वकम् ॥ Śइव्P_1,24.52अब्। महापातकसंघातैर्मुच्यते चोपपातकैः ॥ Śइव्P_1,24.52च्द्। ब्रह्मचारीगृहस्थोवावानप्रस्थोथवायतिः ॥ Śइव्P_1,24.53अब्। ब्रह्मक्षत्त्राश्चविट्शूद्रास्तथान्ये पतिताधमाः ॥ Śइव्P_1,24.53च्द्। उद्धूलनंत्रिपुंड्रं च धृत्वाशुद्धाभवंतिच ॥ Śइव्P_1,24.54अब्। भस्मनोविधिना सम्यक्पापराशिंविहाय च ॥ Śइव्P_1,24.54च्द्। भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः ॥ Śइव्P_1,24.55अब्। वीरहत्याश्वहत्याभ्यां मुच्यतेनात्र संशयः ॥ Śइव्P_1,24.55च्द्। परद्रव्यापहरणं परदाराभिमर्शनम् ॥ Śइव्P_1,24.56अब्। परनिन्दा परक्षेत्रहरणं परपीडनम् ॥ Śइव्P_1,24.56च्द्। सस्यारामादिहरणं गृहदाहादिकर्म च ॥ Śइव्P_1,24.57अब्। गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ॥ Śइव्P_1,24.57च्द्। अन्नधान्यजलादीनां नीचेभ्यश्चपरिग्रहः ॥ Śइव्P_1,24.58अब्। दशवेश्यामतंगीषु वृषलीषु नटीषु च ॥ Śइव्P_1,24.58च्द्। रजस्वलासु कन्यासु विधवासु च मैथुनम् ॥ Śइव्P_1,24.59अब्। मांसचर्मरसादीनां लवणस्य च विक्रयः ॥ Śइव्P_1,24.59च्द्। पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ॥ Śइव्P_1,24.60अब्। एवमादीन्यसंख्यानि पापानि विधानि च ॥ Śइव्P_1,24.60च्द्। सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् ॥ Śइव्P_1,24.60एf। शिवद्रव्यापहरणंशिवनिंदाचकुत्रचित् ॥ Śइव्P_1,24.61अब्। निंदाचशिवभक्तानांप्रायश्चित्तैर्नशुद्ध्यति ॥ Śइव्P_1,24.61च्द्। रुद्राक्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् ॥ Śइव्P_1,24.62अब्। सचांडालोपिसंपूज्यस्सर्ववर्णोत्तमोत्तमः ॥ Śइव्P_1,24.62च्द्। यानितीर्थानिलोकेस्मिन्गंगाद्यास्सरितश्चयोः ॥ Śइव्P_1,24.63अब्। स्नातोभवतिसर्वत्रललाटेयस्त्रिपुंड्रकम् ॥ Śइव्P_1,24.63च्द्। सप्तकोटि महामंत्राः पञ्चाक्षरपुरस्सराः ॥ Śइव्P_1,24.64अब्। तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः ॥ Śइव्P_1,24.64च्द्। अन्ये मंत्राश्च देवानां सर्वसौख्यकरामुने ॥ Śइव्P_1,24.65अब्। ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम् ॥ Śइव्P_1,24.65च्द्। सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् ॥ Śइव्P_1,24.66अब्। स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुण्ड्रकृत् ॥ Śइव्P_1,24.66च्द्। इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ॥ Śइव्P_1,24.67अब्। जीवितांते च मरणं सुखेनैव प्रपद्यते ॥ Śइव्P_1,24.67च्द्। अष्टैश्वर्यगुणोपेतंप्राप्यदिव्यवपुः शिवम् ॥ Śइव्P_1,24.68अब्। दिव्यंविमानमारुह्यदिव्यत्रिदशसेवितम् ॥ Śइव्P_1,24.68च्द्। विद्याधराणांसर्वेषांगंधर्वाणांमहौजसाम् ॥ Śइव्P_1,24.69अब्। इंद्रादिलोकपालानांलोकेषुचयथाक्रमम् ॥ Śइव्P_1,24.69च्द्। भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ॥ Śइव्P_1,24.70अब्। ब्रह्मणः पदमासाद्यतत्रकन्याशतंलमेत् ॥ Śइव्P_1,24.70च्द्। तत्र ब्रह्मायुषोमानंभुक्त्वाभोगाननेकशः ॥ Śइव्P_1,24.71अब्। विष्णोर्लोकेलभेद्भोगंयावद्ब्रह्मशतात्ययः ॥ Śइव्P_1,24.71च्द्। शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् ॥ Śइव्P_1,24.72अब्। शिवसायुज्यमाप्नोतिसंशयोनात्रजायते ॥ Śइव्P_1,24.72च्द्। सर्वोपनिषदांसारंसमालोक्यमुहुर्मुहुः ॥ Śइव्P_1,24.73अब्। इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम् ॥ Śइव्P_1,24.73च्द्। विभूतिंनिंदतेयोवैब्राह्मणः सोन्यजातकः ॥ Śइव्P_1,24.74अब्। यातिचनरकेघोरेयावद्ब्रह्मा चतुर्मुखः ॥ Śइव्P_1,24.74च्द्। श्राद्धेयज्ञेजपेहोमेवैश्वदेवेसुरार्चने ॥ Śइव्P_1,24.75अब्। धृतत्रिपुंड्रःपूतात्मामृत्युंजयतिमानवः ॥ Śइव्P_1,24.75च्द्। जलस्नानं मलत्यागेभस्मस्नानंसदाशुचि ॥ Śइव्P_1,24.76अब्। मंत्रस्नानंहरेत्पापंज्ञानस्नानेपरंपदम् ॥ Śइव्P_1,24.76च्द्। सर्वतीर्थेषुयत्पुण्यंसर्वतीर्थेषुयत्फलम् ॥ Śइव्P_1,24.77अब्। तत्फलंसमवाप्नोतिभस्मस्नानकरोनरः ॥ Śइव्P_1,24.77च्द्। भस्मस्नानं परं तीर्थंगंगास्नानंदिनेदिने ॥ Śइव्P_1,24.78अब्। भस्मरूपीशिवःसाक्षाद्भस्म त्रैलोक्यपावनम् ॥ Śइव्P_1,24.78च्द्। नतदूनंनतद्ध्यानंनतद्दानंजपोनसः ॥ Śइव्P_1,24.79अब्। त्रिपुंड्रेणविनायेन विप्रेण यदनुष्ठितम् ॥ Śइव्P_1,24.79च्द्। वानप्रस्थस्यकन्यानांदीक्षाहीननृणां तथा ॥ Śइव्P_1,24.80अब्। मध्याह्नात्प्राग्जलैर्युक्तंपरतोजलवर्जितम् ॥ Śइव्P_1,24.80च्द्। एवं त्रिपुंड्रं यः कुर्यान्नित्यंनियतमानसः ॥ Śइव्P_1,24.81अब्। शिवभक्तः सविज्ञेयो भुक्तिमुक्तिं च विंदति ॥ Śइव्P_1,24.81च्द्। यस्यांगेनैवरुद्राक्ष एकोपिबहुपुण्यदः ॥ Śइव्P_1,24.82अब्। तस्यजन्मनिरर्थंस्यात्त्रिपुंड्ररहितो यदि ॥ Śइव्P_1,24.82च्द्। एवंत्रिपुंड्रमाहात्म्यंसमासात्कथितंमया ॥ Śइव्P_1,24.83अब्। रहस्यंसर्वजंतूनां गोपनीयमिदं त्वया ॥ Śइव्P_1,24.83च्द्। तिस्रोरेखाभवंत्येवस्थानेषुमुनिपुंगवाः ॥ Śइव्P_1,24.84अब्। ललाटादिषुसर्वेषुयथोक्तेषुबुधैर्मुने ॥ Śइव्P_1,24.84च्द्। भ्रुवोर्मध्यंसमारभ्ययावदंतोभवेद्भ्रुवोः ॥ Śइव्P_1,24.85अब्। तावत्प्रमाणंसंधार्यं ललाटे च त्रिपुंड्रकम् ॥ Śइव्P_1,24.85च्द्। मध्यमानामिकांगुल्यामध्येतुप्रतिलोमतः ॥ Śइव्P_1,24.86अब्। अंगुष्ठेन कृतारेखा त्रिपुंड्राख्या भिधीयते ॥ Śइव्P_1,24.86च्द्। मध्येंगुलिभिरादाय तिसृभिर्भस्मयत्नतः ॥ Śइव्P_1,24.87अब्। त्रिपुण्ड्रधारयेद्भक्त्याभुक्तिमुक्तिप्रदंपरम् ॥ Śइव्P_1,24.87च्द्। तिसृणामपि रेखानां प्रत्येकंनवदेवताः ॥ Śइव्P_1,24.88अब्। सर्वत्रांगेषुतावक्ष्येसावधानतया शृणु ॥ Śइव्P_1,24.88च्द्। अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः ॥ Śइव्P_1,24.89अब्। ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ॥ Śइव्P_1,24.89च्द्। महदेवश्च रेखायाः प्रथमायाश्च देवता ॥ Śइव्P_1,24.90अब्। विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः ॥ Śइव्P_1,24.90च्द्। उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ॥ Śइव्P_1,24.91अब्। मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ ॥ Śइव्P_1,24.91च्द्। महेश्वरश्च रेखाया द्वितीयायाश्च देवता ॥ Śइव्P_1,24.92अब्। विज्ञेयामुनिशार्दूल शिवदीक्षापरायणैः ॥ Śइव्P_1,24.92च्द्। मकाराहवनीयौ च परमात्मा तमोदिवौ ॥ Śइव्P_1,24.93अब्। ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ॥ Śइव्P_1,24.93च्द्। शिवश्चैव च रेखायास्तृतियायाश्च देवता ॥ Śइव्P_1,24.94अब्। विज्ञेयामुनिशार्दूल शिवदीक्षापरायणौ ॥ Śइव्P_1,24.94च्द्। एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः ॥ Śइव्P_1,24.95अब्। त्रिपुंड्रं धारयेच्छुद्धो भुक्तिंमुक्तिं च विंदति ॥ Śइव्P_1,24.95च्द्। इत्युक्ताःस्थानदेवाश्चसर्वांगेषुमुनिश्वर ॥ Śइव्P_1,24.96अब्। तेषां संबंधिनोभक्त्यास्थानानिशृणुसांप्रतम् ॥ Śइव्P_1,24.96च्द्। द्वात्रिंशत्स्थानके वार्धषोडशस्थानकेपि च ॥ Śइव्P_1,24.97अब्। अष्टस्थाने तथा चैव पञ्चस्थानेपि नान्यसेत् ॥ Śइव्P_1,24.97च्द्। उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा ॥ Śइव्P_1,24.98अब्। नासावक्त्रगलेष्वेवंहस्तद्वय अतःपरम् ॥ Śइव्P_1,24.98च्द्। कूर्परे मणिबंधेचहृदयेपार्श्वयोर्द्वयोः ॥ Śइव्P_1,24.99अब्। नाभौमुष्कद्वयेचैवमूर्वोर्गुल्फेचजानुनि ॥ Śइव्P_1,24.99च्द्। जंघाद्वयेपदद्वन्द्वेद्वात्रिंशत्स्थानमुत्तमम् ॥ Śइव्P_1,24.100अब्। अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह ॥ Śइव्P_1,24.100च्द्। धराध्रुवश्चसोमश्च अपश्चेवानिलोनलः ॥ Śइव्P_1,24.101अब्। प्रत्यूषश्च प्रभासश्चवसवोष्टप्रकीर्तिताः ॥ Śइव्P_1,24.101च्द्। एतेषांनाममात्रेणत्रिपुंड्रंधारयेद्बुधाः ॥ Śइव्P_1,24.102अब्। कुर्याद्वाषोडशस्थानेत्रिपुण्ड्रंतुसमाहितः ॥ Śइव्P_1,24.102च्द्। शीर्षकेचललाटेचकंठेचांसद्वयेभुजे ॥ Śइव्P_1,24.103अब्। कूर्परेमणिबंधेचहृदयेनाभिपार्श्वके ॥ Śइव्P_1,24.103च्द्। पृष्ठेचैवंप्रतिष्ठाययजेत्तत्राश्विदैवते ॥ Śइव्P_1,24.104अब्। शिवशक्तिंतथारुद्रमीशंनारदमेवच ॥ Śइव्P_1,24.104च्द्। वामादिनवशक्तीश्च एताः षोडशदेवताः ॥ Śइव्P_1,24.105अब्। नासत्योदस्रकश्चैव अश्विनौद्वौप्रकीर्तितौ ॥ Śइव्P_1,24.105च्द्। अथवामूर्ध्निकेशेचकर्मयोर्वदनेतथा ॥ Śइव्P_1,24.106अब्। बाहुद्वये च हृदयेनाभ्यामूरुयुगेतथा ॥ Śइव्P_1,24.106च्द्। जानुद्वयेचपदयोः पृष्ठभागे च षोडश ॥ Śइव्P_1,24.107अब्। शिवश्चन्द्रश्च रुद्रःको विघ्नेशोविष्णुरेव वा ॥ Śइव्P_1,24.107च्द्। श्रीश्चैवहृदयेशम्भुस्तथानाभौप्रजापतिः ॥ Śइव्P_1,24.108अब्। नागश्चनागकन्याश्च उभयोरृषिकन्यकाः ॥ Śइव्P_1,24.108च्द्। पादयोश्चसमुद्राश्चतीर्थाः पृष्ठे विशालतः ॥ Śइव्P_1,24.109अब्। इत्येव षोडश स्थानमथोच्यते ॥ Śइव्P_1,24.109च्द्। गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ॥ Śइव्P_1,24.110अब्। अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् ॥ Śइव्P_1,24.110च्द्। ब्रह्मा च ऋषयः सप्तदेवताश्चप्रकीर्तिताः ॥ Śइव्P_1,24.111अब्। इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः ॥ Śइव्P_1,24.111च्द्। अथ वा मस्तकं बाहूहृदयं नाभिरेव च ॥ Śइव्P_1,24.112अब्। पञ्चस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ॥ Śइव्P_1,24.112च्द्। यथासंभवनं कुर्याद्देशकालाद्यपेक्षया ॥ Śइव्P_1,24.113अब्। उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ॥ Śइव्P_1,24.113च्द्। त्रिनेत्रंत्रिगुणाधारंत्रिवेदजनकंशिवम् ॥ Śइव्P_1,24.114अब्। स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ Śइव्P_1,24.114च्द्। ईशाभ्यांनम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ॥ Śइव्P_1,24.115अब्। बीजाभ्यां नम इत्युक्त्वाधारयेत्तुप्रकोष्ठयोः ॥ Śइव्P_1,24.115च्द्। कुर्यादधः पितृभ्यां च उमेशाभ्यांतथोपरि ॥ Śइव्P_1,24.116अब्। भीमायेतिततःपृष्ठेशिरसःपश्चिमेतथा ॥ Śइव्P_1,24.116च्द्। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशो ऽध्यायः Cहप्तेर् 25 सूत उवाच शैनकर्षे महाप्राज्ञशिवरूपमहापते ॥ Śइव्P_1,25.1अब्। शृणुरुद्राक्षमाहात्म्यं समासात्कथयाम्यहम् ॥ Śइव्P_1,25.1च्द्। शिवप्रियतमोज्ञेयो रुद्राक्षः परपावनः ॥ Śइव्P_1,25.2अब्। दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरःस्मृतः ॥ Śइव्P_1,25.2च्द्। पुरारुद्राक्षमहिमादेव्यग्रेकथितोमुने ॥ Śइव्P_1,25.3अब्। लोकोपकरणार्थायशिवेन परमात्मना ॥ Śइव्P_1,25.3च्द्। शिव उवाच शृणुदेविमहेशानिरुद्राक्षमहिमाशिवे ॥ Śइव्P_1,25.4अब्। कथयामितवप्रीत्याभक्तानांहितकाम्यया ॥ Śइव्P_1,25.4च्द्। दिव्यवर्षसहस्राणि महेशानिपुनःपुरा ॥ Śइव्P_1,25.5अब्। तपःप्रकुर्वतस्त्रस्तंमनः संयम्यवै मम ॥ Śइव्P_1,25.5च्द्। स्वतंत्रेण परेशेन लोकोपकृतिकारिणा ॥ Śइव्P_1,25.6अब्। लीलयापरमेशानि चक्षुरुन्मीलितंमया ॥ Śइव्P_1,25.6च्द्। पुटाभ्यांचारुचक्षुर्भ्यांपतिताजलबिंदवः ॥ Śइव्P_1,25.7अब्। तत्राश्रुबिन्दवोजातावृक्षारुद्राक्षसंज्ञकाः ॥ Śइव्P_1,25.7च्द्। स्थावरत्वमनुप्राप्यभक्तानुग्रहकारणात् ॥ Śइव्P_1,25.8अब्। ते दत्ताविष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ Śइव्P_1,25.8च्द्। भूमौगौंडोद्भवांश्चक्रेरुद्राक्षाञ्छिववल्लभान् ॥ Śइव्P_1,25.9अब्। मथुरायामयोध्यायालंकायांमलये तथा ॥ Śइव्P_1,25.9च्द्। सह्याद्रौचतथाकाश्यांदशेष्वन्येषुवातथा ॥ Śइव्P_1,25.10अब्। परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् ॥ Śइव्P_1,25.10च्द्। ब्राह्मणाःक्षत्रियावैश्याःशूद्राजाताममाज्ञया ॥ Śइव्P_1,25.11अब्। रुद्राक्षास्तेपृथिव्यांतुतज्जातीयाः शुभाक्षकाः ॥ Śइव्P_1,25.11च्द्। श्वेतरक्ताः पीतकृष्णावर्णाज्ञेयाः क्रमाद्बुधैः ॥ Śइव्P_1,25.12अब्। स्वजातीयंनृभिर्धार्यं रुद्राक्षंवर्णतः क्रमात् ॥ Śइव्P_1,25.12च्द्। वर्णैस्तुतत्फलंधार्यंभुक्तिमुक्तिफलेप्सुभिः ॥ Śइव्P_1,25.13अब्। शिवभक्तैर्विशेषेणशिवयोः प्रीतयेसदा ॥ Śइव्P_1,25.13च्द्। धात्रीफलप्रमाणंयच्छ्रेष्ठमेतदुदाहृतम् ॥ Śइव्P_1,25.14अब्। बदरीफलमात्रंतुमध्यमंसंप्रकीर्तितम् ॥ Śइव्P_1,25.14च्द्। अधमंचणमात्रंस्यात्प्रक्रियैषापरोच्यते ॥ Śइव्P_1,25.15अब्। शृणुपार्वतिसुप्रीत्याभक्तानांहितकाम्यया ॥ Śइव्P_1,25.15च्द्। बदरीफलमात्रंचयत्स्यात्किलमहेश्वरि ॥ Śइव्P_1,25.16अब्। तथापिफलदंलोकेसुखसौभाग्यवर्धनम् ॥ Śइव्P_1,25.16च्द्। धात्रीफलसमंयत्स्यात्सर्वारिष्टविनाशनम् ॥ Śइव्P_1,25.17अब्। गुंजयासदृशंयत्स्यात्सर्वार्थफलसाधनम् ॥ Śइव्P_1,25.17च्द्। यथायथालघुःस्याद्वैतथाधिकफलप्रदम् ॥ Śइव्P_1,25.18अब्। एकैकतःफलंप्रोक्तंदशांशैरधिकंबुधैः ॥ Śइव्P_1,25.18च्द्। रुद्राक्षधारणंप्रोक्तंपापनाशनहेतवे ॥ Śइव्P_1,25.19अब्। तस्माच्चधारणीयोवैसर्वार्थसाधनोध्रुवम् ॥ Śइव्P_1,25.19च्द्। यथाचदृश्यतेलोकेरुद्राक्षफलदः शुभः ॥ Śइव्P_1,25.20अब्। नतथादृश्यते ऽन्याचमालिकापरमेश्वरि ॥ Śइव्P_1,25.20च्द्। समाःस्निग्धादृढाःस्थूलाःकंटकैःसंयुताःशुभाः ॥ Śइव्P_1,25.21अब्। रुद्राक्षाःकामदादेविभुक्तिमुक्तिप्रदाः सदा ॥ Śइव्P_1,25.21च्द्। क्रिमिदुष्टंछिन्नभिन्नंकंटकैर्हीनमेवच ॥ Śइव्P_1,25.22अब्। व्रणयुक्तमवृत्तंचरुद्राक्षान्षड्विवर्जयेत् ॥ Śइव्P_1,25.22च्द्। स्वयमेवकृतद्वारंरुद्राक्षंस्यदिहोत्तमम् ॥ Śइव्P_1,25.23अब्। यत्तुपौरुषयत्नेनकृतंतन्मध्यमंभवेत् ॥ Śइव्P_1,25.23च्द्। रुद्राक्षधारणंप्राप्तंमहापातकनाशनम् ॥ Śइव्P_1,25.24अब्। रुद्रसंख्याशतंधृत्वरुद्ररूपोभवेन्नरः ॥ Śइव्P_1,25.24च्द्। एकादशशतानीहधृत्वायत्फलमाप्यते ॥ Śइव्P_1,25.25अब्। तत्फलंशक्यतेनैव वक्तुं वर्षशतैरपि ॥ Śइव्P_1,25.25च्द्। शतार्धेनयुतेः पञ्चशतैर्वै मुकुटं मतम् ॥ Śइव्P_1,25.26अब्। रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ Śइव्P_1,25.26च्द्। त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ॥ Śइव्P_1,25.27अब्। रुद्राक्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ॥ Śइव्P_1,25.27च्द्। शिखायांचत्रयंप्रोक्तंरुद्रक्षाणां महेश्वरि ॥ Śइव्P_1,25.28अब्। कर्णयोः षट् च षट्चैववामदक्षिणयोस्तथा ॥ Śइव्P_1,25.28च्द्। शतमेकोत्तरंकंठेबाह्वोर्वैरुद्रसंख्यया ॥ Śइव्P_1,25.29अब्। कूर्परद्वारयोस्तत्रमणिबंधेतथापुनः ॥ Śइव्P_1,25.29च्द्। उपवीतेत्रयंधार्यंशिवभक्तिरतैर्नरैः ॥ Śइव्P_1,25.30अब्। शेषानुर्वरितान्पञ्चसम्मितान्धारयेत्कटौ ॥ Śइव्P_1,25.30च्द्। एतत्संख्याधृतायेनरुद्राक्षाः परमेश्वरि ॥ Śइव्P_1,25.31अब्। तद्रूपं तु प्रणम्यंहिस्तुत्यंसर्वैर्महेशवत् ॥ Śइव्P_1,25.31च्द्। एवंभूतंस्थितंध्यानेयदाकृत्वासनैर्जनम् ॥ Śइव्P_1,25.32अब्। शिवेतिव्याहरंश्चैवदृष्ट्वापापैः प्रमुच्यते ॥ Śइव्P_1,25.32च्द्। शतादिकसहस्रस्यविधिरेषप्रकीर्तितः ॥ Śइव्P_1,25.33अब्। तदभावेप्रकारोन्यः शुभः संप्रोच्यतेमया ॥ Śइव्P_1,25.33च्द्। शिखायामेकरुद्राक्षंशिरसात्रिंशतंवहेत् ॥ Śइव्P_1,25.34अब्। पञ्चाशच्चगलेदध्याद्बाह्वोः षोडशषोडश ॥ Śइव्P_1,25.34च्द्। मणिबंधे द्वादशद्विस्कंधे पञ्चशतंवहेत् ॥ Śइव्P_1,25.35अब्। अष्टोत्तरशतैर्माल्यमुपवीतंप्रकल्पयेत् ॥ Śइव्P_1,25.35च्द्। एवंसहस्ररुद्राक्षान्धारयेद्योदृढव्रतः ॥ Śइव्P_1,25.36अब्। तंनमंतिसुराःसर्वेयथारुद्रस्तथैव सः ॥ Śइव्P_1,25.36च्द्। एकंशिखायांरुद्राक्षंचत्वारिंशत्तुमस्तके ॥ Śइव्P_1,25.37अब्। द्वात्रिंशत्कण्ठदेशेतुवक्षस्यष्टोत्तरंशतम् ॥ Śइव्P_1,25.37च्द्। एकैकंकर्णयोः षट्षड्बाह्वोःषोडशषोडश ॥ Śइव्P_1,25.38अब्। करयोरविमानेनद्विगुणेनमुनीश्वर ॥ Śइव्P_1,25.38च्द्। संख्याप्रीतिर्धृयायेनसोपिशैवजनःपरः ॥ Śइव्P_1,25.39अब्। शिववत्पूजनीयोहिवंद्यस्सर्वैरभीक्ष्णशः ॥ Śइव्P_1,25.39च्द्। शिरसीशानमंत्रेणकर्णेतत्पुरुषेण च ॥ Śइव्P_1,25.40अब्। अघोरेणगलेधार्यंतेनैवहृदयेपि च ॥ Śइव्P_1,25.40च्द्। अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः ॥ Śइव्P_1,25.41अब्। पञ्चदशाक्षग्रथितांवामदेवेनचोदरे ॥ Śइव्P_1,25.41च्द्। पञ्चब्रह्मभिरंगश्चत्रिमालां पञ्चसप्त च ॥ Śइव्P_1,25.42अब्। अथवामूलमंत्रेण सर्वानक्षांस्तुधारयेत् ॥ Śइव्P_1,25.42च्द्। मद्यंमांसंतुलशुनंपलाण्डुंशिग्रुमेव च ॥ Śइव्P_1,25.43अब्। श्लेष्मांतकं विड्वराहंभक्षणे वर्जयेत्ततः ॥ Śइव्P_1,25.43च्द्। वलक्षंरुद्राक्षंद्विजतनुभिरेवेहविहितंसुरक्तंक्षत्राणांप्रमुदितमुमेपीतमसकृत् ॥ Śइव्P_1,25.44अब्। छिन्नं खंडितं भिन्नं विदीर्ण ततोवैश्यैर्धायप्रतिदिवसभावश्यकमहोतथाकृष्णंशूद्रैःश्रुतिगदितमार्गोयमगजे ॥ Śइव्P_1,25.44च्द्। वर्णीवनीगृहयतीर्नियमेनदध्यादेतद्रहस्यपरमोनहिजातुतिष्ठेत् ॥ Śइव्P_1,25.45अब्। रुद्राक्षधारणमिदंसुकृतैश्चलभ्यंत्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ॥ Śइव्P_1,25.45च्द्। आदावामलकात्स्वतो लघुतरा रुग्णास्ततःकंटकैःसंदष्टाःक्रिमिभिस्तनूपकरणच्छिद्रेण हीनास्तथा ॥ Śइव्P_1,25.46अब्। धार्यानैव शुभेप्सुभिश्चणकवद्रुद्राक्षमप्यंततोरुद्राक्षोममलिंगमंगलमुमेसूक्ष्मंप्रशस्तंसदा ॥ Śइव्P_1,25.46च्द्। सर्वाश्रमाणांवर्णानांस्त्रीशूद्रणांशिवाज्ञया ॥ Śइव्P_1,25.47अब्। धार्याः सदैवरुद्राक्षायतीनां प्रणवेन हि ॥ Śइव्P_1,25.47च्द्। दिवाबिभ्रद्रात्रिकृतैरात्रौविभ्रद्दिवाकृतैः ॥ Śइव्P_1,25.48अब्। प्रातर्मध्याह्नसायाह्नेमुच्यतेसर्वपातकैः ॥ Śइव्P_1,25.48च्द्। ये त्रिपुण्ड्र धरालोके जटाधारिण एव ये ॥ Śइव्P_1,25.49अब्। ये रुद्राक्षधरास्तेवैयमलोकंप्रयांतिन ॥ Śइव्P_1,25.49च्द्। रुद्राक्षमेकंशिरसाबिभर्तितथात्रिपुण्ड्रंचललाटमध्ये ॥ Śइव्P_1,25.50अब्। पञ्चाक्षरंयेहिजपंतिमंत्रंपूज्याभवद्भिः खलुतेहिसाधवः ॥ Śइव्P_1,25.50च्द्। यस्याङ्गेनास्तिरुद्राक्षस्त्रिपुण्ड्रंभालपट्टके ॥ Śइव्P_1,25.51अब्। मुखेपञ्चाक्षरंनास्तितमानययमालयम् ॥ Śइव्P_1,25.51च्द्। ज्ञात्वाज्ञात्वातत्प्रभावंभस्मरुद्राक्षधारिणः ॥ Śइव्P_1,25.52अब्। तेपूज्याः सर्वदास्माकंनोनेतव्याः कदाचन ॥ Śइव्P_1,25.52च्द्। एवमाज्ञापयामासकालोपिनिजकिङ्करान् ॥ Śइव्P_1,25.53अब्। तथेतिमत्त्वातेसर्वेतूष्णीमासन्सुविस्मिताः ॥ Śइव्P_1,25.53च्द्। अत एवमहादेविरुद्राक्षोत्यघनाशनः ॥ Śइव्P_1,25.54अब्। तद्धरोमत्प्रियः शुद्धो ऽत्यघवानपिपार्वति ॥ Śइव्P_1,25.54च्द्। हस्तेबाहौतथामूर्ध्निरुद्राक्षंधारयेत्तुयः ॥ Śइव्P_1,25.55अब्। अवध्यःसर्वभूतानांरुद्ररूपीचरेद्भुवि ॥ Śइव्P_1,25.55च्द्। सुरासुराणांसर्वेषां वंदनीयःसदासवै ॥ Śइव्P_1,25.56अब्। पूजनीयो हि दृष्टस्यपापहाचयथाशिवः ॥ Śइव्P_1,25.56च्द्। ध्यानज्ञानावमुक्तोपिरुद्राक्षंधारयेत्तुयः ॥ Śइव्P_1,25.57अब्। सर्वपापविनिर्मुक्तःसयातिपरमांगतिम् ॥ Śइव्P_1,25.57च्द्। रुद्राक्षेणजपन्मन्त्रं पुण्यंकोटि गुणं भवेत् ॥ Śइव्P_1,25.58अब्। दशकोटिगुणंपुण्यंधारणाल्लभते नरः ॥ Śइव्P_1,25.58च्द्। यावत्कालंहिजीवस्यशरीरस्थोभवेत्सवै ॥ Śइव्P_1,25.59अब्। तावत्कालंस्वल्पमृत्युर्नतंदेविबाधते ॥ Śइव्P_1,25.59च्द्। त्रिपुंड्रेणचसंयुक्तंरुद्राक्षाविलसांगकम् ॥ Śइव्P_1,25.60अब्। मृत्युंजयंजपंतंचदृष्ट्वारुद्रफलंलभेत् ॥ Śइव्P_1,25.60च्द्। पञ्चदेवप्रियश्चैवसर्वदेवप्रियस्तथा ॥ Śइव्P_1,25.61अब्। सर्वमन्त्राञ्जपेद्भक्तोरुद्राक्षमालयाप्रिये ॥ Śइव्P_1,25.61च्द्। विष्ण्वादिदेवभक्ताश्चधारयेयुर्नसंशयः ॥ Śइव्P_1,25.62अब्। रुद्रभक्तो विशेषेणरुद्राक्षान्धारयेत्सदा ॥ Śइव्P_1,25.62च्द्। रुद्राक्षाविविधाःप्रोक्तास्तेषां भेदान्वदाम्यहम् ॥ Śइव्P_1,25.63अब्। शृणुपार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ॥ Śइव्P_1,25.63च्द्। एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः ॥ Śइव्P_1,25.64अब्। तस्यदर्शनमात्रेणब्रह्महत्याव्यपोहति ॥ Śइव्P_1,25.64च्द्। यत्रसंपूजितस्तत्रलक्ष्मीर्दूरतरा नहि ॥ Śइव्P_1,25.65अब्। नश्यंत्युपद्रवाःसर्वेसर्वकामाभवंतिहि ॥ Śइव्P_1,25.65च्द्। द्विवक्त्रोदेवदेवेशस्सर्वकामफलप्रदः ॥ Śइव्P_1,25.66अब्। विशेषतः सरुद्राक्षोगोवधंनाशयेद्द्रुतम् ॥ Śइव्P_1,25.66च्द्। त्रिवक्त्रोयोहिरुद्राक्षः साक्षात्साधनदस्सदा ॥ Śइव्P_1,25.67अब्। तत्प्रभावाद्भवेयुर्वैविद्याः सर्वाः प्रतिष्ठिताः ॥ Śइव्P_1,25.67च्द्। चतुर्वक्त्रः स्वयंब्रह्मानरहत्यांव्यपोहति ॥ Śइव्P_1,25.68अब्। दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ॥ Śइव्P_1,25.68च्द्। पञ्चवक्त्रः स्वयंरुद्रः कालाग्निर्नामतः प्रभुः ॥ Śइव्P_1,25.69अब्। सर्वमुक्तिप्रदश्चैवसर्वकामफलप्रदः ॥ Śइव्P_1,25.69च्द्। अगम्यागमनंपापमभक्ष्यस्य च भक्षणम् ॥ Śइव्P_1,25.70अब्। इत्यादि सर्वपापानि पञ्चवक्त्रोव्यपोहति ॥ Śइव्P_1,25.70च्द्। षड्वक्त्रःकार्तिकेयस्तुधारणाद्दक्षिणेभुजे ॥ Śइव्P_1,25.71अब्। ब्रह्महत्यादिकैः पापैर्मुच्यतेनात्र संशयः ॥ Śइव्P_1,25.71च्द्। सप्तवक्त्रोमहेशानि ह्यनंगोनामनामतः ॥ Śइव्P_1,25.72अब्। धारणात्तस्य देवेशिदरिद्रोपीश्वरोभवेत् ॥ Śइव्P_1,25.72च्द्। रुद्राक्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः ॥ Śइव्P_1,25.73अब्। धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥ Śइव्P_1,25.73च्द्। भैरवोनववक्त्रश्च कपिलश्चमुनिःस्मृतः ॥ Śइव्P_1,25.74अब्। दुर्गावातदधिष्ठात्री नवरूपामहेश्वरी ॥ Śइव्P_1,25.74च्द्। तं धारयेद्वामहस्ते रुद्राक्षंभक्तितत्परः ॥ Śइव्P_1,25.75अब्। सर्वेश्वरोभवेन्नूनंमम तुल्यो न संशयः ॥ Śइव्P_1,25.75च्द्। दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ॥ Śइव्P_1,25.76अब्। धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥ Śइव्P_1,25.76च्द्। एकादशमुखोयस्तुरुद्राक्षःपरमेश्वरि ॥ Śइव्P_1,25.77अब्। सरुद्रोधारणात्तस्यसर्वत्रविजयीभवेत् ॥ Śइव्P_1,25.77च्द्। द्वादशास्यं तु रुद्राक्षं धारयेत्केशदेशके ॥ Śइव्P_1,25.78अब्। आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा ॥ Śइव्P_1,25.78च्द्। त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ॥ Śइव्P_1,25.79अब्। सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत् ॥ Śइव्P_1,25.79च्द्। चतुर्दशमुखो यो हि रुद्राक्षः परमःशिवः ॥ Śइव्P_1,25.80अब्। धारयेन्मूर्ध्नि तं भक्त्यासर्वपापं प्रणश्यति ॥ Śइव्P_1,25.80च्द्। इतिरुद्राक्षभेदा हि प्रोक्तावैमुखभेदतः ॥ Śइव्P_1,25.81अब्। तत्तन्मंत्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ॥ Śइव्P_1,25. 81च्द्। अं ह्रीनमः 1 अंनमः 2 अंक्लींनमः 3 अंह्रींनमः 4 अंह्रींनमः 5 अंह्रीं हुं नमः 6 अंहुंनमः 7 अंहुंनमः 8 अंह्रींहुंनमः 9 अंह्रींनमः नमः 10 अंह्रींहुंनमः 11 अंक्रों क्षौं रौं नमः 12 अंह्रींनमः 13 अंनम 14 भक्तिश्रद्धायुतश्चैव सर्वकामार्थसिद्धये ॥ Śइव्P_1,25.82अब्। रुद्राक्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः ॥ Śइव्P_1,25.82च्द्। विना मंत्रेण हो धत्ते रुद्राक्षं भुविमानवः ॥ Śइव्P_1,25.83अब्। स याति नरकं घोरं यावदिन्द्राश्चतुर्दश ॥ Śइव्P_1,25.83च्द्। रुद्राक्षमालिनंदृष्ट्वा भूतप्रेतपिशाचकाः ॥ Śइव्P_1,25.84अब्। डाकिनीशाकिनी चैव ये चान्ये द्रोहकारकाः ॥ Śइव्P_1,25.84च्द्। कृत्रिमं चैव यत्किंचिदभिचारादिकंचयात् ॥ Śइव्P_1,25.85अब्। तत्सर्वंदूरतोयातिदृष्ट्वा शंकितविग्रहम् ॥ Śइव्P_1,25.85च्द्। रुद्राक्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ॥ Śइव्P_1,25.86अब्। देवीगणपतिस्सूर्यःसुराश्चान्येपिपार्वति ॥ Śइव्P_1,25.86च्द्। एवंज्ञात्वातुमाहात्म्यंरुद्राक्षस्यमहेश्वरि ॥ Śइव्P_1,25.87अब्। सम्यग्धार्यास्समंत्राश्चभक्त्याधर्मविवृद्धये ॥ Śइव्P_1,25.87च्द्। इत्युक्तंगिरिजाग्रेहिशिवेनपरमात्मना ॥ Śइव्P_1,25.88अब्। भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ Śइव्P_1,25.88च्द्। शिवस्यातिप्रियौज्ञेयौ भस्मरुद्राक्षधारिणौ ॥ Śइव्P_1,25.89अब्। तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥ Śइव्P_1,25.89च्द्। भस्मरुद्राक्षधारी यः शिवभक्तस्स उच्यते ॥ Śइव्P_1,25.90अब्। पञ्चाक्षरजपासक्तः परिपूर्णश्चसन्मुखे ॥ Śइव्P_1,25.90च्द्। विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया ॥ Śइव्P_1,25.91अब्। पूजितोपिमहादेवोनाभीष्टफलदायकः ॥ Śइव्P_1,25.91च्द्। तत्सर्वं च समाख्यातं यत्पृष्टंहिमुनीश्वर ॥ Śइव्P_1,25.92अब्। भस्मरुद्राक्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥ Śइव्P_1,25.92च्द्। एतद्यःशृणुयान्नित्यंमाहात्म्यपरमंशुभम् ॥ Śइव्P_1,25.93अब्। रुद्राक्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ॥ Śइव्P_1,25.93च्द्। इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ॥ Śइव्P_1,25.94अब्। लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ Śइव्P_1,25.94च्द्। विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ॥ Śइव्P_1,25.95अब्। सर्वसिद्धिप्रदा नित्यंमुक्तिदा शिवशासनात् ॥ Śइव्P_1,25.95च्द्। इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनोनाम पञ्चविंशो ऽध्यायः वायवीयसंहिता अथ श्रीशिवमहापुराणे सप्तमी वायवीयसंहिता प्रारभ्यते ॥ श्रीगणेशाय नमः ॥ श्रीगौरीशंकराभ्यां नमः ॥ अथ सप्तमी वायवीयसंहिता प्रारभ्यते ॥ Cहप्तेर् 1 व्यास उवाच नमश्शिवाय सोमाय सगणाय ससूनवे
śrīśivamahāpurāṇam atha śrīśivamahāpurāṇaṃ vidyeśvarasaṃhitā prārabhyate || śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || śrisarasvatyai namaḥ || atha śivapuraṇe prathamā vidyeśvarasaṃhitāprārabhyate || ādyantamaṃgalamajātasamānabhāvamāryaṃ tamīśamajarāmaramātmadevam // ŚivP_1,Mang_ab/ pañcānanaṃ prabalapañcavinodaśīlaṃ saṃbhāvaye manasiśaṃkaramambikeśam // ŚivP_1,Mang_cd/ Chapter 1 vyāsa uvāca dharmakṣetre mahākṣetre gaṃgākālindisaṃgame // ŚivP_1,1.1ab/ prayāge parame puṇye brahmalokasya vartmani // ŚivP_1,1.1cd/ munayaḥ śaṃsitātmanassatyavrataparāyaṇāḥ // ŚivP_1,1.2ab/ mahaujaso mahābhāgā mahāsatraṃ vitenire // ŚivP_1,1.2cd/ tatra satraṃ samākarṇya vyāsaśiṣyo mahāmuniḥ // ŚivP_1,1.3ab/ ājagāma munīndraṣṭuṃ sūtaḥ paurāṇikottamaḥ // ŚivP_1,1.3cd/ taṃ dṛṣṭvā sūtamāyāṃtaṃ harṣitā munayastadā // ŚivP_1,1.4ab/ cetasā suprasannena pūjāṃ cakruryathāvidhi // ŚivP_1,1.4cd/ tato vinayasaṃyuktā procuḥ sāṃjalayaścate // ŚivP_1,1.5ab/ suprasannā mahātmānaḥ stutiṃ kṛtvāyathāvidhi // ŚivP_1,1.5cd/ romaharṣaṇa sarvajña bhavān vai bhāgyagauravāt // ŚivP_1,1.6ab/ purāṇavidyāmakhilāṃ vyāsātpratyarthamīyivān // ŚivP_1,1.6cd/ tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam // ŚivP_1,1.7ab/ ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ // ŚivP_1,1.7cd/ yacca bhūtaṃ ca bhavyaṃ ca yaccānyadvastu vartate // ŚivP_1,1.8ab/ na tvayā 'viditaṃ kiṃcittriṣu lokeṣu vidyate // ŚivP_1,1.8cd/ tvaṃ maddiṣṭavaśādasya darśanārthamihāgataḥ // ŚivP_1,1.9ab/ kurvankimapi naḥ śreyo na vṛthā gaṃtumarhasi // ŚivP_1,1.9cd/ tattvaṃ śrutaṃ sma naḥ sarvaṃ pūrvameva śubhāśubham // ŚivP_1,1.10ab/ na tṛptimadhigacchāmaḥ śravaṇecchā muhurmuhuḥ // ŚivP_1,1.10cd/ idānīmekamevāsti śrotavyaṃ sūta sanmate // ŚivP_1,1.11ab/ tadrahasyamapi brūhi yadi te 'nugraho bhavet // ŚivP_1,1.11cd/ prāpte kaliyuge ghore narāḥ puṇyavivarjitāḥ // ŚivP_1,1.12ab/ durācāraratāḥ sarve satyavārtāparāṅmukhāḥ // ŚivP_1,1.12cd/ parāpavādaniratāḥ paradravyābhilāṣiṇaḥ // ŚivP_1,1.13ab/ parastrīsaktamanasaḥ parahiṃsāparāyaṇāḥ // ŚivP_1,1.13cd/ dehātmadṛṣṭayā mūḍhā nāstikāḥ paśubuddhayaḥ // ŚivP_1,1.14ab/ mātṛpitṛkṛtadveṣāḥ strīdevāḥ kāmakiṃkarāḥ // ŚivP_1,1.14cd/ viprā lobhagrahagrastā vedavikrayajīvinaḥ // ŚivP_1,1.15ab/ dhanārjanārthamabhyastavidyā madavimohitāḥ // ŚivP_1,1.15cd/ tyaktasvajātikarmāṇaḥ prāyhaśaḥparavaṃcakāḥ // ŚivP_1,1.16ab/ trikālasaṃdhyayā hīnā brahmabodhavivarjitāḥ // ŚivP_1,1.16cd/ adayāḥ paṃḍitaṃmanyāssvācāravratalopakāḥ // ŚivP_1,1.17ab/ kṛṣyudyamaratāḥ krūrasvabhāvā malināśayāḥ // ŚivP_1,1.17cd/ kṣatriyāśca tathā sarve svadharmatyāgaśīlinaḥ // ŚivP_1,1.18ab/ asatsaṃgāḥ pāparatā vyabhicāraparāyaṇāḥ // ŚivP_1,1.18cd/ aśūrā araṇaprītāḥ palāyanaparāyaṇāḥ // ŚivP_1,1.19ab/ kucauravṛttayaḥ śūdrāḥ kāmakiṃkaracetasaḥ // ŚivP_1,1.19cd/ śastrāstravidyayā hīnā dhenuviprāvanojjhitāḥ // ŚivP_1,1.20ab/ śaraṇyāvanahīnāśca kāminyūtimṛgāssadā // ŚivP_1,1.20cd/ prajāpālanasaddharmavihīnā bhogatatparāḥ // ŚivP_1,1.21ab/ prajāsaṃhārakā duṣṭā jīvahiṃsākarā mudā // ŚivP_1,1.21cd/ vaiśyāḥ saṃskārahīnāste svadharmatyāgaśīlinaḥ // ŚivP_1,1.22ab/ kupathāḥ svārjanaratāstulākarmakuvṛttayaḥ // ŚivP_1,1.22cd/ gurudevadvijātīnāṃ bhaktihīnāḥ kubuddhayaḥ // ŚivP_1,1.23ab/ abhojitadvijāḥ prāyaḥ kṛpaṇā baddhamuṣṭayaḥ // ŚivP_1,1.23cd/ kāminījārabhāveṣu suratā malināśayāḥ // ŚivP_1,1.24ab/ lobhamohavicetaskāḥ pūrtādisuvṛṣojjhitāḥ // ŚivP_1,1.24cd/ tadvacchūdrāśca ye kecidbrāhmaṇācāratatparāḥ // ŚivP_1,1.25ab/ ujjvalākṛtayo mūḍhāḥ svadharmatyāgaśīlinaḥ // ŚivP_1,1.25cd/ kartārastapasāṃ bhūyo dvijatejopahārakāḥ // ŚivP_1,1.26ab/ śiśvalpamṛtyukārāśca maṃtroccāraparāyaṇāḥ // ŚivP_1,1.26cd/ śīligrāmaśilādīnāṃ pūjakāhomatatparāḥ // ŚivP_1,1.27ab/ pratikūlavicārāśca kuṭilā dvijadūṣakāḥ // ŚivP_1,1.27cd/ dhanavaṃtaḥ kukarmāṇo vidyāvanto vivādinaḥ // ŚivP_1,1.28ab/ ākhyāyopāsanā dharmavaktāro dharmalopakāḥ // ŚivP_1,1.28cd/ subhūpākṛtayo daṃbhāḥ sudātāro mahāmadāḥ // ŚivP_1,1.29ab/ viprādīnsevakānmatvā manyamānā nijaṃ prabhum // ŚivP_1,1.29cd/ svadharmarahitā mūḍāḥ saṃkarāḥ krūrabuddhayaḥ // ŚivP_1,1.30ab/ mahābhimānino nityaṃ caturvarṇavilopakāḥ // ŚivP_1,1.30cd/ sukulīnānnijānmatvā caturvarṇairvivartanāḥ // ŚivP_1,1.31ab/ sarvavarṇabhraṣṭakarā mūḍhāssatkarmakāriṇaḥ // ŚivP_1,1.31cd/ striyaśca prāyaśo bhraṣṭā bhartravajñānakārikāḥ // ŚivP_1,1.32ab/ śvaśuradrohakāriṇyo nirbhayā malināśanāḥ // ŚivP_1,1.32cd/ kuhāvabhāvaniratāḥ kuśīlāssmaravihvalāḥ // ŚivP_1,1.33ab/ jārasaṃgaratā nityaṃ svasvāmivimukhāstathā // ŚivP_1,1.33cd/ tanayā mātṛpitrośca bhaktihīnā durāśayāḥ // ŚivP_1,1.34ab/ avidyāpāṭhakā nityaṃ rogagrasitadehakāḥ // ŚivP_1,1.34cd/ eteṣāṃ naṣṭabuddhīnāṃ svadharmatyāgaśīlinām // ŚivP_1,1.35ab/ paralokepīha loke kathaṃ sūta gatirbhavet // ŚivP_1,1.35cd/ iti ciṃtākulaṃ cittaṃ jāyate satataṃ hi naḥ // ŚivP_1,1.36ab/ paropakārasadṛśo nāsti dharmo paraḥ khalu // ŚivP_1,1.36cd/ laghūpāyena yenaiṣāṃ bhavetsadyoghanāśanam // ŚivP_1,1.37ab/ sarvasiddhāntavittvaṃ hi kṛpayā tadvadādhunā // ŚivP_1,1.37cd/ vyāsa uvāca ityākarṇya vacasteṣāṃ munīnāṃ bhāvitātmanām // ŚivP_1,1.38ab/ manasā śaṃkaraṃ smṛtvā sūtaḥ provāca tānmunīn // ŚivP_1,1.38cd/ iti śrīśaive mahāpurāṇe vidyeśvarasaṃhitāyāṃ munipraśnavarṇanonāmaprathamo 'dhyāyaḥ Chapter 2 sūtauvāca sādhupṛṣṭaṃ sādhavo vastrailokyahitakārakam // ŚivP_1,2.1ab/ guruṃ smṛtvā bhavatsnehādvakṣye tacchṛṇutādarāt // ŚivP_1,2.1cd/ vedāṃtasārasarvasvaṃ purāṇaṃ śaivamuttamam // ŚivP_1,2.2ab/ sarvāghaughoddhārakaraṃ paratra paramārthadam // ŚivP_1,2.2cd/ kalikalmaṣavidhvaṃsi yasmiñcchivayaśaḥ param // ŚivP_1,2.3ab/ vijṛmbhate sadā viprāścaturvargaphalapradam // ŚivP_1,2.3cd/ tasyādhyayanamātreṇa purāṇasya dvijottamāḥ // ŚivP_1,2.4ab/ sarvottamasya śaivasya te yāsyaṃti susadgatim // ŚivP_1,2.4cd/ tāvadvijṛṃbhate pāpaṃ brahmahatyāpurassaram // ŚivP_1,2.5ab/ yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.5cd/ tāvatkalimahotpātāḥ saṃcariṣyaṃti nirbhayāḥ // ŚivP_1,2.6ab/ yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.6cd/ tāvatsarvāṇi śāstrāṇi vivadaṃti parasparam // ŚivP_1,2.7ab/ yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.7cd/ tāvatsvarūpaṃ durbodhaṃ śivasya mahatāmapi // ŚivP_1,2.8ab/ yāvacchivapurāṇaṃ hi no deṣyati jagatyaho // ŚivP_1,2.8cd/ tāvadyamabhaṭāḥ krūrāḥ saṃcariṣyaṃti nirbhayāḥ // ŚivP_1,2.9ab/ yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.9cd/ tāvatsarvapurāṇāni pragarjaṃti mahītale // ŚivP_1,2.10ab/ yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.10cd/ tāvatsarvāṇi tīrthāni vivadaṃti mahītale // ŚivP_1,2.11ab/ yāvachivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.11cd/ tāvatsarvāṇi maṃtrāṇi vivadaṃti mahītale // ŚivP_1,2.12ab/ yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.12cd/ tāvatsarvāṇi kṣetrāṇi vivadaṃti mahītale // ŚivP_1,2.13ab/ yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.13cd/ tāvatsarvāṇi pīṭhāni vivadaṃti mahītale // ŚivP_1,2.14ab/ yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.14cd/ tāvatsarvāṇi dānāni vivadaṃti mahītale // ŚivP_1,2.15ab/ yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.15cd/ tāvatsarve ca te devā vivadaṃti mahītale // ŚivP_1,2.16ab/ yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.16cd/ tāvatsarve ca siddhāntā vivadaṃti mahītale // ŚivP_1,2.17ab/ yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.17cd/ asya śaivapurāṇasya kīrtanaśravaṇāddvijāḥ // ŚivP_1,2.18ab/ phalaṃ vaktuṃ na śaknomi kārtsnyena munisattamāḥ // ŚivP_1,2.18cd/ tathāpi tasya māhātmyaṃ vakṣye kiṃcittu vonaghāḥ // ŚivP_1,2.19ab/ cittamādhāya śṛṇuta vyāsenoktaṃ purā mama // ŚivP_1,2.19cd/ etacchivapurāṇaṃ hi ślokaṃ ślokārdhameva ca // ŚivP_1,2.20ab/ yaḥ paṭhedbhaktisaṃyuktassa pāpānmucyate kṣaṇāt // ŚivP_1,2.20cd/ etacchivapurāṇaṃ hi yaḥ pratyahamataṃdritaḥ // ŚivP_1,2.21ab/ yathāśakti paṭhedbhaktyā sa jīvanmukta ucyate // ŚivP_1,2.21cd/ etacchivapurāṇaṃ hi yo bhaktyārcayate sadā // ŚivP_1,2.22ab/ dine dine 'śvamedhasya phalaṃ prāpnotyasaṃśayam // ŚivP_1,2.22cd/ etacchivapurāṇaṃ yassādhāraṇapadecchayā // ŚivP_1,2.23ab/ anyataḥ śṛṇuyātso 'pi matto mucyeta pātakāt // ŚivP_1,2.23cd/ etacchivapurāṇaṃ yo namaskuryādadūrataḥ // ŚivP_1,2.24ab/ sarvadevārcanaphalaṃ sa prāpnoti na saṃśayaḥ // ŚivP_1,2.24cd/ etacchivapurāṇaṃ vai likhitvā pustakaṃ svayam // ŚivP_1,2.25ab/ yo dadyācchivabhaktebhyastasya puṇyaphalaṃ śṛṇu // ŚivP_1,2.25cd/ adhīteṣu ca śāstreṣu vedeṣu vyākṛteṣu ca // ŚivP_1,2.26ab/ yatphalaṃ durlabhaṃ loke tatphalaṃ tasya saṃbhavet // ŚivP_1,2.26cd/ etacchivapurāṇaṃ hi caturdaśyāmupoṣitaḥ // ŚivP_1,2.27ab/ śivabhaktasabhāyāṃ yo vyākaroti sa uttamaḥ // ŚivP_1,2.27cd/ pratyakṣaraṃ tu gāyatrīpuraścaryāphalaṃ labhet // ŚivP_1,2.28ab/ iha bhuktvākhilānkāmānaṃte nirvāṇatāṃ vrajet // ŚivP_1,2.28cd/ upoṣitaścaturdaśyāṃ rātrau jāgaraṇānvitaḥ // ŚivP_1,2.29ab/ yaḥ paṭhecchṛṇuyādvāpi tasya puṇyaṃ vadāmyaham // ŚivP_1,2.29cd/ kurukṣetrādinikhilapuṇyatīrtheṣvanekaśaḥ // ŚivP_1,2.30ab/ ātmatulyadhanaṃ sūryagrahaṇe sarvatomukhe // ŚivP_1,2.30cd/ viprebhyo vyāsamukhyebhyo dattvāyatphalamaśnute // ŚivP_1,2.31ab/ tatphalaṃ saṃbhavettasya satyaṃ satyaṃ na saṃśayaḥ // ŚivP_1,2.31cd/ etacchivapurāṇaṃ hi gāyate yopyaharniśam // ŚivP_1,2.32ab/ ājñāṃ tasya pratīkṣerandavā indrapurogamāḥ // ŚivP_1,2.32cd/ etacchivapurāṇaṃ yaḥ paṭhañchṛṇvanhi nityaśaḥ // ŚivP_1,2.33ab/ yadyatkaroti satkarma tatkoṭiguṇitaṃ bhavet // ŚivP_1,2.33cd/ samāhitaḥ paṭhedyastu tatra śrīrudrasaṃhitām // ŚivP_1,2.34ab/ sa brahmaghno 'pi pūtātmā tribhireva dinairbhavet // ŚivP_1,2.34cd/ tāṃ rudrasaṃhitāṃ yastu bhairavapratimāṃtike // ŚivP_1,2.35ab/ triḥ paṭhetpratyahaṃ maunī sa kāmānakhilāṃllabhet // ŚivP_1,2.35cd/ tāṃ rudrasaṃhitāṃ yastu sapaṭhedvaṭabilvayoḥ // ŚivP_1,2.36ab/ pradakṣiṇāṃ prakurvāṇo brahmahatyā nivartate // ŚivP_1,2.36cd/ kailāsasaṃhitā tatra tato 'pi paramasmṛtā // ŚivP_1,2.37ab/ brahmasvarūpiṇī sākṣātpraṇavārthaprakāśikā // ŚivP_1,2.37cd/ kailāsasaṃhitāyāstu māhātmyaṃ vetti śaṃkaraḥ // ŚivP_1,2.38ab/ kṛtsnaṃ tadardhaṃ vyāsaśca tadardhaṃ vedmyahaṃ dvijāḥ // ŚivP_1,2.38cd/ tatra kiṃcitpravakṣyāmi kṛtsnaṃ vaktuṃ na śakyate // ŚivP_1,2.39ab/ yajjñātvā tatkṣaṇāllokaścittaśuddhimavāpnuyāt // ŚivP_1,2.39cd/ na nāśayati yatpāpaṃ sā raudrī saṃhitā dvijāḥ // ŚivP_1,2.40ab/ tanna paśyāmyahaṃ loke mārgamāṇo 'pi sarvadā // ŚivP_1,2.40cd/ śivenopaniṣatsiṃdhumanthanotpāditāṃ mudā // ŚivP_1,2.41ab/ kumārāyārpitāṃ tāṃ vai sudhāṃ pītvā 'maro bhavet // ŚivP_1,2.41cd/ brahmahatyādipāpānāṃ niṣkṛtiṃ kartumudyataḥ // ŚivP_1,2.42ab/ māsamātraṃ saṃhitāṃ tāṃ paṭhitvā mucyate tataḥ // ŚivP_1,2.42cd/ duṣpratigrahadurbhojyadurālāpādisaṃbhavam // ŚivP_1,2.43ab/ pāpaṃ sakṛtkīrtanena saṃhitā sā vināśayet // ŚivP_1,2.43cd/ śivālaye vilvavane saṃhitāṃ tāṃ paṭhettu yaḥ // ŚivP_1,2.44ab/ sa tatphalamavāpnoti yadvāco 'pi na gocare // ŚivP_1,2.44cd/ saṃhitāṃ tāṃ paṭhan bhaktyā yaḥ śrāddhe bhojayeddvijān // ŚivP_1,2.45ab/ tasya ye pitaraḥ sarve yāṃti śaṃbhoḥ paraṃ padam // ŚivP_1,2.45cd/ caturdaśyāṃ nirāhāro yaḥ paṭhetsaṃhitāṃ ca tām // ŚivP_1,2.46ab/ bilvamūle śivaḥ sākṣātsadevaiśca prapūjyate // ŚivP_1,2.46cd/ anyāpi saṃhitā tatra sarvakāmaphalapradā // ŚivP_1,2.47ab/ ubhe viśiṣṭe vijñeye līlāvijñānapūrite // ŚivP_1,2.47cd/ tadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam // ŚivP_1,2.48ab/ nirmitaṃ tacchivenaiva prathamaṃ brahmasaṃmitam // ŚivP_1,2.48cd/ vidyeśaṃca tathāraudraṃ vaināyakamathaumikam // ŚivP_1,2.49ab/ mātraṃ rudraikādaśakaṃ kailāsaṃ śatarudrakam // ŚivP_1,2.49cd/ koṭirudrasahasrādyaṃ koṭirudraṃ tathaiva ca // ŚivP_1,2.50ab/ vāyavīyaṃ dharmasaṃjñaṃ purāṇamiti bhedataḥ // ŚivP_1,2.50cd/ saṃhitā dvādaśamitā mahāpuṇyatarā matā // ŚivP_1,2.51ab/ tāsāṃ saṃkhyāṃ bruve viprāḥ śṛṇutādaratokhilam // ŚivP_1,2.51cd/ vidyeśaṃ daśāsāhasraṃ rudraṃ vaināyakaṃ tathā // ŚivP_1,2.52ab/ aumaṃ mātṛpurāṇākhyaṃ pratyekāṣṭasahasrakam // ŚivP_1,2.52cd/ trayodaśasahasraṃ hi rudraikādaśakaṃ dvijāḥ // ŚivP_1,2.53ab/ ṣaṭsahasraṃ ca kailāsaṃ śatarudraṃ tadardhakam // ŚivP_1,2.53cd/ koṭirudraṃ triguṇitamekādaśasahasrakam // ŚivP_1,2.54ab/ sahasrakoṭirudrākhyamuditaṃ graṃthasaṃkhyayā // ŚivP_1,2.54cd/ vāyavīyaṃ khābdhiśataṃ gharmaṃ ravisahasrakam // ŚivP_1,2.55ab/ tadevaṃ lakṣasaṃkhyākaṃ śaivasaṃkhyāvibhedataḥ // ŚivP_1,2.55cd/ vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam // ŚivP_1,2.56ab/ śaivaṃ tatra caturthaṃ vai purāṇaṃ saptasaṃhitam // ŚivP_1,2.56cd/ śive saṃkalpitaṃ pūrvaṃ purāṇaṃ granthasaṃkhyayā // ŚivP_1,2.57ab/ śatakoṭipramāṇaṃ hi purā sṛṣṭau suvismṛtam // ŚivP_1,2.57cd/ vyasteṣṭādaśadhā caiva purāṇe dvāparādiṣu // ŚivP_1,2.58ab/ caturlakṣeṇa saṃkṣipte kṛte dvaipāyanādibhiḥ // ŚivP_1,2.58cd/ proktaṃ śivapurāṇaṃ hi caturviṃśatsahasrakam // ŚivP_1,2.59ab/ ślokānāṃ saṃkhyayā saptasaṃhitaṃ brahmasaṃmitam // ŚivP_1,2.59cd/ vidyeśvarākhyā tatrādyā raudrī jñeyā dvitīyikā // ŚivP_1,2.60ab/ tṛtīyā śatarudrākhyā koṭirudrā caturthikā // ŚivP_1,2.60cd/ pañcamī caiva maumākhyā ṣaṣṭhī kailāsasaṃjñikā // ŚivP_1,2.61ab/ saptamī vāyavīyākhyā saptaivaṃ saṃhitāmatāḥ // ŚivP_1,2.61cd/ sasaptasaṃhitaṃ divyaṃ purāṇaṃ śivasaṃjñakam // ŚivP_1,2.62ab/ varīvarti brahmatulyaṃ sarvopari gatipradam // ŚivP_1,2.62cd/ etacchivapurāṇaṃ hi saptasaṃhitamādarāt // ŚivP_1,2.63ab/ paripūrṇaṃ paṭhedyastu sa jīvanmukta ucyate // ŚivP_1,2.63cd/ śrutismṛtipurāṇetihāsāgamaśatāni ca // ŚivP_1,2.64ab/ etacchivapurāṇasya nārhaṃtyalpāṃ kalāmapi // ŚivP_1,2.64cd/ śaivaṃ purāṇamamalaṃ śivakīrtitaṃ tadvyāsena śaivapravaṇena na saṃgṛhītam // ŚivP_1,2.65ab/ saṃkṣepataḥ sakalajīvaguṇopakāre tāpatrayaghnamatulaṃ śivadaṃ satāṃ hi // ŚivP_1,2.65cd/ vikaitavo dharma iha pragīto vedāṃtavijñānamayaḥ pradhānaḥ // ŚivP_1,2.66ab/ amatsarāṃtarbudhavedyavastu satkḷptamatraiva trivargayuktam // ŚivP_1,2.66cd/ śaivaṃ purāṇatilakaṃ khalu satpurāṇaṃ vedāṃtavedavilasatparavastugītam // ŚivP_1,2.67ab/ yo vai paṭhecca śṛṇuyātparamādareṇa śaṃbhupriyaḥ sa hi labhetparamāṃ gatiṃ vai // ŚivP_1,2.67cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvidīyo 'dhyāyaḥ Chapter 3 vyāsa uvāca ityākarṇya vacaḥ sautaṃ procuste paramarṣayaḥ // ŚivP_1,3.1ab/ vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayādbhutam // ŚivP_1,3.1cd/ iti śrutvā munīnāṃ sa vacanaṃ supraharṣitaḥ // ŚivP_1,3.2ab/ saṃsmarañchaṃkaraṃ sūtaḥ provāca munisattamān // ŚivP_1,3.2cd/ sūta uvāca śṛṇvaṃtu ṛṣayaḥ sarve smṛtvā śivamanāmayam // ŚivP_1,3.3ab/ purāṇapravaṇaṃ śaivaṃ purāṇaṃ vedasārajam // ŚivP_1,3.3cd/ yatra gītaṃ trikaṃ prītyā bhaktijñānavirāgakam // ŚivP_1,3.4ab/ vedāṃtavedyaṃ sadvastu viśeṣeṇa pravarṇitam // ŚivP_1,3.5ab/ sūta uvāca śṛṇvaṃtu ṛṣayaḥ sarve purāṇaṃ vedasārajam // ŚivP_1,3.6ab/ purā kālena mahatā kalpe 'tīte punaḥpunaḥ // ŚivP_1,3.6cd/ asminnupasthite kalpe pravṛtte sṛṣṭikarmaṇi // ŚivP_1,3.7ab/ munīnāṃ ṣaṭkulīnānāṃ bruvatāmitaretaram // ŚivP_1,3.7cd/ idaṃ paramidaṃ neti vivādaḥ sumahānabhūt // ŚivP_1,3.8ab/ te 'bhijagmurvidhātāraṃ brahmāṇaṃ praṣṭumavyayam // ŚivP_1,3.8cd/ vāgbhirvinayagarbhābhiḥ sarve prāṃjalayo 'bruvan // ŚivP_1,3.9ab/ tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam // ŚivP_1,3.9cd/ kaḥ pumānsarvatattvebhyaḥ purāṇaḥ parataḥ paraḥ // ŚivP_1,3.10ab/ brahmovāca yato vāco nivartaṃte aprāpya manasā saha // ŚivP_1,3.10cd/ yasmātsarvamidaṃ brahmaviṣṇurudreṃdrapūrvakam // ŚivP_1,3.11ab/ sahabhūteṃdriyaiḥ sarvaiḥ prathamaṃ saṃprasūyate // ŚivP_1,3.11cd/ eṣa devo mahādevaḥ sarvajño jagadīśvaraḥ // ŚivP_1,3.12ab/ ayaṃ tu parayā bhaktyā dṛśyate nā 'nyathā kvacit // ŚivP_1,3.12cd/ rudro harirharaścaiva tathānye ca sureśvarāḥ // ŚivP_1,3.13ab/ bhaktyā paramayā tasya nityaṃ darśanakāṃkṣiṇaḥ // ŚivP_1,3.13cd/ bahunātra kimuktena śive bhaktyā vimucyate // ŚivP_1,3.14ab/ prasādāddevatābhaktiḥ prasādo bhaktisaṃbhavaḥ // ŚivP_1,3.14cd/ yathehāṃkurato bījaṃ bījato vā yathāṃkuraḥ // ŚivP_1,3.14ef/ tasmādīśaprasādārthaṃ yūyaṃ gatvā bhuvaṃ dvijāḥ // ŚivP_1,3.15ab/ dīrghasatraṃ samākṛdhvaṃ yūyaṃ varṣasahasrakam // ŚivP_1,3.15cd/ amuṣyaivādhvareśasya śivasyaiva prasādataḥ // ŚivP_1,3.16ab/ vedoktavidyāsāraṃ tu jñāyate sādhyasādhanaṃ // ŚivP_1,3.16cd/ munaya ūcuḥ atha kiṃ paramaṃ sādhyaṃ kiṃvā tatsādhanaṃ param // ŚivP_1,3.17ab/ sādhakaḥ kīdṛśastatra tadidaṃ brūhi tattvataḥ // ŚivP_1,3.17cd/ brahmovāca sādhyaṃ śivapadaprāptiḥ sādhanaṃ tasya sevanam // ŚivP_1,3.18ab/ sādhakastatprasādādyo 'nityādiphalaniḥspṛhaḥ // ŚivP_1,3.18cd/ karma kṛtvā tu vedoktaṃ tadarpitamahāphalam // ŚivP_1,3.19ab/ parameśapadaprāptaḥ sālokyādikramāttataḥ // ŚivP_1,3.19cd/ tattadbhaktyanusāreṇa sarveṣāṃ paramaṃ phalam // ŚivP_1,3.20ab/ tatsādhanaṃ bahuvidhaṃ sākṣādīśena bodhitam // ŚivP_1,3.20cd/ saṃkṣipya tatra vaḥ sāraṃ sādhanaṃ prabravīmyaham // ŚivP_1,3.21ab/ śrotreṇa śravaṇaṃ tasya vacasā kīrtanaṃ tathā // ŚivP_1,3.21cd/ manasā mananaṃ tasya mahāsādhanamucyate // ŚivP_1,3.22ab/ śrotavyaḥ kīrtitavyaśca mantavyaśca maheśvaraḥ // ŚivP_1,3.22cd/ iti śrutipramāṇaṃ naḥ sādhanenā 'munā param // ŚivP_1,3.23ab/ sādhyaṃ vrajata sarvārthasādhanaikaparāyaṇāḥ // ŚivP_1,3.23cd/ pratyakṣaṃ cakṣuṣā dṛṣṭvā tatra lokaḥ pravartate // ŚivP_1,3.24ab/ apratyakṣaṃ hi sarvatra jñātvā śrotreṇa ceṣṭate // ŚivP_1,3.24cd/ tasmācchravaṇamevādau śrutvā gurumukhādbudhaḥ // ŚivP_1,3.25ab/ tataḥ saṃsādhayedanyatkīrtanaṃ mananaṃ sudhīḥ // ŚivP_1,3.25cd/ kramānmananaparyaṃte sādhane 'sminsusādhite // ŚivP_1,3.26ab/ śivayogo bhavettena sālokyādikramācchanaiḥ // ŚivP_1,3.26cd/ sarvāṃgavyādhayaḥ paścātsarvānaṃdaśca līyate // ŚivP_1,3.27ab/ abhyāsātkleśametadvai paścādādyaṃtamaṃgalam // ŚivP_1,3.27cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe tṛtīyo 'dhyāyaḥ Chapter 4 munaya ūcuḥ mananaṃ kīdṛśaṃ brahmañchravaṇaṃ cāpi kīdṛśam // ŚivP_1,4.1ab/ kīrtanaṃ vā kathaṃ tasya kīrtayaitadyathāyatham // ŚivP_1,4.1cd/ brahmovaca pūjājapeśaguṇarūpavilāsanāmnāṃ yuktipriyeṇa manasā pariśodhanaṃ yat // ŚivP_1,4.2ab/ tatsaṃtataṃ mananamīśvaradṛṣṭilabhyaṃ sarveṣu sādhanavareṣvapi mukhyamukhyam // ŚivP_1,4.2cd/ gītātmanā śrutipadena ca bhāṣayā vā śaṃbhupratāpaguṇarūpavilāsanāmnām // ŚivP_1,4.3ab/ vācā sphuṭaṃ tu rasavatstavanaṃ yadasya tatkīrtanaṃ bhavati sā dhanamatra madhyam // ŚivP_1,4.3cd/ yenāpi kena karaṇena ca śabdapuṃjaṃ yatra kvacicchivaparaṃ śravaṇeṃdriyeṇa // ŚivP_1,4.4ab/ strīkelivaddṛḍhataraṃ praṇidhīyate yattadvai budhāḥ śravaṇamatra jagatprasiddham // ŚivP_1,4.4cd/ satsaṃgamena bhavati śravaṇaṃ purastātsaṃkīrtanaṃ paśupateratha taddṛḍhaṃ syāt // ŚivP_1,4.5ab/ sarvottamaṃ bhavati tanmananaṃ tadaṃte sarvaṃ hi saṃbhavati śaṃkaradṛṣṭipāte // ŚivP_1,4.5cd/ sūta uvāca asminsādhanamāhatmye purā vṛttaṃ munīśvarāḥ // ŚivP_1,4.6ab/ yuṣmadarthaṃ pravakṣyāmi śṛṇudhvamavadhānataḥ // ŚivP_1,4.6cd/ purā mama gururvyāsaḥ parāśaramuneḥ sutaḥ // ŚivP_1,4.7ab/ tapaścacāra saṃbhrāṃtaḥ sarasvatyāstaṭe śubhe // ŚivP_1,4.7cd/ gacchanyadṛchayā tatra vimānenārkarociṣā // ŚivP_1,4.8ab/ sanatkumāro bhagavāndadarśa mama deśikam // ŚivP_1,4.8cd/ dhyānārūḍhaḥ prabuddho 'sau dadarśa tamajātmajam // ŚivP_1,4.9ab/ praṇipatyāha saṃbhrāṃtaḥ paraṃ kautūhalaṃ muniḥ // ŚivP_1,4.9cd/ dattvārghyamasmai pradadau devayogyaṃ ca viṣṭiram // ŚivP_1,4.10ab/ prasannaḥ prāha taṃ prahvaṃ prabhurgaṃbhīrayā girā // ŚivP_1,4.10cd/ sanatkumāra uvāca satyaṃ vastu mune dadhyāḥ sākṣātkaraṇagocaraḥ // ŚivP_1,4.11ab/ sa śivothāsahāyotra tapaścarasi kiṃ kṛte // ŚivP_1,4.11cd/ evamuktaḥ kumāreṇa provāca svāśayaṃ muniḥ // ŚivP_1,4.12ab/ dharmārthakāmamokṣāśca vedamārge kṛtādarāḥ // ŚivP_1,4.12cd/ bahudhā sthāpitā loke mayā tvatkṛpayā tathā // ŚivP_1,4.13ab/ evaṃ bhutasya mepyevaṃ gurubhūtasya sarvataḥ // ŚivP_1,4.13cd/ muktisādhanakaṃ jñānaṃ nodeti paramādbhutam // ŚivP_1,4.14ab/ tapaścarāmi muktyarthaṃ na jāne tatra kāraṇam // ŚivP_1,4.14cd/ itthaṃ kumāro bhagavān vyāsena muninārthitaḥ // ŚivP_1,4.15ab/ samarthaḥ prāha vipreṃdrā niścayaṃ muktikāraṇam // ŚivP_1,4.15cd/ śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ ca mahattaram // ŚivP_1,4.16ab/ trayaṃ sādhanamuktaṃ ca vidyate vedasaṃmatam // ŚivP_1,4.16cd/ purāhamatha saṃbhrāṃto hyanyasādhanasaṃbhramaḥ // ŚivP_1,4.17ab/ acale maṃdare śaile tapaścaraṇamācaram // ŚivP_1,4.17cd/ śivājñayā tataḥ prāpto bhagavānnandikeśvaraḥ // ŚivP_1,4.18ab/ sa me dayālurbhagavānsarvasākṣī gaṇeśvaraḥ // ŚivP_1,4.18cd/ uvāca mahyaṃ sasnehaṃ muktisādhanamuttamam // ŚivP_1,4.19ab/ śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ vedasaṃmatam // ŚivP_1,4.19cd/ trikaṃ ca sādhanaṃ muktau śivena mama bhāṣitam // ŚivP_1,4.20ab/ śravaṇādiṃ brahmankuruṣveti muhurmuhuḥ // ŚivP_1,4.20cd/ evamuktvā tato vyāsaṃ sānugo vidhinaṃdanaḥ // ŚivP_1,4.21ab/ jagāma svavimānena padaṃ paramaśobhanam // ŚivP_1,4.21cd/ evamuktaṃ samāsena pūrvavṛttāṃtamuttamam // ŚivP_1,4.22ab/ ṛṣaya ūcuḥ śravaṇāditrayaṃ sūta muktyopāyastvayeritaḥ // ŚivP_1,4.22cd/ śravaṇāditrike 'śaktaḥ kiṃ kṛtvā mucyate janaḥ // ŚivP_1,4.23ab/ ayatnenaiva muktiḥ syātkarmaṇā kena hetunā // ŚivP_1,4.23cd/ iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyaṃ sādhyasādhanakhaṇḍe caturtho 'dhyāyaḥ Chapter 5 sūta uvāca śravaṇāditrike 'śakto liṃgaṃ beraṃ ca śāṃkaram // ŚivP_1,5.1ab/ saṃsthāpya nityamabhyarcya taretsaṃsārasāgaram // ŚivP_1,5.1cd/ api dravyaṃ vahedeva yathābalamavaṃcayan // ŚivP_1,5.2ab/ arpayelliṃgaberārthamarcayedapi saṃtatam // ŚivP_1,5.2cd/ maṃḍapaṃ gopuraṃ tīrthaṃ maṭhaṃ kṣetraṃ tathotsavam // ŚivP_1,5.3ab/ vastraṃ gaṃdhaṃ ca mālyaṃ ca dhūpaṃ dīpaṃ ca bhaktitaḥ // ŚivP_1,5.3cd/ vividhānnaṃ ca naivedyamapūpavyaṃjanairyutam // ŚivP_1,5.4ab/ chatraṃ dhvajaṃ ca vyajanaṃ cāmaraṃ cāpi sāṃgakam // ŚivP_1,5.4cd/ rājopacāravatsarvaṃ dhārayelliṃgaberayoḥ // ŚivP_1,5.5ab/ pradakṣiṇāṃ namaskāraṃ yathāśakti japaṃ tathā // ŚivP_1,5.5cd/ āvāhanādisargāṃtaṃ nityaṃ kuryātsubhaktitaḥ // ŚivP_1,5.6ab/ itthamabhyarcya yandevaṃ liṃgebere ca śāṃkare // ŚivP_1,5.6cd/ siddhimeti śivaprītyā hitvāpi śravaṇādikam // ŚivP_1,5.7ab/ liṃgaberārcanāmātrānmuktāḥ purve mahājanāḥ // ŚivP_1,5.7cd/ manuya ūcuḥ beramātre tu sarvatra pūjyaṃte devatāgaṇāḥ // ŚivP_1,5.8ab/ liṃgebere ca sarvatra kathaṃ saṃpūjyate śivaḥ // ŚivP_1,5.8cd/ sūta uvāca aho munīśvarāḥ puṇyaṃ praśnametanmahādbhutam // ŚivP_1,5.9ab/ atra vaktā mahādevo nānyo 'sti puruṣaḥ kvacit // ŚivP_1,5.9cd/ śivenoktaṃ pravakṣyāmi kramādgurumukhācchrutam // ŚivP_1,5.10ab/ śivaiko brahmarūpatvānniṣkalaḥ parikīrtitaḥ // ŚivP_1,5.10cd/ rūpitvātsakalastadvattasmātsakalaniṣkalaḥ // ŚivP_1,5.11ab/ niṣkalatvānnirākāraṃ liṃgaṃ tasya samāgatam // ŚivP_1,5.11cd/ sakalatvāttathā beraṃ sākāraṃ tasya saṃgatam // ŚivP_1,5.12ab/ sakalākalarūpatvādbrahmaśabdābhidhaḥ paraḥ // ŚivP_1,5.12cd/ api liṃge ca bere ca nityamabhyarcyate janaiḥ // ŚivP_1,5.13ab/ abrahmatvāttadanyeṣāṃ niṣkalatvaṃ na hi kvacit // ŚivP_1,5.13cd/ tasmātte niṣkale liṃge nārādhyaṃte sureśvarāḥ // ŚivP_1,5.14ab/ abrahmatvācca jīvatvāttathānye devatāgaṇāḥ // ŚivP_1,5.14cd/ tūṣṇīṃ sakalamātratvādarcyaṃte beramātrake // ŚivP_1,5.15ab/ jīvatvaṃ śaṃkarānyeṣāṃ brahmatvaṃ śaṃkarasya ca // ŚivP_1,5.15cd/ vedāṃtasārasaṃsiddhaṃ praṇavārthe prakāśanāt // ŚivP_1,5.16ab/ evameva purā pṛṣṭo maṃdare nandikeśvaraḥ // ŚivP_1,5.16cd/ sanatkumāramuninā brahmaputreṇa dhīmatā // ŚivP_1,5.17ab/ sanatkumāra uvāca śivānyadevavaśyānāṃ sarveṣāmapi sarvataḥ // ŚivP_1,5.17cd/ beramātraṃ ca pūjārthaṃ śrutaṃ dṛṣṭaṃ ca bhūriśaḥ // ŚivP_1,5.18ab/ śivamātrasya pūjāyāṃ liṃgaṃ beraṃ ca dṛśyate // ŚivP_1,5.18cd/ atastadbrūhi kalyāṇa tattvaṃ me sādhubodhanam // ŚivP_1,5.19ab/ nandikeśvara uvāca anuttaramimaṃ praśnaṃ rahasyaṃ brahmalakṣaṇam // ŚivP_1,5.19cd/ kathayāmi śivenoktaṃ bhaktiyuktasya te 'nagha // ŚivP_1,5.20ab/ śivasya brahmarūpatvānniṣkalatvācca niṣkalam // ŚivP_1,5.20cd/ liṃgaṃ tasyaiva pūjāyāṃ sarvavedeṣu saṃmatam // ŚivP_1,5.21ab/ tasyaiva sakalatvācca tathā sakalaniṣkalam // ŚivP_1,5.21cd/ sakalaṃ ca tathā beraṃ pūjāyāṃ lokasaṃmatam // ŚivP_1,5.22ab/ śivānyeṣāṃ ca jīvatvātsakalatvācca sarvataḥ // ŚivP_1,5.22cd/ beramātraṃ ca pūjāyāṃ saṃmataṃ vedanirṇaye // ŚivP_1,5.23ab/ svāvirbhāve ca devānāṃ sakalaṃ rūpameva hi // ŚivP_1,5.23cd/ śivasya liṃgaṃ beraṃ ca darśane dṛśyate khalu // ŚivP_1,5.24ab/ sanatkumāra uvāca uktaṃ tvayā mahābhāga liṃgaberapracāraṇam // ŚivP_1,5.24cd/ śivasya ca tadanyeṣāṃ vibhajya paramārthataḥ // ŚivP_1,5.25ab/ tasmāttadeva paramaṃ liṃgaberādisaṃbhavam // ŚivP_1,5.25cd/ śrotumicchāmi yogīṃdra liṃgāvirbhāvalakṣaṇam // ŚivP_1,5.26ab/ nandikeśvara uvāca śṛṇu vatsa bhavatprītyā vakṣyāmi paramārthataḥ // ŚivP_1,5.26cd/ purā kalpe mahākāle prapanne lokaviśrute // ŚivP_1,5.27ab/ āyudhyetāṃ mahātmānau brahmaviṣṇū parasparam // ŚivP_1,5.27cd/ tayormānaṃ nirākartuṃ tanmadhye parameśvaraḥ // ŚivP_1,5.28ab/ niṣkalastaṃbharūpeṇa svarūpaṃ samadarśayat // ŚivP_1,5.28cd/ tataḥ svaliṃgacihnatvātstambhato niṣkalaṃ śivaḥ // ŚivP_1,5.29ab/ svaliṃgaṃ darśayāmāsa jagatāṃ hitakāmyayā // ŚivP_1,5.29cd/ tadāprabhṛti lokeṣu niṣkalaṃ liṃgamaiśvaram // ŚivP_1,5.30ab/ sakalaṃ ca tathā beraṃ śivasyaiva prakalpitam // ŚivP_1,5.30cd/ śivānyeṣaḥ tu devānāṃ beramātraṃ prakalpitam // ŚivP_1,5.31ab/ tattadberaṃ tu devānāṃ tattadbhogapradaṃ śubham // ŚivP_1,5.31cd/ śivasya liṃgaberatvaṃ bhogamokṣapradaṃ śubham // ŚivP_1,5.31ef/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ pañcamo 'dhyāyaḥ Chapter 6 nandikeśvara uvāca purā kadācidyogīṃdra viṣṇurviṣadharāsanaḥ // ŚivP_1,6.1ab/ suṣvāpa parayā bhūtyā svānugairapi saṃvṛtaḥ // ŚivP_1,6.1cd/ yadṛcchayā gatastatra brahmā brahmavidāṃvaraḥ // ŚivP_1,6.2ab/ apṛcchatpuṃḍarīkākṣaṃ śayanaṃ sarvasundaram // ŚivP_1,6.2cd/ kastvaṃ puruṣavaccheṣe dṛṣṭvā māmapi dṛptavat // ŚivP_1,6.3ab/ uttiṣṭha vatsa māṃ paśya tava nāthamihāgatam // ŚivP_1,6.3cd/ āgataṃ gurumārādhyaṃ dṛṣṭvā yo dṛptavaccaret // ŚivP_1,6.4ab/ drohiṇastasya mūḍhasya prāyaścittaṃ vidhīyate // ŚivP_1,6.4cd/ iti śrutvā vacaḥ kruddho bahiḥ śāṃtavadācarat // ŚivP_1,6.5ab/ svasti te svāgataṃ vatsa tiṣṭha pīṭhamito viśa // ŚivP_1,6.5cd/ kimu te vyāgravadvaktraṃ vibhāti viṣamekṣaṇam // ŚivP_1,6.6ab/ brahmovāca vatsa viṣṇo mahāmānamāgataṃ kālavegataḥ // ŚivP_1,6.6cd/ pitāmahaśca jagataḥ pātā ca tava vatsaka // ŚivP_1,6.7ab/ viṣṇuruvāca matsthaṃ jagadidaṃ vatsa manuṣe tvaṃ hi coravat // ŚivP_1,6.7cd/ mannābhikamalājjātaḥ putrastvaṃ bhāṣase vṛthā // ŚivP_1,6.8ab/ nandikeśvara uvāca evaṃ hi vadatostatra mugdhayorajayostadā // ŚivP_1,6.8cd/ ahameva baro na tvamahaṃ prabhurahaṃ prabhuḥ // ŚivP_1,6.9ab/ parasparaṃ haṃtukāmau cakratuḥ samarodyamam // ŚivP_1,6.9cd/ yuyudhāte 'marau vīrau haṃsapakṣīṃdravāhanau // ŚivP_1,6.10ab/ vairaṃcyā vaiṣṇavāścaivaṃ mitho yuyudhire tadā // ŚivP_1,6.10cd/ tāvadvimānagatayaḥ sarvā vai devajātayaḥ // ŚivP_1,6.11ab/ didṛkṣavaḥ samājagmuḥ samaraṃ taṃ mahādbhutam // ŚivP_1,6.11cd/ kṣipaṃtaḥ puṣpavarṣāṇi paśyaṃtaḥ svairamaṃbare // ŚivP_1,6.12ab/ suparṇavāhanastatra kruddho vai brahmavakṣasi // ŚivP_1,6.12cd/ mumoca bāṇānasahānastrāṃśca vividhānbahūn // ŚivP_1,6.13ab/ mumocā 'tha vidhiḥ kruddho viṣṇorurasi duḥsahān // ŚivP_1,6.13cd/ bāṇānanalasaṃkāśānastrāṃśca bahuśastadā // ŚivP_1,6.14ab/ tadāścaryamiti spaṣṭaṃ tayoḥ samaragocaram // ŚivP_1,6.14cd/ samīkṣya daivatagaṇāḥ śaśaṃsurbhṛśamākulāḥ // ŚivP_1,6.15ab/ tato viṣṇuḥ susaṃkruddhaḥ śvasanvyasanakarśitaḥ // ŚivP_1,6.15cd/ māheśvarāstraṃ matimān saṃdadhe brahmaṇopari // ŚivP_1,6.16ab/ tato brahmā bhṛśaṃ kruddhaḥ kaṃpayanviśvameva hi // ŚivP_1,6.16cd/ astraṃ pāśupataṃ ghoraṃ saṃdadhe viṣṇuvakṣasi // ŚivP_1,6.17ab/ tatastadutthitaṃ vyomni tapanāyutasannibham // ŚivP_1,6.17cd/ sahasramukhamatyugraṃ caṃḍavātabhayaṃkaram // ŚivP_1,6.18ab/ astradvayamidaṃ tatra brahmaviṣṇvorbhayaṃkaram // ŚivP_1,6.18cd/ itthaṃ babhūva samaro brahmaviṣṇvoḥ parasparam // ŚivP_1,6.19ab/ tato devagaṇāḥ sarve viṣaṇṇā bhṛśamākulāḥ // ŚivP_1,6.19cd/ ūcuḥ parasparaṃ tāta rājakṣobhe yathā dvijāḥ // ŚivP_1,6.19ef/ sṛṣṭiḥ sthitiśca saṃhārastiro bhāvopyanugrahaḥ // ŚivP_1,6.20ab/ yasmātpravartate tasmai brahmaṇe ca triśūline // ŚivP_1,6.20cd/ aśakyamanyairyadanugrahaṃ vinā tṛṇakṣayopyatra yadṛcchayā kvacit // ŚivP_1,6.21ab/ iti devābhayaṃ kṛtvā vicinvaṃtaḥ śivakṣayam // ŚivP_1,6.22ab/ jagmuḥ kailāsaśikharaṃ yatrāste caṃdraśekharaḥ // ŚivP_1,6.22cd/ dṛṣṭvaivamamarā hṛṣṭāḥ padaṃtatpārameśvaram // ŚivP_1,6.23ab/ praṇemuḥ praṇavākāraṃ praviṣṭāstatra sadmani // ŚivP_1,6.23cd/ tepi tatra sabhāmadhye maṃḍape maṇiviṣṭare // ŚivP_1,6.24ab/ virājamānamumayā dadṛśurdevapuṃgavam // ŚivP_1,6.24cd/ savyottaretarapadaṃ tadarhitakarāṃ bujam // ŚivP_1,6.25ab/ svagaṇaiḥ sarvato juṣṭaṃ sarvalakṣaṇalakṣitam // ŚivP_1,6.25cd/ vījyamānaṃ viśoṣajaiḥ strījanaistīvrabhāvanaiḥ // ŚivP_1,6.26ab/ śasyamānaṃ sadāvedairanugṛhṇaṃtamīśvaram // ŚivP_1,6.26cd/ dṛṣṭvaivamīśamamarāḥ saṃtoṣasalilekṣaṇāḥ // ŚivP_1,6.27ab/ daṃḍavaddūrato vatsa namaścakrurmahāgaṇāḥ // ŚivP_1,6.27cd/ tānavekṣya patirdevānsamīpe cāhvayadgaṇaiḥ // ŚivP_1,6.28ab/ atha saṃhlādayandevāndevo devaśikhāmaṇiḥ // ŚivP_1,6.28cd/ avocadarthagaṃbhīraṃ vacanaṃ madhumaṃgalam // ŚivP_1,6.28ef/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣaṣṭho 'dhyāyaḥ Chapter 7 īśvara uvāca vatsakāḥ svastivaḥ kaccidvartate mama śāsanāt // ŚivP_1,7.1ab/ jagacca devatāvaṃśaḥ svasvakarmaṇi kiṃ navā // ŚivP_1,7.1cd/ prāgeva viditaṃ yuddhaṃ brahmaviṣṇvormayāsurāḥ // ŚivP_1,7.2ab/ bhavatāmabhitāpena paunaruktyena bhāṣitam // ŚivP_1,7.2cd/ iti sasmitayā mādhvyā kumāraparibhāṣayā // ŚivP_1,7.3ab/ samatoṣayadaṃbāyāḥ sa patistatsuravrajam // ŚivP_1,7.3cd/ atha yuddhāṃgaṇaṃ gaṃtuṃ haridhātroradhīśvaraḥ // ŚivP_1,7.4ab/ ājñāpayadgaṇeśānāṃ śataṃ tatraiva saṃsadi // ŚivP_1,7.4cd/ tato vādyaṃ bahuvidhaṃ prayāṇāya pareśituḥ // ŚivP_1,7.5ab/ gaṇeśvarāśca saṃnaddhā nānāvāhanabhūṣaṇāḥ // ŚivP_1,7.5cd/ praṇavākāramādyaṃtaṃ pañcamaṃḍalamaṃḍitam // ŚivP_1,7.6ab/ āruroha rathaṃ bhadramaṃbikāpatirīśvaraḥ // ŚivP_1,7.6cd/ sasūnugaṇamiṃdrādyāḥ sarvepyanuyayuḥ surāḥ // ŚivP_1,7.6ef/ citradhvajavyajanacāmarapuṣpavarṣasaṃgatinṛtyanivahairaipi vādyavargaiḥ // ŚivP_1,7. 7ab/ saṃmānitaḥ paśupatiḥ parayā ca devyā sākaṃ tayoḥ samarabhūmimagātsasainyaḥ // ŚivP_1,7.7cd/ samīkṣyaṃ tu tayoryuddhaṃ nigūḍho 'bhraṃ samāsthitaḥ // ŚivP_1,7.8ab/ samāptavādyanirghoṣaḥ śāṃtorugaṇaniḥsvanaḥ // ŚivP_1,7.8cd/ atha brahmācyutau vīrau haṃtukāmau parasparam // ŚivP_1,7.9ab/ māheśvareṇa cā 'streṇa tathā pāśupatena ca // ŚivP_1,7.9cd/ astrajvālairatho dagdhaṃ brahmaviṣṇvorjagattrayam // ŚivP_1,7.10ab/ īśopi taṃ nirīkṣyātha hyakālapralayaṃ bhṛśam // ŚivP_1,7.10cd/ mahānalastaṃbhavibhīṣaṇākṛtirbabhūva tanmadhyatale sa niṣkalaḥ // ŚivP_1,7.11ab/ te astre cāpi sajvāle lokasaṃharaṇakṣame // ŚivP_1,7.12ab/ nipatetuḥ kṣaṇe naiva hyāvirbhūte mahānale // ŚivP_1,7.12cd/ dṛṣṭvā tadadbhutaṃ citramastraśāṃtikaraṃ śubham // ŚivP_1,7.13ab/ kimetadadbhutākāramityūcuśca parasparam // ŚivP_1,7.13cd/ atīṃdriyamidaṃ staṃbhamagnirūpaṃ kimutthitam // ŚivP_1,7.14ab/ asyordhvamapi cādhaścāvayorlakṣyameva hi // ŚivP_1,7.14cd/ iti vyavasitau vīrau militau vīramāninau // ŚivP_1,7.15ab/ tatparau tatparīkṣārthaṃ pratasthāte 'tha satvaram // ŚivP_1,7.15cd/ āvayormiśrayostatra kāryamekaṃ na saṃbhavet // ŚivP_1,7.16ab/ ityuktvā sūkaratanurviṣṇustasyādimīyivān // ŚivP_1,7.16cd/ tathā brahmāhaṃ satanustadaṃtaṃ vīkṣituṃ yayau // ŚivP_1,7.17ab/ bhittvā pātālanilayaṃ gatvā dūrataraṃ hariḥ // ŚivP_1,7.17cd/ nā 'pi śyāttasya saṃsthānaṃ staṃbhasyānalavarcasaḥ // ŚivP_1,7.18ab/ śrāṃtaḥ sa sūkaraharīḥ prāpa pūrvaṃ raṇāṃgaṇam // ŚivP_1,7.18cd/ atha gacchaṃstu vyomnā ca vidhistāta pitā tava // ŚivP_1,7.19ab/ dadarśa ketakī puṣpaṃ kiṃcidvicyutamadbhutam // ŚivP_1,7.19cd/ atisaurabhyamamlānaṃ bahuvarṣacyutaṃ tathā // ŚivP_1,7.20ab/ anvīkṣya ca tayoḥ kṛtyaṃ bhagavānparameśvaraḥ // ŚivP_1,7.20cd/ parihāsaṃ tu kṛtavānkaṃpanāccalitaṃ śiraḥ // ŚivP_1,7.21ab/ tasmāttāvanugṛhṇātuṃ cyutaṃ ketakamuttamam // ŚivP_1,7.21cd/ kiṃ tvaṃ patasi puṣpeśa puṣparāṭ kena vā dhṛtam // ŚivP_1,7.22ab/ ādimasyāprameyasya staṃbhamadhyāccyutaściram // ŚivP_1,7.22cd/ na saṃpaśyāmi tasmāttvaṃ jahyāśāmaṃtadarśane // ŚivP_1,7.23ab/ asyāṃ tasya ca sevārthaṃ haṃsamūrtirihāgataḥ // ŚivP_1,7.23cd/ itaḥ paraṃ sakhe me 'dya tvayā kartavyamīpsitam // ŚivP_1,7.24ab/ mayā saha tvayā vācyametadviṣṇośca sannidhau // ŚivP_1,7.24cd/ staṃbhāṃto vīkṣito dhātrā tatra sākṣyahamacyuta // ŚivP_1,7.25ab/ ityuktvā ketakaṃ tatra praṇanāma punaḥ naḥ // ŚivP_1,7.25cd/ asatyamapi śastaṃ syādāpadītyanuśāsanam // ŚivP_1,7.25ef/ samīkṣya tatrā 'cyutamāyataśramaṃ pranaṣṭaharṣaṃ tu nanarta harṣāt // ŚivP_1,7.26ab/ uvāca cainaṃ paramārthamacyutaṃ ṣaṃḍhāttavādaḥ sa vidhistato 'cyutam // ŚivP_1,7.26cd/ staṃbhāgrametatsamudīkṣitaṃ hare tatraiva sākṣī nanu ketakaṃ tvidam // ŚivP_1,7.27ab/ tato 'vadattatra hi ketakaṃ mṛṣā tatheti taddhātṛvacastadaṃtike // ŚivP_1,7.27cd/ hariśca tatsatyamitīva ciṃtayaṃścakāra tasmai vidhaye namaḥ svayam // ŚivP_1,7.28ab/ ṣoḍaśairupacāraiśca pūjayāmāsa taṃ vidhim // ŚivP_1,7.28cd/ vidhiṃ prahartuṃ śaṭhamagniliṃgataḥ sa īśvarastatra babhūva sākṛtiḥ // ŚivP_1,7.29ab/ samutthitaḥ svāmi vilokanātpunaḥ prakaṃpapāṇiḥ parigṛhya tatpadam // ŚivP_1,7.29cd/ ādyaṃtahīnavapuṣi tvayi mohabuddhyā bhūyādvimarśa iha nāvati kāmanotthaḥ // ŚivP_1,7.30ab/ sa tvaṃ prasīda karuṇākara kaśmalaṃ nau mṛṣṭaṃ kṣamasva vihitaṃ bhavataiva kelyā // ŚivP_1,7.30cd/ īśvara uvāca vatsaprasanno 'smi hare yatastvamīśatvamicchannapi satyavākyam // ŚivP_1,7.31ab/ brūyāstataste bhavitā janeṣu sāmyaṃ mayā satkṛtirapyalapthāḥ // ŚivP_1,7.31cd/ itaḥ paraṃ te pṛthagātmanaśca kṣetrapratiṣṭhotsavapūjanaṃ ca // ŚivP_1,7.32ab/ iti devaḥ purā prītaḥ satyena haraye param // ŚivP_1,7.33ab/ dadau svasāmyamatyarthaṃ devasaṃghe ca paśyati // ŚivP_1,7.33cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptamo 'dhyāyaḥ Chapter 8 nandikeśvara uvāca sasarjātha mahādevaḥ puruṣaṃ kaṃcidadbhutam // ŚivP_1,8.1ab/ bhairavākhyaṃ bhruvormadhyādbrahmadarpajighāṃsayā // ŚivP_1,8.1cd/ sa vai tadā tatra patiṃ praṇamya śivamaṃgaṇe // ŚivP_1,8.2ab/ kiṃ kāryaṃ karavāṇyatra śīghramājñāpaya prabho // ŚivP_1,8.2cd/ vatsayo 'yaṃ vidhiḥ sākṣājjagatāmādyadaivatam // ŚivP_1,8.3ab/ nūnamarcaya khaḍgaṃ svaṃ tigmena javasā param // ŚivP_1,8.3cd/ sa vai gṛhītvaikakareṇa keśaṃ tatpañcamaṃ dṛptamasatyabhāṣaṇam // ŚivP_1,8.4ab/ chittvā śirāṃsyasya nihaṃtumudyataḥ prakaṃpayankhaḍgamatisphuṭaṃ karaiḥ // ŚivP_1,8.4cd/ pitā tavotsṛṣṭavibhūṣaṇāṃbarasraguttarīyāmalakeśasaṃhatiḥ // ŚivP_1,8.5ab/ pravātaraṃbheva lateva caṃcalaḥ papāta vai bhairavapādapaṃkaje // ŚivP_1,8.5cd/ tāvadvidhiṃ tāta didṛkṣuracyutaḥ kṛpālurasmatpatipādapallavam // ŚivP_1,8.6ab/ niṣicya bāṣpairavadatkṛtāṃjaliryathā śiśuḥ svaṃ pitaraṃ kalākṣaram // ŚivP_1,8.6cd/ acyuta uvāca tvayā prayatnena purā hi dattaṃ yadasya pañcānanamīśacihnam // ŚivP_1,8.7ab/ tasmātkṣamasvādyamanugrahārhaṃ kuru prasādaṃ vidhaye hyamuṣmai // ŚivP_1,8.7cd/ ityarthito 'cyuteneśastuṣṭaḥ suragaṇāṃgaṇe // ŚivP_1,8.8ab/ nivartayāmāsa tadā bhairavaṃ brahmadaṃḍataḥ // ŚivP_1,8.8cd/ athāha devaḥ kitavaṃ vidhiṃ vigatakaṃdharam // ŚivP_1,8.9ab/ brahmaṃstvamarhaṇākāṃkṣī śaṭhamīśatvamāsthitaḥ // ŚivP_1,8.9cd/ nātaste satkṛtirloke bhūyātsthānotsavādikam // ŚivP_1,8.10ab/ brahmovaca svāminprasīdādya mahāvibhūte manye varaṃ varada me śirasaḥ pramokṣam // ŚivP_1,8.10cd/ namastubhyaṃ bhagavate baṃdhave viśvayonaye // ŚivP_1,8.11ab/ sahiṣṇave sarvadoṣāṇāṃ śaṃbhave śailadhanvane // ŚivP_1,8.11cd/ īśvara uvāca arājabhayametadvai jagatsarvaṃ na śiṣyati // ŚivP_1,8.12ab/ tatastvaṃ jahi daṃḍārhaṃ vaha lokadhuraṃ śiśo // ŚivP_1,8.12cd/ varaṃ dadāmi te tatra gṛhāṇa durlabhaṃ param // ŚivP_1,8.13ab/ vaitānikeṣu gṛhyeṣu yajñe ca bhavān guruḥ // ŚivP_1,8.13cd/ niṣphalastvadṛte yajñaḥ sāṃgaśca sahadakṣiṇaḥ // ŚivP_1,8.14ab/ athāha devaḥ kitavaṃ ketakaṃ kūṭasākṣiṇam // ŚivP_1,8.14cd/ re re ketaka duṣṭastvaṃ śaṭha dūramito vraja // ŚivP_1,8.15ab/ mamāpi prema te puṣpe mā bhūtpūjāsvitaḥ param // ŚivP_1,8.15cd/ ityukte tatra devena ketakaṃ devajātayaḥ // ŚivP_1,8.16ab/ sarvāni vārayāmāsustatpārśvādanyatastadā // ŚivP_1,8.16cd/ ketaka uvāca namaste nātha me janmaniṣphalaṃ bhavadājñayā // ŚivP_1,8.17ab/ saphalaṃ kriyatāṃ tāta kṣamyatāṃ mama kilbiṣam // ŚivP_1,8.17cd/ jñānājñānakṛtaṃ pāpaṃ nāśayatyeva te smṛtiḥ // ŚivP_1,8.18ab/ tādṛśe tvayi dṛṣṭe me mithyādoṣaḥ kuto bhavet // ŚivP_1,8.18cd/ tathā stutastu bhagavānketakena sabhātale // ŚivP_1,8.19ab/ na me tvaddhāraṇaṃ yogyaṃ satyavāgahamīśvaraḥ // ŚivP_1,8.19cd/ madīyāstvāṃ dhariṣyaṃi janma te saphalaṃ tataḥ // ŚivP_1,8.20ab/ tvaṃ vai vitānavyājena mamopari bhaviṣyasi // ŚivP_1,8.20cd/ ityanugṛhya bhagavānketakaṃ vidhimādhavau // ŚivP_1,8.21ab/ virarāja sabhāmadhye sarvadevairabhiṣṭutaḥ // ŚivP_1,8.21cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāmaṣṭamo 'dhyāyaḥ Chapter 9 nandikeśvara uvāca tatrāṃtare tau ca nāthaṃ praṇamya vidhimādhavau // ŚivP_1,9.1ab/ baddhāṃjalipuṭau tūṣṇīṃ tasthaturdakṣavāmagau // ŚivP_1,9.1cd/ tatra saṃsthāpya tau devaṃ sakuṭuṃbaṃ varāsane // ŚivP_1,9.2ab/ pūjayāmāsatuḥ pūjyaṃ puṇyaiḥ puruṣavastubhiḥ // ŚivP_1,9.2cd/ pauruṣaṃ prākṛtaṃ vastujñeyaṃ dīrghālpakālikam // ŚivP_1,9.3ab/ hāranūpurakeyūrakirīṭamaṇikuṃḍalaiḥ // ŚivP_1,9.3cd/ yajñasūtrottarīyasrakkṣaumamālyāṃgulīyakaiḥ // ŚivP_1,9.4ab/ puṣpatāṃbūlakarpūracaṃdanāgurulepanaiḥ // ŚivP_1,9.4cd/ dhūpadīpasitacchatravyajanadhvajacāmaraiḥ // ŚivP_1,9.5ab/ anyairdivyopahāraiśca vāṅmanotītavaibhavaiḥ // ŚivP_1,9.5cd/ patiyogyaiḥ paśvalabhyaistau samarcayatāṃ patim // ŚivP_1,9.6ab/ yadyacchreṣṭhatamaṃ vastu patiyogyaṃ hitaddhvaje // ŚivP_1,9.6cd/ tadvastvakhilamīśopi pāraṃ paryacikīrṣayā // ŚivP_1,9.7ab/ sabhyānāṃ pradadau hṛṣṭaḥ pṛthaktatra yathākramam // ŚivP_1,9.7cd/ kolāhalo mahānāsīttatra tadvastu gṛhṇatām // ŚivP_1,9.8ab/ tatraiva brahmaviṣṇubhyāṃ cārcitaḥ śaṃkaraḥ purā // ŚivP_1,9.8cd/ prasannaḥ prāha tau namrau sasmitaṃ bhaktivardhanaḥ // ŚivP_1,9.9ab/ īśvara uvāca tuṣṭo 'hamadya vāṃ vatsau pūjayā 'sminmahādine // ŚivP_1,9.9cd/ dinametattataḥ puṇyaṃ bhaviṣyati mahattaram // ŚivP_1,9.10ab/ śivarātririti khyātā tithireṣā mama priyā // ŚivP_1,9.10cd/ etatkāle tu yaḥ kuryātpūjāṃ malliṃgaberayoḥ // ŚivP_1,9.11ab/ kuryāttu jagataḥ kṛtyaṃ sthitisargādikaṃ pumān // ŚivP_1,9.11cd/ śivarātrāvahorātraṃ nirāhāro jiteṃdriyaḥ // ŚivP_1,9.12ab/ arcayedvā yathānyāyaṃ yathābalamavaṃcakaḥ // ŚivP_1,9.12cd/ yatphalaṃ mama pūjāyāṃ varṣamekaṃ niraṃtaram // ŚivP_1,9.13ab/ tatphalaṃ labhate sadyaḥ śivarātrau madarcanāt // ŚivP_1,9.13cd/ maddharmavṛddhikālo 'yaṃ caṃdrakāla ivāṃbudheḥ // ŚivP_1,9.14ab/ pratiṣṭhādyutsavo yatra māmako maṃgalāyanaḥ // ŚivP_1,9.14cd/ yatpunaḥ staṃbharūpeṇa svāvirāsamahaṃ purā // ŚivP_1,9.15ab/ sa kālo mārgaśīrṣe tu syādārdrā ṛkṣamarbhakau // ŚivP_1,9.15cd/ ārdrāyāṃ mārgaśīrṣe tu yaḥ paśyenmāmumāsakham // ŚivP_1,9.16ab/ madberamapi vā liṃgaṃ sa guhādapi me priyaḥ // ŚivP_1,9.16cd/ alaṃ darśanamātreṇa phalaṃ tasmindine śubhe // ŚivP_1,9.17ab/ abhyarcanaṃ cedadhikaṃ phalaṃ vācāmagocaram // ŚivP_1,9.17cd/ raṇaraṃgatale 'muṣminyadahaṃ liṃgavarṣmaṇā // ŚivP_1,9.18ab/ jṛṃbhito liṃgavattasmālliṃgasthānamidaṃ bhavet // ŚivP_1,9.18cd/ anādyaṃtamidaṃ staṃbhamaṇumātraṃ bhaviṣyati // ŚivP_1,9.19ab/ darśanārthaṃ hi jagatāṃ pūjanārthaṃ hi putrako // ŚivP_1,9.19cd/ bhogāvahamidaṃ liṃgaṃ bhuktiṃ muktyekasādhanam // ŚivP_1,9.20ab/ darśanasparśanadhyānājjaṃtūnāṃ janmamocanam // ŚivP_1,9.20cd/ analācalasaṃkāśaṃ yadidaṃ liṃgamutthitam // ŚivP_1,9.21ab/ aruṇācalamityeva tadidaṃ khyātimeṣyati // ŚivP_1,9.21cd/ atra tīrthaṃ ca bahudhā bhaviṣyati mahattaram // ŚivP_1,9.22ab/ muktirapyatra jaṃtūnāṃ vāsena maraṇena ca // ŚivP_1,9.22cd/ sthotsavādikalyāṇaṃ janāvāsaṃ tu sarvataḥ // ŚivP_1,9.23ab/ atra dattaṃ hutaṃ japtaṃ sarvaṃ koṭiguṇaṃ bhavet // ŚivP_1,9.23cd/ matkṣetrādapi sarvasmātkṣetrametanmahattaram // ŚivP_1,9.24ab/ atra saṃsmṛtimātreṇa muktirbhavati dehinām // ŚivP_1,9.24cd/ tasmānmahattaramidaṃ kṣetramatyaṃtaśobhanam // ŚivP_1,9.25ab/ sarvakalyāṇasaṃpūrṇaṃ sarvamuktikaraṃ śubham // ŚivP_1,9.25cd/ arcayitvā 'tra māmeva liṃge liṃginamīśvaram // ŚivP_1,9.26ab/ sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ sārṣṭireva ca // ŚivP_1,9.26cd/ sāyujyamiti pañcaite kriyādīnāṃ phalaṃ matam // ŚivP_1,9.27ab/ sarvepi yūyaṃ sakalaṃ prāpsyathāśu manoratham // ŚivP_1,9.27cd/ nandikeśvara uvāca ityanugṛhya bhagavānvinītau vidhimādhavau // ŚivP_1,9.28ab/ yatpūrvaṃ prahataṃ yuddhe tayoḥ sainyaṃ parasparam // ŚivP_1,9.28cd/ tadutthāpayadatyarthaṃ svaśaktyāmṛtadhārayā // ŚivP_1,9.29ab/ tayormāḍhyaṃ ca vairaṃ ca vyapanetumuvāca tau // ŚivP_1,9.29cd/ sakalaṃ niṣkalaṃ ceti svarūpadvayamasti me // ŚivP_1,9.30ab/ nānyasya kasyacittasmādanyaḥ sarvopyanīśvaraḥ // ŚivP_1,9.30cd/ purastātstaṃbharūpeṇa paścādrūpeṇa cārbhakau // ŚivP_1,9.31ab/ brahmatvaṃ niṣkalaṃ proktamīśatvaṃ sakalaṃ tathā // ŚivP_1,9.31cd/ dvayaṃ mamaiva saṃsiddhaṃ na madanyasya kasyacit // ŚivP_1,9.32ab/ tasmādīśatvamanyeṣāṃ yuvayorapi na kvacit // ŚivP_1,9.32cd/ tadajñānena vāṃ vṛttamīśamānaṃ mahādbhutam // ŚivP_1,9.33ab/ tannirākartumatraivamutthito 'haṃ raṇakṣitau // ŚivP_1,9.33cd/ tyajataṃ mānamātmīyaṃ mayīśe kurutaṃ matim // ŚivP_1,9.34ab/ matprasādena lokeṣu sarvopyarthaḥ prakāśate // ŚivP_1,9.34cd/ gurūktirvyaṃjakaṃ tatra pramāṇaṃ vā punaḥ punaḥ // ŚivP_1,9.35ab/ brahmatattvamidaṃ gūḍhaṃ bhavatprītyā bhaṇāmyaham // ŚivP_1,9.35cd/ ahameva paraṃ brahma matsvarūpaṃ kalākalam // ŚivP_1,9.36ab/ brahmatvādīśvaraścāhaṃ kṛtyaṃ menugrahādikam // ŚivP_1,9.36cd/ bṛhattvādbṛṃhaṇatvācca brahmāhaṃ brahmakeśavau // ŚivP_1,9.37ab/ samatvādvyāpakatvācca tathaivātmāhamarbhakau // ŚivP_1,9.37cd/ anātmānaḥ pare sarve jīvā eva na saṃśayaḥ // ŚivP_1,9.38ab/ anugrahādyaṃ sargāṃgaṃ jagatkṛtyaṃ ca paṃkajam // ŚivP_1,9.38cd/ īśatvādeva me nityaṃ na madanyasya kasyacit // ŚivP_1,9.39ab/ ādau brahmattvabuddhyarthaṃ niṣkalaṃ liṃgamutthitam // ŚivP_1,9.39cd/ tasmādajñātamīśatvaṃ vyaktaṃ dyotayituṃ hi vām // ŚivP_1,9.40ab/ sakalohamato jātaḥ sākṣādīśastu tatkṣaṇāt // ŚivP_1,9.40cd/ sakalatvamato jñeyamīśatvaṃ mayi satvaram // ŚivP_1,9.41ab/ yadidaṃ niṣkalaṃ staṃbhaṃ mama brahmatvabodhakam // ŚivP_1,9.41cd/ liṃgalakṣaṇayuktatvānmama liṃgaṃ bhavedidam // ŚivP_1,9.42ab/ tadidaṃ nityamabhyarcyaṃ yuvābhyāmatra putrakau // ŚivP_1,9.42cd/ madātmakamidaṃ nityaṃ mama sānnidhyakāraṇam // ŚivP_1,9.43ab/ mahatpūjyamidaṃ nityamabhedālliṃgasiṃginoḥ // ŚivP_1,9.43cd/ yatrapratiṣṭhitaṃ yena madīyaṃ liṃgamīdṛśam // ŚivP_1,9.44ab/ tatra pratiṣṭhitaḥ sohamapratiṣṭhopi vatsakau // ŚivP_1,9.44cd/ matsāmyamekaliṃgasya sthāpane phalamīritam // ŚivP_1,9.45ab/ dvitīye sthāpite liṃge madaikyaṃ phalameva hi // ŚivP_1,9.45cd/ liṃgaṃ prādhānyataḥ sthāpyaṃ tathāberaṃ tu gauṇakam // ŚivP_1,9.46ab/ liṃgābhāvena tatkṣetraṃ saberamapi sarvataḥ // ŚivP_1,9.46cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ navamo 'dhyāyaḥ Chapter 10 brahmaviṣṇū ūcatuḥ sargādipañcakṛtyasya lakṣaṇaṃ brūhi nau prabho // ŚivP_1,10.1ab/ śiva uvāca matkṛtyabodhanaṃ guhyaṃ kṛpayā prabravīmi vām // ŚivP_1,10.1cd/ sṛṣṭiḥ sthitiśca saṃhārastirobhāvo 'pyanugrahaḥ // ŚivP_1,10.2ab/ pañcaiva me jagatkṛtyaṃ nityasiddhamajācyutau // ŚivP_1,10.2cd/ sargaḥ saṃsārasaṃraṃbhastatpratiṣṭhā sthitirmatā // ŚivP_1,10.3ab/ saṃhāro mardanaṃ tasya tirobhāvastadutkramaḥ // ŚivP_1,10.3cd/ tanmokṣo 'nugrahastanme kṛtyamevaṃ hi pañcakam // ŚivP_1,10.4ab/ kṛtyametadvahatyanyastūṣṇīṃ gopurabiṃbavat // ŚivP_1,10.4cd/ sargādi yaccatuṣkṛtyaṃ saṃsāraparijṛṃbhaṇam // ŚivP_1,10.5ab/ pañcamaṃ muktiheturvai nityaṃ mayi ca susthiram // ŚivP_1,10.5cd/ tadidaṃ pañcabhūteṣu dṛśyate māmakairjanaiḥ // ŚivP_1,10.6ab/ sṛṣṭirbhūmau sthitistoye saṃhāraḥ pāvake tathā // ŚivP_1,10.6cd/ tirobhāvo 'nile tadvadanugraha ihāmbare // ŚivP_1,10.7ab/ sṛjyate dharayā sarvamadbhiḥ sarvaṃ pravardhate // ŚivP_1,10.7cd/ ardyate tejasā sarvaṃ vāyunā cāpanīyate // ŚivP_1,10.8ab/ vyomnānugṛhyate sarvaṃ jñeyamevaṃ hi sūribhiḥ // ŚivP_1,10.8cd/ pañcakṛtyamidaṃ boḍhuṃ mamāsti mukhapañcakam // ŚivP_1,10.9ab/ caturdikṣu caturvaktraṃ tanmadhye pañcamaṃ mukham // ŚivP_1,10.9cd/ yuvābhyāṃ tapasā labdhametatkṛtyadvayaṃ sutau // ŚivP_1,10.10ab/ sṛṣṭisthityabhīdhaṃ bhāgyaṃ mattaḥ prītādatipriyam // ŚivP_1,10.10cd/ tathā rudramaheśābhyāmanyatkṛtyadvayaṃ param // ŚivP_1,10.11ab/ anugrahākhyaṃ kenāpi labdhuṃ naiva hi śakyate // ŚivP_1,10.11cd/ tatsarvaṃ paurvikaṃ karma yuvābhyāṃ kālavismṛtam // ŚivP_1,10.12ab/ na tadrudra maheśābhyāṃ vismṛtaṃ karma tādṛśam // ŚivP_1,10.12cd/ rūpe veśe ca kṛtye ca vāhane cāsane tathā // ŚivP_1,10.13ab/ āyudhādau ca matsāmyamasmābhistatkṛte kṛtam // ŚivP_1,10.13cd/ maddhyānavirahādvatsau mauḍhyaṃ vāmevamāgatam // ŚivP_1,10.14ab/ majjñāne sati naivaṃ syānmānaṃ rūpe maheśavat // ŚivP_1,10.14cd/ tasmānmajjñānasiddhyarthaṃ maṃtramoṃkāranāmakam // ŚivP_1,10.15ab/ itaḥ paraṃ prajapataṃ māmakaṃ mānabhaṃjanam // ŚivP_1,10.15cd/ upādiśaṃ nijaṃ maṃtramoṃkāramurumaṃgalam // ŚivP_1,10.16ab/ oṃkāro manmukhājjajñe prathamaṃ matprabodhakaḥ // ŚivP_1,10.16cd/ vācako 'yamahaṃ vācyo maṃtro 'yaṃ hi madātmakaḥ // ŚivP_1,10.17ab/ tadanusmaraṇaṃ nityaṃ mamānusmaraṇaṃ bhavet // ŚivP_1,10.17cd/ akārauttarātpūrvamukāraḥ paścimānanāt // ŚivP_1,10.18ab/ makāro dakṣiṇamukhādbiṃduḥ prāṅmukhatastathā // ŚivP_1,10.18cd/ nādo madhyamukhādevaṃ pañcadhā 'sau vijṛṃbhitaḥ // ŚivP_1,10.19ab/ ekībhūtaḥ punastadvadomityekākṣaro bhavet // ŚivP_1,10.19cd/ nāmarūpātmakaṃ sarvaṃ vedabhūtakuladvayam // ŚivP_1,10.20ab/ vyāptametena maṃtreṇa śivaśaktyośca bodhakaḥ // ŚivP_1,10.20cd/ asmātpañcākṣaraṃ jajñe bodhakaṃ sakalasyatat // ŚivP_1,10.21ab/ ākārādikrameṇaiva nakārādiyathākramam // ŚivP_1,10.21cd/ asmātpañcākṣarājjātā mātṛkāḥ pañcabhedataḥ // ŚivP_1,10.22ab/ tasmācchiraścaturvaktrāttripādgāya trireva hi // ŚivP_1,10.22cd/ vedaḥ sarvastato jajñe tato vai maṃtrakoṭayaḥ // ŚivP_1,10.23ab/ tattanmaṃtreṇa tatsiddhiḥ sarvasiddhirito bhavet // ŚivP_1,10.23cd/ anena maṃtrakaṃdena bhogo mokṣaśca siddhyati // ŚivP_1,10.24ab/ sakalā maṃtrarājānaḥ sākṣādbhogapradāḥ śubhāḥ // ŚivP_1,10.24cd/ naṃdikeśvara uvāca punastayostatra tiraḥ paṭaṃ guruḥ prakalpya maṃtraṃ ca samādiśatparam // ŚivP_1,10.25ab/ nidhāya tacchīrṣṇi karāṃbujaṃ śanairudaṅmukhaṃ saṃsthitayoḥ sahāṃbikaḥ // ŚivP_1,10.25cd/ triruccāryāgrahīnmaṃtraṃ yaṃtrataṃtroktipūrvakam // ŚivP_1,10.26ab/ śiṣyau ca tau dakṣiṇāyāmātmānaṃ ca samarpayat // ŚivP_1,10.26cd/ prabaddhahastau kila tau tadaṃtike tameva devaṃ jagaturjagadgurum // ŚivP_1,10.27ab/ brahmācyutāvūcatuḥ namo niṣkalarūpāya namo niṣkalatejase // ŚivP_1,10.28ab/ namaḥ sakalanāthāya namaste sakalātmane // ŚivP_1,10.28cd/ namaḥ praṇavavācyāya namaḥ praṇavaliṃgine // ŚivP_1,10.29ab/ namaḥ sṛṣṭyādikartre ca namaḥ pañcamukhāyate // ŚivP_1,10.29cd/ pañcabrahmasvarūpāya pañca kṛtyāyate namaḥ // ŚivP_1,10.30ab/ ātmane brahmaṇe tubhyamanaṃtaguṇaśaktaye // ŚivP_1,10.30cd/ sakalākalarūpāya śaṃbhave gurave namaḥ // ŚivP_1,10.31ab/ iti stutvā guruṃ padyairbrahmā viṣṇuś ca nematuḥ // ŚivP_1,10.31cd/ īśvara uvāca vatsakau sarvatattvaṃ ca kathitaṃ darśitaṃ ca vām // ŚivP_1,10.32ab/ japataṃ praṇavaṃ maṃtraṃ devīdiṣṭaṃ madātmakam // ŚivP_1,10.32cd/ jñānaṃ ca susthiraṃ bhāgyaṃ sarvaṃ bhavati śāśvatam // ŚivP_1,10.33ab/ ārdrāyāṃ ca caturdaśyāṃ tajjāpyaṃ tvakṣayaṃ bhavet // ŚivP_1,10.33cd/ sūryagatyā mahārdrāyāmekaṃ koṭiguṇaṃ bhavet // ŚivP_1,10.34ab/ mṛgaśīrṣāṃtimo bhāgaḥ punarvasvādimastathā // ŚivP_1,10.34cd/ ārdrāsamaḥ sadā jñeyaḥ pūjāhomāditarpaṇe // ŚivP_1,10.35ab/ darśanaṃ tu prabhāte ca prātaḥsaṃgavakālayoḥ // ŚivP_1,10.35cd/ caturdaśī tathā grāhyā niśīthavyāpinī bhavet // ŚivP_1,10.36ab/ pradoṣavyāpinī caiva parayuktā praśasyate // ŚivP_1,10.36cd/ liṃgaṃ beraṃ ca metulyaṃ yajatāṃ liṃgamuttamam // ŚivP_1,10.37ab/ tasmālliṃgaṃ paraṃ pūjyaṃ berādapi mumukṣubhiḥ // ŚivP_1,10.37cd/ liṃgamoṃkāramaṃtreṇa beraṃ pañcākṣareṇa tu // ŚivP_1,10.38ab/ svayameva hi dravyaiḥ pratiṣṭhāpyaṃ parairapi // ŚivP_1,10.38cd/ pūjayedupacāraiśca matpadaṃ sulabhaṃ bhavet // ŚivP_1,10.39ab/ iti śāsya tathā śiṣyau tatraivāṃ 'tarhitaḥ śivaḥ // ŚivP_1,10.39cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ daśamo 'dhyāyaḥ Chapter 11 ṛṣaya ūcuḥ kathaṃ liṃgaṃ pratiṣṭhāpyaṃ kathaṃ vātasya lakṣaṇam // ŚivP_1,11.1ab/ kathaṃ vā tatsamabhyarcyaṃ deśe kāle ca kena hi // ŚivP_1,11.1cd/ sūta uvāca yuṣmadarthaṃ pravakṣyāmi buddhyatāmavadhānataḥ // ŚivP_1,11.2ab/ anukūle śubhe kāle puṇye tīrthe taṭe tathā // ŚivP_1,11.2cd/ yatheṣṭaṃ liṃgamāropyaṃ yatra syānnityamarcanam // ŚivP_1,11.3ab/ pārthivena tathāpyenaṃ taijasena yathāruci // ŚivP_1,11.3cd/ kalpalakṣaṇasaṃyuktaṃ liṃgaṃ pūjāphalaṃ labhet // ŚivP_1,11.4ab/ sarvalakṣaṇasaṃyuktaṃ sadyaḥ pūjāphalapradam // ŚivP_1,11.4cd/ care viśiṣyate sūkṣmaṃ sthāvare sthūlameva hi // ŚivP_1,11.5ab/ salakṣaṇaṃ sapīṭhaṃ ca sthāpayecchivanirmitam // ŚivP_1,11.5cd/ maṃḍalaṃ caturasraṃ vā trikoṇamathavā tathā // ŚivP_1,11.6ab/ khaṭvāṃgavanmadhyasūkṣmaṃ liṃgapīṭhaṃ mahāphalaṃ // ŚivP_1,11.6cd/ prathamaṃ mṛcchilādibhyo ligaṃ lohādibhiḥ kṛtam // ŚivP_1,11.7ab/ yena liṃgaṃ tena pīṭhaṃ sthāvare hi viśiṣyate // ŚivP_1,11.7cd/ liṃgaṃ pīṭhaṃ care tvekaṃ liṃgaṃ bāṇakṛtaṃ vinā // ŚivP_1,11.8ab/ liṃgapramāṇaṃ kartḥṇāṃ dvādaśāṃgulamuttamam // ŚivP_1,11.8cd/ nyūnaṃ cetphalamalpaṃ syādadhikaṃ naiva dūṣyate // ŚivP_1,11.9ab/ karturekāṃgulanyūnaṃ carepi ca tathaiva hi // ŚivP_1,11.9cd/ ādau vimānaṃ śilpena kāryaṃ devagaṇairyutam // ŚivP_1,11.10ab/ tatra garbhagṛhe ramye dṛḍhe darpaṇasaṃnibho bhūṣite // ŚivP_1,11.10cd/ navaratnaiśca digdvāre ca pradhānakaiḥ // ŚivP_1,11.11ab/ nīlaṃ raktaṃ ca vai dūryaṃ śyāmaṃ mārakataṃ tathā // ŚivP_1,11.11cd/ muktāpravālagomedavajrāṇi navaratnakam // ŚivP_1,11.12ab/ madhye liṃgaṃ mahaddravyaṃ nikṣipetsahavaidike // ŚivP_1,11.12cd/ saṃpūjya liṃgaṃ sadyādyaiḥ pañcasthāne yathākramam // ŚivP_1,11.13ab/ agnau ca hutvā bahudhā haviṣāsa kalaṃ ca mām // ŚivP_1,11.13cd/ abhyarcya gurumācāryamarthaiḥ kāmaiśca bāṃdhavam // ŚivP_1,11.14ab/ dadyādaiśvaryamarthibhyo jaḍamapyajaḍaṃ tathā // ŚivP_1,11.14cd/ sthāvaraṃ jaṃgamaṃ jīvaṃ sarvaṃ saṃtoṣya yatnataḥ // ŚivP_1,11.15ab/ suvarṇapūrite śvabhre navaratnaiśca pūrite // ŚivP_1,11.15cd/ sadyādi brahma coccārya dhyātvā devaṃ paraṃ śubham // ŚivP_1,11.16ab/ udīrya ca mahāmaṃtramoṃkāraṃ nādaghoṣitam // ŚivP_1,11.16cd/ liṃgaṃ tatra pratiṣṭhāpya ligaṃ pīṭhena yojayet // ŚivP_1,11.17ab/ liṃgaṃ sapīṭhaṃ nikṣipya nityalepena baṃdhayet // ŚivP_1,11.17cd/ evaṃ beraṃ ca saṃsthāpyaṃ tatraiva paramaṃ śubham // ŚivP_1,11.18ab/ pañcākṣareṇa beraṃ tu utsavārthaṃ vahistathā // ŚivP_1,11.18cd/ beraṃ gurubhyo gṛhṇīyātsādhubhiḥ pūjitaṃ tu vā // ŚivP_1,11.19ab/ evaṃ liṃge ca bere ca pūjā śivapadapradā // ŚivP_1,11.19cd/ punaśca dvividhaṃ proktaṃ sthāvaraṃ jaṃgamaṃ tathā // ŚivP_1,11.20ab/ sthāvaraṃ liṃgamityāhustarugulmādikaṃ tathā // ŚivP_1,11.20cd/ jaṃgamaṃ liṃgamityāhuḥ kṛmikīṭādikaṃ tathā // ŚivP_1,11.21ab/ sthāvarasya ca śuśrūṣā jaṃgamasya ca tarpaṇam // ŚivP_1,11.21cd/ tattatsukhānurāgeṇa śivapūjāṃ vidurbudhāḥ // ŚivP_1,11.22ab/ pīṭhamaṃbāmayaṃ sarvaṃ śivaliṃgaṃ ca cinmayam // ŚivP_1,11.22cd/ yathā devīmumāmaṃke dhṛtvā tiṣṭhati śaṃkaraḥ // ŚivP_1,11.23ab/ tathā liṃgamidaṃ pīṭhaṃ dhṛtvā tiṣṭhati saṃtatam // ŚivP_1,11.23cd/ evaṃ sthāpya mahāliṃgaṃ pūjayedupacārakaiḥ // ŚivP_1,11.24ab/ nityapūjā yathā śaktidhvajādikaraṇaṃ tathā // ŚivP_1,11.24cd/ iti saṃsthāpayelliṃgaṃ sākṣācchivapadapradam // ŚivP_1,11.25ab/ athavā caraliṃgaṃ tu ṣoḍaśairupacārakaiḥ // ŚivP_1,11.25cd/ pūjayecca yathānyāyaṃ kramācchivapadapradam // ŚivP_1,11.26ab/ āvāhanaṃ cāsanaṃ ca arghyaṃ pādyaṃ tathaiva ca // ŚivP_1,11.26cd/ tadaṃgācamanaṃ caiva snānamabhyaṃgapūrvakam // ŚivP_1,11.27ab/ vastraṃ gaṃdhaṃ tathā puṣpaṃ dhūpaṃ dīpaṃ nivedanam // ŚivP_1,11.27cd/ nīrājanaṃ ca tāṃbūlaṃ namaskāro visarjanam // ŚivP_1,11.28ab/ athavā 'rghyādikaṃ kṛtvā naivedyāṃ taṃ yathāvidhi // ŚivP_1,11.28cd/ athābhiṣekaṃ naivedyaṃ namaskāraṃ ca tarpaṇam // ŚivP_1,11.29ab/ yathāśakti sadākuryātkramācchivapadapradam // ŚivP_1,11.29cd/ athavā mānuṣe liṃgepyārṣe daive svayaṃbhuvi // ŚivP_1,11.30ab/ sthāpite 'pūrvake liṃge sopacāraṃ yathā tathā // ŚivP_1,11.30cd/ pūjopakaraṇe datte yatkiṃcitphalamaśnute // ŚivP_1,11.31ab/ pradakṣiṇānamaskāraiḥ kramācchivapadapradam // ŚivP_1,11.31cd/ liṃgaṃ darśanamātraṃ vā niyamena śivapradam // ŚivP_1,11.32ab/ mṛtpiṣṭagośakṛtpuṣpaiḥ karavīreṇa vā phalaiḥ // ŚivP_1,11.32cd/ guḍena navanītena bhasmanānnairyathāruci // ŚivP_1,11.33ab/ liṃgaṃ yatnena kṛtvāṃte yajettadanusārataḥ // ŚivP_1,11.33cd/ aṃguṣṭhādāvapi tathā pūjāmicchaṃti kecana // ŚivP_1,11.34ab/ liṃgakarmaṇi sarvatra niṣedhosti na karhicit // ŚivP_1,11.34cd/ sarvatra phaladātā hi prayāsānuguṇaṃ śivaḥ // ŚivP_1,11.35ab/ athavā liṃgadānaṃ vā liṃgamaulyamathāpi vā // ŚivP_1,11.35cd/ śraddhayā śivabhaktāya dattaṃ śivapadapradam // ŚivP_1,11.36ab/ athavā praṇavaṃ nityaṃ japeddaśasahasrakam // ŚivP_1,11.36cd/ saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam // ŚivP_1,11.37ab/ japakāle makārāṃtaṃ manaḥśuddhikaraṃ bhajet // ŚivP_1,11.37cd/ samādhau mānasaṃ proktamupāṃśu sārvakālikam // ŚivP_1,11.38ab/ samānapraṇavaṃ cemaṃ biṃdunādayutaṃ viduḥ // ŚivP_1,11.38cd/ atha pañcākṣaraṃ nityaṃ japedayutamādarāt // ŚivP_1,11.39ab/ saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam // ŚivP_1,11.39cd/ praṇavenādisaṃyuktaṃ brāhmaṇānāṃ viśiṣyate // ŚivP_1,11.40ab/ dīkṣāyuktaṃ gurorgrāhyaṃ maṃtraṃ hyatha phalāptaye // ŚivP_1,11.40cd/ kuṃbhasnānaṃ maṃtradīkṣāṃ mātṛkānyāsameva ca // ŚivP_1,11.41ab/ brāhmaṇaḥ satyapūtātmā gururjñānī viśiṣyate // ŚivP_1,11.41cd/ dvijānāṃ ca namaḥpūrvamanyeṣāṃ ca namontakam // ŚivP_1,11.42ab/ strīṇāṃ ca kvacidicchaṃti namo taṃ ca yathāvidhi // ŚivP_1,11.42cd/ viprastrīṇāṃ namaḥ pūrvamidamicchaṃti kecana // ŚivP_1,11.43ab/ pañcakoṭijapaṃ kṛtvā sadā śivasamo bhavet // ŚivP_1,11.43cd/ ekadvitricatuḥkoṭyābrahmādīnāṃ padaṃ vrajet // ŚivP_1,11.44ab/ japedakṣaralakṣaṃvā akṣarāṇāṃ pṛthakpṛthak // ŚivP_1,11.44cd/ athavākṣaralakṣaṃ vā jñeyaṃ śivapadapradam // ŚivP_1,11.45ab/ sahasraṃ tu sahasrāṇāṃ sahasreṇa dinena hi // ŚivP_1,11.45cd/ japenmaṃtrādiṣṭasiddhirnityaṃ brāhmaṇabhojanāt // ŚivP_1,11.46ab/ aṣṭottarasahasraṃ vai gāyatrīṃ prātareva hi // ŚivP_1,11.46cd/ brāhmaṇastu japennityaṃ kramācchivapadapradān // ŚivP_1,11.47ab/ vedamaṃtrāṃstu sūktāni japenniyamamāsthitaḥ // ŚivP_1,11.47cd/ ekaṃ daśārṇaṃ maṃtraṃ ca śatonaṃ ca tadūrdhvakam // ŚivP_1,11.48ab/ ayutaṃ ca sahasraṃ ca śatamekaṃ vinā bhavet // ŚivP_1,11.48cd/ vedapārāyaṇaṃ caiva jñeyaṃ śivapadapradam // ŚivP_1,11.49ab/ anyānbahutarānmaṃtrāñjapedakṣaralakṣataḥ // ŚivP_1,11.49cd/ ekākṣarāṃstathā maṃtrāñjapedakṣarakoṭitaḥ // ŚivP_1,11.50ab/ tataḥ paraṃ japeccaiva sahasraṃ bhaktipūrvakam // ŚivP_1,11.50cd/ evaṃ kuryādyathāśakti kramācchiva padaṃ labhet // ŚivP_1,11.51ab/ nityaṃ rucikaraṃ tvekaṃ maṃtramāmaraṇāṃtikam // ŚivP_1,11.51cd/ japetsahasramomiti sarvābhīṣṭaṃ śivājñayā // ŚivP_1,11.52ab/ puṣpārāmādikaṃ vāpi tathā saṃmārjanādikam // ŚivP_1,11.52cd/ śivāya śivakāryāthe kṛtvā śivapadaṃ labhet // ŚivP_1,11.53ab/ śivakṣetre tathā vāsaṃ nityaṃ kuryācca bhaktitaḥ // ŚivP_1,11.53cd/ jaḍānāmajaḍānāṃ ca sarveṣāṃ bhuktimuktidam // ŚivP_1,11.54ab/ tasmādvāsaṃ śivakṣetre kuryadāmaraṇaṃ budhaḥ // ŚivP_1,11.54cd/ liṃgāddhastaśataṃ puṇyaṃ kṣetre mānuṣake viduḥ // ŚivP_1,11.55ab/ sahasrāratnimātraṃ tu puṇyakṣetre tathārṣake // ŚivP_1,11.55cd/ daivaliṃge tathā jñeyaṃ sahasrāratnimānataḥ // ŚivP_1,11.56ab/ dhanuṣpramāṇasāhasraṃ puṇyaṃ kṣetre svayaṃ bhuvi // ŚivP_1,11.56cd/ puṇyakṣetre sthitā vāpī kūpādyapuṣkarāṇi ca // ŚivP_1,11.57ab/ śivagaṃgeti vijñeyaṃ śivasya vacanaṃ yathā // ŚivP_1,11.57cd/ tatra snātvā tathā dattvā japitvā hi śivaṃ vrajet // ŚivP_1,11.58ab/ śivakṣetraṃ samāśritya vasedāmaraṇaṃ tathā // ŚivP_1,11.58cd/ dāhaṃ daśāhaṃ māsyaṃ vā sapiṃḍīkaraṇaṃ tu vā // ŚivP_1,11.59ab/ ābdikaṃ vā śivakṣetre kṣetre piṃḍamathāpi vā // ŚivP_1,11.59cd/ sarvapāpa vinirmuktaḥ sadyaḥ śivapadaṃ labhet // ŚivP_1,11.60ab/ athavā saptarātraṃ vā vasedvā pañcarātrakam // ŚivP_1,11.60cd/ trirātramekarātraṃ vā kramācchivapadaṃ labhet // ŚivP_1,11.61ab/ svavarṇānuguṇaṃ loke svācārātprāpnute naraḥ // ŚivP_1,11.61cd/ varṇoddhāreṇa bhaktyā ca tatphalātiśayaṃ naraḥ // ŚivP_1,11.62ab/ sarvaṃ kṛtaṃ kāmanayā sadyaḥ phalamavāpnuyāt // ŚivP_1,11.62cd/ sarvaṃ kṛtamakāmena sākṣācchivapadapradam // ŚivP_1,11.63ab/ prātarmadhyāhnasāyāhnamahastriṣvekataḥ kramāt // ŚivP_1,11.63cd/ prātarvidhikaraṃ jñeyaṃ madhyāhnaṃ kāmikaṃ tathā // ŚivP_1,11.64ab/ sāyāhnaṃ śāṃtikaṃ jñeyaṃ rātrāvapi tathaiva hi // ŚivP_1,11.64cd/ kālo niśītho vai proktomadhyayāmadvayaṃ niśi // ŚivP_1,11.65ab/ śivapūjā viśeṣeṇa tatkāle 'bhīṣṭasiddhidā // ŚivP_1,11.65cd/ evaṃ jñātvā naraḥ kurvanyathoktaphalabhāgbhavet // ŚivP_1,11.66ab/ kalau yuge viśeṣeṇa phalasiddhistu karmaṇā // ŚivP_1,11.66cd/ uktena kenacidvāpi adhikāravibhedataḥ // ŚivP_1,11.67ab/ sadvṛttiḥ pāpabhīruścettatatphalamavāpnuyāt // ŚivP_1,11.67cd/ ṛṣaya ūcuḥ atha kṣetrāṇi puṇyāni samāsātkathayasva naḥ // ŚivP_1,11.68ab/ sarvāḥ striyaśca puruṣā yānyāśritya padaṃ labhet // ŚivP_1,11.68cd/ sūta yogivaraśreṣṭha śivakṣetrāgamāṃstathā // ŚivP_1,11.69ab/ sūta uvāca śṛṇuta śraddhayā sarvakṣetrāṇi ca tadāgamān // ŚivP_1,11.69cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃekadaśo 'dhyāyaḥ Chapter 12 sūta uvāca śṛṇudhvamṛṣayaḥ prājñāḥ śivakṣetraṃ vimuktidam // ŚivP_1,12.1ab/ tadāgamāṃstato vakṣye lokarakṣārthameva hi // ŚivP_1,12.1cd/ pañcāśatkoṭivistīrṇā saśailavanakānanā // ŚivP_1,12.2ab/ śivājñayā hi pṛthivī lokaṃ dhṛtvā ca tiṣṭhati // ŚivP_1,12.2cd/ tatra tatra śivakṣetraṃ tatra tatra nivāsinām // ŚivP_1,12.3ab/ mokṣārthaṃ kṛpayā devaḥ kṣetraṃ kalpitavānprabhuḥ // ŚivP_1,12.3cd/ parigrahādṛṣīṇāṃ ca devānāṃ parigrahāt // ŚivP_1,12.4ab/ svayaṃbhūtānyathānyāni lokarakṣārthameva hi // ŚivP_1,12.4cd/ tīrthe kṣetre sadākāryaṃ snānadānajapādikam // ŚivP_1,12.5ab/ anyathā rogadāridryamūkatvādyāpnuyānnaraḥ // ŚivP_1,12.5cd/ athāsminbhārate varṣe prāpnoti maraṇaṃ naraḥ // ŚivP_1,12.6ab/ svayaṃbhūsthānavāsena punarmānuṣyamāpnuyāt // ŚivP_1,12.6cd/ kṣetre pāpasya karaṇaṃ dṛḍhaṃ bhavati bhūsurāḥ // ŚivP_1,12.7ab/ puṇyakṣetre nivāse hi pāpamaṇvapi nācaret // ŚivP_1,12.7cd/ yena kenāpyupāyena puṇyakṣetre vasennaraḥ // ŚivP_1,12.8ab/ siṃdhoḥ śatanadītīre saṃti kṣetrāṇyanekaśaḥ // ŚivP_1,12.8cd/ sarasvatī nadī puṇyā proktā ṣaṣṭimukhā tathā // ŚivP_1,12.9ab/ tattattīre vasetprājñaḥ kramādbrahmapadaṃ labhet // ŚivP_1,12.9cd/ himavadgirijā gaṃgā puṇyā śatamukhā nadī // ŚivP_1,12.10ab/ tattīre caiva kāśyādipuṇyakṣetrāṇyanekaśaḥ // ŚivP_1,12.10cd/ tatra tīraṃ praśastaṃ hi mṛgabṛhaspatau // ŚivP_1,12.11ab/ śoṇabhadro daśamukhaḥ puṇyobhīṣṭaphalapradaḥ // ŚivP_1,12.11cd/ tatra snānopavāsena padaṃ vaināyakaṃ labhet // ŚivP_1,12.12ab/ caturvīṃśamukhā puṇyā narmadā ca mahānadī // ŚivP_1,12.12cd/ tasyāṃ snānena vāsena padaṃ vaiṣṇavamāpnuyāt // ŚivP_1,12.13ab/ tamasā dvādaśamukhā revā daśamukhā nadī // ŚivP_1,12.13cd/ godāvarī mahāpuṇyā brahmagovadhanāśinī // ŚivP_1,12.14ab/ ekaviṃśamukhā proktā rudralokapradāyinī // ŚivP_1,12.14cd/ kṛṣṇaveṇī puṇyanadī sarvapāpakṣayāvahā // ŚivP_1,12.15ab/ sāṣṭādaśamukhāproktā viṣṇulokapradāyinī // ŚivP_1,12.15cd/ tuṃgabhadrā daśamukhā brahmalokapradāyinī // ŚivP_1,12.16ab/ suvarṇamukharī puṇyā proktā navamukhā tathā // ŚivP_1,12.16cd/ tatraiva suprajāyaṃte brahmalokacyutāstathā // ŚivP_1,12.17ab/ sarasvatī ca paṃpā ca kanyāśvetanadī śubhā // ŚivP_1,12.17cd/ etāsāṃ tīravāsena iṃdralokamavāpnuyāt // ŚivP_1,12.18ab/ sahyādrijā mahāpuṇyā kāverīti mahānadī // ŚivP_1,12.18cd/ saptaviṃśamukhā proktā sarvābhīṣṭaṃ pradāyinī // ŚivP_1,12.19ab/ tattīrāḥ svargadāścaiva brahmaviṣṇupadapradāḥ // ŚivP_1,12.19cd/ śivalokapradā śaivās tathā 'bhīṣṭaphalapradāḥ // ŚivP_1,12.20ab/ naimiṣe badare snāyānmeṣage ca gurau ravau // ŚivP_1,12.20cd/ brahmalokapradaṃ vidyāttataḥ pūjādikaṃ tathā // ŚivP_1,12.21ab/ siṃdhunadyāṃ tathā snānaṃ siṃhe karkaṭage ravau // ŚivP_1,12.21cd/ kedārodakapānaṃ ca snānaṃ ca jñānadaṃ viduḥ // ŚivP_1,12.22ab/ godāvaryāṃ siṃhamāse snāyātsiṃhabṛhaspatau // ŚivP_1,12.22cd/ śivalokapradamiti śivenoktaṃ tathā purā // ŚivP_1,12.23ab/ yamunāśoṇayoḥ snāyādgurau kanyāgate ravau // ŚivP_1,12.23cd/ dharmaloke daṃtiloke mahābhogapradaṃ viduḥ // ŚivP_1,12.24ab/ kāveryāṃ ca tathāsnāyāttulāge tu ravau gurau // ŚivP_1,12.24cd/ viṣṇorvacanamahātmyātsarvābhīṣṭapradaṃ viduḥ // ŚivP_1,12.25ab/ vṛścike māsi saṃprāpte tathārke guruvṛścike // ŚivP_1,12.25cd/ narmadāyāṃ nadīsnānādviṣṇulokamvāpnuyāt // ŚivP_1,12.26ab/ suvarṇamukharīsnānaṃ cāpage ca gurau ravau // ŚivP_1,12.26cd/ śivalokapradamiti brāhmaṇo vacanaṃ yathā // ŚivP_1,12.27ab/ mṛgamāsi tathā snāyājjāhnavyāṃ mṛgage gurau // ŚivP_1,12.27cd/ śivalokapradamiti brahmaṇo vacanaṃ yathā // ŚivP_1,12.28ab/ brahmaviṣṇvoḥ pade bhuktvā tadaṃte jñānamāpnuyāt // ŚivP_1,12.28cd/ gaṃgāyāṃ māghamāse tu tathākuṃbhagate ravau // ŚivP_1,12.29ab/ śrāddhaṃ vā piṃḍadānaṃ vā tilodakamathāpivā // ŚivP_1,12.29cd/ vaṃśadvayapitḥṇāṃ ca kulakoṭyuddharaṃ viduḥ // ŚivP_1,12.30ab/ kṛṣṇaveṇyāṃ praśaṃsaṃti mīnage ca gurau ravau // ŚivP_1,12.30cd/ tattattīrthe ca tanmāsi snānamiṃdrapadapradam // ŚivP_1,12.31ab/ gaṃgāṃ vā sahyajāṃ vāpi samāśritya vasedbudhaḥ // ŚivP_1,12.31cd/ tatkālakṛtapāpasya kṣayo bhavati niścitam // ŚivP_1,12.32ab/ rudralokapradānyeva saṃti kṣetrāṇyanekaśaḥ // ŚivP_1,12.32cd/ tāmraparṇī vegavatī brahmalokaphalaprade // ŚivP_1,12.33ab/ tayostīre hi saṃtyeva kṣetrāṇi svargadāni ca // ŚivP_1,12.33cd/ saṃti kṣetrāṇi tanmadhye puṇyadāni ca bhūriśaḥ // ŚivP_1,12.34ab/ tatra tatra vasanprājñastādṛśaṃ ca phalaṃ labhet // ŚivP_1,12.34cd/ sadācāreṇa sadvṛttyā sadā bhāvanayāpi ca // ŚivP_1,12.35ab/ vaseddayāluḥ prājño vai nānyathā tatphalaṃ labhet // ŚivP_1,12.35cd/ puṇyakṣetre kṛtaṃ puṇyaṃ bahudhā ṛddhimṛcchati // ŚivP_1,12.36ab/ puṇyakṣetre kṛtaṃ pāpaṃ mahadaṇvapi jāyate // ŚivP_1,12.36cd/ tatkālaṃ jīvanārthaścetpuṇyena kṣayameṣyati // ŚivP_1,12.37ab/ puṇyamaiśvaryadaṃ prāhuḥ kāyikaṃ vācikaṃ tathā // ŚivP_1,12.37cd/ mānasaṃ ca tathā pāpaṃ tādṛśaṃ nāśayeddvijāḥ // ŚivP_1,12.38ab/ mānasaṃ vajralepaṃ tu kalpakalpānugaṃ tathā // ŚivP_1,12.38cd/ dhyānādeva hi tannaśyennānyathā nāśamṛcchati // ŚivP_1,12.39ab/ vācikaṃ japajālena kāyikaṃ kāyaśoṣaṇāt // ŚivP_1,12.39cd/ dānāddhanakṛtaṃ naśyennā 'nyathākalpakoṭibhiḥ // ŚivP_1,12.40ab/ kvacitpāpena puṇyaṃ ca vṛddhipūrveṇa naśyati // ŚivP_1,12.40cd/ bījāṃśaścaiva vṛddhyaṃśo bhogāṃśaḥ puṇyapāpayoḥ // ŚivP_1,12.41ab/ jñānanāśyo hi bījāṃśo vṛddhiruktaprakārataḥ // ŚivP_1,12.41cd/ bhojāṃśo bhoganāśyastu nānyathā puṇyakoṭibhiḥ // ŚivP_1,12.42ab/ bījaprarohe naṣṭe tu śeṣo bhogāya kalpate // ŚivP_1,12.42cd/ devānāṃ pūjayā caiva brahmaṇānāṃ ca dānataḥ // ŚivP_1,12.43ab/ tapodhikyācca kālena bhogaḥ sahyo bhavennṛṇām // ŚivP_1,12.43cd/ tasmātpāpamakṛtvaiva vastavyaṃssukhamicchatā // ŚivP_1,12.43ef/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvādaśo 'dhyāyaḥ Chapter 13 ṛṣaya ūcuḥ sadācāraṃ śrāvayāśu yena lokāñjayedbudhaḥ // ŚivP_1,13.1ab/ dharmādharmamayānbrūhi svarganārakadāṃstathā // ŚivP_1,13.1cd/ sūta uvāca sadācārayuto vidvānbrāhmaṇo nāma nāmataḥ // ŚivP_1,13.2ab/ vedācārayuto vipro hyetairekaikavāndvijaḥ // ŚivP_1,13.2cd/ alpācārolpavedaśca kṣatriyo rājasevakaḥ // ŚivP_1,13.3ab/ kiṃcidācāravānvaiśyaḥ kṛṣivāṇijyakṛttayā // ŚivP_1,13.3cd/ śūdrabrāhmaṇa ityuktaḥ svayameva hi karṣakaḥ // ŚivP_1,13.4ab/ asūyāluḥ paradrohī caṃḍāladvija ucyate // ŚivP_1,13.4cd/ pṛthivīpālako rājā itarekṣatriyā matāḥ // ŚivP_1,13.5ab/ dhānyādikrayavānvaiśya itaro vaṇigucyate // ŚivP_1,13.5cd/ brahmakṣatriyavaiśyānāṃ śuśrūṣuḥ śūdra ucyate // ŚivP_1,13.6ab/ karṣako vṛṣalo jñeya itare caiva dasyavaḥ // ŚivP_1,13.6cd/ sarvo hyuṣaḥprācīmukhaścintayeddevapūrvakān // ŚivP_1,13.7ab/ dharmānarthāṃśca tatkleśānāyaṃ ca vyayameva ca // ŚivP_1,13.7cd/ āyurdveṣaśca maraṇaṃ pāpaṃ bhāgyaṃ tathaiva ca // ŚivP_1,13.8ab/ vyādhiḥ puṣṭistathā śaktiḥ prātarutthānadikphalam // ŚivP_1,13.8cd/ niśāṃtyāyāmoṣā jñeyā yāmārdhaṃ saṃdhirucyate // ŚivP_1,13.9ab/ tatkāle tu samutthāya viṇmūtre visṛjeddvijaḥ // ŚivP_1,13.9cd/ gṛhāddūraṃ tato gatvā bāhyataḥ pravṛtastathā // ŚivP_1,13.10ab/ udaṅmukhaḥ samāviśya pratibaṃdhe 'nyadiṅmukhaḥ // ŚivP_1,13.10cd/ jalāgnibrāhmaṇādīnāṃ devānāṃ nābhimukhyataḥ // ŚivP_1,13.11ab/ liṃgaṃ pidhāya vāmena mukhamanyena pāṇinā // ŚivP_1,13.11cd/ malamutsṛjya cotthāya na paśyeccaiva tanmalam // ŚivP_1,13.12ab/ uddhṛtena jalenaiva śaucaṃ kuryājjalādbahiḥ // ŚivP_1,13.12cd/ athavā devapitrārṣatīrthāvataraṇaṃ vinā // ŚivP_1,13.13ab/ sapta vā pañca vā trīnvā gudaṃ saṃśodhayenmṛdā // ŚivP_1,13.13cd/ liṃge karkoṭamātraṃ tu gude prasṛtiriṣyate // ŚivP_1,13.14ab/ tata utthāya paddhastaśaucaṃ gaṇḍūṣamaṣṭakam // ŚivP_1,13.14cd/ yena kena ca patreṇa kāṣṭhena ca jalādbahiḥ // ŚivP_1,13.15ab/ kāryaṃ saṃtyajya tarjanīṃ daṃtadhāvanamīritam // ŚivP_1,13.15cd/ jaladevānnamaskṛtya maṃtreṇa snānamācaret // ŚivP_1,13.16ab/ aśaktaḥ kaṃṭhadaghnaṃ vā kaṭidaghnamathāpi vā // ŚivP_1,13.16cd/ ājānu jalamāviśya maṃtrasnānaṃ samācaret // ŚivP_1,13.17ab/ devādīṃstarpayedvidvāṃstatra tīrthajalena ca // ŚivP_1,13.17cd/ dhautavastraṃ samādāya pañcakacchena dhārayet // ŚivP_1,13.18ab/ uttarīyaṃ ca kiṃ caiva dhāryaṃ sarveṣu karmasu // ŚivP_1,13.18cd/ nadyāditīrthasnāne tu snānavastraṃ na śodhayet // ŚivP_1,13.19ab/ vāpīkūpagṛhādau tu snānādūrdhvaṃ nayedbudhaḥ // ŚivP_1,13.19cd/ śilādārvādike vāpi jale vāpi sthalepi vā // ŚivP_1,13.20ab/ saṃśodhya pīḍayedvastraṃ pitḥṇāṃ tṛptaye dvijāḥ // ŚivP_1,13.20cd/ jābālakoktamaṃtreṇa bhasmanā ca tripuṃḍrakam // ŚivP_1,13.21ab/ anyathā cejjale pāta itastannarakamṛcchati // ŚivP_1,13.21cd/ āpohiṣṭheti śirasi prokṣayetpāpaśāṃtaye // ŚivP_1,13.22ab/ yasyeti maṃtraṃ pāde tu saṃdhiprokṣaṇamucyate // ŚivP_1,13.22cd/ pāde mūrdhni hṛdi caiva mūrdhni hṛtpāda eva ca // ŚivP_1,13.23ab/ hṛtpādamūrdhni saṃprokṣya maṃtrasnānaṃ vidurbudhāḥ // ŚivP_1,13.23cd/ īṣatsparśe ca dauḥ svāsthye rājarāṣṭrabhaye 'pi ca // ŚivP_1,13.24ab/ atyāgatikāle ca maṃtrasnānaṃ samācaret // ŚivP_1,13.24cd/ prātaḥ sūryānuvākena sāyamagnyanuvākataḥ // ŚivP_1,13.25ab/ apaḥ pītvā tathāmadhye punaḥ prokṣaṇamācaret // ŚivP_1,13.25cd/ gāyatryā japamaṃtrāṃte vīrūrdhvaṃ prāgvinikṣipet // ŚivP_1,13.26ab/ maṃtreṇa saha caikaṃ vai madhye 'rghyaṃ tu raverdvijā // ŚivP_1,13.26cd/ atha jāte ca sāyāhne bhuvi paścimadiṅmukhaḥ // ŚivP_1,13.27ab/ uddhṛtya dadyātprātastu madhyāhneṃgulibhistathā // ŚivP_1,13.27cd/ aṃgulīnāṃ ca raṃdhreṇa laṃbaṃ paśyeddivākaram // ŚivP_1,13.28ab/ ātmapradakṣiṇaṃ kṛtvā śuddhācamanamācaret // ŚivP_1,13.28cd/ sāyaṃ muhūrtādarvāktu kṛtā saṃdhyā vṛthā bhavet // ŚivP_1,13.29ab/ akālātkāla ityukto dine 'tīte yathākramam // ŚivP_1,13.29cd/ divā 'tīte ca gāyatrīṃ śataṃ nitye kramājjapet // ŚivP_1,13.30ab/ ādarśāhātparā 'tīte gāyatrīṃ lakṣamabhyaset // ŚivP_1,13.30cd/ māsātīte tu nitye hi punaścopanayaṃ caret // ŚivP_1,13.31ab/ īśo gaurīguho viṣṇurbrahmā ceṃdraśca vai yamaḥ // ŚivP_1,13.31cd/ evaṃ rūpāṃśca vai devāṃstarpayedarthasiddhaye // ŚivP_1,13.32ab/ brahmārpaṇaṃ tataḥ kṛtvā śuddhācamanamācaret // ŚivP_1,13.32cd/ tīrthadakṣiṇataḥ śaste maṭhe maṃtrālaye budhaḥ // ŚivP_1,13.33ab/ tatra devālaye vāpi gṛhe vā niyatasthale // ŚivP_1,13.33cd/ sarvāndevānnamaskṛtya sthirabuddhiḥ sthirāsanaḥ // ŚivP_1,13.34ab/ praṇavaṃ pūrvamabhyasya gāyatrīmabhyasettataḥ // ŚivP_1,13.34cd/ jīvabrahmaikyaviṣayaṃ buddhvā praṇavamabhyaset // ŚivP_1,13.35ab/ trailokyasṛṣṭikartāraṃ sthitikartāramacyutam // ŚivP_1,13.35cd/ saṃhartāraṃ tathā rudraṃ svaprakāśamupāsmahe // ŚivP_1,13.36ab/ jñānakarmeṃdriyāṇāṃ ca manovṛttīrdhiyastathā // ŚivP_1,13.36cd/ bhogamokṣaprade dharme jñāne ca prerayetsadā // ŚivP_1,13.37ab/ itthamarthaṃ dhiyādhyāyanbrahmaprāpnoti niścayaḥ // ŚivP_1,13.37cd/ kevalaṃ vā japennityaṃ brāhmaṇyasya ca pūrtaye // ŚivP_1,13.38ab/ sahasramabhyasennityaṃ prātarbrāhmaṇapuṃgavaḥ // ŚivP_1,13.38cd/ anyeṣāṃ ca yathā śaktim adhyāhne ca śataṃ japet // ŚivP_1,13.39ab/ sāyaṃ dvidaśakaṃ jñeyaṃ śikhāṣṭakasamanvitam // ŚivP_1,13.39cd/ mūlādhāraṃ samārabhya dvādaśāṃtasthitāṃstathā // ŚivP_1,13.40ab/ vidyeśabrahmaviṣṇvīśajīvātmaparameśvarān // ŚivP_1,13.40cd/ brahmabuddhyā tadaikyaṃ ca sohaṃ bhāvanayā japet // ŚivP_1,13.41ab/ tāneva brahmaraṃdhrādau kāyādbāhye ca bhāvayet // ŚivP_1,13.41cd/ mahattattvaṃ samārabhya śarīraṃ tu sahasrakam // ŚivP_1,13.42ab/ ekaikasmājjapādekamatikramya śanaiḥ śanaiḥ // ŚivP_1,13.42cd/ parasminyojayejjīvaṃ japatattvamudāhṛtam // ŚivP_1,13.43ab/ śatadvidaśakaṃ dehaṃ śikhāṣṭakasamanvitam // ŚivP_1,13.43cd/ maṃtrāṇāṃ japa evaṃ hi japamādikramādviduḥ // ŚivP_1,13.44ab/ sahasraṃ brāhmadaṃ vidyācchatamaiṃdrapradaṃ viduḥ // ŚivP_1,13.44cd/ itarattvātmarakṣārthaṃ brahmayoniṣu jāyate // ŚivP_1,13.45ab/ divākaramupasthāya nityamitthaṃ samācaret // ŚivP_1,13.45cd/ lakṣadvādaśayuktastu pūrṇabrāhmaṇa īritaḥ // ŚivP_1,13.46ab/ gāyatryā lakṣahīnaṃ tu vedakāryena yojayet // ŚivP_1,13.46cd/ āsaptatestu niyamaṃ paścātpravrājanaṃ caret // ŚivP_1,13.47ab/ prātardvādaśasāhasraṃ pravrājīpraṇavaṃ japet // ŚivP_1,13.47cd/ dine dine tvatikrāṃte nityamevaṃ kramājjapet // ŚivP_1,13.48ab/ māsādau kramaśo 'tīte sārdhalakṣajapena hi // ŚivP_1,13.48cd/ ata ūrdhvamatikrāṃte punaḥ praiṣaṃ samācaret // ŚivP_1,13.49ab/ evaṃ kṛtvā doṣaśāṃtiranyathā rauravaṃ vrajet // ŚivP_1,13.49cd/ dharmārthayostato yatnaṃ kuryātkāmī na cetaraḥ // ŚivP_1,13.50ab/ brāhmaṇo muktikāmaḥ syādbrahmajñānaṃ sadābhyaset // ŚivP_1,13.50cd/ dharmādartho 'rthato bhogo bhogādvairāgyasaṃbhavaḥ // ŚivP_1,13.51ab/ dharmārjitārthabhogena vairāgyamupajāyate // ŚivP_1,13.51cd/ viparītārthabhogena rāga eva prajāyate // ŚivP_1,13.52ab/ dharmaśca dvividhaḥ prokto dravyadehadvayena ca // ŚivP_1,13.52cd/ dravyamijyādirūpaṃ syāttīrthasnānādi daihikam // ŚivP_1,13.53ab/ dhanena dhanamāpnoti tapasā divyarūpatām // ŚivP_1,13.53cd/ niṣkāmaḥ śuddhimāpnoti śuddhyā jñānaṃ na saṃśayaḥ // ŚivP_1,13.54ab/ kṛtādau hi tapaḥśloghyaṃ dravyadharmaḥ kalau yuge // ŚivP_1,13.54cd/ kṛtedhyānājjñānasiddhistretāyāṃ tapasā tathā // ŚivP_1,13.55ab/ dvāpare yajanājjñānaṃ pratimāpūjayā kalau // ŚivP_1,13.55cd/ yādṛśaṃ puṇyaṃ pāpaṃ vā tādṛśaṃ phalameva hi // ŚivP_1,13.56ab/ dravyadehāṃgabhedena nyūnavṛddhikṣayādikam // ŚivP_1,13.56cd/ adharmo hiṃsikārūpo dharmastu sukharūpakaḥ // ŚivP_1,13.57ab/ adharmādduḥkhamāpnoti dharmādvai sukhamedhate // ŚivP_1,13.57cd/ vidyādurvṛttito duḥkhaṃ sukhaṃ vidyātsuvṛttitaḥ // ŚivP_1,13.58ab/ dharmārjanamataḥ kuryādbhogamokṣaprasiddhaye // ŚivP_1,13.58cd/ sakuṭuṃbasya viprasya caturjanayutasya ca // ŚivP_1,13.59ab/ śatavarṣasya vṛttiṃ tu dadyāttadbrahmalokadam // ŚivP_1,13.59cd/ cāṃdrāyaṇasahasraṃ tu brahmalokapradaṃ viduḥ // ŚivP_1,13.60ab/ sahasrasya kuṭuṃbasya pratiṣṭhāṃ kṣatriyaścaret // ŚivP_1,13.60cd/ iṃdralokapradaṃ vidyādayutaṃ brahmalokadam // ŚivP_1,13.61ab/ yāṃ devatāṃ puraskṛtya dānamācarate naraḥ // ŚivP_1,13.61cd/ tattallokamavāpnoti iti vedavido viduḥ // ŚivP_1,13.62ab/ arthahīnaḥ sadā kuryāttapasā mārjanaṃ tathā // ŚivP_1,13.62cd/ tīrthācca tapasā prāpyaṃ sukhamakṣayyamaśnute // ŚivP_1,13.63ab/ arthārjanamatho vakṣye nyāyataḥ susamāhitaḥ // ŚivP_1,13.63cd/ kṛtātpratigrahāccaiva yājanācca viśuddhitaḥ // ŚivP_1,13.64ab/ adainyādanatikleśādbrāhmaṇo dhanamarjayet // ŚivP_1,13.64cd/ kṣatriyo bāhuvīryeṇa kṛṣigorakṣaṇādviśaḥ // ŚivP_1,13.65ab/ nyāyārjitasya vittasya dānātsiddhiṃ samaśnute // ŚivP_1,13.65cd/ jñānasiddhyā mokṣasiddhiḥ sarveṣāṃ gurvanugrahāt // ŚivP_1,13.66ab/ mokṣātsvarūpasiddhiḥ syātparānandaṃ samaśnute // ŚivP_1,13.66cd/ satsaṃgātsarvametadvai narāṇāṃ jāyate dvijāḥ // ŚivP_1,13.67ab/ dhanadhānyādikaṃ sarvaṃ deyaṃ vai gṛhamedhinā // ŚivP_1,13.67cd/ yadyatkāle vastujātaṃ phalaṃ vā dhānyameva ca // ŚivP_1,13.68ab/ tattatsarvaṃ brāhmaṇebhyo deyaṃ vai hitamicchatā // ŚivP_1,13.68cd/ jalaṃ caiva sadā deyamannaṃ kṣudvyādhiśāṃtaye // ŚivP_1,13.69ab/ kṣetraṃ dhānyaṃ tathā ' 'mānnamannamevaṃ caturvidham // ŚivP_1,13.69cd/ yāvatkālaṃ yadannaṃ vai bhuktvā śravaṇamedhate // ŚivP_1,13.70ab/ tāvatkṛtasya puṇyasya tvardhaṃ dāturna saṃśayaḥ // ŚivP_1,13.70cd/ grahītāhigṛhītasya dānādvai tapasā tathā // ŚivP_1,13.71ab/ pāpasaṃśodhanaṃ kuryādanyathā rauravaṃ vrajet // ŚivP_1,13.71cd/ ātmavittaṃ tridhā kuryāddharmavṛddhyātmabhogataḥ // ŚivP_1,13.72ab/ nityaṃ naimittakaṃ kāmyaṃ karma kuryāttu dharmataḥ // ŚivP_1,13.72cd/ vittasya vardhanaṃ kuryādvṛddhyaṃśena hi sādhakaḥ // ŚivP_1,13.73ab/ hitena mitame dhyena bhogaṃ bhogāṃśataścaret // ŚivP_1,13.73cd/ kṛṣyarjite daśāṃśaṃ hi deyaṃ pāpasya śuddhaye // ŚivP_1,13.74ab/ śeṣeṇa kuryāddharmādi anyathā rauravaṃ vrajet // ŚivP_1,13.74cd/ athavā pāpabuddhiḥ syātkṣayaṃ vā satyameṣyati // ŚivP_1,13.75ab/ vṛddhivāṇijyake deyaṣṣaḍaṃśo hi vicakṣaṇaiḥ // ŚivP_1,13.75cd/ śuddhapratigrahe deyaścaturthāṃśo dvijottamaiḥ // ŚivP_1,13.76ab/ akasmādutthite 'rthe hi deyamardhaṃ dvijottamaiḥ // ŚivP_1,13.76cd/ asatpratigrahasarvaṃ durdānaṃ sāgare kṣipet // ŚivP_1,13.77ab/ āhūya dānaṃ kartavyamātmabhogasamṛddhaye // ŚivP_1,13.77cd/ pṛṣṭaṃ sarvaṃ sadā deyamātmaśaktyanusārataḥ // ŚivP_1,13.78ab/ janmāṃtare ṛṇī hi syādadatte pṛṣṭavastuni // ŚivP_1,13.78cd/ pareṣāṃ ca tathā doṣaṃ na praśaṃsedvicakṣaṇaḥ // ŚivP_1,13.79ab/ viśeṣeṇa tathābrahmañchrutaṃ dṛṣṭaṃ ca no vadet // ŚivP_1,13.79cd/ na vadetsarvajaṃtūnāṃ hṛdi roṣakaraṃ budhaḥ // ŚivP_1,13.80ab/ saṃdhyayoragnikāryaṃ ca kuryādaiśvaryasiddhaye // ŚivP_1,13.80cd/ aśaktastvekakāle vā sūryāgnī ca yathāvidhi // ŚivP_1,13.81ab/ taṃḍulaṃ dhānyamājyaṃ vā phalaṃ kaṃdaṃ havistathā // ŚivP_1,13.81cd/ sthālīpākaṃ tathā kuryādyathānyāyaṃ yathāvidhi // ŚivP_1,13.82ab/ pradhānahomamātraṃ vā havyābhāve samācaret // ŚivP_1,13.82cd/ nityasaṃdhānamityuktaṃ tamajasraṃ vidurbudhāḥ // ŚivP_1,13.83ab/ athavā japamātraṃ vā sūryavaṃdanameva ca // ŚivP_1,13.83cd/ evamātmārthinaḥ kuryurarthārthī ca yathāvidhi // ŚivP_1,13.84ab/ brahmayajñaratā nityaṃ devapūjāratāstathā // ŚivP_1,13.84cd/ agnipūjāparā nityaṃ gurupūjāratāstathā // ŚivP_1,13.85ab/ brāhmaṇānāṃ tṛptikarāḥ sarve svargasya bhāginaḥ // ŚivP_1,13.85cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ trayodaśo 'dhyāyaḥ Chapter 14 ṛṣaya ūcuḥ agniyajñadevayajñaṃ brahmayajñaṃ tathaiva ca // ŚivP_1,14.1ab/ gurupūjāṃ brahmatṛptiṃ krameṇa brūhi naḥ prabho // ŚivP_1,14.1cd/ sūta uvāca agnau juhoti yaddravyamagniyajñaḥ sa ucyate // ŚivP_1,14.2ab/ brahmacaryāśramasthānāṃ samidādhānameva hi // ŚivP_1,14.2cd/ samidagrau vratādyaṃ ca viśeṣayajanādikam // ŚivP_1,14.3ab/ prathamāśramiṇāmevaṃ yāvadaupāsanaṃ dvijāḥ // ŚivP_1,14.3cd/ ātmanyāropitāgnīnāṃ vanināṃ yatināṃ dvijāḥ // ŚivP_1,14.4ab/ hitaṃ ca mitamedhyānnaṃ svakāle bhojanaṃ hutiḥ // ŚivP_1,14.4cd/ aupāsanāgnisaṃdhānaṃ samārabhya surakṣitam // ŚivP_1,14.5ab/ kuṃḍe vāpyatha bhāṃḍe vā tadajasraṃ samīritam // ŚivP_1,14.5cd/ agnimātmanyaraṇyāṃ vā rājadaivavaśāddhruvam // ŚivP_1,14.6ab/ agnityāgabhayāduktaṃ samāropitamucyate // ŚivP_1,14.6cd/ saṃpatkarī tathā jñeyā sāyamagnyāhutirdvijāḥ // ŚivP_1,14.7ab/ āyuṣkarīti vijñeyā prātaḥ sūryāhutistathā // ŚivP_1,14.7cd/ agniyajño hyayaṃ prokto divā sūryaniveśanāt // ŚivP_1,14.8ab/ iṃdrādīnsakalāndevānuddiśyāgnau juhotiyat // ŚivP_1,14.8cd/ devayajñaṃ hi taṃ vidyātsthālīpākādikānkratūn // ŚivP_1,14.9ab/ caulādikaṃ tathā jñeyaṃ laukikāgnau pratiṣṭhitam // ŚivP_1,14.9cd/ brahmayajñaṃ dvijaḥ kuryāddevānāṃ tṛptaye sakṛt // ŚivP_1,14.10ab/ brahmayajña iti prokto vedasyā 'dhyayanaṃ bhavet // ŚivP_1,14.10cd/ nityānaṃtaramāsoyaṃ tatastu na vidhīyate // ŚivP_1,14.11ab/ anagnau devayajanaṃ śṛṇuta śraddhayādarāt // ŚivP_1,14.11cd/ ādisṛṣṭau mahādevaḥ sarvajñaḥ karuṇākaraḥ // ŚivP_1,14.12ab/ sarvalokopakārārthaṃ vārānkalpitavānprabhuḥ // ŚivP_1,14.12cd/ saṃsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam // ŚivP_1,14.13ab/ ādāvārogyadaṃ vāraṃ svavāraṃ kṛtavānprabhuḥ // ŚivP_1,14.13cd/ saṃpatkāraṃ svamāyāyā varaṃ ca kṛtavāṃstataḥ // ŚivP_1,14.14ab/ janane durgatikrāṃte kumārasya tataḥ param // ŚivP_1,14.14cd/ ālasyaduritakrāṃtyai vāraṃ kalpitavānprabhuḥ // ŚivP_1,14.15ab/ rakṣakasya tathā viṣṇorlokānāṃ hitakāmyayā // ŚivP_1,14.15cd/ puṣṭyarthaṃ caiva rakṣārthaṃ vāraṃ kalpitavānprabhuḥ // ŚivP_1,14.16ab/ āyuṣkaraṃ tato vāramāyuṣāṃ kartureva hi // ŚivP_1,14.16cd/ trailokyasṛṣṭikarturhi brahmaṇaḥ parameṣṭhinaḥ // ŚivP_1,14.17ab/ jagadāyuṣyasiddhyarthaṃ vāraṃ kalpitavānprabhuḥ // ŚivP_1,14.17cd/ ādau trailokyavṛddhyarthaṃ puṇyapāpe prakalpite // ŚivP_1,14.18ab/ tayoḥ kartrostato vāramiṃdrasya ca yamasya ca // ŚivP_1,14.18cd/ bhogapradaṃ mṛtyuharaṃ lokānāṃ ca prakalpitam // ŚivP_1,14.19ab/ ādityādīnsvasvarūpānsukhaduḥkhasya sūcakān // ŚivP_1,14.19cd/ vāreśānkalpayitvādau jyotiścakrepratiṣṭhitān // ŚivP_1,14.20ab/ svasvavāre tu teṣāṃ tu pūjā svasvaphalapradā // ŚivP_1,14.20cd/ ārogyaṃ saṃpadaścaiva vyādhīnāṃ śāṃtireva ca // ŚivP_1,14.21ab/ puṣṭirāyustathā bhogo mṛterhāniryathākramam // ŚivP_1,14.21cd/ vārakramaphalaṃ prāhurdevaprītipuraḥsaram // ŚivP_1,14.22ab/ anyeṣāmapi devānāṃ pūjāyāḥ phaladaḥ śivaḥ // ŚivP_1,14.22cd/ devānāṃ prītaye pūjāpañcadhaiva prakalpitā // ŚivP_1,14.23ab/ tattanmaṃtrajapo homo dānaṃ caiva tapastathā // ŚivP_1,14.23cd/ sthaṃḍile pratimāyāṃ ca hyagnau brāhmaṇavigrahe // ŚivP_1,14.24ab/ samārādhanamityevaṃ ṣoḍaśairupacārakaiḥ // ŚivP_1,14.24cd/ uttarottaravaiśiṣṭyātpūrvābhāve tathottaram // ŚivP_1,14.25ab/ netrayoḥ śiraso roge tathā kuṣṭhasya śāṃtaye // ŚivP_1,14.25cd/ ādityaṃ pūjayitvā tu brāhmaṇānbhojayettataḥ // ŚivP_1,14.26ab/ dinaṃ māsaṃ tathā varṣaṃ varṣatrayamathavāpi vā // ŚivP_1,14.26cd/ prārabdhaṃ prabalaṃ cetsyānnaśyedrogajarādikam // ŚivP_1,14.27ab/ japādyamiṣṭadevasya vārādīnāṃ phalaṃ viduḥ // ŚivP_1,14.27cd/ pāpaśāṃtirviśeṣeṇa hyādivāre nivedayet // ŚivP_1,14.28ab/ ādityasyaiva devānāṃ brāhmaṇānāṃ viśiṣṭadam // ŚivP_1,14.28cd/ somavāre ca lakṣmyādīnsaṃpadarthaṃ yajedbudhaḥ // ŚivP_1,14.29ab/ ājyānnena tathā viprānsapatnīkāṃśca bhojayet // ŚivP_1,14.29cd/ kālyādīnbhauma vāre tu yajedrogapraśāṃtaye // ŚivP_1,14.30ab/ māṣamudgāḍhakānnena brahmaṇāṃścaiva bhojayet // ŚivP_1,14.30cd/ saumyavāre tathā viṣṇuṃ dadhyannena yajedbudhaḥ // ŚivP_1,14.31ab/ putramitrakalatrādipuṣṭirbhavati sarvadā // ŚivP_1,14.31cd/ āyuṣkāmo gurorvāre devānāṃ puṣṭisiddhaye // ŚivP_1,14.32ab/ upavītena vastreṇa kṣīrājyena yajedbudhaḥ // ŚivP_1,14.32cd/ bhogārthaṃ bhṛgavāre tu yajeddevānsamāhitaḥ // ŚivP_1,14.33ab/ ṣaḍrasopetamannaṃ ca dadyādbrāhmaṇatṛptaye // ŚivP_1,14.33cd/ strīṇāṃ ca tṛptaye tadvaddeyaṃ vastrādikaṃ śubham // ŚivP_1,14.34ab/ apamṛtyuhare maṃde rudrādrīṃśca yajedbudhaḥ // ŚivP_1,14.34cd/ tilahomena dānena tilānnena ca bhojayet // ŚivP_1,14.35ab/ itthaṃ yajecca vibudhānārogyādiphalaṃ labhet // ŚivP_1,14.35cd/ devānāṃ nityayajane viśeṣayajanepi ca // ŚivP_1,14.36ab/ snāne dāne jape home brāhmaṇānāṃ ca tarpaṇe // ŚivP_1,14.36cd/ tithinakṣatrayoge ca tattaddevaprapūjane // ŚivP_1,14.37ab/ ādivārādivāreṣu sarvajño jagadīśvaraḥ // ŚivP_1,14.37cd/ tatadrūpeṇa sarveṣāmārogyādiphalapradaḥ // ŚivP_1,14.38ab/ deśakālānusāreṇa tathā pātrānusārataḥ // ŚivP_1,14.38cd/ dravyaśraddhānusāreṇa tathā lokānusārataḥ // ŚivP_1,14.39ab/ tāratamyakramāddevastvārogyādīnprayacchati // ŚivP_1,14.39cd/ śubhādāvaśubhāṃte ca janmarkṣeṣu gṛhe gṛhī // ŚivP_1,14.40ab/ ārogyādisamṛddhyarthamādityādīngrahānyajet // ŚivP_1,14.40cd/ tasmādvai devayajanaṃ sarvābhīṣṭaphalapradam // ŚivP_1,14.41ab/ samaṃtrakaṃ brāhmaṇānāmanyeṣāṃ caiva tāṃtrikam // ŚivP_1,14.41cd/ yathāśaktyānurūpeṇa kartavyaṃ sarvadā naraiḥ // ŚivP_1,14.42ab/ saptasvapi ca vāreṣu naraiḥ śubhaphalepsubhiḥ // ŚivP_1,14.42cd/ daridrastapasā devānyajedāḍhyo dhanena hi // ŚivP_1,14.43ab/ punaścaivaṃvidhaṃ dharmaṃ kurute śraddhayā saha // ŚivP_1,14.43cd/ punaśca bhogānvividhānbhuktvā bhūmau prajāyate // ŚivP_1,14.44ab/ chāyāṃ jalāśayaṃ brahmapratiṣṭhāṃ dharmasaṃcayam // ŚivP_1,14.44cd/ sarvaṃ ca vittavānkuryātsadā bhogaprasiddhaye // ŚivP_1,14.45ab/ kālācca puṇyapākena jñānasiddhiḥ prajāyate // ŚivP_1,14.45cd/ ya imaṃ śṛṇute 'dhyāyaṃ paṭhate vā naro dvijāḥ // ŚivP_1,14.46ab/ śravaṇasyopakartā ca devayajñaphalaṃ labhet // ŚivP_1,14.46cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ caturdaśo 'dhyāyaḥ Chapter 15 ṛṣaya ūcuḥ deśādīnkramaśo brūhi sūta sarvārthavittam // ŚivP_1,15.1ab/ sūta uvāca śuddhaṃ gṛhaṃ samaphalaṃ devayajñādikarmasu // ŚivP_1,15.1cd/ tato daśaguṇaṃ goṣṭhaṃ jalatīraṃ tato daśa // ŚivP_1,15.2ab/ tato daśaguṇaṃ bilvatulasyaśvatthamūlakam // ŚivP_1,15.2cd/ tato devālayaṃ vidyāttīrthatīraṃ tato daśa // ŚivP_1,15.3ab/ tato daśaguṇaṃ nadyāstīrthanadyāstato daśa // ŚivP_1,15.3cd/ saptagaṃgānadītīraṃ tasyā daśaguṇaṃ bhavet // ŚivP_1,15.4ab/ gaṃgā godāvarī caiva kāverī tāmraparṇikā // ŚivP_1,15.4cd/ siṃdhuśca sarayū revā saptagaṃgāḥ prakīrtitāḥ // ŚivP_1,15.5ab/ tato 'bdhitīraṃ daśa ca parvatāgre tato daśa // ŚivP_1,15.5cd/ sarvasmādadhikaṃ jñeyaṃ yatra vā rocate manaḥ // ŚivP_1,15.6ab/ kṛte pūrṇaphalaṃ jñeyaṃ yajñadānādikaṃ tathā // ŚivP_1,15.6cd/ tretāyuge tripādaṃ ca dvāpare 'rdhaṃ sadā smṛtam // ŚivP_1,15.7ab/ kalau pādaṃ tu vijñeyaṃ tatpādonaṃ tatordhake // ŚivP_1,15.7cd/ śuddhātmanaḥ śuddhadinaṃ puṇyaṃ samaphalaṃ viduḥ // ŚivP_1,15.8ab/ tasmāddaśaguṇaṃ jñeyaṃ ravisaṃkramaṇe budhāḥ // ŚivP_1,15.8cd/ viṣuve taddaśaguṇamayane taddaśa smṛtam // ŚivP_1,15.9ab/ taddaśa mṛgasaṃkrāṃtau taccaṃdragrahaṇe daśa // ŚivP_1,15.9cd/ tataśca sūryagrahaṇe pūrṇakālottame viduḥ // ŚivP_1,15.10ab/ jagadrūpasya sūryasya viṣayogācca rogadam // ŚivP_1,15.10cd/ atastadviṣaśāṃtyarthaṃ snānadānajapāṃ caret // ŚivP_1,15.11ab/ viṣaśāṃtyarthakālatvātsa kālaḥ puṇyadaḥ smṛtaḥ // ŚivP_1,15.11cd/ janmarkṣe ca vratāṃte ca sūryarāgopamaṃ viduḥ // ŚivP_1,15.12ab/ mahatāṃ saṃgakālaśca koṭyarkagrahaṇaṃ viduḥ // ŚivP_1,15.12cd/ taponiṣṭhā jñānaniṣṭhā yogino yatayastathā // ŚivP_1,15.13ab/ pūjāyāḥ pātramete hi pāpasaṃkṣayakāraṇam // ŚivP_1,15.13cd/ caturviṃśatilakṣaṃ vā gāyatryā japasaṃyutaḥ // ŚivP_1,15.14ab/ brāhmaṇastu bhavetpātraṃ saṃpūrṇaphalabhogadam // ŚivP_1,15.14cd/ patanāttrāyata iti pātraṃ śāstre prayujyate // ŚivP_1,15.15ab/ dātuśca pātakāttrāṇātpātramityabhidhīyate // ŚivP_1,15.15cd/ gāyakaṃ trāyate pātādgāyatrītyucyate hi sā // ŚivP_1,15.16ab/ yathā 'rthahino loke 'sminparasyārthaṃ na yacchati // ŚivP_1,15.16cd/ arthavāniha yo loke parasyārthaṃ prayacchati // ŚivP_1,15.17ab/ svayaṃ śuddho hi pūtātmā narānsatrātumarhati // ŚivP_1,15.17cd/ gāyatrījapaśuddho hi śuddhabrāhmaṇa ucyate // ŚivP_1,15.18ab/ tasmāddāne jape home pūjāyāṃ sarvakarmaṇi // ŚivP_1,15.18cd/ dānaṃ kartuṃ tathā trātuṃ pātraṃ tu brāhmaṇorhati // ŚivP_1,15.19ab/ annasya kṣudhitaṃ pātraṃ nārīnaramayātmakam // ŚivP_1,15.19cd/ brāhmaṇaṃ śreṣṭhamāhūya yatkāle susamāhitam // ŚivP_1,15.20ab/ tadarthaṃ śabdamarthaṃ vā sadbodhakamabhīṣṭadam // ŚivP_1,15.20cd/ icchāvataḥ pradānaṃ ca saṃpūrṇaphaladaṃ viduḥ // ŚivP_1,15.21ab/ yatpraśnānaṃtaraṃ dattaṃ tadarthaphaladaṃ viduḥ // ŚivP_1,15.21cd/ yatsevakāya dattaṃ syāttatpādaphaladaṃ viduḥ // ŚivP_1,15.22ab/ jātimātrasya viprasya dīnavṛtterdvijarṣabhāḥ // ŚivP_1,15.22cd/ dattamarthaṃ hi bhogāya bhūrlokedaśavārṣikam // ŚivP_1,15.23ab/ vedayuktasya viprasya svarge hi daśavārṣikam // ŚivP_1,15.23cd/ gāyatrījapayuktasya satye hi daśavārṣikam // ŚivP_1,15.24ab/ viṣṇubhaktasya viprasya dattaṃ vaikuṃṭhadaṃ viduḥ // ŚivP_1,15.24cd/ śivabhaktasya viprasya dattaṃ kailāsadaṃ viduḥ // ŚivP_1,15.25ab/ tattallokopabhogārthaṃ sarveṣāṃ dānamiṣyate // ŚivP_1,15.25cd/ daśāṃgamannaṃ viprasya bhānuvāre dadannaraḥ // ŚivP_1,15.26ab/ parajanmani cārogyaṃ daśavarṣaṃ samaśnute // ŚivP_1,15.26cd/ bahumānamathāhvānamabhyaṃgaṃ pādasevanam // ŚivP_1,15.27ab/ vāso gaṃdhādyarcanaṃ ca ghṛtāpūparasottaram // ŚivP_1,15.27cd/ ṣaḍrasaṃ vyaṃjanaṃ caiva tāṃbūlaṃ dakṣiṇottaram // ŚivP_1,15.28ab/ namaścānugamaścaiva svannadānaṃ daśāṃgakam // ŚivP_1,15.28cd/ daśāṃgamannaṃ viprebhyo daśabhyo vai dadannaraḥ // ŚivP_1,15.29ab/ arkavāre tathā ' 'rogyaṃ śatavarṣaṃ samaśnute // ŚivP_1,15.29cd/ somavārādivāreṣu tattadvāraguṇaṃ phalam // ŚivP_1,15.30ab/ annadānasya vijñeyaṃ bhūrloke parajanmani // ŚivP_1,15.30cd/ saptasvapi ca vāreṣu daśabhyaśca daśāṃgakam // ŚivP_1,15.31ab/ annaṃ dattvā śataṃ varṣamārogyādikamaśnute // ŚivP_1,15.31cd/ evaṃ śatebhyo viprebhyo bhānuvāre dadannaraḥ // ŚivP_1,15.32ab/ sahasravarṣamārogyaṃ śarvaloke samaśnute // ŚivP_1,15.32cd/ sahasrebhyastathā dattvā 'yutavarṣaṃ samaśnute // ŚivP_1,15.33ab/ evaṃ somādivāreṣu vijñeyaṃ hi vipaścitā // ŚivP_1,15.33cd/ bhānuvāre sahasrāṇāṃ gāyatrīpūtacetasām // ŚivP_1,15.34ab/ annaṃ dattvā satyaloke hyārogyādi samaśnute // ŚivP_1,15.34cd/ ayutānāṃ tathā dattvā viṣṇuloke samaśnute // ŚivP_1,15.35ab/ annaṃ dattvā tu lakṣāṇāṃ rudraloke samaśnute // ŚivP_1,15.35cd/ bālānāṃ brahmabuddhyā hi deyaṃ vidyārthibhirnaraiḥ // ŚivP_1,15.36ab/ yūnāṃ ca viṣṇubuddhyā hi putrakāmārthibhirnaraiḥ // ŚivP_1,15.36cd/ vṛddhānāṃ rudrabuddhyā hi deyaṃ jñānārthibhirnaraiḥ // ŚivP_1,15.37ab/ bālastrībhāratībuddhyā buddhikāmairnarottamaiḥ // ŚivP_1,15.37cd/ lakṣmībuddhyā yuvastrīṣu bhogakāmairnarottamaiḥ // ŚivP_1,15.38ab/ vṛddhāsu pārvatībuddhyā deyamātmārthibhirjanaiḥ // ŚivP_1,15.38cd/ śilavṛttyoñchavṛttyā ca gurudakṣiṇayārjitam // ŚivP_1,15.39ab/ śuddhadravyamiti prāhustatpūrṇaphaladaṃ viduḥ // ŚivP_1,15.39cd/ śuklapratigrahāddattaṃ madhyamaṃ dravyamucyate // ŚivP_1,15.40ab/ kṛṣivāṇijyakopetamadhamaṃ dravyamucyate // ŚivP_1,15.40cd/ kṣatriyāṇāṃ viśāṃ caiva śauryavāṇijyakārjitam // ŚivP_1,15.41ab/ uttamaṃ dravyamityāhuḥ śūdrāṇāṃ bhṛtakārjitam // ŚivP_1,15.41cd/ strīṇāṃ dharmārthināṃ dravyaṃ paitṛkaṃ bhartṛkaṃ tathā // ŚivP_1,15.42ab/ gavādīnāṃ dvādaśīnāṃ caitrādiṣu yathākramam // ŚivP_1,15.42cd/ saṃbhūya vā puṇyakāle dadyādiṣṭasamṛddhaye // ŚivP_1,15.43ab/ gobhūtilahiraṇyājyavāsodhānyaguḍāni ca // ŚivP_1,15.43cd/ raupyaṃ lavaṇakūṣmāṃḍe kanyādvādaśakaṃ tathā // ŚivP_1,15.44ab/ godānāddattagavyena gomayenopakāriṇā // ŚivP_1,15.44cd/ dhanadhānyādyāśritānāṃ duritānāṃ nivāraṇam // ŚivP_1,15.45ab/ jalasnehādyāśritānāṃ duritānāṃ tu gojalaiḥ // ŚivP_1,15.45cd/ kāyikāditrāṇāṃ tu kṣīradadhyājyakaistathā // ŚivP_1,15.46ab/ tathā teṣāṃ ca puṣṭiśca vijñeyā hi vipaścitā // ŚivP_1,15.46cd/ bhūdānaṃ tu pratiṣṭhārthamiha cā 'mutra ca dvijāḥ // ŚivP_1,15.47ab/ tiladānaṃ balārthaṃ hi sadā mṛtyujayaṃ viduḥ // ŚivP_1,15.47cd/ hiraṇyaṃ jāṭharāgnestu vṛddhidaṃ vīryadaṃ tathā // ŚivP_1,15.48ab/ ājyaṃ puṣṭikaraṃ vidyādvastramāyuṣkaraṃ viduḥ // ŚivP_1,15.48cd/ dhānyamannaṃ samṛddhyarthaṃ madhurāhāradaṃ guḍam // ŚivP_1,15.49ab/ raupyaṃ retobhivṛddhyarthaṃ ṣaḍrasārthaṃ tu lāvaṇam // ŚivP_1,15.49cd/ sarvaṃ sarvasamṛddhyarthaṃ kūṣmāṃḍaṃ puṣṭidaṃ viduḥ // ŚivP_1,15.50ab/ prāptidaṃ sarvabhogānāmiha cā 'mutra ca dvijāḥ // ŚivP_1,15.50cd/ yāvajjīvanamuktaṃ hi kanyādānaṃ tu bhogadam // ŚivP_1,15.51ab/ panasāmrakapitthānāṃ vṛkṣāṇāṃ phalameva ca // ŚivP_1,15.51cd/ kadalyādyauṣadhīnāṃ ca phalaṃ gulmodbhavaṃ tathā // ŚivP_1,15.52ab/ māṣādīnāṃ ca mudgānāṃ phalaṃ śākādikaṃ tathā // ŚivP_1,15.52cd/ marīcisarṣapādyānāṃ śākopakaraṇaṃ tathā // ŚivP_1,15.53ab/ yadṛtau yatphalaṃ siddhaṃ taddeyaṃ hi vipaścitā // ŚivP_1,15.53cd/ śrotrādīṃdriyatṛptiśca sadā deyā vipaścitā // ŚivP_1,15.54ab/ śabdādidaśabhogārthaṃ digādīnāṃ ca tuṣṭidā // ŚivP_1,15.54cd/ vedaśāstraṃ samādāya buddhvā gurumukhātsvayam // ŚivP_1,15.55ab/ karmaṇāṃ phalamastīti buddhirāstikyamucyate // ŚivP_1,15.55cd/ baṃdhurājabhayādbuddhiśraddhā sā ca kanīyasī // ŚivP_1,15.56ab/ sarvābhāve daridrastu vācā vā karmaṇā yajet // ŚivP_1,15.56cd/ vācikaṃ yajanaṃ vidyānmaṃtrastotrajapādikam // ŚivP_1,15.57ab/ tīrthayātrāvratādyaṃ hi kāyikaṃ yajanaṃ viduḥ // ŚivP_1,15.57cd/ yena kenāpyupāyena hyalpaṃ vā yadi vā bahu // ŚivP_1,15.58ab/ devatārpaṇabuddhyā ca kṛtaṃ bhogāya kalpate // ŚivP_1,15.58cd/ tapaścaryā ca dānaṃ ca kartavyamubhayaṃ sadā // ŚivP_1,15.59ab/ pratiśrayaṃ pradātavyaṃ svavarṇaguṇaśobhitam // ŚivP_1,15.59cd/ devānāṃ tṛptaye 'tyarthaṃ sarvabhogapradaṃ budhaiḥ // ŚivP_1,15.60ab/ ihā 'mutrottamaṃ janmasadābhogaṃ labhedbudhaḥ // ŚivP_1,15.60cd/ īśvarārpaṇabuddhyā hi kṛtvā mokṣaphalaṃ labhet // ŚivP_1,15.60ef/ ya imaṃ paṭhate 'dhyāyaṃ yaḥ śṛṇoti sadā naraḥ // ŚivP_1,15.61ab/ tasya vaidharmabuddhiśca jñānasiddhiḥ prajāyate // ŚivP_1,15.61cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ pañcadaśodhyāyaḥ Chapter 16 ṛṣaya ūcuḥ pārthivapratimāpūjāvidhānaṃ brūhi sattama // ŚivP_1,16.1ab/ yena pūjāvidhānena sarvābhiṣṭamavāpyate // ŚivP_1,16.1cd/ sūta uvāca susādhupṛṣṭaṃ yuṣmābhiḥ sadā sarvārthadāyakam // ŚivP_1,16.2ab/ sadyo duḥkhasya śamanaṃ śṛṇuta prabravīmi vaḥ // ŚivP_1,16.2cd/ apamṛtyuharaṃ kālamṛtyoścāpi vināśanam // ŚivP_1,16.3ab/ sadyaḥ kalatraputrādidhanadhānyapradaṃ dvijāḥ // ŚivP_1,16.3cd/ annādibhojyaṃ vastrādisarvamutpadyate yataḥ // ŚivP_1,16.4ab/ tato mṛdādipratimāpūjābhīṣṭapradā bhuvi // ŚivP_1,16.4cd/ puruṣāṇāṃ ca nārīṇāmadhikārotra niścitam // ŚivP_1,16.5ab/ nadyāṃ taḍāge kūpe vā jalāṃtarmṛdamāharet // ŚivP_1,16.5cd/ saṃśodhya gaṃdhacūrṇena peṣayitvā sumaṃḍape // ŚivP_1,16.6ab/ hastena pratimāṃ kuryātkṣīreṇa ca susaṃskṛtām // ŚivP_1,16.6cd/ aṃgapratyaṃgakopetāmāyudhaiśca samanvitām // ŚivP_1,16.7ab/ padmāsanasthitāṃ kṛtvā pūjayedādareṇa hi // ŚivP_1,16.7cd/ vighneśādityaviṣṇūnāmaṃbāyāśca śivasya ca // ŚivP_1,16.8ab/ śivasyaśivaliṃgaṃ ca sarvadā pūjayeddvija // ŚivP_1,16.8cd/ ṣoḍaśairupacāraiśca kuryāttatphalasiddhaye // ŚivP_1,16.9ab/ puṣpeṇa prokṣaṇaṃ kuryādabhiṣekaṃ samaṃtrakam // ŚivP_1,16.9cd/ śālyannenaiva naivedyaṃ sarvaṃ kuḍavamānataḥ // ŚivP_1,16.10ab/ gṛhe tu kuḍavaṃ jñeyaṃ mānuṣe prasthamiṣyate // ŚivP_1,16.10cd/ daive prasthatrayaṃ yogyaṃ svayaṃbhoḥ prasthapañcakam // ŚivP_1,16.11ab/ evaṃ pūrṇaphalaṃ vidyādadhikaṃ vai dvayaṃ trayam // ŚivP_1,16.11cd/ sahasrapūjayā satyaṃ satyalokaṃ labheddvijaḥ // ŚivP_1,16.12ab/ dvādaśāṃgulamāyāmaṃ dviguṇaṃ ca tato 'dhikam // ŚivP_1,16.12cd/ pramāṇamaṃgulasyaikaṃ tadūrdhvaṃ pañcakatrayam // ŚivP_1,16.13ab/ ayodārukṛtaṃ pātraṃ śivamityucyate budhaiḥ // ŚivP_1,16.13cd/ tadaṣṭabhāgaḥ prasthaḥ syāttaccatuḥkuḍavaṃ matam // ŚivP_1,16.14ab/ daśaprasthaṃ śataprasthaṃ sahasraprasthameva ca // ŚivP_1,16.14cd/ jalatailādigaṃdhānāṃ yathāyogyaṃ ca mānataḥ // ŚivP_1,16.15ab/ mānuṣārṣasvayaṃbhūnāṃ mahāpūjeti kathyate // ŚivP_1,16.15cd/ abhiṣekādātmaśuddhirgaṃdhātpuṇyamavāpyate // ŚivP_1,16.16ab/ āyustṛptiśca naivedyāddhūpādarthamavāpyate // ŚivP_1,16.16cd/ dīpājjñānamavāpnoti tāṃbūlādbhogamāpnuyāt // ŚivP_1,16.17ab/ tasmātsnānādikaṃ ṣaṭkaṃ prayatnena prasādhayet // ŚivP_1,16.17cd/ namaskāro japaścaiva sarvābhīṣṭapradāvubhau // ŚivP_1,16.18ab/ pūjānte ca sadākāryau bhogamokṣārthibhirnaraiḥ // ŚivP_1,16.18cd/ saṃpūjya manasā pūrvaṃ kuryāttattatsadā naraḥ // ŚivP_1,16.19ab/ devānāṃ pūjayā caiva tattallokamavāpnuyāt // ŚivP_1,16.19cd/ tadavāṃtaraloke ca yatheṣṭaṃ bhogyamāpyate // ŚivP_1,16.20ab/ tadviśeṣānpravakṣyāmi śṛṇuta śraddhayā dvijāḥ // ŚivP_1,16.20cd/ vighneśapūjayā samyagbhūrloke 'bhīṣṭamāpnuyāt // ŚivP_1,16.21ab/ śukravāre caturthyāṃ ca site śrāvaṇabhādrake // ŚivP_1,16.21cd/ bhiṣagṛkṣe dhanurmāse vighneśaṃ vidhivadyajet // ŚivP_1,16.22ab/ śataṃ pūjāsahasraṃ vā tatsaṃkhyākadinairvrajet // ŚivP_1,16.22cd/ devāgniśraddhayā nityaṃ putradaṃ ceṣṭadaṃ nṛṇām // ŚivP_1,16.23ab/ sarvapāpapraśamanaṃ tattadduritanāśanam // ŚivP_1,16.23cd/ vārapūjāṃśivādīnāmātmaśuddhipradāṃ viduḥ // ŚivP_1,16.24ab/ tīthinakṣatrayogānāmādhāraṃ sārvakāmikam // ŚivP_1,16.24cd/ tathā bṛddhikṣayābhāvātpūrṇabrahmātmakaṃ viduḥ // ŚivP_1,16.25ab/ udayādudayaṃ vāro brahmaprabhṛti karmaṇām // ŚivP_1,16.25cd/ tithyādau devapūjā hi pūrṇabhogapradā nṛṇām // ŚivP_1,16.26ab/ pūrvabhāgaḥ pitḥṇāṃ tu niśi yuktaḥ praśasyate // ŚivP_1,16.26cd/ parabhāgastu devānāṃ divā yuktaḥ praśāsyate // ŚivP_1,16.27ab/ udayavyāpinī grāhyā madhyāhne yadi sā tithiḥ // ŚivP_1,16.27cd/ devakārye tathā grāhyāsthiti ṛkṣādikāḥ śubhāḥ // ŚivP_1,16.28ab/ samyagvicārya vārādīnkuryātpūjājapādikam // ŚivP_1,16.28cd/ pūjāryate hyaneneti vedeṣvarthasya yojanā // ŚivP_1,16.29ab/ pūrṇabhogaphalasiddhiśca jāyate tena karmaṇā // ŚivP_1,16.29cd/ manobhāvāṃstathā jñānamiṣṭabhogārthayojanāt // ŚivP_1,16.30ab/ pūjāśabdartha evaṃ hi viśruto lokavedayoḥ // ŚivP_1,16.30cd/ nityanaimittikaṃ kālātsadyaḥ kāmye svanuṣṭhite // ŚivP_1,16.31ab/ nityaṃ māsaṃ ca pakṣaṃ ca varṣaṃ caiva yathākramam // ŚivP_1,16.31cd/ tattatkarmaphalaprāptistādṛkpāpakṣayaḥ kramāt // ŚivP_1,16.32ab/ mahāgaṇapateḥ pūjā caturthyāṃ kṛṣṇapakṣake // ŚivP_1,16.32cd/ pakṣapāpakṣayakarī pakṣabhogaphalapradā // ŚivP_1,16.33ab/ caitre caturthyāṃ pūjā ca kṛtā māsaphalapradā // ŚivP_1,16.33cd/ varṣabhogapradā jñeyā kṛtā vai siṃhabhādrake // ŚivP_1,16.34ab/ śravaṇyādityavāre ca saptamyāṃ hastabhe dine // ŚivP_1,16.34cd/ māghaśukle ca saptamyāmādityayajanaṃ caret // ŚivP_1,16.35ab/ jyeṣṭhabhādrakasaumye ca dvādaśyāṃ śravarṇakṣake // ŚivP_1,16.35cd/ dvādaśyāṃ viṣṇuyajanamiṣṭaṃsaṃpatkaraṃ viduḥ // ŚivP_1,16.36ab/ śrāvaṇe viṣṇuyajanamiṣṭārogyapradaṃ bhavet // ŚivP_1,16.36cd/ gavādīndvādaśānarthānsāṃgāndatvā tu yatphalam // ŚivP_1,16.37ab/ tatphalaṃ samavāpnoti dvādaśyāṃ viṣṇutarpaṇāt // ŚivP_1,16.37cd/ dvādaśyāṃ dvādaśānviprānviṣṇordvādaśanāmataḥ // ŚivP_1,16.38ab/ ṣoḍaśairupacāraiśca yajettatprītimāpnuyāt // ŚivP_1,16.38cd/ evaṃ ca sarvadevānāṃ tattaddvādaśanāmakaiḥ // ŚivP_1,16.39ab/ dvādaśabrahmayajanaṃ tattatprītikaraṃ bhavet // ŚivP_1,16.39cd/ karkaṭe somavāre ca navamyāṃ mṛgaśīrṣake // ŚivP_1,16.40ab/ aṃbāṃ yajedbhūtikāmaḥ sarvabhogaphalapradām // ŚivP_1,16.40cd/ āśvayukchuklanavamī sarvābhīṣṭaphalapradā // ŚivP_1,16.41ab/ ādivāre caturdaśyāṃ kṛṣṇapakṣe viśeṣataḥ // ŚivP_1,16.41cd/ ārdrāyāṃ ca mahārdrāyāṃ śivapūjā viśiṣyate // ŚivP_1,16.42ab/ māghakṛṣṇacaturdaśyāṃ sarvābhīṣṭaphalapradā // ŚivP_1,16.42cd/ āyuṣkarī mṛtyuharā sarvasiddhikarī nṛṇām // ŚivP_1,16.43ab/ jyeṣṭhamāse mahārdrāyāṃ caturdaśīdinepi ca // ŚivP_1,16.43cd/ mārgaśīrṣārdrakāyāṃ vā ṣoḍaśairupacārakaiḥ // ŚivP_1,16.44ab/ tattanmūrtiśivaṃ pūjya tasya vai pādadarśanam // ŚivP_1,16.44cd/ śivasya yajanaṃ jñeyaṃ bhogamokṣapradaṃ nṛṇām // ŚivP_1,16.45ab/ vārādidevayajanaṃ kārtike hi viśiṣyate // ŚivP_1,16.45cd/ kārtike māsi saṃprāpte sarvāndevānyajedbudhaḥ // ŚivP_1,16.46ab/ dānena tapasā homairjapena niyamena ca // ŚivP_1,16.46cd/ ṣoḍaśairupacāraiśca pratimā vipramaṃtrakaiḥ // ŚivP_1,16.47ab/ brāhmaṇānāṃ bhojanena niṣkāmārtikaro bhavet // ŚivP_1,16.47cd/ kārtike devayajanaṃ sarvabhogapradaṃ bhavet // ŚivP_1,16.48ab/ vyādhīnāṃ haraṇaṃ caiva bhavedbhūtagrahakṣayaḥ // ŚivP_1,16.48cd/ kārtikādityavāreṣu nṛṇāmādityapūjanāt // ŚivP_1,16.49ab/ tailakārpāsadānāttu bhavetkuṣṭhādisaṃkṣayaḥ // ŚivP_1,16.49cd/ harītakīmarīcīnāṃ vastrakṣīrādidānataḥ // ŚivP_1,16.50ab/ brahmapratiṣṭhayā caiva kṣayarogakṣayo bhavet // ŚivP_1,16.50cd/ dīpasarṣapadānācca apasmārakṣayo bhavet // ŚivP_1,16.51ab/ kṛttikāsomavāreṣu śivasya yajanaṃ nṛṇām // ŚivP_1,16.51cd/ mahādāridryaśamanaṃ sarvasaṃpatkaraṃ bhavet // ŚivP_1,16.52ab/ gṛhakṣetrādidānācca gṛhopakaraṇādinā // ŚivP_1,16.52cd/ kṛttikābhaumavāreṣu skaṃdasya yajanānnṛṇām // ŚivP_1,16.53ab/ dīpaghaṃṭādidānādvai vāksiddhiracirādbhavet // ŚivP_1,16.53cd/ kṛttikāsaumyavāreṣu viṣṇorvai yajanaṃ nṛṇām // ŚivP_1,16.54ab/ dadhyodanasya dānaṃ ca satsaṃtānakaraṃ bhavet // ŚivP_1,16.54cd/ kṛtikāguruvāreṣu brahmaṇo yajanāddhanaiḥ // ŚivP_1,16.55ab/ madhusvarṇājyadānena bhogavṛddhirbhavennṛṇām // ŚivP_1,16.55cd/ kṛttikāśukravāreṣu gajakomeḍayājanāt 1 // ŚivP_1,16.56ab/ gaṃdhapuṣpānnadānena bhogyavṛddhirbhavennṛṇām // ŚivP_1,16.56cd/ vaṃdhyā suputraṃ labhate svarṇaraupyādidānataḥ // ŚivP_1,16.57ab/ kṛttikāśanivāreṣu dikpālānāṃ ca vaṃdanam // ŚivP_1,16.57cd/ diggajānāṃ ca nāgānāṃ setupānāṃ ca pūjanam // ŚivP_1,16.58ab/ gajakomeḍo gajavaktraḥ tryaṃbakasya ca rudrasya viṣṇoḥ pāpaharasya ca // ŚivP_1,16.58cd/ jñānadaṃ brahmaṇaścaiva dhanvaṃtaryaśvinostathā // ŚivP_1,16.59ab/ rogāpamṛtyuharaṇaṃ tatkālavyādhiśāṃtidam // ŚivP_1,16.59cd/ lavaṇāyasatailānāṃ māṣādīnāṃ ca dānataḥ // ŚivP_1,16.60ab/ trikaṭuphalagaṃdhānāṃ jalādīnāṃ ca dānataḥ // ŚivP_1,16.60cd/ dravāṇāṃ kaṭhinānāṃ ca prasthena palamānataḥ // ŚivP_1,16.61ab/ svargaprāptirdhanurmāse hyuṣaḥkāle ca pūjanam // ŚivP_1,16.61cd/ śivādīnāṃ ca sarveṣāṃ kramādvai sarvasiddhaye // ŚivP_1,16.62ab/ śālyannasya haviṣyasya naivedyaṃ śastamucyate // ŚivP_1,16.62cd/ vividhānnasya naivedyaṃ dhanurmāse viśiṣyate // ŚivP_1,16.63ab/ mārgaśīrṣe 'nnadasyaiva sarvamiṣṭaphalaṃ bhavet // ŚivP_1,16.63cd/ pāpakṣayaṃ ceṣṭasiddhiṃ cārogyaṃ dharmameva ca // ŚivP_1,16.64ab/ samyagvedaparijñānaṃ sadanuṣṭhānameva ca // ŚivP_1,16.64cd/ ihāmutra mahābhogānaṃte yogaṃ ca śāśvatam // ŚivP_1,16.65ab/ vedāṃtajñānasiddhiṃ ca mārgaśīrṣānnado labhet // ŚivP_1,16.65cd/ mārgaśīrṣe hyuṣaḥkāle dinatrayamathāpi vā // ŚivP_1,16.66ab/ yajeddevānbhogakāmo nādhanurmāsiko bhavet // ŚivP_1,16.66cd/ yāvatsaṃgavakālaṃ tu dhanurmāso vidhīyate // ŚivP_1,16.67ab/ dhanurmāse nirāhāro māsamātraṃ jiteṃdriyaḥ // ŚivP_1,16.67cd/ āmadhyāhnajapedvipro gāyatrīṃ vedamātaram // ŚivP_1,16.68ab/ pañcākṣarādikānmaṃtrānpaścādāsaptikaṃ japet // ŚivP_1,16.68cd/ jñānaṃ labdhvā ca dehāṃte vipro muktimavāpnuyāt // ŚivP_1,16.69ab/ anyeṣāṃ naranārīṇāṃ triḥsnānena japena ca // ŚivP_1,16.69cd/ sadā pañcākṣarasyaiva viśuddhaṃ jñānamāpyate // ŚivP_1,16.70ab/ iṣṭamantrānsadājaptvā mahāpāpakṣayaṃ labhet // ŚivP_1,16.70cd/ dhanurmāse viśeṣeṇa mahānaivedyamācaret // ŚivP_1,16.71ab/ śālitaṃḍulabhāreṇa marīcaprasthakena ca // ŚivP_1,16.71cd/ gaṇanāddvādaśaṃ sarvaṃ madhvājyakuḍavena hi // ŚivP_1,16.72ab/ droṇayuktena mudgena dvādaśavyaṃjanena ca // ŚivP_1,16.72cd/ ghṛtapakvairapūpaiśca modakaiḥ śālikādibhiḥ // ŚivP_1,16.73ab/ dvādaśaiśca dadhikṣīrairdvādaśaprasthakena ca // ŚivP_1,16.73cd/ nārikelaphalādīnāṃ tathā gaṇanayā saha // ŚivP_1,16.74ab/ dvādaśakramukairyuktaṃ ṣaṭtriṃśatpatrakairyutam // ŚivP_1,16.74cd/ karpūrakhuracūrṇena pañcasaugaṃdhikairyutam // ŚivP_1,16.75ab/ tāṃbūlayuktaṃ tu yadā mahānaivedyalakṣaṇam // ŚivP_1,16.75cd/ mahānaivedyametadvai devatārpaṇapūrvakam // ŚivP_1,16.76ab/ varṇānukramapūrveṇa tadbhaktebhyaḥ pradāpayet // ŚivP_1,16.76cd/ evaṃ caudananaivedyādbhūmau rāṣṭrapatirbhavet // ŚivP_1,16.77ab/ mahānaivedyadānena naraḥ svargamavāpnuyāt // ŚivP_1,16.77cd/ mahānaivedyadānena sahasreṇa dvijarṣabhāḥ // ŚivP_1,16.78ab/ satyaloke ca talloke pūrṇamāyuravāpnuyāt // ŚivP_1,16.78cd/ sahasrāṇāṃ ca triṃśatyā mahānaivedyadānataḥ // ŚivP_1,16.79ab/ tadūrdhvalokamāpyaiva na punarjanmabhāgbhavet // ŚivP_1,16.79cd/ sahasrāṇāṃ ca ṣaṭtriṃśajjanma naivedyamīritam // ŚivP_1,16.80ab/ tāvannaivedyadānaṃ tu mahāpūrṇaṃ taducyate // ŚivP_1,16.80cd/ mahāpūrṇasya naivedyaṃ janmanaivedyamiṣyate // ŚivP_1,16.81ab/ janmanaivedyadānena punarjanma na vidyate // ŚivP_1,16.81cd/ ūrje māsi dine puṇye janma naivedyamācaret // ŚivP_1,16.82ab/ saṃkrāṃtipātajanmarkṣapaurṇamāsyādisaṃyute // ŚivP_1,16.82cd/ abdajanmadine kuryājjanmanaivedyamuttamam // ŚivP_1,16.83ab/ māsāṃtareṣu janmarkṣapūrṇayogadinepi ca // ŚivP_1,16.83cd/ melanecaśanervāpitāvatsāhasramācaret // ŚivP_1,16.84ab/ janmanaivedyadānenajanmārpaṇaphalaṃlabhet // ŚivP_1,16.84cd/ janmārpaṇācchivaḥ prītiḥsvasāyujyaṃdadātihi // ŚivP_1,16.85ab/ idaṃtajjanmanaivedyaṃśivasyaivapradāpayet // ŚivP_1,16.85cd/ yoniliṃgasvarūpeṇaśivojanmānirūpakaḥ // ŚivP_1,16.86ab/ tasmājjanmanivṛttyarthaṃjanma pūjā śivasya hi // ŚivP_1,16.86cd/ biṃdunādātmakaṃsarvaṃjagatsthāvarajaṃgamam // ŚivP_1,16.87ab/ biṃduḥśaktiḥśivonādaḥśivaśaktyātmakaṃjagat // ŚivP_1,16.87cd/ nādādhāramidaṃbiṃdurbiṃdvādhāramidaṃ jagat // ŚivP_1,16.88ab/ jagadādhārabhūtauhibiṃdunādau vyavasthitau // ŚivP_1,16.88cd/ vindunādayutaṃsarvaṃsakalīkaraṇaṃbhavet // ŚivP_1,16.89ab/ sakalīkaraṇājjanmajagatprāpnotyasaṃśayaḥ // ŚivP_1,16.89cd/ biṃdunādātmakaṃliṃgaṃjagatkāraṇamucyate // ŚivP_1,16.90ab/ biṃdurdervīśivonādaḥśivaliṃgaṃtukathyate // ŚivP_1,16.90cd/ tasmājjanmanivṛttyarthaṃśivaliṃgaṃprapūjayet // ŚivP_1,16.91ab/ mātādevībiṃdurūpānādarūpaḥ śivaḥ pitā // ŚivP_1,16.91cd/ pūjitābhyāṃpitṛbhyāṃtuparamānaṃda eva hi // ŚivP_1,16.92ab/ paramānaṃdalābhārthaṃśivaliṃgaṃprapūjayet // ŚivP_1,16.92cd/ sādevījagatāṃmātāsaśivojagataḥ pitā // ŚivP_1,16.93ab/ pitroḥ śuśrūṣakenityaṃkṛpādhikyaṃ hi vardhate // ŚivP_1,16.93cd/ kṛpayāṃtargataiśvaryaṃpūjakasyadadātihi // ŚivP_1,16.94ab/ tasmādaṃtargatānaṃdalābhārthaṃmunipuṃgavāḥ // ŚivP_1,16.94cd/ pitṛmātṛsvarūpeṇaśivaliṃgaṃprapūjayet // ŚivP_1,16.95ab/ bhargaḥ puruṣarūpo hi bhargāprakṛtirucyate // ŚivP_1,16.95cd/ avyaktāṃtaradhiṣṭhānaṃ garbhaḥ puruṣa ucyate // ŚivP_1,16.96ab/ suvyaktāṃtaradhiṣṭhānaṃgarbhaḥ prakṛtirucyate // ŚivP_1,16.96cd/ puruṣatvādigarbhohigarbhavāñjanakoyataḥ // ŚivP_1,16.97ab/ puruṣātprakṛtoyuktaṃprathamaṃjanmakathyate // ŚivP_1,16.97cd/ prakṛtervyaktatāṃyātaṃdvitīyaṃ janma kathyate // ŚivP_1,16.98ab/ janmajaṃturmṛtyujanma puruṣātpratipadyate // ŚivP_1,16.98cd/ anyatobhāvyate 'vaśyaṃmāyayājanmakathyate // ŚivP_1,16.99ab/ jīryatejanmakālādyattasmājjīva iti smṛtaḥ // ŚivP_1,16.99cd/ janmatetanyate pāśairjīvaśabdārtha eva hi // ŚivP_1,16.100ab/ janmapāśanivṛttyarthaṃjanmaliṃgaṃprapūjayet // ŚivP_1,16.100cd/ bhaṃ vṛddhiṃ gacchatītyarthādbhagaḥprakṛtirucyate // ŚivP_1,16.101ab/ prākṛtaiḥ śabdamātrādyaiḥ prākṛteṃdriyabhojanāt // ŚivP_1,16.101cd/ bhagasyedaṃ bhogamiti śabdārtho mukhyataḥ śrutaḥ // ŚivP_1,16.102ab/ mukhyo bhagastu prakṛtirbhagavāñchiva ucyate // ŚivP_1,16.102cd/ bhagavānbhogadātāhinā 'nyobhogapradāyakaḥ // ŚivP_1,16.103ab/ bhagasvāmīcabhagavānbharga ityucyatebudhaiḥ // ŚivP_1,16.103cd/ bhagenasahitaṃliṃgaṃ bhagaṃliṃgenasaṃyutam // ŚivP_1,16.104ab/ ihāmutracabhogārthaṃnityabhogārthameva ca // ŚivP_1,16.104cd/ bhagavaṃtaṃmahādevaṃ śivaliṃgaṃprapūjayet // ŚivP_1,16.105ab/ lokaprasavitāsūryastaccihnaṃ prasavādbhavet // ŚivP_1,16.105cd/ liṃgeprasūtikartāraṃliṃginaṃpuruṣoyajet // ŚivP_1,16. 106ab/ liṃgārthagamakaṃcihnaṃliṃgamityabhidhīyate // ŚivP_1,16.106cd/ liṃgamarthaṃhipuruṣaṃ śivaṃgamayatītyadaḥ // ŚivP_1,16.107ab/ śivaśaktyoścacihnasyamelanaṃliṃgamucyate // ŚivP_1,16.107cd/ svacihnapūjanātprītaścihnakāryaṃ na vīyate // ŚivP_1,16.108ab/ cihnakāryaṃtujanmādijanmādyaṃvinivartate // ŚivP_1,16.108cd/ prākṛtaiḥ puruṣaiścāpibāhyābhyaṃtarasaṃbhavaiḥ // ŚivP_1,16.109ab/ ṣoḍaśairupacāraiśca śivaliṃgaṃprapūjayet // ŚivP_1,16.109cd/ evamādityavārehipūjājanmanivartikā // ŚivP_1,16.110ab/ ādivāremahāliṃgaṃpraṇavenaivapūjayet // ŚivP_1,16.110cd/ ādivāre pañcagavyairabhiṣeko viśiṣyate // ŚivP_1,16.111ab/ gomayaṃgojalaṃkṣīraṃdadhyājyaṃ pañcagavyakam // ŚivP_1,16.111cd/ kṣīrādyaṃcapṛthakccaivamadhunācekṣusārakaiḥ // ŚivP_1,16.112ab/ gavyakṣīrānnanaivedyaṃpraṇavenaivakārayet // ŚivP_1,16.112cd/ praṇavaṃdhvaniliṃgaṃtunādaliṃgaṃsvayaṃbhuvaḥ // ŚivP_1,16.113ab/ biṃduliṃgaṃ tu yaṃtraṃsyānmakāraṃtupratiṣṭhitam // ŚivP_1,16.113cd/ ukāraṃcaraliṃgaṃsyādakāraṃguruvigraham // ŚivP_1,16.114ab/ ṣaḍliṃgapūjayānityaṃjīvanmuktonasaṃśayaḥ // ŚivP_1,16.114cd/ śivasyabhaktyāpūjā hi janmamuktikarīnṛṇām // ŚivP_1,16.115ab/ rudrākṣadhāraṇātpādamardhaṃ vaibhūtidhāraṇāt // ŚivP_1,16.115cd/ tripādaṃ maṃtrajāpyācca pūjayā pūrṇabhaktimān // ŚivP_1,16.116ab/ śivaliṃgaṃ ca bhaktaṃ ca pūjya mokṣaṃ labhennaraḥ // ŚivP_1,16.116cd/ ya imaṃ paṭhate 'dhyāyaṃ śṛṇuyādvā samāhitaḥ // ŚivP_1,16.117ab/ tasyaiva śivabhaktiśca vardhatesudṛḍhā dvijāḥ // ŚivP_1,16.117cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣoḍaśo 'dhyāyaḥ Chapter 17 ṛṣaya ūcuḥ praṇavasyacamāhātmyaṃṣaḍliṃgasyamahāmune // ŚivP_1,17.1ab/ śivabhaktasyapūjāṃcakramaśobrūhinaḥprabho // ŚivP_1,17.1cd/ sūta uvāca tapodhanairbhavadbhiśca samyakpraśnastvayaṃ kṛtaḥ // ŚivP_1,17.2ab/ asyottaraṃmahādevojānātismanacāparaḥ // ŚivP_1,17.2cd/ athāpivakṣyetamahaṃśivasyakṛpayaivahi // ŚivP_1,17.3ab/ śivo 'smākaṃcayuṣmākaṃrakṣāṃgṛhṇātubhūriśaḥ // ŚivP_1,17.3cd/ prohiprakṛtijātasyasaṃsārasyamahodadheḥ // ŚivP_1,17.4ab/ navaṃ nāvāṃtaramiti praṇavaṃ vai vidurbudhāḥ // ŚivP_1,17.4cd/ praḥprapañconanāstivo yuṣmākaṃpraṇavaṃviduḥ // ŚivP_1,17.5ab/ prakarṣeṇanayedyasmānmokṣaṃvaḥ praṇavaṃ viduḥ // ŚivP_1,17.5cd/ svajāpakānāṃyogināṃsvamaṃtrapūjakasyaca // ŚivP_1,17.6ab/ sarvakarmakṣayaṃkṛtvādivyajñānaṃtunūtanam // ŚivP_1,17.6cd/ tameva māyārahitaṃ nūtanaṃ paricakṣate // ŚivP_1,17.7ab/ prakarṣeṇa mahātmānaṃ navaṃ śuddhasvarūpakam // ŚivP_1,17.7cd/ nūtanaṃ vai karotīti praṇavaṃ taṃ vidurbudhāḥ // ŚivP_1,17.8ab/ praṇavaṃdvividhaṃproktaṃsūkṣmasthūlavibhedataḥ // ŚivP_1,17.8cd/ sūkṣmamekākṣaraṃ vidyātsthūlaṃ pañcākṣaraṃ viduḥ // ŚivP_1,17.9ab/ sūkṣmamavyaktapañcārṇaṃ suvyaktārṇaṃ tathetarat // ŚivP_1,17.9cd/ jīvanmuktasya sūkṣmaṃ hi sarvasāraṃ hi tasyahi // ŚivP_1,17.10ab/ maṃtreṇārthānusaṃdhānaṃ svadehavilayāvadhi // ŚivP_1,17.10cd/ svadehegalitepūrṇaṃśivaṃprāpnotiniścayaḥ // ŚivP_1,17.11ab/ kevalaṃmaṃtrajāpītuyogaṃprāpnotiniścayaḥ // ŚivP_1,17.11cd/ ṣaṭtriṃśatkoṭijāpītuniścayaṃyogamāpnuyāt // ŚivP_1,17.12ab/ sūkṣmaṃcadvividhaṃjñeyaṃhrasvadīrghavibhedataḥ // ŚivP_1,17.12cd/ akāraśca ukāraścamakāraścatataḥparam // ŚivP_1,17.13ab/ biṃdunādayutaṃ taddhi śabdakālakalānvitam // ŚivP_1,17.13cd/ dīrghapraṇavamevaṃhiyogināmevahṛdgatam // ŚivP_1,17.14ab/ makāraṃtaṃtritattvaṃ hi hrasvapraṇava ucyate // ŚivP_1,17.14cd/ śivaḥśaktistayoraikyaṃmakāraṃtutrikātmakam // ŚivP_1,17.15ab/ hrasvamevaṃhijāpyaṃsyātsarvapāpakṣayaiṣiṇām // ŚivP_1,17.15cd/ bhūvāyukanakārṇodyoḥśabdādyāścatathādaśa // ŚivP_1,17.16ab/ āśānvayedaśapunaḥ pravṛttā itikathyate // ŚivP_1,17.16cd/ hrasvamevapravṛttānāṃnivṛttānāṃtudīrghakam // ŚivP_1,17.17ab/ vyāhṛtyādaucamaṃtrādaukāmaṃśabdakalāyutam // ŚivP_1,17.17cd/ vedādaucaprayojyaṃsyādvaṃdanesaṃdhyayorapi // ŚivP_1,17.18ab/ navakauṭijapāñjaptvāsaṃśuddhaḥpuruṣobhavet // ŚivP_1,17.18cd/ punaścanavakoṭyātupṛthivījayamāpnuyāt // ŚivP_1,17.19ab/ punaścanavakoṭyātuhyapāṃjayamavāpnuyāt // ŚivP_1,17.19cd/ punaścanavakoṭyātutejasāṃjayamāpnuyāt // ŚivP_1,17.20ab/ punaścanavakoṭyā tu vāyorjayamavāpnuyāt // ŚivP_1,17.20cd/ ākāśajayamāpnoti navakoṭijapena vai // ŚivP_1,17.20ef/ gaṃdhādīnāṃkrameṇaivanavakoṭijapeṇavai // ŚivP_1,17.21ab/ ahaṃkārasya ca punarnava koṭijapena vai // ŚivP_1,17.21cd/ sahasramaṃtrajaptena nityaśuddho bhavetpumān // ŚivP_1,17.22ab/ tataḥ paraṃsvasiddhyarthaṃjapobhavatihidvijāḥ // ŚivP_1,17.22cd/ evamaṣṭottaraśatakoṭijaptenavaipunaḥ // ŚivP_1,17.23ab/ praṇavenaprabuddhastuśuddhayogamavāpnuyāt // ŚivP_1,17.23cd/ śuddhayogenasaṃyuktojīvanmuktonasaṃśayaḥ // ŚivP_1,17.24ab/ sadājapansadādhyāyañchivaṃ praṇavarūpiṇam // ŚivP_1,17.24cd/ samādhisthomahāyogīśiva eva nasaṃśayaḥ // ŚivP_1,17.25ab/ ṛṣicchaṃdodevatādinyasyadehepunarjapet // ŚivP_1,17.25cd/ praṇavaṃ mātṛkāyuktaṃdehetyasya ṛṣirbhavet // ŚivP_1,17.26ab/ daśamātṛṣaḍadhvādi sarvaṃnyāsaphalaṃ labhet // ŚivP_1,17.26cd/ pravṛttānāṃ camiśrāṇāṃsthūlapraṇavamiṣyate // ŚivP_1,17.27ab/ kriyātapojapairyuktāstrividhāḥ śivayoginaḥ // ŚivP_1,17.27cd/ dhanādivibhavaiścaivakarādyaṃgairnamādibhiḥ // ŚivP_1,17.28ab/ kriyayā pūjayāyuktaḥkriyāyogīti kathyate // ŚivP_1,17.28cd/ pūjāyuktaścamitabhugbāhyaṃdriyajayānvitaḥ // ŚivP_1,17.29ab/ paradrohādirahitastapoyogīti kathyate // ŚivP_1,17.29cd/ etairyuktaḥsadākruddhaḥsarvakāmādivarjitaḥ // ŚivP_1,17.30ab/ sadājapaparaḥśāṃtojapayogīti taṃviduḥ // ŚivP_1,17.30cd/ upacāraiḥ ṣoḍaśabhiḥ pūjayā śivayoginām // ŚivP_1,17.31ab/ sālokyādikrameṇaivaśuddhomuktiṃlabhennaraḥ // ŚivP_1,17.31cd/ japayogamathovakṣyegadataḥ śṛṇutadvijāḥ // ŚivP_1,17.32ab/ tapaḥkarturjapaḥ proktoyajjamanparimārjate // ŚivP_1,17.32cd/ śivanāmanamaḥpūrvaṃcaturthyāṃpañcatattvakam // ŚivP_1,17.33ab/ sthūlapraṇavarūpaṃ hi śivapañcākṣaraṃ dvijāḥ // ŚivP_1,17.33cd/ pañcākṣarajapenaiva sarvasiddhiṃ labhennaraḥ // ŚivP_1,17.34ab/ praṇavenādisaṃyuktaṃsadāpañcākṣaraṃjapet // ŚivP_1,17.34cd/ gurūpadeśaṃsaṃgamyasukhavāsesubhūtale // ŚivP_1,17.35ab/ pūrvapakṣesamārabhyakṛṣṇabhūtāvadhidvijāḥ // ŚivP_1,17.35cd/ māghaṃbhādraṃviśiṣṭaṃtusarvakālottamottamam // ŚivP_1,17.36ab/ ekavāraṃmitāśītuvāgyatoniyateṃdriyaḥ // ŚivP_1,17.36cd/ svasyarājapitḥṇāṃcaśuśrūṣaṇaṃcanityaśaḥ // ŚivP_1,17.37ab/ sahasrajapamātreṇabhavecchuddho 'nyathā ṛṇī // ŚivP_1,17.37cd/ pañcākṣaraṃpañcalakṣaṃjapecchivamanusmaran // ŚivP_1,17.38ab/ padmāsanasthaṃśivadaṃgaṃgācaṃdrakalānvitam // ŚivP_1,17.38cd/ vāmorusthitaśaktyācavirājaṃtaṃmahāgaṇaiḥ // ŚivP_1,17.39ab/ mṛgaṭaṃkadharaṃdevaṃvaradābhayapāṇikam // ŚivP_1,17.39cd/ sadānugrahakartāraṃ sadāśivamanusmaran // ŚivP_1,17.40ab/ saṃpūjyamanasā pūrvaṃhṛdivāsūryamaṃḍale // ŚivP_1,17.40cd/ japetpañcākṣarīṃvidyāṃprāṅmukhaḥ śuddhakarmakṛt // ŚivP_1,17.41ab/ prātaḥkṛṣṇacaturdaśyāṃ nityakarmasamāpyaca // ŚivP_1,17.41cd/ manorameśucaudeśeniyataḥ śuddhamānasaḥ // ŚivP_1,17.42ab/ pañcākṣarasyamaṃtrasya sahasraṃdvādaśaṃjapet // ŚivP_1,17.42cd/ varayeccasapatnīkāñchaivānvaibrāhmaṇottamān // ŚivP_1,17.43ab/ ekaṃguruvaraṃśiṣṭaṃvarayetsāṃbamūrtikam // ŚivP_1,17.43cd/ īśānaṃcāthapuruṣamaghoraṃvāmameva ca // ŚivP_1,17.44ab/ sadyojātaṃ capañcaivaśivabhaktāndvijottamān // ŚivP_1,17.44cd/ pūjādravyāṇisaṃpādyaśivapūjāṃsamārabhet // ŚivP_1,17.45ab/ śivapūjāṃcavidhivatkṛtvāhomaṃsamārabhet // ŚivP_1,17.45cd/ mukhāṃtaṃ ca svasūtreṇakṛtyāhomaṃsamārabhet // ŚivP_1,17.46ab/ daśaikaṃvāśataikaṃvāsahasraikamathāpivā // ŚivP_1,17.46cd/ kāpilenaghṛtenaivajuhuyātsvayamevahi // ŚivP_1,17.47ab/ kārayecchivabhaktairvāpyaṣṭottaraśataṃbudhaḥ // ŚivP_1,17.47cd/ homānte dakṣiṇādeyāgurorgomithunaṃ tathā // ŚivP_1,17.48ab/ īśānādisvarūpāṃstānguruṃsāṃbaṃvibhāvya ca // ŚivP_1,17.48cd/ teṣāṃ patsiktatoyenasvaśiraḥ snānamācaret // ŚivP_1,17.49ab/ ṣaṭtriṃśatkoṭitīrtheṣusadyaḥsnānaphalaṃlabhet // ŚivP_1,17.49cd/ daśāṃgamannaṃteṣāṃ vaidadyādvaibhaktipūrvakam // ŚivP_1,17.50ab/ parābuddhyāguroḥ patnīmīśānādikrameṇa tu // ŚivP_1,17.50cd/ paramānnenasaṃpūjyayathāvibhavavistaram // ŚivP_1,17.51ab/ rudrākṣavastrapūrvaṃcavaṭakāpūpakairyutam // ŚivP_1,17.51cd/ balidānaṃtataḥ kṛtvābhūribhojanamācaret // ŚivP_1,17.52ab/ tataḥ saṃprārthyadeveśaṃjapaṃtāvatsamāpayet // ŚivP_1,17.52cd/ puraścaraṇamevaṃtukṛtvāmantrībhavennaraḥ // ŚivP_1,17.53ab/ punaścapañca lakṣeṇasarvapāpakṣayobhavet // ŚivP_1,17.53cd/ atalādisamārabhyasatyalokāvadhikramāt // ŚivP_1,17.54ab/ pañcalakṣajapāttattallokaiśvaryamavāpnuyāt // ŚivP_1,17.54cd/ madhyemṛtaścedbhogāṃtebhūmautajjāpakobhavet // ŚivP_1,17.55ab/ punaścapañcalakṣeṇabrahmasāmīpyamāpnuyāt // ŚivP_1,17.55cd/ punaścapañcalakṣeṇa sārūpyaiśvaryamāpnuyāt // ŚivP_1,17.56ab/ āhatyaśatalakṣeṇasākṣādbrahmasamobhavet // ŚivP_1,17.56cd/ kāryabrahmaṇa evaṃ hi sāyujyaṃpratipadya vai // ŚivP_1,17.57ab/ yatheṣṭaṃbhogamāpnotitadbrahmapralayāvadhi // ŚivP_1,17.57cd/ punaḥ kalpāṃtarevṛtte brahmaputraḥ sajāyate // ŚivP_1,17.58ab/ punaścatapasādīptaḥkramānmuktobhaviṣyati // ŚivP_1,17.58cd/ pṛthvyādikāryabhūtebhyolokāvainirmitāḥkramāt // ŚivP_1,17.59ab/ pātālādi ca satyāṃtaṃbrahmalokāścaturdaśa // ŚivP_1,17.59cd/ satyādūrdhvaṃkṣamāṃtaṃvaiviṣṇulokāścaturdaśa // ŚivP_1,17.60ab/ kṣamalokekāryaviṣṇurvaikuṃṭhevarapattane // ŚivP_1,17.60cd/ kāryalakṣmyāmahābhogirakṣāṃkṛtvā 'dhitiṣṭhati // ŚivP_1,17.61ab/ tadūrdhvagāścāśucyaṃtālokāṣṭāviṃśatiḥ sthitāḥ // ŚivP_1,17.61cd/ śucauloketukailāserudrovaibhūtahṛtsthitaḥ // ŚivP_1,17.62ab/ ṣaḍuttarāścapañcāśadahiṃsāṃtāstadūrdhvagāḥ // ŚivP_1,17.62cd/ ahiṃsālokamāsthāyajñānakailāsakepure // ŚivP_1,17.63ab/ kāryeśvarastirobhāvaṃsarvānkṛtvādhitiṣṭhati // ŚivP_1,17.63cd/ tadaṃtekālacakraṃhikālātītastataḥparam // ŚivP_1,17.64ab/ śivenādhiṣṭhitastatrakālaścakreśvarāhvayaḥ // ŚivP_1,17.64cd/ māhiṣaṃ dharmamāsthāyasarvānkālena yuṃjati // ŚivP_1,17.65ab/ asatyaścāśuciścaiva hiṃsācaivāthanirghṛṇā // ŚivP_1,17.65cd/ asatyādicatuṣpādaḥsarvāṃśaḥ kāmarūpadhṛk // ŚivP_1,17.66ab/ nāstikyalakṣmīrduḥsaṃgovedabāhyadhvaniḥsadā // ŚivP_1,17.66cd/ krodhasaṃgaḥkṛṣṇavarṇomahāmahiṣaveṣavān // ŚivP_1,17.67ab/ tāvanmaheśvaraḥproktastirodhāstāvadeva hi // ŚivP_1,17.67cd/ tadarvākkarmabhogo hi tadūrdhvaṃjñānabhogakam // ŚivP_1,17.68ab/ tadarvākkarma māyāhijñānamāyā tadūrdhvakam // ŚivP_1,17.68cd/ mā lakṣmīḥ karmabhogovaiyātimāyetikathyate // ŚivP_1,17.69ab/ mā lakṣmīrjñānabhogovaiyātimāyetikathyate // ŚivP_1,17.69cd/ tadūrdhvaṃnityabhogohitadarvāṅnaśvaraṃviduḥ // ŚivP_1,17.70ab/ tadarvākcatirodhānaṃtadūrdhvaṃnatirodhanam // ŚivP_1,17.70cd/ tadarvākpāśabaṃdhohitadūrdhvaṃnahibaṃdhanam // ŚivP_1,17.71ab/ tadarvākparivartaṃtekāmyakarmānusāriṇaḥ // ŚivP_1,17.71cd/ niṣkāmakarmabhogastutadūrdhvaṃparikīrtitaḥ // ŚivP_1,17.72ab/ tadarvākparivartaṃtebiṃdupūjāparāyaṇāḥ // ŚivP_1,17.72cd/ tadūrdhvaṃhivrajaṃtyevaniṣkāmāliṃgapūjakāḥ // ŚivP_1,17.73ab/ tadarvākparivartaṃtaṃśivānyasurapūjakāḥ // ŚivP_1,17.73cd/ śivaikaniratāye ca tadūrdhvaṃsaṃprayāṃtite // ŚivP_1,17.74ab/ tadarvāgjīvakoṭiḥsyāttadūrdhvaṃparakoṭikāḥ // ŚivP_1,17.74cd/ sāṃsārikāstadarvākca muktāḥ khalu tadūrdhvagāḥ // ŚivP_1,17.75ab/ tadarvākparivartaṃte prākṛtadravyapūjakāḥ // ŚivP_1,17.75cd/ tadūrdhvaṃhivrajaṃtyetepauruṣadravyapūjakāḥ // ŚivP_1,17.76ab/ tadarvākchaktiliṃgaṃ tu śivaliṃgaṃ tadūrdhvakam // ŚivP_1,17.76cd/ tadarvāgāvṛtaṃ liṃgaṃ tadūrdhvaṃ hi nirāvṛti // ŚivP_1,17.77ab/ tadarvākkalpitaṃ liṃgaṃ tadūrdhvaṃ vai na kalpitam // ŚivP_1,17.77cd/ tadarvāgbāhyaliṃgaṃ syādaṃtaraṃgaṃ tadūrdhvakam // ŚivP_1,17. 78ab/ tadarvākchaktilokā hi śataṃ vai dvādaśādhikam // ŚivP_1,17.78cd/ tadarvāgbiṃdurūpaṃ hi nādarūpaṃ taduttaram // ŚivP_1,17.79ab/ tadarvākkarmalokastu tadūrdhvaṃ jñānalokakaḥ // ŚivP_1,17.79cd/ namaskārastadūrdhvaṃhimadāhaṃkāranāśanaḥ // ŚivP_1,17.80ab/ janijaṃtirodhānaṃnāniṣiddhyātate iti // ŚivP_1,17.80cd/ jñānaśabdārtha evaṃ hi tirodhānanivāraṇāt // ŚivP_1,17.81ab/ tadarvākparivartaṃtehyādhibhautikapūjakāḥ // ŚivP_1,17.81cd/ ādhyātmikārcakā eva tadūrdhvaṃsaṃprayāṃtivai // ŚivP_1,17.82ab/ tāvadvaivedibhāgaṃtanmahālokātmaliṃgake // ŚivP_1,17.82cd/ prakṛtyādyaṣṭabaṃdhopivedyaṃtesaṃpratiṣṭhataḥ // ŚivP_1,17.83ab/ evametādṛśaṃjñeyaṃsarvaṃlaukikavaidikam // ŚivP_1,17.83cd/ adharmamahiṣārūḍhaṃkālacakraṃtaraṃtite // ŚivP_1,17.84ab/ satyādidharmayuktāyeśivapūjāparāścaye // ŚivP_1,17.84cd/ tadūrdhvaṃvṛṣabhodharmobrahmacaryasvarūpadhṛk // ŚivP_1,17.85ab/ satyādipādayuktastuśivalokāgrataḥsthitaḥ // ŚivP_1,17.85cd/ kṣamāśṛṅgaḥ śamaśrotro vedadhvanivibhūṣitaḥ // ŚivP_1,17.86ab/ āstikyacakṣurniśvāsagurubuddhimanā vṛṣaḥ // ŚivP_1,17.86cd/ kriyādivṛṣabhā jñeyāḥ kāraṇādiṣu sarvadā // ŚivP_1,17.87ab/ taṃ kriyāvṛṣabhaṃ dharmaṃ kālātītodhitiṣṭhati // ŚivP_1,17.87cd/ brahmaviṣṇumaheśānāṃ svasvāyurdinamucyate // ŚivP_1,17.88ab/ tadūrdhvaṃ na dinaṃ rātrirna janmamaraṇādikam // ŚivP_1,17. 88cd/ punaḥ kāraṇasatyāṃtāḥ kāraṇabrahmaṇastathā // ŚivP_1,17.89ab/ gaṃdhādibhyastu bhūtebhyastadūrdhvaṃ nirmitāḥ sadā // ŚivP_1,17.89cd/ sūkṣmagaṃdhasvarūpāhisthitālokāścaturdaśa // ŚivP_1,17.90ab/ punaḥ kāraṇaviṣṇorvaisthitā lokāścaturdaśa // ŚivP_1,17.90cd/ punaḥkāraṇarudrasyalokāṣṭāviṃśakā matāḥ // ŚivP_1,17.91ab/ punaścakāraṇeśasyaṣaṭpañcāśattadūrdhvagāḥ // ŚivP_1,17.91cd/ tataḥ paraṃbrahmacaryalokākhyaṃ śivasaṃmatam // ŚivP_1,17.92ab/ tatraivajñānakailāsepañcāvaraṇasaṃyute // ŚivP_1,17.92cd/ pañcamaṃḍalasaṃyuktaṃpañcabrahmakalānvitam // ŚivP_1,17.93ab/ ādiśaktisamāyuktamādiliṃgaṃtutatravai // ŚivP_1,17.93cd/ śivālayamidaṃproktaṃśivasyaparamātmanaḥ // ŚivP_1,17.94ab/ paraśaktyāsamāyuktastatraivaparameśvaraḥ // ŚivP_1,17.94cd/ sṛṣṭiḥ sthitiścasaṃhārastirobhāvopyanugrahaḥ // ŚivP_1,17.95ab/ pañcakṛtyapravīṇo 'sausaccidānaṃdavigrahaḥ // ŚivP_1,17.95cd/ dhyānadharmaḥ sadāyasyasadānugrahatatparaḥ // ŚivP_1,17.96ab/ samādhyāsanamāsīnaḥ svātmārāmovirājate // ŚivP_1,17.96cd/ tasyasaṃdarśanaṃsāṃdhyaṃkarmadhyānādibhiḥ kramāt // ŚivP_1,17.97ab/ nityādikarmayajanācchivakarmamatirbhavet // ŚivP_1,17.97cd/ kriyādiśivakarmabhyaḥ śivajñānaṃprasādhayet // ŚivP_1,17.98ab/ taddarśanagatāḥsarvemuktā eva nasaṃśayaḥ // ŚivP_1,17.98cd/ muktirātmasvarūpeṇasvātmārāmatvamevahi // ŚivP_1,17.99ab/ kriyātapojapajñānadhyānadharmeṣususthitaḥ // ŚivP_1,17.99cd/ śivasyadarśanaṃlabdhāsvātmārāmatvamevahi // ŚivP_1,17.100ab/ yathāraviḥsvakiraṇādaśuddhimapaneṣyati // ŚivP_1,17.100cd/ kṛpāvicakṣaṇaḥśaṃbhurajñānamapaneṣyati // ŚivP_1,17.101ab/ ajñānavinivṛttautuśivajñānaṃpravartate // ŚivP_1,17.101cd/ śivajñānātsvasvarūpamātmārāmatvameṣyati // ŚivP_1,17.102ab/ ātmārāmatvasaṃsiddhaukṛtakṛtyobhavennaraḥ // ŚivP_1,17.102cd/ punaścaśatalakṣeṇabrahmaṇaḥpadamāpnuyāt // ŚivP_1,17.103ab/ punaścaśatalakṣeṇaviṣṇoḥpadamavāpnuyāt // ŚivP_1,17.103cd/ punaścaśatalakṣeṇarudrasyapadamāpnuyāt // ŚivP_1,17.104ab/ punaśca śatalakṣeṇa aiśvaryaṃ padamāpnuyāt // ŚivP_1,17.104cd/ punaścaivaṃvidhenaiva japena susamāhitaḥ // ŚivP_1,17.105ab/ śivalokādibhūtaṃ hi kālacakramavāpnuyāt // ŚivP_1,17.105cd/ kālacakraṃpañcacakramekaikenakramottare // ŚivP_1,17.106ab/ sṛṣṭimohaubrahmacakraṃbhogamohautuvaiṣṇavam // ŚivP_1,17.106cd/ kopamohauraudracakraṃbhramaṇaṃcaiśvaraṃviduḥ // ŚivP_1,17.107ab/ śivacakraṃjñānamohaupañcacakraṃvidurbudhāḥ // ŚivP_1,17.107cd/ punaścadaśakoṭyā hi kāraṇabrahmaṇaḥ padam // ŚivP_1,17.108ab/ punaśca daśakoṭyāhitatpadaiśvaryamāpnuyāt // ŚivP_1,17.108cd/ evaṃ krameṇa viṣṇvādeḥ padaṃlabdhvāmahaujasaḥ // ŚivP_1,17.109ab/ krameṇatatpadaiśvaryaṃ labdhvācaivamahātmanaḥ // ŚivP_1,17.109cd/ śatakoṭimanuṃ japtvā pañcottaramataṃdritaḥ // ŚivP_1,17.110ab/ śivalokamavāpnotipañcamāvaraṇādbahiḥ // ŚivP_1,17.110cd/ rājasaṃmaṃḍapaṃtatranaṃdīsaṃsthānamuttamam // ŚivP_1,17.111ab/ taporūpaścavṛṣabhastatraivaparidṛśyate // ŚivP_1,17.111cd/ sadyojātasyatatsthānaṃpañcamāvaraṇaṃparam // ŚivP_1,17.112ab/ vāmadevasyacasthānaṃcaturthāvaraṇaṃpunaḥ // ŚivP_1,17.112cd/ aghoranilayaṃpaścāttṛtīyāvaraṇaṃparam // ŚivP_1,17.113ab/ puruṣasyaivasāṃbasyadvitīyāvaraṇaṃśubham // ŚivP_1,17.113cd/ īśānasyaparasyaivaprathamāvaraṇaṃtataḥ // ŚivP_1,17.114ab/ dhyānadharmasya ca sthānaṃpañcamaṃmaṃḍapaṃtataḥ // ŚivP_1,17.114cd/ balināthasyasaṃsthānaṃtatrapūrṇāmṛtapradam // ŚivP_1,17.115ab/ caturthaṃmaṃḍapaṃpaścāccaṃdraśekharamūrtimat // ŚivP_1,17.115cd/ somaskaṃdasyacasthānaṃtṛtīyaṃmaṃḍapaṃparam // ŚivP_1,17.116ab/ dvitīyaṃmaṃḍapaṃnṛtyamaṃḍapaṃprāhurāstikāḥ // ŚivP_1,17.116cd/ prathamaṃmūlamāyāyāḥ sthānaṃtatraivaśobhanam // ŚivP_1,17.117ab/ tataḥ paraṃ garbhagṛhaṃliṃgasthānaṃ paraṃ śubham // ŚivP_1,17.117cd/ nandisaṃsthānataḥ paścānnaviduḥ śivavaibhavam // ŚivP_1,17.118ab/ naṃdīśvarobahistiṣṭhanpañcākṣaramupāsate // ŚivP_1,17.118cd/ evaṃ gurukramāllabdhaṃ naṃdīśācca mayāpunaḥ // ŚivP_1,17.119ab/ tataḥ paraṃsvasaṃvedyaṃ śive naivānubhāvitam // ŚivP_1,17.119cd/ śivasyakṛpayāsākṣācchivalokasyavaibhavam // ŚivP_1,17.120ab/ vijñātuṃśakyate sarvairnānyathetyāhurāstikāḥ // ŚivP_1,17.120cd/ evaṃkrameṇamuktāḥsyurbrāhmaṇāvaijiteṃdriyaḥ // ŚivP_1,17.121ab/ anyeṣāṃ ca kramaṃvakṣye gadataḥ śṛṇutādarāt // ŚivP_1,17.121cd/ gurūpadeśājjāpyaṃvaibrāhmaṇānāṃnamo 'ṃtakam // ŚivP_1,17.122ab/ pañcākṣaraṃ pañcalakṣamāyuṣyaṃprajapedvidhiḥ // ŚivP_1,17.122cd/ strītvāpanayanārthaṃtupañcalakṣaṃjapetpunaḥ // ŚivP_1,17.123ab/ maṃtreṇapuruṣobhūtvākramānmuktobhavedbudhaḥ // ŚivP_1,17.123cd/ kṣatriyaḥpañcalakṣeṇakṣattratvamapaneṣyati // ŚivP_1,17.124ab/ punaścapañcalakṣeṇakṣattriyobrāhmaṇobhavet // ŚivP_1,17.124cd/ maṃtrasiddhirjapāccaivakramānmuktobhavainnaraḥ // ŚivP_1,17.125ab/ vaiśyastupañcalakṣeṇavaiśyatvamapaneṣyati // ŚivP_1,17.125cd/ punaścapañcalakṣeṇamaṃtrakṣattriya ucyate // ŚivP_1,17.126ab/ punaścapañcalakṣeṇa kṣattratvamapaneṣyati // ŚivP_1,17.126cd/ punaścapañcalakṣeṇamaṃtrabrāhmaṇa ucyate // ŚivP_1,17.127ab/ śūdraścaivanamoṃtena pañcaviṃśatilakṣataḥ // ŚivP_1,17.127cd/ maṃtravipratvamāpadya paścācchuddho bhaveddvijaḥ // ŚivP_1,17.128ab/ nārīvātha naro vātha brāhmaṇo vānya eva vā // ŚivP_1,17.128cd/ namontaṃ vā namaḥ pūrvamāturaḥ sarvamāturaḥ sarvadā japet // ŚivP_1,17.129ab/ tataḥ strīṇāṃtathaivohyagururnirdarśayetkramāt // ŚivP_1,17.129cd/ sādhakaḥ pañcalakṣānte śivaprītyarthameva hi // ŚivP_1,17.130ab/ mahābhiṣeka naivedyaṃ kṛtvā bhaktāṃśca pūjayet // ŚivP_1,17.130cd/ pūjayā śivabhaktasya śivaḥ prītataro bhavet // ŚivP_1,17.131ab/ śivasya śivabhaktasya bhedo nāsti śivo hi saḥ // ŚivP_1,17.131cd/ śivasvarūpamaṃtrasyadhāraṇācchiva eva hi // ŚivP_1,17.132ab/ śivabhaktaśarīre hi śivetatparamobhavet // ŚivP_1,17.132cd/ śivabhaktāḥ kriyāḥ sarvā vedasarvakriyāṃviduḥ // ŚivP_1,17.133ab/ yāvadyāvacchivaṃmaṃtraṃyenajaptaṃbhavetkramāt // ŚivP_1,17.133cd/ tāvadvaiśivasānnidhyaṃ tasmindehe na saṃśayaḥ // ŚivP_1,17.134ab/ devīliṃgaṃbhavedrūpaṃ śivabhaktastriyāstathā // ŚivP_1,17.134cd/ yāvanmaṃtraṃjapeddevyāstāvatsānnidhyamasti hi // ŚivP_1,17.135ab/ śivaṃsaṃpūjayeddhīmānsvayaṃvaiśabdarūpabhāk // ŚivP_1,17.135cd/ svayaṃcaivaśivobhūtvāparāṃśaktiṃprapūjayet // ŚivP_1,17.136ab/ śaktiṃberaṃcaliṃgaṃ ca hyālekhyāmāyayāyajet // ŚivP_1,17.136cd/ śivaliṃgaṃ śivaṃmatvāsvātmānaṃśaktirūpakam // ŚivP_1,17.137ab/ śaktiliṃgaṃcadevīṃcamatvāsvaṃśivarūpakam // ŚivP_1,17.137cd/ śivaliṃgaṃnādarūpabiṃdurūpaṃtuśaktikam // ŚivP_1,17.138ab/ upapradhānabhāvena anyonyāsaktaliṃgakam // ŚivP_1,17.138cd/ pūjayecca śivaṃśaktisaśivomūlabhāvanāt // ŚivP_1,17.139ab/ śivabhaktāñchivamatrarūpakāñchivarūpakān // ŚivP_1,17.139cd/ ṣoḍaśairupacāraiścapūjayediṣṭamāpnuyāt // ŚivP_1,17.140ab/ yenaśuśrūṣaṇādyaiśca śivabhaktasya liṃginaḥ // ŚivP_1,17.140cd/ ānaṃdaṃjanayedvidvāñchivaḥprītataro bhavet // ŚivP_1,17.141ab/ śivabhaktānsapatnīkānpatnyāsahasadaivatat // ŚivP_1,17.141cd/ pūjayedbhojanādyaiścapañcavādaśavāśatam // ŚivP_1,17.142ab/ dhanedehecamaṃtrecabhāvanāyāmavaṃcakaḥ // ŚivP_1,17.142cd/ śivaśaktisvarūpeṇanapunarjāyate bhuvi // ŚivP_1,17.143ab/ nābheradho brahmabhāgamākaṃṭhaṃviṣṇubhāgakam // ŚivP_1,17.143cd/ mukhaṃliṃgamitiproktaṃśivabhaktaśarīrakam // ŚivP_1,17.144ab/ mṛtāndāhādiyuktānvādāhādirahitānmṛtān // ŚivP_1,17.144cd/ uddiśyapūjayedādipitaraṃśivamevahi // ŚivP_1,17.145ab/ pūjāṃkṛtvādimātuścaśivabhaktāṃśca pūjayet // ŚivP_1,17.145cd/ pitṛlokaṃsamāsādyakramānmuktobhavenmṛtaḥ // ŚivP_1,17.146ab/ kriyāyuktadaśabhyaścatapoyuktoviśiṣyate // ŚivP_1,17.146cd/ tapoyuktaśatebhyaścajapayuktoviśiṣyate // ŚivP_1,17.147ab/ japayuktasahasrebhyaḥ śivajñānī viśiṣyate // ŚivP_1,17.147cd/ śivajñāniṣulakṣeṣu dhyānayukto viśiṣyate // ŚivP_1,17.148ab/ dhyānayukteṣu koṭibhyaḥ samādhistho viśiṣyate // ŚivP_1,17.148cd/ uttarottara vai śiṣṭyātpūjāyāmuttarottaram // ŚivP_1,17.149ab/ phalaṃvaiśiṣṭyarūpañcadurvijñeyaṃmanīṣibhiḥ // ŚivP_1,17.149cd/ tasmādvaiśivabhaktasyamahimānaṃvettikonaraḥ // ŚivP_1,17.150ab/ śivaśaktyoḥ pūjanaṃ ca śivabhaktasya pūjanam // ŚivP_1,17.150cd/ kuruteyonarobhaktyāsaśivaḥ śivamedhate // ŚivP_1,17.151ab/ ya imaṃ paṭhate 'dhyāyamarthavadvedasaṃmatam // ŚivP_1,17.151cd/ śivajñānībhavedvipraḥśivena sahamodate // ŚivP_1,17.152ab/ śrāvayecchivabhaktāṃścaviśeṣajño manīśvarāḥ // ŚivP_1,17.152cd/ śivaprasādaśiddhiḥ syācchivasyakṛpayā budhāḥ // ŚivP_1,17.153ab/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptadaśo 'dhyāyaḥ Chapter 18 ṛṣya ūcuḥ baṃdhamokṣasvarūpaṃ hi brūhi sarvārthavittama // ŚivP_1,18.1ab/ sūta uvāca baṃdhamokṣaṃtathopāyaṃvakṣye 'haṃśṛṇutādarāt // ŚivP_1,18.1cd/ prakṛtyādyaṣṭabaṃdhenabaddhojīvaḥ sa ucyate // ŚivP_1,18.2ab/ prakṛtyādyaṣṭabaṃdhenanirmuktomukta ucyate // ŚivP_1,18.2cd/ prakṛtyādivaśīkāromokṣa ityucyatesvataḥ // ŚivP_1,18.3ab/ baddhajīvastunirmuktomuktajīvaḥ sa kathyate // ŚivP_1,18.3cd/ prakṛtyagretatobuddhirahaṃkāroguṇātmakaḥ // ŚivP_1,18.4ab/ pañcatanmātramityeteprakṛtyādyaṣṭakaṃviduḥ // ŚivP_1,18.4cd/ prakṛṭyādyaṣṭajodehodehajaṃkarma ucyate // ŚivP_1,18.5ab/ punaścakarmajodehojanmakarmapunaḥpunaḥ // ŚivP_1,18.5cd/ śarīraṃtrividhaṃjñeyaṃsthūlaṃsūkṣmaṃcakāraṇam // ŚivP_1,18.6ab/ sthūlaṃvyāpāradaṃproktaṃsūkṣmamiṃdriyabhogadam // ŚivP_1,18.6cd/ kāraṇaṃtvātmabhogārthaṃjīvakarmānurūpataḥ // ŚivP_1,18.7ab/ sukhaṃ duḥkhaṃ puṇyapāpaiḥ karmabhiḥ phalamaśnute // ŚivP_1,18.7cd/ tasmāddhikarmarajjvā hi baddho jīvaḥ punaḥ punaḥ // ŚivP_1,18.8ab/ śarīratrayakarmabhyāṃ cakravadbhrāmyate sadā // ŚivP_1,18.8cd/ cakrabhramanivṛtyarthaṃ cakrakartāramīḍayet // ŚivP_1,18.9ab/ prakṛtyādi mahācakraṃ prakṛteḥ parataḥ śivaḥ // ŚivP_1,18.9cd/ cakrakartāmaheśo hi prakṛteḥ paratoyataḥ // ŚivP_1,18.10ab/ pibativāthavamatijīvanbālojalaṃyathā // ŚivP_1,18.10cd/ śivastathā prakṛtyādi vaśīkṛtyādhitiṣṭhati // ŚivP_1,18.11ab/ sarvaṃvaśīkṛtaṃyasmāttasmācchiva iti smṛtaḥ // ŚivP_1,18.11cd/ śiva eva hi sarvajñaḥ paripūrṇaśca niḥspṛhaḥ // ŚivP_1,18.11ef/ sarvajñatātṛptiranādibodhaḥ svataṃtratā nityamaluptaśaktiḥ // ŚivP_1,18.12ab/ anaṃtaśaktiścamaheśvarasya yanmānasaiśvaryamavaiti vedaḥ // ŚivP_1,18.12cd/ ataḥ śivaprasādena prakṛtyādivaśaṃbhavet // ŚivP_1,18.13ab/ śivaprasādalābhārthaṃ śivamevaprapūjayatet // ŚivP_1,18.13cd/ niḥspṛhasya ca pūrṇasyatasya pūjākathaṃ bhavet // ŚivP_1,18.14ab/ śivoddeśakṛtaṃ karma prasādajanakaṃ bhavet // ŚivP_1,18.14cd/ liṃgeberebhaktajaneśivamuddiśyapūjayet // ŚivP_1,18.15ab/ kāyenamanasāvācādhanenāpiprapūjayet // ŚivP_1,18.15cd/ pujayā tu maheśo hi prakṛteḥ paramaḥ śivaḥ // ŚivP_1,18.16ab/ prasādaṃkurutesatyaṃpūjakasyaviśeṣataḥ // ŚivP_1,18.16cd/ śivaprasādātkarmādyaṃkrameṇasvavaśaṃbhavet // ŚivP_1,18.17ab/ karmārabhyaprakṛtyaṃtaṃyadāsarvaṃ vaśaṃbhavet // ŚivP_1,18.17cd/ tadāmukta itiproktaḥsvātmārāmovirājate // ŚivP_1,18.18ab/ prasādātparameśasyakarma dehoyadāvaśaḥ // ŚivP_1,18.18cd/ tadāvaiśivaloketuvāsaḥsālokyamucyate // ŚivP_1,18.19ab/ sāmīpyaṃyātisāṃbasyatanmātrecavaśaṃgate // ŚivP_1,18.19cd/ tadātuśivasāyujyamāyudhādyaiḥ kriyādibhiḥ // ŚivP_1,18.20ab/ mahāprasādalābhecabuddhiścāpivaśābhavet // ŚivP_1,18.20cd/ buddhistukāryaṃprakṛtestatsṛṣṭiritikathyate // ŚivP_1,18.21ab/ punarmahāprasādenaprakṛtirvaśameṣyati // ŚivP_1,18.21cd/ śivasyamānasaiśvaryaṃtadā 'yatnaṃbhaviṣyati // ŚivP_1,18.22ab/ sārvajñādyaṃśivaiśvaryaṃlabdhvāsvātmani rājate // ŚivP_1,18.22cd/ tatsāyujyamitiprāhurvedāgamaparāyaṇāḥ // ŚivP_1,18.23ab/ evaṃkrameṇamuktiḥsyālliṃgādaupūjayāsvataḥ // ŚivP_1,18.23cd/ ataḥśivaprasādārthaṃkriyādyaiḥpūjayecchivam // ŚivP_1,18.24ab/ śivakriyā śivatapaḥ śivamaṃtrajapaḥ sadā // ŚivP_1,18.24cd/ śivajñānaṃśivadhyānamuttarottaramabhyaset // ŚivP_1,18.25ab/ āsupterāmṛteḥkālaṃnayedvaiśivaciṃtayā // ŚivP_1,18.25cd/ sadyādibhiścakusumairarcayecchiṃvameṣyati // ŚivP_1,18. 26ab/ ṛṣaya ūcuḥ liṃgādauśivapūjāyāvidhānaṃbrūhisarvataḥ // ŚivP_1,18.26cd/ sūta uvāca liṃgānāṃcakramaṃvakṣyeyathāvacchṛṇuta dvijāḥ // ŚivP_1,18.27ab/ tadevaliṃgaṃ prathamaṃ praṇavaṃ sārvakāmikam // ŚivP_1,18.27cd/ sūkṣmapraṇavarūpaṃhisūkṣmarūpaṃtuniṣphalam // ŚivP_1,18.28ab/ sthūlaliṃgaṃ hi sakalaṃtatpañcākṣaramucyate // ŚivP_1,18.28cd/ tayoḥ pūjātapaḥ proktaṃsākṣānmokṣaprade ubhe // ŚivP_1,18.29ab/ pauruṣaprakṛtibhūtāniliṃgānisubahūnica // ŚivP_1,18.29cd/ tāni vistaratovaktuṃ śivo vettinacāparaḥ // ŚivP_1,18.30ab/ bhūvikārāṇiliṃgānijñātāniprabravīmivaḥ // ŚivP_1,18.30cd/ svayaṃbhūliṃgaṃprathamaṃbiṃduliṃgaṃdvitīyakam // ŚivP_1,18.31ab/ pratiṣṭhitaṃcaraṃcaivaguruliṃgaṃtu pañcamam // ŚivP_1,18.31cd/ devarṣitapasā tuṣṭaḥ sānnidhyārthaṃtutatravai // ŚivP_1,18.32ab/ pṛthivyantargataḥśarvobījaṃ vai nādarūpataḥ // ŚivP_1,18.32cd/ sthāvarāṃkuravadbhūmimudbhidya vyakta eva saḥ // ŚivP_1,18.33ab/ svayaṃbhūtaṃ jātamiti svayaṃbhūriti taṃ viduḥ // ŚivP_1,18.33cd/ talliṃgapūjayā jñānaṃ svayameva pravardhate // ŚivP_1,18.34ab/ suvarṇarajatādau vā pṛthivyāṃsthiṃḍilepivā // ŚivP_1,18.34cd/ svahastāllikhitaṃ liṃgaṃ śuddhapraṇavamaṃtrakam // ŚivP_1,18.35ab/ yaṃtraliṃgaṃ samālikhya pratiṣṭhāvāhanaṃ caret // ŚivP_1,18.35cd/ biṃdunādamayaṃliṃgaṃsthāvaraṃjaṃgamaṃcayat // ŚivP_1,18.36ab/ bhāvanāmayametaddhi śivadṛṣṭaṃ na saṃśayaḥ // ŚivP_1,18.36cd/ yatra viśvasyate śaṃbhustatra tasmai phalapradaḥ // ŚivP_1,18.37ab/ svahastāllikhyate yaṃtre sthāvarādāvakṛtrime // ŚivP_1,18.37cd/ āvāhyapūjayecchaṃbhuṃṣoḍaśairupacārakaiḥ // ŚivP_1,18.38ab/ svayamaisvaryamāpnotijñānamabhyāsatobhavet // ŚivP_1,18.38cd/ devaiśca ṛṣibhiścāpisvātmasiddhyarthamevahi // ŚivP_1,18.39ab/ samaṃtreṇātmahastenakṛtaṃyacchuddhamaṃḍale // ŚivP_1,18.39cd/ śuddhabhāvanayā caivasthāpitaṃ liṃgamuttamam // ŚivP_1,18.40ab/ talliṃgaṃpauruṣaṃ prāhustatpratiṣṭhitamucyate // ŚivP_1,18.40cd/ talliṃgapūjayānityaṃpauruṣaiśvaryamāpnuyāt // ŚivP_1,18.41ab/ mahadbhirbrāhmaṇaiścāpirājabhiścamahādhanaiḥ // ŚivP_1,18.41cd/ śilpinākalpitaṃliṃgaṃmaṃtreṇasthāpitaṃcayat // ŚivP_1,18.42ab/ pratiṣṭhitaṃprākṛtaṃhiprākṛtaiśvaryabhogadam // ŚivP_1,18.42cd/ yadūrjitaṃcanityaṃ ca taddhi pauruṣamucyate // ŚivP_1,18.43ab/ yaddurbalamanityaṃ ca taddhi prākṛtamucyate // ŚivP_1,18.43cd/ liṃgaṃnābhistathājihvānāsāgrañcaśikhākramāt // ŚivP_1,18.44ab/ kaṭyādiṣutrilokeṣu liṃgamādhyātmikaṃcaram // ŚivP_1,18.44cd/ parvataṃpauruṣaṃ proktaṃbhūtalaṃ prākṛtaṃ viduḥ // ŚivP_1,18.45ab/ vṛkṣādi pauruṣaṃ jñeyaṃ gulmādi prākṛtaṃ viduḥ // ŚivP_1,18.45cd/ ṣāṣṭikaṃ prākṛtaṃ jñeyaṃ śāligodhūmapauruṣam // ŚivP_1,18.46ab/ aiśvaryaṃ pauruṣaṃ vidyādaṇimādyaṣṭasiddhidam // ŚivP_1,18.46cd/ sustrīdhanādiviṣayaṃ prākṛtaṃ prāhurāstikāḥ // ŚivP_1,18.47ab/ prathamaṃ caraliṃgeṣu rasaliṃgaṃ prakathyate // ŚivP_1,18.47cd/ rasaliṃgaṃbrāhmaṇānāṃsarvābhīṣṭapradaṃbhavet // ŚivP_1,18.48ab/ bāṇaliṃgaṃkṣatriyāṇāṃ mahārājyapradaṃśubham // ŚivP_1,18.48cd/ svarṇaliṃgaṃ tu vaiśyānāṃmahādhanapatitvadam // ŚivP_1,18.49ab/ śilāliṃgaṃtuśūdrāṇāṃmahāśuddhikaraṃśubham // ŚivP_1,18.49cd/ sphāṭikaṃbāṇaliṃgaṃ ca sarveṣāṃsarvakāmadam // ŚivP_1,18.50ab/ svīyābhāve 'nyadīyaṃtupūjāyāṃnaniṣiddhyate // ŚivP_1,18.50cd/ strīṇāṃtupārthivaṃliṃgaṃsabhatḥṇāṃviśeṣataḥ // ŚivP_1,18.51ab/ vidhavānāṃpravṛttānāṃsphāṭikaṃ parikīrtitam // ŚivP_1,18.51cd/ vidhavānāṃ nivṛttānāṃ rasaliṃgaṃ viśiṣyate // ŚivP_1,18.52ab/ bālyevāyauvanevāpivārdhakevāpisuvratāḥ // ŚivP_1,18.52cd/ śuddhasphaṭikaliṃgaṃtustrīṇāṃtatsarvabhogadam // ŚivP_1,18.53ab/ pravṛttānāṃpīṭhapūjāsarvābhīṣṭapradā bhuvi // ŚivP_1,18.53cd/ pātreṇaivapravṛttastusarvapūjāṃsamācaret // ŚivP_1,18.54ab/ abhiṣekāṃtenaivedyaṃśālyannenasamācaret // ŚivP_1,18.54cd/ pūjāṃtesthāpayelliṃgaṃsaṃpuṭeṣupṛthaggṛhe // ŚivP_1,18.55ab/ karapūjānivṛttānāṃsvabhojyaṃtunivedayet // ŚivP_1,18.55cd/ nivṛttānāṃparaṃsūkṣmaliṃgamevaviśiṣyate // ŚivP_1,18.56ab/ vibhūtyabhyarcanaṃ kuryādvibhūtiṃcanivedayet // ŚivP_1,18.56cd/ pūjāṃkṛtvāthatalliṃgaṃśirasādhārayetsadā // ŚivP_1,18.57ab/ vibhūtistrividhāproktālokavedaśivāgnibhiḥ // ŚivP_1,18.57cd/ lokāgnijamatho bhasmadravyaśuddhyarthamāvahet // ŚivP_1,18.58ab/ mṛddāruloharūpāṇāṃdhānyānāṃcatathaivaca // ŚivP_1,18.58cd/ tilādīnāṃ ca dravyāṇāṃvastrādīnāṃtathaiva ca // ŚivP_1,18.59ab/ tathāparyuṣitānāṃcabhasmanāśiddhiriṣyate // ŚivP_1,18.59cd/ śvādibhirdūṣitānāṃcabhasmanāśuddhiriṣyate // ŚivP_1,18.60ab/ sajalaṃnirjalaṃbhasma yathāyogyaṃ tu yojayet // ŚivP_1,18.60cd/ vedāgnijaṃtathābhasmatatkarmāṃteṣu dhārayet // ŚivP_1,18.61ab/ maṃtreṇakriyayājanyaṃkarmāgnau bhasmarūpadhṛk // ŚivP_1,18.61cd/ tadbhasmadhāraṇātkarma svātmanyāropitaṃ bhavet // ŚivP_1,18.62ab/ aghoreṇātmaṃtreṇa bilvakāṣṭhaṃpradāhayet // ŚivP_1,18.62cd/ śivāgniritisaṃproktastenadagdhaṃśivāgnijam // ŚivP_1,18.63ab/ kapilāgomayaṃ pūrvaṃ kevalaṃ gavyameva vā // ŚivP_1,18.63cd/ śamyasvatthapalāśānvāvaṭāramvadhabilvakān // ŚivP_1,18.64ab/ śivāgninādahecchuddhaṃtadvaibhasma śivāgnijam // ŚivP_1,18.64cd/ darbhāgnau vādahetkāṣṭhaṃśivamaṃtraṃsamuccaran // ŚivP_1,18.65ab/ samyaksaṃśodhyavastreṇanavakuṃbhenidhāpayet // ŚivP_1,18.65cd/ dīptyarthaṃ tattu saṃgrāhyaṃ manyate pūjyatepi ca // ŚivP_1,18.66ab/ bhasmaśabdārtha evaṃ hi śivaḥpūrvaṃtathā 'karot // ŚivP_1,18.66cd/ yathāsvaviṣayerājāsāraṃgṛhṇātiyatkaram // ŚivP_1,18.67ab/ yathāmanuṣyāḥsasyādīndagdhvāsāraṃbhajaṃtivai // ŚivP_1,18.67cd/ yathāhijāṭharāgniścabhakṣyādīnvividhānbahūn // ŚivP_1,18.68ab/ dagdhvāsārataraṃsārātsvadehaṃparipuṣyati // ŚivP_1,18.68cd/ tathāprapañcakartāpisaśivaḥparameśvaraḥ // ŚivP_1,18.69ab/ svādhiṣṭheyaprapañcasyadagdhvāsāraṃgṛhītavān // ŚivP_1,18.69cd/ dagdhvāprapañcaṃtadbhasmasvātmanyāropayacchivaḥ // ŚivP_1,18.70ab/ uddhūlanenavyājena jagatsāraṃ gṛhītavān // ŚivP_1,18.70cd/ svaratnaṃsthāpayāmāsa svakīyehiśarīrake // ŚivP_1,18.71ab/ keśamākāśasāreṇavāyusāreṇavaimukham // ŚivP_1,18.71cd/ hṛdayaṃcāgnisāreṇatvapāṃsāreṇavaikaṭim // ŚivP_1,18.72ab/ jānucāvanisāreṇatadvatsarvaṃ tadaṃgakam // ŚivP_1,18.72cd/ brahmaviṣṇvoścarudrāṇāṃsāraṃcaivatripuṃḍrakam // ŚivP_1,18.73ab/ tathātilakarūpeṇalalāṭāntemaheśvaraḥ // ŚivP_1,18.73cd/ bhavṛddhyāsarvametaddhimanyatesvayamaityasau // ŚivP_1,18.74ab/ prapañcasārasarvasvamanenaivavaśīkṛtam // ŚivP_1,18.74cd/ tasmādasyavaśīkartānāstītisaśivaḥsmṛtaḥ // ŚivP_1,18.75ab/ yathāsarvamṛgāṇāṃcahiṃsakomṛgahiṃsakaḥ // ŚivP_1,18.75cd/ asyahiṃsāmṛgonāstitatasmātsiṃha itīritaḥ // ŚivP_1,18.76ab/ śaṃ nityaṃsukhamānaṃdamikāraḥ puruṣaḥ smṛtaḥ // ŚivP_1,18.76cd/ vakāraḥ śaktiramṛtaṃmelanaṃśiva ucyate // ŚivP_1,18.77ab/ tasmādevaṃsvamātmānaṃ śivaṃkṛtvārcayecchivam // ŚivP_1,18.77cd/ tasmāduddhūlanaṃpūrvaṃ tripuṃḍraṃdhārayetparam // ŚivP_1,18.78ab/ pūjākālehisajalaṃśuddhyarthaṃnirjalaṃbhavet // ŚivP_1,18.78cd/ divāvā yadivārātraunārīvāthanaropivā // ŚivP_1,18.79ab/ pūjārthaṃsajalaṃbhasmatripuṃḍreṇaivadhārayet // ŚivP_1,18.79cd/ tripuṃḍraṃsajalaṃbhasmadhṛtvāpūjāṃkarotiyaḥ // ŚivP_1,18.80ab/ śivapūjāṃphalaṃsāṃgaṃtasyaivahisuniścitam // ŚivP_1,18.80cd/ bhasmavaiśivamaṃtreṇadhṛtvāhyatyāśramībhavet // ŚivP_1,18.81ab/ śivāśramītisaṃproktaḥ śivaikaparamoyataḥ // ŚivP_1,18.81cd/ śivavrataikaniṣṭhasyanāśaucaṃnacasūtakam // ŚivP_1,18.82ab/ lalāṭe 'gresitaṃbhasmatilakaṃdhārayenmṛdā // ŚivP_1,18.82cd/ svahastādguruhastādvāśivabhaktasyalakṣaṇam // ŚivP_1,18.83ab/ guṇānruṃdha iti proktoguruśabdasyavigrahaḥ // ŚivP_1,18.83cd/ savikārānrājasādīnguṇānruṃdhevyapohati // ŚivP_1,18.84ab/ guṇātītaḥ paraśivogururūpaṃsamāśritaḥ // ŚivP_1,18.84cd/ guṇatrayaṃvyapohyāgreśivaṃbodhayatītisaḥ // ŚivP_1,18.85ab/ viśvastānāṃtuśiṣyāṇāṃgururityabhidhīyate // ŚivP_1,18.85cd/ tasmādguruśarīraṃtuguruliṃgaṃbhavedbudhaḥ // ŚivP_1,18.86ab/ guruliṃgasyapūjātuguruśuśrūṣaṇaṃ bhavet // ŚivP_1,18.86cd/ śrutaṃkarotiśuśrūṣākāyenamanasāgirā // ŚivP_1,18.87ab/ uktaṃ yadguruṇāpūrvaṃ śakyaṃvā 'śakyamevavā // ŚivP_1,18.87cd/ karotyevahipūtātmāprāṇairapidhanairapi // ŚivP_1,18.88ab/ tasmādvaiśāsaneyogyaḥ śiṣya ityabhidhīyate // ŚivP_1,18.88cd/ śarīrādyarthakaṃsarvaṃgurordattvāsuśiṣyakaḥ // ŚivP_1,18.89ab/ agrapākaṃnivedyāgrebhuṃjīyādgurvanujñayā // ŚivP_1,18.89cd/ śiṣyaḥputra iti proktaḥ sadāśiṣyatvayogataḥ // ŚivP_1,18.90ab/ jihvāliṃgānmaṃtraśukraṃkarṇayonauniṣicyavai // ŚivP_1,18.90cd/ jātaḥputromaṃtraputraḥpitaraṃpūjayedgurum // ŚivP_1,18.91ab/ nimajjayatiputraṃvaisaṃsārejanakaḥpitā // ŚivP_1,18.91cd/ saṃtārayatisaṃsārādgururvaibodhakaḥ pitā // ŚivP_1,18.92ab/ ubhayoraṃtaraṃjñātvāpitaraṃgurumarcayet // ŚivP_1,18.92cd/ aṃgaśuśrūṣayācāpi dhanādyaiḥ svārjitairgurum // ŚivP_1,18.93ab/ pādādikeśaparyaṃtaṃliṃgānyaṃgāniyadguroḥ // ŚivP_1,18.93cd/ dhanarūpaiḥ pādukādyaiḥ pādasaṃgraṇādibhiḥ // ŚivP_1,18.94ab/ snānābhiṣekanaivedyairbhojanaiścaprapūjayet // ŚivP_1,18.94cd/ gurupūjaivapūjāsyācchivasyaparamātmanaḥ // ŚivP_1,18.95ab/ guruśeṣaṃtuyatsarvamātmaśuddhikaraṃbhavet // ŚivP_1,18.95cd/ guroḥśeṣaḥśivocchiṣṭaṃjalamannādinirmitam // ŚivP_1,18.96ab/ śiṣyāṇāṃśivabhaktānāṃgrāhyaṃbhojyaṃbhaveddvijāḥ // ŚivP_1,18.96cd/ gurvanujñāvirahitaṃcoravatsakalaṃbhavet // ŚivP_1,18.97ab/ gurorapiviśeṣajñaṃyatnādgṛhṇītavaigurum // ŚivP_1,18.97cd/ ajñānamocanaṃsādhyaṃviśeṣajñohimocakaḥ // ŚivP_1,18.98ab/ ādaucavighnaśamanaṃkartavyaṃkarmapūrtaye // ŚivP_1,18.98cd/ nirvighnenakṛtaṃsāṃgaṃkarmavaisaphalaṃ bhavet // ŚivP_1,18.99ab/ tasmātsakalakarmādauvighneśaṃ pūjayed budhaḥ // ŚivP_1,18.99cd/ sarvabādhānivṛttyarthaṃsarvāndevānyajedbudhaḥ // ŚivP_1,18.100ab/ jvarādigraṃthirogāścabādhāhyādhyātmikāmatā // ŚivP_1,18.100cd/ piśācajaṃbukādīnāṃvalmīkādyudbhavetathā // ŚivP_1,18.101ab/ akasmādevagodhādijaṃtūnāṃpatanepica // ŚivP_1,18.101cd/ gṛhekacchapasarpastrīdurjanādarśanepica // ŚivP_1,18.102ab/ vṛkṣanārīgavādīnāṃprasūtiviṣayepica // ŚivP_1,18.102cd/ bhāviduḥkhaṃsamāyātitasmāttebhautikāmatā // ŚivP_1,18.103ab/ amedhyā śanipātaścamahāmārītathaivaca // ŚivP_1,18.103cd/ jvaramārīviṣūciścagomārīcamasūrikā // ŚivP_1,18.104ab/ janmarkṣagrahasaṃkrāṃtigrahayogāsvarāśike // ŚivP_1,18.104cd/ duḥsvapnadarśanādyāścamatāvaihyadhidaivikāḥ // ŚivP_1,18.105ab/ śavacāṃḍālapatitasparśādyeṃtargṛhegate // ŚivP_1,18.105cd/ etādṛśesamutpannebhāviduḥkhasyasūcake // ŚivP_1,18.106ab/ śāṃtiyajñaṃtumatimānkuryāttaddoṣaśāṃtaye // ŚivP_1,18.106cd/ devālaye 'thagoṣṭhevācaityevāpigṛhāṃgaṇe // ŚivP_1,18.107ab/ prādeśonnatadhiṣṇyevaidvihasteyasvalaṃkṛte // ŚivP_1,18.107cd/ bhāramātravrīhidhānyaṃprasthāpyaparisṛtyaca // ŚivP_1,18.108ab/ madhyevilikhyakamalaṃtathādikṣuvilikhyavai // ŚivP_1,18.108cd/ taṃtunāveṣṭitaṃkuṃbhaṃ navagugguladhūpitam // ŚivP_1,18.109ab/ madhyesthāpyamahākuṃbhaṃtathādikṣvapivinyaset // ŚivP_1,18.109cd/ sanālāmrakakūrcādīnkalaśāṃśca tathāṣṭasu // ŚivP_1,18.110ab/ pūrayenmaṃtrapūtenapañcadravyayutenahi // ŚivP_1,18.110cd/ prakṣipennavaratnāninīlādīnkramaśastathā // ŚivP_1,18.111ab/ karmajñaṃcasapatnīkamācāryaṃvarayedbudhaḥ // ŚivP_1,18.111cd/ suvarṇapratimāṃ viṣṇoriṃdrādīnāṃca nikṣipet // ŚivP_1,18.112ab/ saśiraskemadhyakuṃbheviṣṇumābāhyapūjayet // ŚivP_1,18.112cd/ prāgādiṣuyathāmaṃtramiṃdrādīnkramaśoyajet // ŚivP_1,18.113ab/ tattannāmnācaturthyāṃcanamonte nayathākramam // ŚivP_1,18.113cd/ āvāhanādikaṃsarvamācāryeṇaivakārayet // ŚivP_1,18.114ab/ ācārya ṛtvijā sārdhaṃ tanmātrānprajapecchatam // ŚivP_1,18.114cd/ kuṃbhasya paścime bhāgejapāṃtehomamācaret // ŚivP_1,18.115ab/ koṭiṃlakṣaṃsahasraṃvāśatamaṣṭottaraṃ budhāḥ // ŚivP_1,18.115cd/ ekāhaṃvānavāhaṃvātathāmaṃḍalameva vā // ŚivP_1,18.116ab/ yathāyogyaṃprakurvītakāladeśānusārataḥ // ŚivP_1,18.116cd/ śamīhomaśca śāṃtyarthe vṛttyarthecapalāśakam // ŚivP_1,18.117ab/ samidannājyakairdravyairnāmnāmaṃtreṇa vā hunet // ŚivP_1,18.117cd/ prāraṃbheyatkṛtaṃdravyaṃtatkriyāṃtaṃsamācaret // ŚivP_1,18.118ab/ puṇyāhaṃvācayitvāṃte dinesaṃprokṣyayejjalaiḥ // ŚivP_1,18.118cd/ brāhmaṇānbhojayetpaścādyāvadāhutisaṃkhyayā // ŚivP_1,18.119ab/ ācāryaścahaviṣyāśītvijaścabhavedbudhāḥ // ŚivP_1,18.119cd/ ādityādīngrahāniṣṭvāsarvahomāṃta evahi // ŚivP_1,18.120ab/ ṛtvibhyodakṣiṇāṃdadyānnavaratnaṃyathā kramam // ŚivP_1,18.120cd/ daśadānaṃtataḥkuryādbhūridānaṃtataḥ param // ŚivP_1,18.121ab/ bālānāmupanītānāṃgṛhiṇāṃvanināṃdhanam // ŚivP_1,18.121cd/ kanyānāṃcasabhartḥṇāṃvidhavānāṃtataḥparam // ŚivP_1,18.122ab/ taṃtropakaraṇaṃsarvamācāryāyanivedayet // ŚivP_1,18.122cd/ utpātānāṃcamārīṇāṃduḥkhasvāmīyamaḥsmṛtaḥ // ŚivP_1,18.123ab/ tasmādyamasyaprītyarthaṃkāladānaṃpradāpayet // ŚivP_1,18.123cd/ śataniṣkeṇa vā kuryāddaśaniṣkeṇa vā punaḥ // ŚivP_1,18.124ab/ pāśāṃkuśadharaṃ kālaṃ kuryātpuruṣarūpiṇam // ŚivP_1,18.124cd/ tatsvarṇapratimādānaṃkuryāddakṣiṇayāsaha // ŚivP_1,18.125ab/ tiladānaṃtataḥkuryātpūrṇāyuṣyaprasiddhaye // ŚivP_1,18.125cd/ ājyāvekṣaṇadānaṃcakuryādvyādhinivṛttaye // ŚivP_1,18.126ab/ sahasraṃbhojayedviprāndaridraḥśatamevavā // ŚivP_1,18.126cd/ vittābhāvedaridrastuyathāśaktisamācaret // ŚivP_1,18.127ab/ bhairavasyamahāpūjāṃkuryādbhūtādiśāṃtaye // ŚivP_1,18.127cd/ mahābhiṣekaṃnaivedyaṃśivasyāntetukārayet // ŚivP_1,18.128ab/ brāhmaṇānbhojayetpaścādbhūribhojanarūpataḥ // ŚivP_1,18.128cd/ evaṃkṛtenayajñenadoṣaśāṃtimavāpnuyāt // ŚivP_1,18.129ab/ śāṃtiyajñamimaṃkuryādvarṣevarṣetuphālgune // ŚivP_1,18.129cd/ durdarśanādau sadyo vai māsamātresamācaret // ŚivP_1,18.130ab/ mahāpāpādisaṃprāptau kuryādbhairavapūjanam // ŚivP_1,18.130cd/ mahāvyādhisamutpattausaṃkalpaṃpunarācaret // ŚivP_1,18.131ab/ sarvabhāve daridrastu dīpadānamathācaret // ŚivP_1,18.131cd/ tadapyaśaktaḥ snātvāvaiyatkiṃciddānamācaret // ŚivP_1,18.132ab/ divākaraṃnamaskuryānmantreṇāṣṭottaraṃśatam // ŚivP_1,18.132cd/ sahasramayutaṃlakṣaṃkoṭiṃvākārayed budhaḥ // ŚivP_1,18.133ab/ namaskārātmayajñena tuṣṭāḥ syuḥ sarvadevatāḥ // ŚivP_1,18.133cd/ tvatsvarūperpitābuddhirnate 'śūnye ca rocati // ŚivP_1,18.134ab/ yā cāstyasmadahaṃteti tvayidṛṣṭe vivarjitā // ŚivP_1,18.134cd/ namro 'haṃhisvadehenabhomahāṃstvamasiprabho // ŚivP_1,18.135ab/ naśūnyomatsvarūpovaitavadāso 'smisāṃpratam // ŚivP_1,18.135cd/ yathāyogyaṃsvātmayajñaṃnamaskāraṃprakalpayet // ŚivP_1,18.136ab/ athātraśivanaivedyaṃdattvātāṃbūlamāharet // ŚivP_1,18.136cd/ śivapradakṣiṇaṃkuryātsvayamaṣṭottaraṃ śatam // ŚivP_1,18.137ab/ sahasramayutaṃlakṣaṃ koṭimanyena kārayet // ŚivP_1,18.137cd/ śivapradakṣiṇātsarvaṃpātakaṃnaśyatikṣaṇāt // ŚivP_1,18.138ab/ duḥkhasyamūlaṃvyādhirhivyādhermūlaṃhipātakam // ŚivP_1,18.138cd/ dharmeṇaivahipāpānāmapanodanamīritam // ŚivP_1,18.139ab/ śivoddeśakṛtodharmaḥkṣamaḥpāpavinodane // ŚivP_1,18.139cd/ adhyakṣaṃ śivadharmeṣu pradakṣiṇamitīritam // ŚivP_1,18.140ab/ kriyayā japarūpaṃhipraṇavaṃtupradakṣiṇam // ŚivP_1,18.140cd/ jananaṃmaraṇaṃdvaṃdvaṃmāyācakramitīritam // ŚivP_1,18.141ab/ śivasyamāyācakraṃhibalipīṭhaṃtaducyate // ŚivP_1,18.141cd/ balipīṭhaṃsamārabhyaprādakṣiṇyakrameṇavai // ŚivP_1,18.142ab/ padepadāṃtaraṃgatvābalipīṭhaṃ samāviśet // ŚivP_1,18.142cd/ namaskāraṃtataḥ kuryātpradakṣiṇamitīritam // ŚivP_1,18.143ab/ nirgamājjananaṃprāptaṃnamastvātmasamarpaṇam // ŚivP_1,18.143cd/ jananaṃ maraṇaṃ dvaṃdvaṃ śivamāyāsamarpitam // ŚivP_1,18.144ab/ śivamāyārpitadvaṃdvo na punastvātmabhāgbhavet // ŚivP_1,18.144cd/ yāvaddehaṃkriyādhīnaḥsajīvobaddha ucyate // ŚivP_1,18.145ab/ dehatrayavaśīkāremokṣa ityucyate budhaiḥ // ŚivP_1,18.145cd/ māyācakrapraṇetāhiśivaḥ paramakāraṇam // ŚivP_1,18.146ab/ śivamāyārpitadvaṃdvaṃśivastuparimārjati // ŚivP_1,18.146cd/ śivenakalpitaṃdvaṃdvaṃtasminneva samarpayet // ŚivP_1,18.147ab/ śivasyātipriyaṃvidyātpradakṣiṇaṃnamobudhāḥ // ŚivP_1,18.147cd/ pradakṣiṇanamaskārāḥ śivasyaparamātmanaḥ // ŚivP_1,18.148ab/ ṣoḍaśairupacāraiścakṛtapūjāphalapradā // ŚivP_1,18.148cd/ pradakṣiṇā 'vināśyaṃhi pātakaṃnāsti bhūtale // ŚivP_1,18.149ab/ tasmātpradakṣiṇenaivasarvapāpaṃvināśayet // ŚivP_1,18.149cd/ śivapūjāparomaunīsatyādiguṇasaṃyutaḥ // ŚivP_1,18.150ab/ kriyātapojapajñānadhyāneṣvekaikamācaret // ŚivP_1,18.150cd/ aiśvaryaṃdivyadehaścajñānamajñānasaṃśayaḥ // ŚivP_1,18.151ab/ śivasānnidhyamityetekriyādīnāṃphalaṃbhavet // ŚivP_1,18.151cd/ karaṇenaphalaṃyātitamasaḥ parihāpanāt // ŚivP_1,18.152ab/ janmanaḥparimārjitvājjñabuddhyājanitānica // ŚivP_1,18.152cd/ yathādeśaṃ yathākālaṃ yathādehaṃ yathādhanam // ŚivP_1,18.153ab/ yathāyogyaṃprakurvīta kriyādīñchivabhaktimān // ŚivP_1,18.153cd/ nyāyārjitasuvittenavasetprājñaḥ śivasthale // ŚivP_1,18.154ab/ jīvahiṃsādirahitamatikleśavivarjitam // ŚivP_1,18.154cd/ pañcākṣareṇajaptaṃcatoyamannaṃviduḥ sukham // ŚivP_1,18.155ab/ athavā 'hurdaridrasyabhikṣānnaṃjñānadaṃbhavet // ŚivP_1,18.155cd/ śivabhaktasyabhikṣānnaṃśivabhaktivivardhanam // ŚivP_1,18.156ab/ śaṃbhusatramitiprāhurbhikṣānnaṃśivayoginaḥ // ŚivP_1,18.156cd/ yenakenāpyupāyenayatrakutrāpibhūtale // ŚivP_1,18.157ab/ śuddhānnabhuksadāmaunīrahasyaṃ na prakāśayet // ŚivP_1,18.157cd/ prakāśayettubhaktānāṃśivamāhātmyamevahi // ŚivP_1,18.158ab/ rahasyaṃśivamaṃtrasyaśivojānātināparaḥ // ŚivP_1,18.158cd/ śivabhaktovasennityaṃśivaliṃgaṃsamāśritaḥ // ŚivP_1,18.159ab/ sthāṇuliṃgāśrayeṇaivasthāṇurbhavatibhūsurāḥ // ŚivP_1,18.159cd/ pūjayācaraliṃgasyakramānmuktobhaveddhruvam // ŚivP_1,18.160ab/ sarvamuktaṃsamāsenasādhyasādhanamuttamam // ŚivP_1,18.160cd/ vyāsenayatpurāproktaṃyacchrutaṃhimayāpurā // ŚivP_1,18.161ab/ bhadramastuhivo 'smākaṃ śivabhaktirdṛḍhā 'stusā // ŚivP_1,18.161cd/ ya imaṃpaṭhate 'dhyāyaṃ yaḥ śṛṇoti naraḥ sadā // ŚivP_1,18.162ab/ śivajñānaṃsalabhateśivasyakṛpayābudhāḥ // ŚivP_1,18.162cd/ iti śrīśaive mahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe śivaliṃgamahimāvarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ Chapter 19 ṛṣaya ūcuḥ sūtasūtaciraṃjīvadhanyastvaṃśivabhaktimān // ŚivP_1,19.1ab/ samyaguktastvayāliṃgamahimāsatphalapradaḥ // ŚivP_1,19.1cd/ yatrapārthivamāheśaliṃgasyamahimādhunā // ŚivP_1,19.2ab/ sarvotkṛṣṭaścakathitovyāsatobrūhitaṃpunaḥ // ŚivP_1,19.2cd/ sūta uvāca śṛṇudhvamṛṣayaḥ sarve sadbhaktyā harato khilāḥ // ŚivP_1,19.3ab/ śivapārthivaliṃgasyamahimāprocyatemayā // ŚivP_1,19.3cd/ ukteṣveteṣu liṃgeṣu pārthivaṃ liṃgamuttamam // ŚivP_1,19.4ab/ tasyapūjanatoviprābahavaḥ siddhimāgatāḥ // ŚivP_1,19.4cd/ harirbrahmā ca ṛṣayaḥ saprajāpatayastathā // ŚivP_1,19.5ab/ saṃpūjya pārthivaṃliṃgaṃprāpuḥsarvepsitaṃdvijāḥ // ŚivP_1,19.5cd/ devāsuramanuṣyāścagaṃdharvoragarākṣasāḥ // ŚivP_1,19.6ab/ anyepibahavastaṃsaṃpūjyasiddhiṃgatāḥparam // ŚivP_1,19.6cd/ kṛteratnamayaṃliṃgaṃtretāyāṃhemasaṃbhavam // ŚivP_1,19.7ab/ dvāparepāradaṃśreṣṭhaṃpārthivaṃtukalauyuge // ŚivP_1,19.7cd/ aṣṭamūrtiṣusarvāsumūrtirvaipārthivīvarāḥ // ŚivP_1,19.8ab/ ananyapūjitāviprāstapastasmānmahatphalam // ŚivP_1,19.8cd/ yathāsarveṣudeveṣujyeṣṭhaḥśreṣṭhomaheśvaraḥ // ŚivP_1,19.9ab/ evaṃsarveṣu liṃgeṣupārthivaṃśreṣṭamucyate // ŚivP_1,19.9cd/ yathānadīṣusarvāsujyeṣṭhāśreṣṭhāsurāpagā // ŚivP_1,19.10ab/ tathāsarveṣuliṃgeṣupārthivaṃśreṣṭhamucyate // ŚivP_1,19.10cd/ yathāsarveṣumaṃtreṣupraṇavo hi mahānsmṛtaḥ // ŚivP_1,19.11ab/ tathedaṃpārthivaṃśreṣṭhamārādhyaṃpūjyamevahi // ŚivP_1,19.11cd/ yathāsarveṣuvarṇeṣubrāhmaṇaḥśreṣṭha ucyate // ŚivP_1,19.12ab/ tathāsarveṣuliṃgeṣupārthivaṃ śreṣṭhamucyate // ŚivP_1,19.12cd/ yathāpurīṣusarvāsukāśīśreṣṭhatamāsmṛtā // ŚivP_1,19.13ab/ tathāsarveṣuliṃgeṣupārthivaṃśreṣṭhamucyate // ŚivP_1,19.13cd/ yathāvrateṣusarveṣuśivarātrivrataṃparam // ŚivP_1,19.14ab/ tathāsarveṣuliṃgeṣupārthivaṃśreṣthamucyate // ŚivP_1,19.14cd/ yathādevīṣusarvāsuśaivīśaktiḥ parāsmṛtā // ŚivP_1,19.15ab/ tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate // ŚivP_1,19.15cd/ prakṛtyapārthivaṃliṃgaṃyonyadevaṃprapūjayet // ŚivP_1,19.16ab/ vṛthā bhavati sā pūjā snānadānādikaṃvṛthā // ŚivP_1,19.16cd/ pārthivārādhanaṃpuṇyaṃdhanyamāyurvivardhanam // ŚivP_1,19.17ab/ tuṣṭidaṃpuṣṭidaṃśrīdaṃkāryaṃsādhakasattamaiḥ // ŚivP_1,19.17cd/ yathālabdhopacāraiścabhaktyā śraddhāsamanvitaḥ // ŚivP_1,19.18ab/ pūjayetpārthivaṃ liṃgaṃ sarvakāmārthasiddhidam // ŚivP_1,19.18cd/ yaḥkṛtvāpārthivaṃliṃgepūjayecchubhavedikam // ŚivP_1,19.19ab/ ihaivadhanavāñchrīmānaṃterudrobhijāyate // ŚivP_1,19.19cd/ trisaṃdhyaṃyorcayaṃlliṃgaṃkṛtvābilvenapārthivam // ŚivP_1,19.20ab/ daśaikādaśakaṃyāvattasyapuṇyaphalaṃśṛṇu // ŚivP_1,19.20cd/ anenaiva svadehena rudralokemahīyate // ŚivP_1,19.21ab/ pāpahaṃ sarvamartyānāṃ darśanātsparśanādapi // ŚivP_1,19.21cd/ jīvanmuktaḥ savaijñānīśiva eva na saṃśayaḥ // ŚivP_1,19.22ab/ tasyadarśanamātreṇabhuktirmuktiśca jāyate // ŚivP_1,19.22cd/ śivaṃ yaḥ pūjayennityaṃ kṛtvāliṃgaṃ tu pārthivam // ŚivP_1,19.23ab/ yāvajjīvanaparyaṃtaṃ sa yāti śivamandiram // ŚivP_1,19.23cd/ mṛḍenāpramitānvarṣāñchivalokehi tiṣṭhati // ŚivP_1,19.24ab/ sakāmaḥ punarāgatya rājendrobhāratebhavet // ŚivP_1,19.24cd/ niṣkāmaḥ pūjayennityaṃ pārthivaṃliṃgamuttamam // ŚivP_1,19.25ab/ śivaloke sadā tiṣṭhettataḥ sāyujyamāpnuyāt // ŚivP_1,19.25cd/ pārthivaṃ śivaliṃgaṃ ca vipro yadi na pūjayet // ŚivP_1,19.26ab/ sayātinarakaṃghoraṃśūlaprotaṃ sudāruṇam // ŚivP_1,19.26cd/ yathākathaṃcidvidhināramyaṃ liṃgaṃ prakārayet // ŚivP_1,19.27ab/ pañcasūtravidhānāṃ ca pārthivena vicārayet // ŚivP_1,19.27cd/ akhaṇḍaṃtaddhikartavyaṃnavikhaṇḍaṃprakārayet // ŚivP_1,19.28ab/ dvikhaṇḍaṃtuprakurvāṇonaivapūjāphalaṃlabhet // ŚivP_1,19.28cd/ ratnajaṃ hemajaṃ liṃgaṃ pāradaṃ sphāṭikaṃ tathā // ŚivP_1,19.29ab/ pārthivaṃ puṣparāgotthamakhaṃḍaṃ tu prakārayet // ŚivP_1,19.29cd/ akhaṃḍaṃ tu caraṃ liṃgaṃdvikhaṃḍamacaraṃ smṛtam // ŚivP_1,19.30ab/ khaṃḍākhaṃḍavicāroyaṃ sacarācarayoḥ smṛtaḥ // ŚivP_1,19.30cd/ vedikātumahāvidyāliṃgaṃdevo maheśvaraḥ // ŚivP_1,19.31ab/ ato hi sthāvareliṃge smṛtāśreṣṭhādikhaṃḍitā // ŚivP_1,19.31cd/ dvikhaṃḍaṃsthāvaraṃliṃgaṃkartavyaṃhividhānataḥ // ŚivP_1,19.32ab/ akhaṃḍaṃjaṃgamaṃproktaṃśaivasiddhāntavedibhiḥ // ŚivP_1,19.32cd/ dvikhaṃḍaṃtucarāṃliṃgaṃkurvantyajñānamohitāḥ // ŚivP_1,19.33ab/ naivasiddhāntavettāro munayaḥ śāstrakovidāḥ // ŚivP_1,19.33cd/ akhaṃḍaṃsthāvaraṃliṃgaṃdvikhaṃḍaṃcaramevaca // ŚivP_1,19.34ab/ yekurvantinarāmūḍhānapūjāphalabhāginaḥ // ŚivP_1,19.34cd/ tasmācchāstroktavidhinā akhaṃḍaṃcarasaṃjñakam // ŚivP_1,19.35ab/ dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ parayā mudā // ŚivP_1,19.35cd/ akhaṃḍe tu care pūjāsampūrṇaphaladāyinī // ŚivP_1,19.36ab/ dvikhaṃḍe tu care pūjāmahāhānipradā smṛtā // ŚivP_1,19.36cd/ akhaṃḍe sthāvare pūjā na kāmaphaladāyinī // ŚivP_1,19.37ab/ pratyavāyakarīnityamityuktaṃśāstravedibhiḥ // ŚivP_1,19.37cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe pārthivaśivaliṃgapūjanamāhātmyavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ Chapter 20 sūta uvāca atha vaidikabhaktānāṃ pārthivārcāṃ nigadyate // ŚivP_1,20.1ab/ vaidikenaivamārgeṇabhuktimuktipradāyinī // ŚivP_1,20.1cd/ sūtroktavidhināsnātvāsaṃdhyāṃ kṛtvā yathāvidhi // ŚivP_1,20.2ab/ brahmayajñaṃvidhāyādautatastarpaṇamācaret // ŚivP_1,20.2cd/ naityikaṃ sakalaṃkāmaṃ vidhāyānaṃtaraṃpumān // ŚivP_1,20. 3ab/ śivasmaraṇapūrvaṃ hi bhasmarudrākṣadhārakaḥ // ŚivP_1,20.3cd/ vedoktāvidhinā samyaksaṃpūrṇaphalasiddhaye // ŚivP_1,20.4ab/ pūjayetparayābhaktyāpārthivaṃliṃgamuttamam // ŚivP_1,20.4cd/ nadītīre taḍāge ca parvatekānane 'pica // ŚivP_1,20.5ab/ śivālaye śucau deśe pārthivārcā vidhīyate // ŚivP_1,20.5cd/ śuddhapradeśasaṃbhūtāṃ mṛdamāhṛtya yatnataḥ // ŚivP_1,20.6ab/ śivaliṃgaṃ prakalpeta sāvadhānatayā dvijāḥ // ŚivP_1,20.6cd/ vipre gaurā smṛtā śoṇā bāhuje pītavarṇakā // ŚivP_1,20.7ab/ vaiśyekṛṣṇā pādajāte hyathavā yatra yā bhavet // ŚivP_1,20.7cd/ saṃgṛhyamṛttikāṃliṃganirmāṇārthaṃprayatnataḥ // ŚivP_1,20.8ab/ atīvaśubhadeśecasthāpayettāṃmṛdaṃśubhām // ŚivP_1,20.8cd/ saṃśodhyacajalenāpipiṃḍīkṛtya śanaiḥ śanaiḥ // ŚivP_1,20.9ab/ vidhīyetaśubhaṃliṃgaṃpārthivaṃvedamārgataḥ // ŚivP_1,20.9cd/ tataḥ saṃpūjayedbhaktyābhuktimuktiphalāptaye // ŚivP_1,20.10ab/ tatprakāramahaṃvacmiśṛṇudhvaṃsaṃvidhānataḥ // ŚivP_1,20.10cd/ namaḥ śivāyamaṃtreṇārcanaṃdravyaṃcaprokṣayet // ŚivP_1,20.11ab/ bhūrasīticamaṃtreṇakṣetrasiddhiṃprakārayet // ŚivP_1,20.11cd/ āposmānitimaṃtreṇajalasaṃskāramācaret // ŚivP_1,20.12ab/ namaste rudramaṃtreṇa phāṭikābaṃdhamucyate // ŚivP_1,20.12cd/ śaṃbhavāyetimaṃtreṇakṣetraśuddhiṃ prakārayet // ŚivP_1,20.13ab/ namaḥ pūrveṇa kuryātpañcāmṛtasyāpi prokṣaṇam // ŚivP_1,20.13cd/ nīlagrīvāyamaṃtreṇanamaḥpūrveṇabhaktimān // ŚivP_1,20.14ab/ carecchaṃkaraliṃgasyapratiṣṭhāpanamuttamam // ŚivP_1,20.14cd/ bhaktitastata etatterudrāyeti ca maṃtrataḥ // ŚivP_1,20.15ab/ āsanaṃ ramaṇīyaṃ vaidadyādvaidikamārgakṛt // ŚivP_1,20.15cd/ mānomahantamiticamaṃtreṇāvāhanaṃcaret // ŚivP_1,20.16ab/ yāterudreṇamaṃtreṇasaṃcaredupaveśanam // ŚivP_1,20.16cd/ maṃtreṇayāmiṣumiti nyāsaṃkuryācchivasyaca // ŚivP_1,20.17ab/ adhyavocaditi premṇādhivāsaṃmanunācaret // ŚivP_1,20.17cd/ manunāsaujīva itidevatānyāsamācaret // ŚivP_1,20.18ab/ asauyovasarpatīti cācaredapasarpaṇam // ŚivP_1,20.18cd/ namostu nīlagrīvāyeti pādyaṃ manunāharet // ŚivP_1,20. 19ab/ arghyaṃ ca rudragāyatryā 'camanaṃ tryaṃbakeṇa ca // ŚivP_1,20.19cd/ payaḥpṛthivyāmiti ca payasāsnānamācaret // ŚivP_1,20.20ab/ dadhikrāvṇetimaṃtreṇadadhisnānaṃ ca kārayet // ŚivP_1,20.20cd/ ghṛṭaṃsnānekhalughṛtaṃghṛtaṃyāvetimaṃtrataḥ // ŚivP_1,20. 21ab/ madhuvātāmadhunaktaṃmadhumānna iti tryṛcā // ŚivP_1,20. 21cd/ madhukhaṃḍasnapanaṃproktamitipañcāmṛtaṃ smṛtam // ŚivP_1,20.22ab/ athavā pādyamaṃtreṇa snānaṃpañcāmṛtena ca // ŚivP_1,20.22cd/ mānastoke iti premṇā maṃtreṇa kaṭibaṃdhanam // ŚivP_1,20.23ab/ namo dhṛṣṇave iti vā uttarīyaṃ ca dhāpayet // ŚivP_1,20.23cd/ yā te hetiriti premṇā ṛkcatuṣkeṇa vaidikaḥ // ŚivP_1,20.24ab/ śivāya vidhinā bhaktaścaredvastrasamarpaṇam // ŚivP_1,20.24cd/ namaḥ śvabhya iti premṇā gaṃdhaṃ dadyādṛcā sudhīḥ // ŚivP_1,20.25ab/ namastakṣabhya iti cākṣatānmaṃtreṇa cārpayet // ŚivP_1,20. 25cd/ namaḥ pāryāya iti vā puṣpa maṃtreṇa cārpayet // ŚivP_1,20.26ab/ namaḥ parṇyāya iti vā bilbapatrasamarpaṇam // ŚivP_1,20.26cd/ namaḥkapardineceti dhūpaṃ dadyādyathāvidhi // ŚivP_1,20.27ab/ dīpaṃ dadyādyathoktaṃ tu nama āśava ityṛcā // ŚivP_1,20.27cd/ namojyeṣṭhāyamaṃtreṇa dadyānnaivedyamuttamam // ŚivP_1,20.28ab/ manunātryambakamitipunarācamanaṃsmṛtam // ŚivP_1,20.28cd/ imā rudrāyeti ṛcā kuryātphalasamarpaṇam // ŚivP_1,20.29ab/ namo vrajyāyeti ṛcā sakalaṃ śaṃbhaverpayet // ŚivP_1,20.29cd/ mano mahāṃtamiti ca mānastoke iti tataḥ // ŚivP_1,20.30ab/ maṃtredvayenaikadaśākṣatai rudrānprapūjayet // ŚivP_1,20.30cd/ hiraṇyagarbha iti tryṛcādakṣiṇāṃhisamarpayet // ŚivP_1,20.31ab/ devasyatvetimaṃtreṇahyabhiṣekaṃcaredbudhaḥ // ŚivP_1,20.31cd/ dīpamaṃtreṇavāśaṃbhornīrājanavidhiṃcaret // ŚivP_1,20.32ab/ puṣpāṃjaliṃcaredbhaktyā imā rudrāyacatryṛcā // ŚivP_1,20.32cd/ mānomahāntamiti ca caretprājñaḥ pradakṣiṇām // ŚivP_1,20.33ab/ mānastoketi maṃtreṇa sāṣṭāṅgaṃpraṇametsudhīḥ // ŚivP_1,20.33cd/ eṣate itimaṃtreṇaśivamudrāṃpradarśayet // ŚivP_1,20. 34ab/ yatoyata ityabhayāṃjñānākhyāṃ tryaṃbakeṇa ca // ŚivP_1,20.34cd/ namaḥseneti maṃtreṇamahāmudrāṃpradarśayet // ŚivP_1,20.35ab/ darśayeddhenumudrāṃcanamogebhya ṛcānayā // ŚivP_1,20.35cd/ pañcamudrāḥpradarśyātha śivamaṃtrajapaṃ caret // ŚivP_1,20.36ab/ śatarudriyamaṃtreṇa japedvedavicakṣaṇaḥ // ŚivP_1,20.36cd/ tataḥ pañcāṅgapāṭhaṃcakuryādvedavicakṣaṇaḥ // ŚivP_1,20.37ab/ devāgātvitimaṃtreṇakuryācchaṃbhorvisarjanam // ŚivP_1,20.37cd/ ityuktaḥ śivapūjāyāvyāsatovaidikovidhiḥ // ŚivP_1,20.38ab/ samāsataścaśṛṇutavaidikaṃvidhimuttamam // ŚivP_1,20.38cd/ ṛcāsadyojātamitimṛdāharaṇamācaret // ŚivP_1,20.39ab/ vāmadevāya iti ca jalaprakṣepamācaret // ŚivP_1,20.39cd/ aghoreṇa ca maṃtreṇaliṃganirmāṇamācaret // ŚivP_1,20.40ab/ tatpuruṣāyamaṃtreṇāhvānaṃ kuryādyathāvidhi // ŚivP_1,20.40cd/ saṃyojayedvedikāyāmīśānamanunāharam // ŚivP_1,20.41ab/ anyatsarvaṃ vidhānaṃcakuryātsaṃkṣepataḥ sudhīḥ // ŚivP_1,20.41cd/ pañcākṣareṇamaṃtreṇagurudattenavātathā // ŚivP_1,20.42ab/ kuryātpūjāṃ ṣoḍaśopacāreṇa vidhivatsudhīḥ // ŚivP_1,20.42cd/ bhavāyabhavanāśāyamahādevāyadhīmahi // ŚivP_1,20.43ab/ ugrāya ugranāśāya śarvāya śaśimauline // ŚivP_1,20.43cd/ anena manunā vāpi pūjayecchaṃkaraṃsudhīḥ // ŚivP_1,20.44ab/ subhaktyā cabhramaṃtyaktvābhaktyaivaphaladaḥ śivaḥ // ŚivP_1,20.44cd/ ityapi proktamādṛtya vaidikakramapūjanam // ŚivP_1,20.45ab/ procyatenyavidhiḥ samyaksādhāraṇatayādvijaḥ // ŚivP_1,20.45cd/ pūjāpārthivaliṃgasyasaṃproktāśivanāmabhiḥ // ŚivP_1,20.46ab/ tāṃ śṛṇudhvaṃ muniśreṣṭhāḥ sarvakāmapradāyinīm // ŚivP_1,20. 46cd/ haromaheśvaraḥ śaṃbhuḥśūlapāṇiḥ pinākadhṛk // ŚivP_1,20.47ab/ śivaḥ paśupatiścaivamahādeva iti kramāt // ŚivP_1,20.47cd/ mṛdāharaṇasaṃghaṭṭapratiṣṭhāhvānamevaca // ŚivP_1,20.48ab/ snapanaṃpūjanaṃcaivakṣamasvetivisarjanam // ŚivP_1,20.48cd/ aṃkārādicaturthyaṃtairnamontairnāmabhiḥ kramāt // ŚivP_1,20.49ab/ kartavyācakriyāsarvābhaktyāparamayāmudā // ŚivP_1,20.49cd/ kṛtvā nyāsavidhiṃsamyakṣaḍaṅgakarayostathā // ŚivP_1,20.50ab/ ṣaḍakṣareṇamaṃtreṇatatodhyānaṃsamācaret // ŚivP_1,20.50cd/ kailāsapīṭhāsanamadhyasaṃsthaṃ bhaktaiḥ sanaṃdādibhirarcyamānam // ŚivP_1,20.51ab/ bhaktartidāvānalamaprameyaṃdhyāyedumāliṃgitaviśvabhūṣaṇam // ŚivP_1,20.51cd/ dhyāyennityaṃmaheśaṃrajatagirinibhaṃcārucaṃdrāvataṃsaṃratnākalpojjvalāṃgaṃparaśumṛgavarābhītihastaṃprasannam // ŚivP_1,20.52ab/ padmāsīnaṃsamaṃtātsthitamamaragaṇairvyāghrakṛttiṃvasānaṃviśvādyaṃviśvabījaṃnikhilabhayaharaṃpañcavaktraṃtrinetram // ŚivP_1,20.52cd/ itidhyātvācasaṃpūjyapārthivaṃliṃgamuttamam // ŚivP_1,20.53ab/ japetpañcākṣaraṃmaṃtraṃgurudattaṃyathāvidhi // ŚivP_1,20.53cd/ stutibhiścaivadeveśaṃstuvītapraṇamansudhīḥ // ŚivP_1,20.54ab/ nānābhidhābhirviprendrāḥ paṭhedvaiśatarudriyam // ŚivP_1,20.54cd/ tataḥ sākṣatapuṣpāṇigṛhītvāṃjalināmudā // ŚivP_1,20.55ab/ prārthayecchaṃkaraṃbhaktyāmaṃtrairebhiḥsubhaktitaḥ // ŚivP_1,20.55cd/ tāvakastvadguṇaprāṇastvaccittohaṃsadāmṛḍa // ŚivP_1,20.56ab/ kṛpānidha itijñātvābhūtanāthaprasīdame // ŚivP_1,20.56cd/ ajñānādyadivājñānājjapa pūjādikaṃ mayā // ŚivP_1,20.57ab/ kṛtaṃ tadastusaphalaṃkṛpayātavaśaṃkara // ŚivP_1,20.57cd/ ahaṃpāpīmahānadyapāvanaścabhavānmahān // ŚivP_1,20.58ab/ itivijñāyagaurīśayadicchasitathākuru // ŚivP_1,20.58cd/ vedaiḥ purāṇaiḥ siddhāntairṛṣibhirvividhairapi // ŚivP_1,20.59ab/ najñātosimahādevakutohaṃtvaṃmahāśiva // ŚivP_1,20.59cd/ yathā tathā tvadīyosmi sarvabhāvairmaheśvara // ŚivP_1,20.60ab/ rakṣaṇīyastvayāhaṃ vai prasīda parameśvara // ŚivP_1,20.60cd/ ityevaṃ cākṣatānpuṣpānāropya ca śivopari // ŚivP_1,20.61ab/ praṇamedbhaktitaśśaṃbhuṃ sāṣṭāṃgaṃ vidhivanmune // ŚivP_1,20.61cd/ tataḥ pradakṣiṇāṃ kuryādyathoktavidhinā sudhīḥ // ŚivP_1,20.62ab/ punaḥ stuvīta deveśaṃ stutibhiḥ śraddhayānvitaḥ // ŚivP_1,20.62cd/ tato galaravaṃkṛtvā praṇamecchucinamradhīḥ // ŚivP_1,20.63ab/ kuryādvijñaptimādṛtya visarjanamathācaret // ŚivP_1,20.63cd/ ityuktā muniśārdūlāḥ pārthivārcā vidhānataḥ // ŚivP_1,20.64ab/ bhuktidāmuktidācaivaśivabhaktivivardhinī // ŚivP_1,20.64cd/ ityadhyāyaṃsucittenayaḥpaṭhecchṛṇuyādapi // ŚivP_1,20.65ab/ sarvapāpaviśuddhātmāsarvānkāmānavāpnuyāt // ŚivP_1,20.65cd/ āyurāyogyadaṃcaivayaśasyaṃsvargyamevaca // ŚivP_1,20.66ab/ putrapautrādisukhadamākhyānamidamuttamam // ŚivP_1,20.66cd/ iti śrīśivamahāpurāṇe pra- vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivaśivaliṃgapūjāvidhivarṇanaṃ nāma viṃśo 'dhyāyaḥ Chapter 21 ṛṣaya ūcuḥ sūtasūtamahābhāgavyāsaśiṣyanamostute // ŚivP_1,21. 1ab/ samyaguktaṃtvayātātapārthivārcāvidhānakam // ŚivP_1,21.1cd/ kāmanābhedamāśrityasaṃkhyāṃbrūhividhānataḥ // ŚivP_1,21.2ab/ śivapārthivaliṃgānāṃ kṛpayādīnavatsala // ŚivP_1,21.2cd/ sūta uvāca śṛṇudhvamṛṣayaḥ sarvepārthivārcāvidhānakam // ŚivP_1,21.3ab/ yasyānuṣṭhānamātreṇakṛtakṛtyobhavennaraḥ // ŚivP_1,21.3cd/ akṛtvā pārthivaṃ liṃgaṃ yonyadevaṃprapūjayet // ŚivP_1,21.4ab/ vṛthābhavatisāpūjādamadānādikaṃvṛthā // ŚivP_1,21.4cd/ saṃkhyāpārthivaliṃgānāṃyathākāmaṃnigadyate // ŚivP_1,21.5ab/ saṃkhyāsadyomuniśreṣṭhaniścayenaphalapradā // ŚivP_1,21.5cd/ prathamāvāhanaṃtatrapratiṣṭhāpūjanaṃpṛthak // ŚivP_1,21.6ab/ liṃgākāraṃsamaṃtatrasarvaṃjñeyaṃpṛthakpṛthak // ŚivP_1,21.6cd/ vidyārthīpuruṣaḥprītyāsahasramitapārthivam // ŚivP_1,21.7ab/ pūjayecchivaliṃgaṃhiniścayāttatphalapradam // ŚivP_1,21.7cd/ naraḥpārthivaliṃgānāṃdhanārthīcatadardhakam // ŚivP_1,21.8ab/ putrārthīsārdhasāhasraṃvastrārthīśatapañcakram // ŚivP_1,21.8cd/ mokṣārthīkoṭiguṇitaṃbhūkāmaścasahasrakam // ŚivP_1,21.9ab/ dayārthīcatrisāhasraṃtīrthārthīdvisahasrakam // ŚivP_1,21.9cd/ suhṛtkāmītrisāhasraṃvaśyārthīśatamaṣṭakam // ŚivP_1,21.10ab/ māraṇārthīsaptaśataṃmohanārthīśatāṣṭakam // ŚivP_1,21.10cd/ uccāṭanaparaścaivasahasraṃcayathoktataḥ // ŚivP_1,21.11ab/ staṃbhanārthīsahasraṃtudveṣaṇārthī tadardhakam // ŚivP_1,21.11cd/ nigaḍānmuktikāmastusahasraṃsardhamuttamam // ŚivP_1,21.12ab/ mahārājabhayepañcaśataṃjñeyaṃvicakṣaṇaiḥ // ŚivP_1,21.12cd/ caurādisaṃkaṭejñeyaṃpārthivānāṃśatadvayam // ŚivP_1,21.13ab/ ḍākinyādibhayepañcaśatamuktaṃjapārthivam // ŚivP_1,21.13cd/ dāridryepañcasāhasramayutaṃsarvakāmadam // ŚivP_1,21.14ab/ athanityavidhiṃvakṣyeśṛṇudhvaṃmunisattamāḥ // ŚivP_1,21.14cd/ ekaṃpāpaharaṃproktaṃdviliṃgaṃcārthasiddhidam // ŚivP_1,21.15ab/ triliṃgaṃsarvakāmānāṃkāraṇaṃparamīritam // ŚivP_1,21.15cd/ uttarottaramevaṃsyātpūrvoktagaṇānāvidhi // ŚivP_1,21.16ab/ matāṃtaramathovakṣyesaṃkhyāyāṃmunibhedataḥ // ŚivP_1,21.16cd/ liṃgānāmayutaṃkṛtvāpārthivānāṃsubuddhimān // ŚivP_1,21.17ab/ nirbhayohibhavennūnaṃmahārājabhayaṃharet // ŚivP_1,21.17cd/ kārāgṛhādimuktyarthamayutaṃkārayedbudhaḥ // ŚivP_1,21.18ab/ ḍākinyādibhayesaptasahasraṃkārayettathā // ŚivP_1,21.18cd/ sahasrāṇipañcapañcāśadaputraḥprakārayet // ŚivP_1,21.19ab/ liṃgānāmayutenaivakanyakāsaṃtatiṃlabhet // ŚivP_1,21.19cd/ liṃgānāmayutenaivaviṣṇvādaiśvaryamāpnuyāt // ŚivP_1,21.20ab/ liṃgānāṃprayutenaivahyatulāṃśriyamāpnuyāt // ŚivP_1,21.20cd/ koṭimekāṃtuliṃgānāṃ yaḥ karotinarobhuvi // ŚivP_1,21.21ab/ śiva evabhavetsopinātrakāryā vicāraṇā // ŚivP_1,21.21cd/ arcā pārthivaliṃgānāṃ koṭiyajñaphalapradā // ŚivP_1,21.22ab/ bhuktidāmuktidānityaṃtataḥkāmarthināṃnṛṇām // ŚivP_1,21.22cd/ vināliṃgārcanaṃ yasya kālogacchati nityaśaḥ // ŚivP_1,21.23ab/ mahāhānirbhavettasyadurvṛttasyadurātmanaḥ // ŚivP_1,21.23cd/ ekataḥ sarvadānāni vratāni vividhāni ca // ŚivP_1,21.24ab/ tīrthāniniyamāyajñāliṃgārcācaikataḥ smṛtā // ŚivP_1,21.24cd/ kalauliṃgārcanaṃśreṣṭhaṃtathālokepradṛśyate // ŚivP_1,21.25ab/ tathānāstīti śāstrāṇāmeṣa siddhāntaniścayaḥ // ŚivP_1,21.25cd/ bhuktimuktipradaṃliṃgaṃ vividhāpannivāraṇam // ŚivP_1,21.26ab/ pūjayitvānaronityaṃ śivasāyujyamāpnuyāt // ŚivP_1,21.26cd/ śivānāmamayaṃ liṃgaṃnityaṃ pūjyaṃ maharṣibhiḥ // ŚivP_1,21.27ab/ yataśca sarvaliṃgeṣu tasmātpūjyaṃvidhānataḥ // ŚivP_1,21.27cd/ uttamaṃ madhyamaṃ nīcaṃ trividhaṃ liṃgamīritam // ŚivP_1,21.28ab/ mānato muniśārdūlāstacchṛṇudhvaṃ vadāmyaham // ŚivP_1,21.28cd/ caturaṃgulamucchrāyaṃramyaṃvedikayāyutam // ŚivP_1,21.29ab/ uttamaṃliṃgamākhyātaṃmunibhiḥśāstrakovidaiḥ // ŚivP_1,21.29cd/ tadardhaṃmadhyamaṃproktaṃtadardhamaghamaṃsmṛtam // ŚivP_1,21.30ab/ itthaṃtrividhamākhyātamuttarottarataḥparam // ŚivP_1,21.30cd/ anekaliṃgaṃyonityaṃbhaktiśraddhāsamanvitaḥ // ŚivP_1,21.31ab/ pūjayetsalabhetkāmānmanasā mānasepsitān // ŚivP_1,21.31cd/ naliṃgārādhanādanyatpuṇyaṃvedacatuṣṭaye // ŚivP_1,21.32ab/ vidyatesarvaśāstrāṇāmeṣa evaviniścayaḥ // ŚivP_1,21.32cd/ sarvametatparityajyakarmajālamaśeṣataḥ // ŚivP_1,21.33ab/ bhaktyāparamayā vidvāṃlliṃgamekaṃprapūjayet // ŚivP_1,21.33cd/ liṃgercitercitaṃsarvaṃjagatsthāvarajaṃgamam // ŚivP_1,21.34ab/ saṃsārāṃbudhimagnānāṃnānyattāraṇasādhanam // ŚivP_1,21.34cd/ ajñānatimirāṃdhānāṃviṣayāsaktacetasām // ŚivP_1,21.35ab/ plavonānyostijagatiliṃgārādhanamaṃtarā // ŚivP_1,21.35cd/ haribrahmādayodevāmunayoyakṣarākṣasāḥ // ŚivP_1,21.36ab/ gaṃdharvāścaraṇāssiddhādaiteyādānavāstathā // ŚivP_1,21.36cd/ nāgāḥśeṣaprabhṛtayogaruḍādyāḥkhagāstathā // ŚivP_1,21.37ab/ saprajāpatayaścānyemanavaḥkinnarānarāḥ // ŚivP_1,21.37cd/ pūjayitvāmahābhaktyāliṃgaṃsarvārthasiddhidam // ŚivP_1,21.38ab/ prāptāḥkāmānabhīṣṭāṃścatāṃstānsarvānhṛdisthitān // ŚivP_1,21.38cd/ brāhmaṇaḥkṣatriyovaiśyaḥśūdrovāpratilomajaḥ // ŚivP_1,21.39ab/ pūjayetsatataṃliṃgaṃtattanmaṃtreṇasādaram // ŚivP_1,21.39cd/ kiṃbahūktenamunayaḥstrīṇāmapitathānyataḥ // ŚivP_1,21.40ab/ adhikārostisarveṣāṃśivaliṃgārcanedvijāḥ // ŚivP_1,21.40cd/ dvijānāṃvaidikenāpimārgeṇārādhanaṃvaram // ŚivP_1,21.41ab/ anyeṣāmapijaṃtūnāṃvaidikenanasaṃmatam // ŚivP_1,21.41cd/ vaidikānāṃdvijānāṃcapūjāvaidikamārgataḥ // ŚivP_1,21.42ab/ kartavyānānyamārgeṇa ityāhabhagavāñchivaḥ // ŚivP_1,21.42cd/ dadhīca gautamādīnāṃśāpenādagdhacetasām // ŚivP_1,21.43ab/ dvijānāṃ jāyateśraddhānaiva vaidikakarmaṇi // ŚivP_1,21.43cd/ yovaidikamanādṛtyakarmasmārtamathāpivā // ŚivP_1,21.44ab/ anyatsamācarenmartyonasaṃkalpaphalaṃlabhet // ŚivP_1,21.44cd/ itthaṃkṛtvārcanaṃśaṃbhornaivedyāṃtaṃvidhānataḥ // ŚivP_1,21.45ab/ pūjayedaṣṭamūrtīścatatraivatrijaganmayīḥ // ŚivP_1,21.45cd/ kṣitirāponalovāyurākāśaḥ sūryasomakau // ŚivP_1,21.46ab/ yajamāna iti tvaṣṭaumūrtayaḥparikīrtitāḥ // ŚivP_1,21.46cd/ śarvobhavaśca rudraśca ugrobhīma itīśvaraḥ // ŚivP_1,21.47ab/ mahādevaḥ paśupatiretānmūrtibhirarcayet // ŚivP_1,21.47cd/ pūjayetparivāraṃ catataḥśaṃbhoḥsubhaktitaḥ // ŚivP_1,21.48ab/ īśānādikramāttatracaṃdanākṣatapatrakaiḥ // ŚivP_1,21.48cd/ īśānaṃnandinaṃcaṃḍaṃmahākālaṃcabhṛṃgiṇam // ŚivP_1,21.49ab/ vṛṣaṃskaṃdaṃkapardīśaṃsomaṃśukraṃcatatkramāt // ŚivP_1,21.49cd/ agratovīrabhadraṃ ca pṛṣṭhekīrtimukhaṃ tathā // ŚivP_1,21.50ab/ tata ekādaśānnudrānpūjayedvidhinātataḥ // ŚivP_1,21.50cd/ tataḥpañcākṣaraṃ japtvā śatarudriyameva ca // ŚivP_1,21.51ab/ stutīrnānāvidhāḥ kṛtvā pañcāṃgapaṭhanaṃ tathā // ŚivP_1,21.51cd/ tataḥ pradakṣiṇāṃ kṛtvā natvā liṃgaṃ visarjayet // ŚivP_1,21.52ab/ itiproktamaśeṣaṃ ca śivapūjanamādarāt // ŚivP_1,21.52cd/ rātrāvudaṅmukhaḥ kuryāddevakāryaṃsadaivahi // ŚivP_1,21.53ab/ śivārcanaṃ sadāpyevaṃśuciḥ kuryādudaṅmukhaḥ // ŚivP_1,21.53cd/ na prācīmagrataḥ śaṃbhornodīcīṃ śaktisaṃhitān // ŚivP_1,21.54ab/ napratīcīṃyataḥ pṛṣṭhamatogrāhyaṃ samāśrayet // ŚivP_1,21.54cd/ vinābhasmatripuṃḍreṇa vinā rudrākṣamālayā // ŚivP_1,21.55ab/ bilvapatraṃ vinā naiva pūjayecchaṃkaraṃ budhaḥ // ŚivP_1,21.55cd/ bhasmāprāptaumuniśreṣṭhāḥ pravṛtte śivapūjane // ŚivP_1,21.56ab/ tasmānmṛdāpi kartavyaṃ lalāṭe ca tripuṇḍrakam // ŚivP_1,21.56cd/ iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivapūjanavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ Chapter 22 ṛṣya ūcuḥ agrāhyaṃ śivanaivedyamiti pūrvaṃ śrutaṃ vacaḥ // ŚivP_1,22.1ab/ brūhi tannirṇayaṃ bilvamāhātmyamapi sanmune // ŚivP_1,22.1cd/ sūta uvāca śṛṇudhvaṃmunayaḥsarvesāvadhānatayādhunā // ŚivP_1,22. 2ab/ sarvaṃvadāmisaṃprītyā dhanyā yūyaṃ śivavratāḥ // ŚivP_1,22.2cd/ śivabhaktaḥ śuciḥ śuddhaḥ sadvratīdṛḍhaniścayaḥ // ŚivP_1,22.3ab/ bhakṣayecchivanaivedyaṃtyajedagrāhyabhāvanām // ŚivP_1,22.3cd/ dṛṣṭvāpi śivanaivedye yāṃti pāpāni dūrataḥ // ŚivP_1,22.4ab/ bhaktetuśivanaivedyepuṇyānyā yāṃtikoṭiśaḥ // ŚivP_1,22.4cd/ alaṃ yāgasahasreṇāpyalaṃ yāgārbudairapi // ŚivP_1,22.5ab/ bhakṣite śivanaivedye śivasāyujyamāpnuyāt // ŚivP_1,22.5cd/ yadgṛheśivanaivedyapracāropiprajāyate // ŚivP_1,22.6ab/ tadgṛhaṃpāvanaṃsarvamanyapāvanakāraṇam // ŚivP_1,22.6cd/ āgataṃ śivanaivedyaṃ gṛhītvā śirasāmudā // ŚivP_1,22.7ab/ bhakṣaṇīyaṃprayatne na śivasmaraṇapūrvakam // ŚivP_1,22.7cd/ āgataṃ śivanaivedyamanyadā grāhyamityapi // ŚivP_1,22.8ab/ vilaṃbepāpasaṃbaṃdhobhavatyeva hi mānave // ŚivP_1,22.8cd/ na yasya śivanaivedyagrahaṇecchāprajāyate // ŚivP_1,22.9ab/ sapāpiṣṭhogariṣṭhaḥsyānnarakaṃyātyapidhruvam // ŚivP_1,22.9cd/ hṛdaye candrakānte ca svarṇarūpyādinirmite // ŚivP_1,22.10ab/ śivadīkṣāvatābhaktenedaṃbhakṣyamitīryate // ŚivP_1,22.10cd/ śivadīkṣānvitobhakto mahāprasādasaṃjñakam // ŚivP_1,22.11ab/ sarveṣāmapi liṃgānāṃ naivedyaṃ bhakṣayecchubham // ŚivP_1,22.11cd/ anyadīkṣāyujāṃnḥṇāṃśivabhaktiratātmanām // ŚivP_1,22.12ab/ śṛṇudhvaṃnirṇayaṃprītyāśivanaivedyabhakṣaṇe // ŚivP_1,22.12cd/ śālagrāmodbhave liṃge rasaliṃgetathā dvijāḥ // ŚivP_1,22.13ab/ pāṣāṇe rājatesvarṇesurasiddhapratiṣṭhite // ŚivP_1,22.13cd/ kāśmīre sphāṭikerātne jyotirliṃgeṣu sarvaśaḥ // ŚivP_1,22.14ab/ cāndrāyaṇasamaṃ proktaṃ śaṃbhornaivedyabhakṣaṇam // ŚivP_1,22.14cd/ brahmahāpi śucirbhūtvā nirmālyaṃyastudhārayet // ŚivP_1,22.15ab/ bhakṣayitvādrutaṃtasyasarvapāpaṃ praṇaśyati // ŚivP_1,22.15cd/ caṃḍādhikāroyatrāstitadbhāktavyaṃnamānavaiḥ // ŚivP_1,22.16ab/ caṃḍādhikāronoyatrabhoktavyaṃtaccabhaktitaḥ // ŚivP_1,22.16cd/ bāṇaliṃgecalauhecasiddheliṃgesvayaṃbhuvi // ŚivP_1,22.17ab/ pratimāsucasarvāsunacaṃḍodhikṛtobhavet // ŚivP_1,22.17cd/ snāpayitvāvidhānenayoliṃgasnāpanodakam // ŚivP_1,22.18ab/ triḥpibettrividhaṃpāpaṃtasyehāśu vinaśyati // ŚivP_1,22.18cd/ agrāhyaṃśivanaivedyaṃ patraṃpuṣpaṃphalaṃjalam // ŚivP_1,22.19ab/ śālagrāmaśilāsaṃgātsarvaṃ yāti pavitritām // ŚivP_1,22.19cd/ loṃgopari ca yaddravyaṃtadagrāhyaṃ munīśvarāḥ // ŚivP_1,22.20ab/ supavitraṃ ca tajjñeyaṃ yalliṃgasparśabāhyataḥ // ŚivP_1,22.20cd/ naivedyanirṇayaḥprokta itthaṃvomunisattamāḥ // ŚivP_1,22.21ab/ śṛṇudhvaṃ bilvamāhātmyaṃ sāvadhānatayā 'darāt // ŚivP_1,22.21cd/ mahādevasvarūpoyaṃ bilvodevairapistutiḥ // ŚivP_1,22.22ab/ yathākathaṃcidetasyamahimājñāyatekatham // ŚivP_1,22.22cd/ puṇyatīrthāniyāvaṃtilokeṣuprathitānyapi // ŚivP_1,22.23ab/ tānisarvāṇitīrthānibilvamūlevasaṃtihi // ŚivP_1,22.23cd/ bilvamūle mahādevaṃ liṃgarūpiṇamavyayam // ŚivP_1,22.24ab/ yaḥ pūjayati puṇyātmā sa śivaṃ prāpnuyāddhruvam // ŚivP_1,22.24cd/ bilvamūle jalairyastu mūrdhānamabhiṣiṃcati // ŚivP_1,22.25ab/ sa sarvatīrthasnātaḥsyātsa eva bhuvi pāvanaḥ // ŚivP_1,22.25cd/ etasyabilvamūlasyāthālavālamanuttamam // ŚivP_1,22.26ab/ jalākulaṃmahādevodṛṣṭvātuṣṭobhavatyalam // ŚivP_1,22.26cd/ pūjayedvilvamūlaṃ yo gaṃdhapuṣpādibhirnaraḥ // ŚivP_1,22.27ab/ śivalokamavāpnotisaṃtatirvardhate sukham // ŚivP_1,22.27cd/ bilvamūle dīpamālāṃyaḥ kalpayati sādaram // ŚivP_1,22.28ab/ satattvajñānasaṃpannomaheśāṃtargatobhavet // ŚivP_1,22.28cd/ bilvaśākhāṃ samādāya hastena navapallavam // ŚivP_1,22.29ab/ gṛhītvāpūjayedbilvaṃsacapāpaiḥ pramucyate // ŚivP_1,22.29cd/ bilvamūle śivarataṃ bhojayedyastu bhaktitaḥ // ŚivP_1,22.30ab/ ekaṃvākoṭiguṇitaṃtasyapuṇyaṃprajāyate // ŚivP_1,22.30cd/ bilvamūle kṣīramuktamannamājyena saṃyutam // ŚivP_1,22.31ab/ yo dadyācchivabhaktāya sa daridro na jāyate // ŚivP_1,22.31cd/ sāṃgopāṃgamiti proktaṃ śivaliṃgaprapūjanam // ŚivP_1,22.32ab/ pravṛttānāṃ nivṛttānāṃ bhedato dvividhaṃ dvijāḥ // ŚivP_1,22.32cd/ pravṛttānāṃ pīṭhapūjāṃ sarvapūjāṃ samācaret // ŚivP_1,22.33ab/ abhiṣekānte naivedyaṃ śālyannena samācaret // ŚivP_1,22.34ab/ pūjānte sthāpayelliṃgaṃ puṭe śuddhe pṛthaggṛhe // ŚivP_1,22.34cd/ karapūjānivṛttānāṃ svabhojyaṃ tu nivedayet // ŚivP_1,22.35ab/ nivṛttānāṃ paraṃsūkṣmaṃ liṃgameva viśiṣyate // ŚivP_1,22.35cd/ vibhūtyabhyarcanaṃ kuryādvibhūtiṃ ca nivedayet // ŚivP_1,22.36ab/ pūjāṃ kṛtvā tathā liṃgaṃśirasādhārayetsadā // ŚivP_1,22.36cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe śivanaivedyavarṇanonāmadvāviṃśo 'dhyāyaḥ Chapter 23 ṛṣaya ūcuḥ sūtasūtamahābhāgavyāsaśiṣyanamostute // ŚivP_1,23.1ab/ tadevavyāsatobrūhibhasmamāhātmyamuttamam // ŚivP_1,23.1cd/ tathā rudrākṣamāhātmyaṃ nāma māhātmyamuttamam // ŚivP_1,23.2ab/ tritayaṃ brūhisuprītyāmamānaṃdayacetasam // ŚivP_1,23.2cd/ sūta uvāca sādhupṛṣṭaṃbhavadbhiścalokānāṃhitakārakam // ŚivP_1,23.3ab/ bhavaṃtovaimahādhanyāḥ pavitrāḥ kulabhūṣaṇāḥ // ŚivP_1,23.3cd/ yeṣāṃcaivaśivaḥsākṣāddaivataṃparamaṃśubham // ŚivP_1,23.4ab/ sadāśivakathālokevallabhābhavatāṃ sadā // ŚivP_1,23.4cd/ tedhanyāścakṛtārthāścasaphalaṃdehadhāraṇam // ŚivP_1,23.5ab/ uddhṛtañcakulaṃteṣāṃyeśivaṃsamupāsate // ŚivP_1,23.5cd/ mukheyasyaśivanāmasadāśivaśivetica // ŚivP_1,23.6ab/ pāpāninaspṛśaṃtyevakhadirāṃgāraṃkayathā // ŚivP_1,23.6cd/ śrīśivāyanamastubhyaṃmukhaṃvyāharateyadā // ŚivP_1,23.7ab/ tanmukhaṃpāvanaṃtīrthaṃsarvapāpavināśanam // ŚivP_1,23.7cd/ tanmukhañcatathāyovaipaśyatiprītimānnaraḥ // ŚivP_1,23.8ab/ tīrthajanyaṃphalaṃtasyabhavatītisuniścitam // ŚivP_1,23.8cd/ yatratrayaṃsadātiṣṭhedetacchubhataraṃdvijā // ŚivP_1,23.9ab/ tasyadarśanamātreṇaveṇīsnānaphalaṃlabhet // ŚivP_1,23.9cd/ śivanāmavibhūtiścatathārudrākṣa eva ca // ŚivP_1,23.10ab/ etattrayaṃmahāpuṇyaṃtriveṇīsadṛśaṃsmṛtam // ŚivP_1,23.10cd/ etattrayaṃśarīrecayasyatiṣṭhatinityaśaḥ // ŚivP_1,23.11ab/ tasyaivadarśanaṃlokedurlabhaṃpāpahārakam // ŚivP_1,23.11cd/ taddarśanaṃyathāveṇīnobhayoraṃtaraṃmanāk // ŚivP_1,23.12ab/ evaṃyonavijānātisapāpiṣṭhonasaṃśayaḥ // ŚivP_1,23.12cd/ vibhūtiryasyanobhālenāṃgerudrākṣadhāraṇam // ŚivP_1,23.13ab/ nāsye śivamayīvāṇītaṃtyajedadhamaṃyathā // ŚivP_1,23.13cd/ śaivaṃnāmayathāgaṃgāvibhūtiryamunāmatā // ŚivP_1,23.14ab/ rudrākṣaṃ vidhijāproktāsarvapāpāvināśinī // ŚivP_1,23.14cd/ śarīrecatrayaṃyasyatatphalaṃcaikataḥsthitam // ŚivP_1,23.15ab/ ekatoveṇikāyāścasnānajaṃtuphalaṃbudhaiḥ // ŚivP_1,23.15cd/ tadevaṃtulitaṃpūrvaṃbrahmaṇāhitakāriṇā // ŚivP_1,23.16ab/ samānaṃ caivatajjātaṃtasmāddhāryaṃsadābudhaiḥ // ŚivP_1,23.16cd/ taddinaṃhisamārabhyabrahmaviṣṇvādibhiḥsaraiḥ // ŚivP_1,23.17ab/ dhāryate tritayaṃtaccadarśanātpāpahārakam // ŚivP_1,23.17cd/ ṛṣya ūcuḥ īdṛśaṃhiphalaṃproktaṃnāmāditritayodbhavam // ŚivP_1,23.18ab/ tanmāhātmyaṃviśeṣeṇavaktumarhasisuvrata // ŚivP_1,23.18cd/ sūta uvāca ṛṣayohimahāprājñāḥ sacchaivājñānināṃmarāḥ // ŚivP_1,23.19ab/ tanmāhātmyaṃhisadbhaktyāśṛṇutādaratodvijāḥ // ŚivP_1,23.19cd/ sugūḍhamapi śāstreṣupurāṇeśrutiṣvapi // ŚivP_1,23.20ab/ bhavatsnehānmayā viprāḥprakāśaḥ kriyate 'dhunā // ŚivP_1,23.20cd/ kastattritayamāhātmyaṃsaṃjānātidvijottamāḥ // ŚivP_1,23.21ab/ maheśvaraṃvināsarvaṃbrahmāṇḍesadasatparam // ŚivP_1,23.21cd/ vacmyahaṃnāmamāhātmyaṃyathābhaktisamāsataḥ // ŚivP_1,23.22ab/ śṛṇutaprītitoviprāḥ sarvapāpaharaṃparam // ŚivP_1,23.22cd/ śivetināmadāvāgnermahāpātakaparvatāḥ // ŚivP_1,23.23ab/ bhasmībhavaṃtyanāyāsātsatyaṃsatyaṃnasaṃśayaḥ // ŚivP_1,23.23cd/ pāpamūlāni duḥkhānivividhānyapiśaunaka // ŚivP_1,23.24ab/ śivanāmaikanaśyāninānyanaśyānisarvathā // ŚivP_1,23.24cd/ savaidikaḥ sapuṇyātmāsadhanyassabudhomataḥ // ŚivP_1,23.25ab/ śivanāmajapāsaktoyonityaṃbhuvimānava // ŚivP_1,23.25cd/ bhavaṃtivividhādharmāsteṣāṃsadyaḥphalonmukhāḥ // ŚivP_1,23.26ab/ yeṣāṃbhavativiśvāsaḥśivanāmajapemune // ŚivP_1,23.26cd/ pātakānivinaśyaṃtiyāvaṃtiśivanāmataḥ // ŚivP_1,23.27ab/ bhuvitāvaṃtipāpānikriyaṃtenanarairmune // ŚivP_1,23.27cd/ brahmahatyādipāpānāṃrāśīnapramitānmune // ŚivP_1,23.28ab/ śivanāmadrutaṃproktaṃnāśayatyakhilānnaraiḥ // ŚivP_1,23.28cd/ śivanāmatarīṃprāpyasaṃsārābdhiṃtaraṃtiye // ŚivP_1,23.29ab/ saṃsāramūlapāpānitāninaśyaṃtyasaṃśayam // ŚivP_1,23.29cd/ saṃsāramūlabhūtānāṃpātakānāṃmahāmune // ŚivP_1,23.30ab/ śivanāmakuṭhāreṇavināśojāyatedhruvam // ŚivP_1,23.30cd/ śivanāmāmṛtaṃpeyaṃpāpadāvānalārditaiḥ // ŚivP_1,23.31ab/ pāpadāvāgnitaptānāṃśāṃtistenavinānahi // ŚivP_1,23.31cd/ śivetināmapīyūṣavarṣavarṣadhārāpariplutāḥ // ŚivP_1,23.32ab/ saṃsāradavamadhyepinaśocaṃtikadācana // ŚivP_1,23.32cd/ śivanāmnimahadbhaktirjātāyeṣāṃmahātmanām // ŚivP_1,23.33ab/ tadvidhānāṃtusahasāmuktirbhavatisarvathā // ŚivP_1,23.33cd/ anekajanmabhiryenatapastaptaṃmunīśvara // ŚivP_1,23.34ab/ śivanāmnibhavedbhaktiḥsarvapāpāpahāriṇī // ŚivP_1,23.34cd/ yasyā sādhāraṇaṃ śaṃbhunāmnibhaktirakhaṃḍitā // ŚivP_1,23.35ab/ tasyaivamokṣaḥ sulabhonānyasyetimatirmama // ŚivP_1,23.35cd/ kṛtvāpyanekapāpāniśivanāmajapādaraḥ // ŚivP_1,23.36ab/ sarvapāpavinirmuktobhavatyevanasaṃśayaḥ // ŚivP_1,23.36cd/ bhavaṃtibhasmasādvṛkṣādavadagdhāyathāvane // ŚivP_1,23.37ab/ tathātāvaṃtidagdhānipāpāniśivanāmataḥ // ŚivP_1,23.37cd/ yonityaṃbhasmapūtāṃgaḥ śivanāmajapādaraḥ // ŚivP_1,23.38ab/ saṃtaratyevasaṃsāraṃsaghoramapiśaunaka // ŚivP_1,23.38cd/ brahmasvaharaṇaṃkṛtvāhatvāpibrāhmaṇānbahūn // ŚivP_1,23.39ab/ nalipyatenaraḥ pāpaiḥśivanāmajapādaraḥ // ŚivP_1,23.39cd/ vilokyavedānakhilāñchivanāmajapaḥparam // ŚivP_1,23.40ab/ saṃsāratāraṇopāya itipūrvairviniścitaḥ // ŚivP_1,23.40cd/ kiṃbahūktyāmuniśreṣṭhāḥ ślokenaikenavacmyaham // ŚivP_1,23.41ab/ śivanāmnomahimānaṃsarvapāpāpahāriṇam // ŚivP_1,23.41cd/ pāpānāṃharaṇeśaṃbhornāmaḥ śaktirhipāvanī // ŚivP_1,23.42ab/ śaknotipātakaṃtāvatkartuṃnāpinaraḥ kvacit // ŚivP_1,23.42cd/ śivanāmaprabhāveṇalebhesadgatimuttamām // ŚivP_1,23.43ab/ indradyumnanṛpaḥpūrvaṃmahāpāpaḥ purāmune // ŚivP_1,23.43cd/ tathākāciddvijāyoṣāsaumunebahupāpinī // ŚivP_1,23.44ab/ śivanāmaprabhāveṇalebhesadgatimuttamām // ŚivP_1,23.44cd/ ityuktaṃvodvijaśreṣṭhānāmamāhātmyamuttamam // ŚivP_1,23.45ab/ śṛṇudhvaṃbhasmamāhātmyaṃsarvapāvanapāvanam // ŚivP_1,23.45cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍeśivanamamāhātmyavarṇanonāmatrayoviṃśo 'dhyāyaḥ Chapter 24 sūta uvāca dvividhaṃbhasmasaṃproktaṃsarvamaṃgaladaṃparam // ŚivP_1,24.1ab/ tatprakāramahaṃvakṣyesāvadhānatayāśṛṇu // ŚivP_1,24.1cd/ ekaṃjñeyaṃ mahābhasmadvitīyaṃsvalpasaṃjñakam // ŚivP_1,24.2ab/ mahābhasma itiproktaṃbhasmanānāvidhaṃparam // ŚivP_1,24.2cd/ tadbhasmatrividhaṃproktaṃśrotaṃsmārtaṃcalaukikam // ŚivP_1,24.3ab/ bhasmaiva svalpasajñāhibahudhāparikīrtitam // ŚivP_1,24.3cd/ śrautaṃbhasmatathāsmārtaṃdvijānāmevakīrtitam // ŚivP_1,24.4ab/ anyeṣāmapisarveṣāmaparaṃbhasmalaukikam // ŚivP_1,24.4cd/ dhāraṇaṃmaṃtrataḥ proktaṃdvijānāṃmunipuṃgavaiḥ // ŚivP_1,24.5ab/ kevalaṃdhāraṇaṃjñeyamanyeṣāṃmaṃtravarjitam // ŚivP_1,24.5cd/ āgneyamucyatebhasmadagdhagomayasaṃbhavam // ŚivP_1,24.6ab/ tadāpidravyamityuktaṃtripuṃḍrasyamahāmune // ŚivP_1,24.6cd/ agnihotrotthitaṃbhasmasaṃgrāhyaṃvāmanīṣibhiḥ // ŚivP_1,24.7ab/ anyayajñotthitaṃvāpitripuṇḍrasyacadhāraṇe // ŚivP_1,24.7cd/ agnirityādibhirmaṃtrairjābālopaniṣadgateḥ // ŚivP_1,24.8ab/ saptabhidhūlanaṃkāryaṃbhasmanāsajalenaca // ŚivP_1,24.8cd/ varṇānāmāśramāṇāṃcamaṃtratomaṃtratopi ca // ŚivP_1,24.9ab/ tripuṃḍroddhūlanaṃproktajābālairādareṇaca // ŚivP_1,24.9cd/ bhasmanoddhūlanaṃcaivayathātiryaktripuṃḍrakam // ŚivP_1,24.10ab/ pramādādapimokṣārthīnatyajeditiviśrutiḥ // ŚivP_1,24.10cd/ śivenaviṣṇunācaivatathātiryaktripuṃḍrakam // ŚivP_1,24.11ab/ umādevīcalakṣmīṃścavācānyābhiścanityaśaḥ // ŚivP_1,24.11cd/ brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairapicasaṃskaraiḥ // ŚivP_1,24.12ab/ apabhraṃśairdhṛtaṃbhasmatripuṃḍroddhūlanātmanā // ŚivP_1,24.12cd/ uddhūlanaṃtripuṃḍraṃcaśraddhayānācaraṃtiye // ŚivP_1,24.13ab/ teṣāṃnāstisamācārovarṇāśramasamanvitaḥ // ŚivP_1,24.13cd/ uddhūlanaṃtripuṃḍraṃcaśraddhayānācaraṃtiye // ŚivP_1,24.14ab/ teṣāṃnāstivinimuṃktissaṃsārājjanmakoṭibhiḥ // ŚivP_1,24.14cd/ uddhūlanaṃtripuṃḍraṃcaśraddhayānācarantiye // ŚivP_1,24.15ab/ teṣāṃnāstiśivajñānaṃkalpakoṭiśatairapi // ŚivP_1,24.15cd/ uddhūlanaṃtripuṃḍraṃ ca śraddhayānācarantiye // ŚivP_1,24.16ab/ temahāpātakairyuktā itiśāstrīyanirṇayaḥ // ŚivP_1,24.16cd/ uddhūlanaṃtripuṃḍraṃcaśraddhayānācaranti ye // ŚivP_1,24.17ab/ teṣāmācaritaṃ sarvaṃviparītaphalāya hi // ŚivP_1,24.17cd/ mahāpātakayuktānāṃ jaṃtūnāṃśarvavidviṣām // ŚivP_1,24.18ab/ tripuṃḍroddhūlanadveṣojāyatesudṛḍhaṃ mune // ŚivP_1,24.18cd/ śivāgnikāryaṃ yaḥ kṛtvākuryāttriyāyuṣātmavit // ŚivP_1,24.19ab/ mucyatesarvapāpaistuspṛṣṭenabhasmanānaraḥ // ŚivP_1,24.19cd/ sitenabhasmanākuryāttrisandhyaṃyastripuṇḍrakam // ŚivP_1,24.20ab/ sarvapāpavinirmuktaḥ śivenasahamodate // ŚivP_1,24.20cd/ sitenabhasmanā kuryālāṭe tu tripuṇḍrakam // ŚivP_1,24.21ab/ yosāvanādibhūtānhilokānāpto mṛtobhavet // ŚivP_1,24.21cd/ akṛtvā bhasmanāsnānaṃ na japedvaiṣaḍakṣaram // ŚivP_1,24.22ab/ tripuṃḍraṃ ca racitvā tu vidhinābhasmanājapet // ŚivP_1,24.22cd/ adayo vādhamo vāpi sarvapāpānvitopi vā // ŚivP_1,24.23ab/ uṣaḥpāpānvito vāpimūrkho vā patitopi vā // ŚivP_1,24.23cd/ yasmindeśevasennityaṃbhūtiśāsanasaṃyutaḥ // ŚivP_1,24.24ab/ sarvatīrthaiścakratubhiḥsāṃnidhyaṃkriyatesadā // ŚivP_1,24.24cd/ tripuṃḍrasahito jīvaḥ pūjyaḥ sarvaiḥ surāsuraiḥ // ŚivP_1,24.25ab/ pāpānvitopi śuddhātmā kiṃ punaḥ śraddhayā yutaḥ // ŚivP_1,24.25cd/ yasmindeśe śivajñānī bhūtiśāsanasaṃyutaḥ // ŚivP_1,24.26ab/ gato yadṛcchayādyāpi tasmistīrthāḥ samāgatāḥ // ŚivP_1,24.26cd/ bahunātrakimuktenadhāryaṃbhasmasadā budhaiḥ // ŚivP_1,24.27ab/ liṃgārcanaṃsadākāryaṃjapyomaṃtraḥṣaḍakṣaraḥ // ŚivP_1,24.27cd/ brahmaṇāviṣṇunāvāpi rudreṇamunibhiḥ suraiḥ // ŚivP_1,24.28ab/ bhasmadhāraṇamāhātmyaṃnaśakyaṃparibhāṣitum // ŚivP_1,24.28cd/ iti varṇāśramācāroluptavarṇakriyopi ca // ŚivP_1,24.29ab/ pāpātsakṛttripuṃḍrasyadhāraṇātsopimucyate // ŚivP_1,24.29cd/ yebhasmadhāriṇaṃtyaktvākarmakurvaṃtimānavāḥ // ŚivP_1,24.30ab/ teṣāṃ nāstivinirmokṣaḥ saṃsārājjanmakoṭibhiḥ // ŚivP_1,24.30cd/ te nādhītaṃguroḥsarvaṃtenasarvamanuṣṭhitam // ŚivP_1,24.31ab/ yenavipreṇaśirasitripuṃḍraṃbhasmanākṛtam // ŚivP_1,24.31cd/ ye bhasmadhāriṇaṃ dṛṣṭvānarāḥ kurvaṃtitāḍanam // ŚivP_1,24.32ab/ teṣāṃcaṃḍālatojanmabrahmannūhyaṃvipaścitā // ŚivP_1,24.32cd/ mānastokenamaṃtreṇamaṃtritaṃbhasmadhārayet // ŚivP_1,24.33ab/ brāhmaṇaḥkṣatriyaścaiva prokteṣvaṃgeṣubhaktimān // ŚivP_1,24.33cd/ vaiśyastriyaṃbakenaivaśūdraḥpañcākṣareṇatu // ŚivP_1,24.34ab/ anyeṣāṃ vidhavāstrīṇāṃ vidhiḥ proktaścaśūdravat // ŚivP_1,24.34cd/ pañcabrahmādimanubhirgṛhasthasyavidhīyate // ŚivP_1,24.35ab/ triyaṃbakenamanunāvidhirvaibrahmacāriṇaḥ // ŚivP_1,24.35cd/ aghoreṇāthamanunāvipinasthavidhiḥsmṛtaḥ // ŚivP_1,24.36ab/ yatistupraṇavenaiva tripuṃḍrādīnikārayet // ŚivP_1,24.36cd/ ativarṇāśramīnityaṃśivohaṃbhāvanātparāt // ŚivP_1,24.37ab/ śivayogī ca niyatamīśānenāpi dhārayet // ŚivP_1,24.37cd/ na tyājyaṃ sarvavarṇaiśca bhasmadhāraṇamuttamam // ŚivP_1,24.38ab/ anyairapi yathājīvaissadeti śivaśāsanam // ŚivP_1,24.38cd/ bhasmasnānenayāvaṃtaḥ kaṇāḥ svāṅgepratiṣṭhitāḥ // ŚivP_1,24.39ab/ tāvaṃti śivaliṃgāni tanaudhattehidhārakaḥ // ŚivP_1,24.39cd/ brāhmaṇāḥ kṣatriyāvaiśyāḥ śūdrāścāpi ca saṃkarāḥ // ŚivP_1,24.40ab/ striyothavidhavābālāḥ prāptāḥ pākhaṃḍikāstathā // ŚivP_1,24.40cd/ brahmacārīgṛhīvanyaḥsaṃnyāsīvāvratītathā // ŚivP_1,24.41ab/ nāryobhasmatripuṃḍrāṃkāmuktā evanasaṃśayaḥ // ŚivP_1,24.41cd/ jñānadhṛjñānatovāpivahnidāhasamoyathā // ŚivP_1,24.42ab/ jñānājñānadhṛtaṃbhasmapāvayetsakalaṃnaram // ŚivP_1,24.42cd/ nāśnīyājjalamannamalpamapivā bhasmākṣadhṛtyāvinā bhuktvāvāthagṛhīvanīpatiyatirvarṇītathāsaṃkaraḥ // ŚivP_1,24.43ab/ enobhuṅnarakaṃprayātisatadāgāyatrijāpenatadvarṇānāṃ tu yatestu mukhyapraṇavājapena muktaṃbhavet // ŚivP_1,24.43cd/ tripuṃḍraṃ ye viniṃdaṃti nindantiśivamevate // ŚivP_1,24.44ab/ dhārayaṃticayebhaktyā dhārayanti tamevate // ŚivP_1,24.44cd/ dhigbhasmarahitaṃ bhālaṃdhiggrāmamaśivālayam // ŚivP_1,24.45ab/ dhiganīśārcanaṃ janmadhigvidyāmaśivāśrayām // ŚivP_1,24.45cd/ yeniṃdaṃtimaheśvaraṃtrijagatāmādhārabhūtaṃharaṃ ye nindaṃtitripuṃḍradhāraṇakaraṃ doṣastu taddarśane // ŚivP_1,24.46ab/ tevaisaṃkarasūkarāsurakharaśvakroṣṭukīṭopamājātā eva bhavaṃtipāpaparamāstenārakāḥ kevalam // ŚivP_1,24.46cd/ tedṛṣṭvā śaśibhāskarauniśi dinesvapnepinokevalaṃpaśyaṃtuśrutirudrasūktajapatomucyetatenādṛtāḥ // ŚivP_1,24.47ab/ satsaṃbhāṣaṇatobhaveddhinarakaṃnistāravānāsthitaṃyebhasmādividhāraṇaṃhipuruṣaṃniṃdaṃtimaṃdāhite // ŚivP_1,24.47cd/ natāṃtrikastvadhikṛtonordhvapuṃḍradharomune // ŚivP_1,24.48ab/ saṃtaptacakracihnotraśivayajñebahiṣkṛtaḥ // ŚivP_1,24.48cd/ tatraitebahavolokābṛhajjābālacoditāḥ // ŚivP_1,24.49ab/ tevicāryāḥprayatnenatatobhasmaratobhavet // ŚivP_1,24.49cd/ yaccaṃdanaiścaṃdanakepimiśraṃdhāryaṃhibhasmaivatripuṃḍrabhasmanā // ŚivP_1,24.50ab/ vibhūtibhāloparikiṃcanāpidhāryaṃsadānoyadisaṃtibuddhayaḥ // ŚivP_1,24.50cd/ strībhistripuṇḍramalakāvadhi dhāraṇīyaṃ bhasmadvijādibhiratho vidhavābhirevam // ŚivP_1,24.51ab/ tadvatsadāśramavatāṃ viśadāvibhūtirdhāryāpavargaphaladāsakalāghahantrī // ŚivP_1,24.51cd/ tripuṇḍraṃkuruteyastu bhasmanā vidhipūrvakam // ŚivP_1,24.52ab/ mahāpātakasaṃghātairmucyate copapātakaiḥ // ŚivP_1,24.52cd/ brahmacārīgṛhasthovāvānaprasthothavāyatiḥ // ŚivP_1,24.53ab/ brahmakṣattrāścaviṭśūdrāstathānye patitādhamāḥ // ŚivP_1,24.53cd/ uddhūlanaṃtripuṃḍraṃ ca dhṛtvāśuddhābhavaṃtica // ŚivP_1,24.54ab/ bhasmanovidhinā samyakpāparāśiṃvihāya ca // ŚivP_1,24.54cd/ bhasmadhārī viśeṣeṇa strīgohatyādipātakaiḥ // ŚivP_1,24.55ab/ vīrahatyāśvahatyābhyāṃ mucyatenātra saṃśayaḥ // ŚivP_1,24.55cd/ paradravyāpaharaṇaṃ paradārābhimarśanam // ŚivP_1,24.56ab/ paranindā parakṣetraharaṇaṃ parapīḍanam // ŚivP_1,24.56cd/ sasyārāmādiharaṇaṃ gṛhadāhādikarma ca // ŚivP_1,24.57ab/ gohiraṇyamahiṣyāditilakambalavāsasām // ŚivP_1,24.57cd/ annadhānyajalādīnāṃ nīcebhyaścaparigrahaḥ // ŚivP_1,24.58ab/ daśaveśyāmataṃgīṣu vṛṣalīṣu naṭīṣu ca // ŚivP_1,24.58cd/ rajasvalāsu kanyāsu vidhavāsu ca maithunam // ŚivP_1,24.59ab/ māṃsacarmarasādīnāṃ lavaṇasya ca vikrayaḥ // ŚivP_1,24.59cd/ paiśunyaṃ kūṭavādaśca sākṣimithyābhilāṣiṇām // ŚivP_1,24.60ab/ evamādīnyasaṃkhyāni pāpāni vidhāni ca // ŚivP_1,24.60cd/ sadya eva vinaśyaṃti tripuṃḍrasya ca dhāraṇāt // ŚivP_1,24.60ef/ śivadravyāpaharaṇaṃśivaniṃdācakutracit // ŚivP_1,24.61ab/ niṃdācaśivabhaktānāṃprāyaścittairnaśuddhyati // ŚivP_1,24.61cd/ rudrākṣaṃ yasya gātreṣu lalāṭe tu tripaṃḍrakam // ŚivP_1,24.62ab/ sacāṃḍālopisaṃpūjyassarvavarṇottamottamaḥ // ŚivP_1,24.62cd/ yānitīrthānilokesmingaṃgādyāssaritaścayoḥ // ŚivP_1,24.63ab/ snātobhavatisarvatralalāṭeyastripuṃḍrakam // ŚivP_1,24.63cd/ saptakoṭi mahāmaṃtrāḥ pañcākṣarapurassarāḥ // ŚivP_1,24.64ab/ tathānye koṭiśo maṃtrāḥ śaivakaivalyahetavaḥ // ŚivP_1,24.64cd/ anye maṃtrāśca devānāṃ sarvasaukhyakarāmune // ŚivP_1,24.65ab/ te sarve tasya vaśyāḥ syuryo bibharti tripuṃḍrakam // ŚivP_1,24.65cd/ sahasraṃ pūrvajātānāṃ sahasraṃ janayiṣyatām // ŚivP_1,24.66ab/ svavaṃśajānāṃ jñātīnāmuddharedyastripuṇḍrakṛt // ŚivP_1,24.66cd/ iha bhuktvākhilānbhogāndīrghāyurvyādhivarjitaḥ // ŚivP_1,24.67ab/ jīvitāṃte ca maraṇaṃ sukhenaiva prapadyate // ŚivP_1,24.67cd/ aṣṭaiśvaryaguṇopetaṃprāpyadivyavapuḥ śivam // ŚivP_1,24.68ab/ divyaṃvimānamāruhyadivyatridaśasevitam // ŚivP_1,24.68cd/ vidyādharāṇāṃsarveṣāṃgaṃdharvāṇāṃmahaujasām // ŚivP_1,24.69ab/ iṃdrādilokapālānāṃlokeṣucayathākramam // ŚivP_1,24.69cd/ bhuktvā bhogānsuvipulānprajeśānāṃ padeṣu ca // ŚivP_1,24.70ab/ brahmaṇaḥ padamāsādyatatrakanyāśataṃlamet // ŚivP_1,24.70cd/ tatra brahmāyuṣomānaṃbhuktvābhogānanekaśaḥ // ŚivP_1,24.71ab/ viṣṇorlokelabhedbhogaṃyāvadbrahmaśatātyayaḥ // ŚivP_1,24.71cd/ śivalokaṃ tataḥ prāpya labdhveṣṭaṃ kāmamakṣayam // ŚivP_1,24.72ab/ śivasāyujyamāpnotisaṃśayonātrajāyate // ŚivP_1,24.72cd/ sarvopaniṣadāṃsāraṃsamālokyamuhurmuhuḥ // ŚivP_1,24.73ab/ idameva hi nirṇītaṃ paraṃ śreyastripuṃḍrakam // ŚivP_1,24.73cd/ vibhūtiṃniṃdateyovaibrāhmaṇaḥ sonyajātakaḥ // ŚivP_1,24.74ab/ yāticanarakeghoreyāvadbrahmā caturmukhaḥ // ŚivP_1,24.74cd/ śrāddheyajñejapehomevaiśvadevesurārcane // ŚivP_1,24.75ab/ dhṛtatripuṃḍraḥpūtātmāmṛtyuṃjayatimānavaḥ // ŚivP_1,24.75cd/ jalasnānaṃ malatyāgebhasmasnānaṃsadāśuci // ŚivP_1,24.76ab/ maṃtrasnānaṃharetpāpaṃjñānasnāneparaṃpadam // ŚivP_1,24.76cd/ sarvatīrtheṣuyatpuṇyaṃsarvatīrtheṣuyatphalam // ŚivP_1,24.77ab/ tatphalaṃsamavāpnotibhasmasnānakaronaraḥ // ŚivP_1,24.77cd/ bhasmasnānaṃ paraṃ tīrthaṃgaṃgāsnānaṃdinedine // ŚivP_1,24.78ab/ bhasmarūpīśivaḥsākṣādbhasma trailokyapāvanam // ŚivP_1,24.78cd/ natadūnaṃnataddhyānaṃnataddānaṃjaponasaḥ // ŚivP_1,24.79ab/ tripuṃḍreṇavināyena vipreṇa yadanuṣṭhitam // ŚivP_1,24.79cd/ vānaprasthasyakanyānāṃdīkṣāhīnanṛṇāṃ tathā // ŚivP_1,24.80ab/ madhyāhnātprāgjalairyuktaṃparatojalavarjitam // ŚivP_1,24.80cd/ evaṃ tripuṃḍraṃ yaḥ kuryānnityaṃniyatamānasaḥ // ŚivP_1,24.81ab/ śivabhaktaḥ savijñeyo bhuktimuktiṃ ca viṃdati // ŚivP_1,24.81cd/ yasyāṃgenaivarudrākṣa ekopibahupuṇyadaḥ // ŚivP_1,24.82ab/ tasyajanmanirarthaṃsyāttripuṃḍrarahito yadi // ŚivP_1,24.82cd/ evaṃtripuṃḍramāhātmyaṃsamāsātkathitaṃmayā // ŚivP_1,24.83ab/ rahasyaṃsarvajaṃtūnāṃ gopanīyamidaṃ tvayā // ŚivP_1,24.83cd/ tisrorekhābhavaṃtyevasthāneṣumunipuṃgavāḥ // ŚivP_1,24.84ab/ lalāṭādiṣusarveṣuyathokteṣubudhairmune // ŚivP_1,24.84cd/ bhruvormadhyaṃsamārabhyayāvadaṃtobhavedbhruvoḥ // ŚivP_1,24.85ab/ tāvatpramāṇaṃsaṃdhāryaṃ lalāṭe ca tripuṃḍrakam // ŚivP_1,24.85cd/ madhyamānāmikāṃgulyāmadhyetupratilomataḥ // ŚivP_1,24.86ab/ aṃguṣṭhena kṛtārekhā tripuṃḍrākhyā bhidhīyate // ŚivP_1,24.86cd/ madhyeṃgulibhirādāya tisṛbhirbhasmayatnataḥ // ŚivP_1,24.87ab/ tripuṇḍradhārayedbhaktyābhuktimuktipradaṃparam // ŚivP_1,24.87cd/ tisṛṇāmapi rekhānāṃ pratyekaṃnavadevatāḥ // ŚivP_1,24.88ab/ sarvatrāṃgeṣutāvakṣyesāvadhānatayā śṛṇu // ŚivP_1,24.88cd/ akāro gārhapatyāgnirbhūdharmaśca rajoguṇaḥ // ŚivP_1,24.89ab/ ṛgvedaśca kriyāśaktiḥ prātaḥsavanameva ca // ŚivP_1,24.89cd/ mahadevaśca rekhāyāḥ prathamāyāśca devatā // ŚivP_1,24.90ab/ vijñeyā muniśārdūlāḥ śivadīkṣāparāyaṇaiḥ // ŚivP_1,24.90cd/ ukāro dakṣiṇāgniśca nabhastattvaṃ yajustathā // ŚivP_1,24.91ab/ madhyaṃdinaṃ ca savanamicchāśaktyaṃtarātmakau // ŚivP_1,24.91cd/ maheśvaraśca rekhāyā dvitīyāyāśca devatā // ŚivP_1,24.92ab/ vijñeyāmuniśārdūla śivadīkṣāparāyaṇaiḥ // ŚivP_1,24.92cd/ makārāhavanīyau ca paramātmā tamodivau // ŚivP_1,24.93ab/ jñānaśaktiḥ sāmavedastṛtīyaṃ savanaṃ tathā // ŚivP_1,24.93cd/ śivaścaiva ca rekhāyāstṛtiyāyāśca devatā // ŚivP_1,24.94ab/ vijñeyāmuniśārdūla śivadīkṣāparāyaṇau // ŚivP_1,24.94cd/ evaṃ nityaṃ namaskṛtya sadbhaktyā sthānadevatāḥ // ŚivP_1,24.95ab/ tripuṃḍraṃ dhārayecchuddho bhuktiṃmuktiṃ ca viṃdati // ŚivP_1,24.95cd/ ityuktāḥsthānadevāścasarvāṃgeṣumuniśvara // ŚivP_1,24.96ab/ teṣāṃ saṃbaṃdhinobhaktyāsthānāniśṛṇusāṃpratam // ŚivP_1,24.96cd/ dvātriṃśatsthānake vārdhaṣoḍaśasthānakepi ca // ŚivP_1,24.97ab/ aṣṭasthāne tathā caiva pañcasthānepi nānyaset // ŚivP_1,24.97cd/ uttamāṃge lalāṭe ca karṇayornetrayostathā // ŚivP_1,24.98ab/ nāsāvaktragaleṣvevaṃhastadvaya ataḥparam // ŚivP_1,24.98cd/ kūrpare maṇibaṃdhecahṛdayepārśvayordvayoḥ // ŚivP_1,24.99ab/ nābhaumuṣkadvayecaivamūrvorgulphecajānuni // ŚivP_1,24.99cd/ jaṃghādvayepadadvandvedvātriṃśatsthānamuttamam // ŚivP_1,24.100ab/ agnyabbhūvāyudigdeśadikpālānvasubhiḥ saha // ŚivP_1,24.100cd/ dharādhruvaścasomaśca apaścevānilonalaḥ // ŚivP_1,24.101ab/ pratyūṣaśca prabhāsaścavasavoṣṭaprakīrtitāḥ // ŚivP_1,24.101cd/ eteṣāṃnāmamātreṇatripuṃḍraṃdhārayedbudhāḥ // ŚivP_1,24.102ab/ kuryādvāṣoḍaśasthānetripuṇḍraṃtusamāhitaḥ // ŚivP_1,24.102cd/ śīrṣakecalalāṭecakaṃṭhecāṃsadvayebhuje // ŚivP_1,24.103ab/ kūrparemaṇibaṃdhecahṛdayenābhipārśvake // ŚivP_1,24.103cd/ pṛṣṭhecaivaṃpratiṣṭhāyayajettatrāśvidaivate // ŚivP_1,24.104ab/ śivaśaktiṃtathārudramīśaṃnāradamevaca // ŚivP_1,24.104cd/ vāmādinavaśaktīśca etāḥ ṣoḍaśadevatāḥ // ŚivP_1,24.105ab/ nāsatyodasrakaścaiva aśvinaudvauprakīrtitau // ŚivP_1,24.105cd/ athavāmūrdhnikeśecakarmayorvadanetathā // ŚivP_1,24.106ab/ bāhudvaye ca hṛdayenābhyāmūruyugetathā // ŚivP_1,24.106cd/ jānudvayecapadayoḥ pṛṣṭhabhāge ca ṣoḍaśa // ŚivP_1,24.107ab/ śivaścandraśca rudraḥko vighneśoviṣṇureva vā // ŚivP_1,24.107cd/ śrīścaivahṛdayeśambhustathānābhauprajāpatiḥ // ŚivP_1,24.108ab/ nāgaścanāgakanyāśca ubhayorṛṣikanyakāḥ // ŚivP_1,24.108cd/ pādayoścasamudrāścatīrthāḥ pṛṣṭhe viśālataḥ // ŚivP_1,24.109ab/ ityeva ṣoḍaśa sthānamathocyate // ŚivP_1,24.109cd/ guhyasthānaṃ lalāṭaśca karṇadvayamanuttamam // ŚivP_1,24.110ab/ aṃsayugmaṃ ca hṛdayaṃ nābhirityevamaṣṭakam // ŚivP_1,24.110cd/ brahmā ca ṛṣayaḥ saptadevatāścaprakīrtitāḥ // ŚivP_1,24.111ab/ ityevaṃ tu samuddiṣṭaṃ bhasmavidbhirmunīśvarāḥ // ŚivP_1,24.111cd/ atha vā mastakaṃ bāhūhṛdayaṃ nābhireva ca // ŚivP_1,24.112ab/ pañcasthānānyamūnyāhurdhāraṇe bhasmavijjanāḥ // ŚivP_1,24.112cd/ yathāsaṃbhavanaṃ kuryāddeśakālādyapekṣayā // ŚivP_1,24.113ab/ uddhūlanepyaśaktiścettripuṇḍrādīni kārayet // ŚivP_1,24.113cd/ trinetraṃtriguṇādhāraṃtrivedajanakaṃśivam // ŚivP_1,24.114ab/ smarannamaḥ śivāyeti lalāṭe tu tripuṇḍrakam // ŚivP_1,24.114cd/ īśābhyāṃnama ityuktvāpārśvayośca tripuṇḍrakam // ŚivP_1,24.115ab/ bījābhyāṃ nama ityuktvādhārayettuprakoṣṭhayoḥ // ŚivP_1,24.115cd/ kuryādadhaḥ pitṛbhyāṃ ca umeśābhyāṃtathopari // ŚivP_1,24.116ab/ bhīmāyetitataḥpṛṣṭheśirasaḥpaścimetathā // ŚivP_1,24.116cd/ iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ bhasmadhāraṇavarṇanonāma caturviṃśo 'dhyāyaḥ Chapter 25 sūta uvāca śainakarṣe mahāprājñaśivarūpamahāpate // ŚivP_1,25.1ab/ śṛṇurudrākṣamāhātmyaṃ samāsātkathayāmyaham // ŚivP_1,25.1cd/ śivapriyatamojñeyo rudrākṣaḥ parapāvanaḥ // ŚivP_1,25.2ab/ darśanātsparśanājjāpyātsarvapāpaharaḥsmṛtaḥ // ŚivP_1,25.2cd/ purārudrākṣamahimādevyagrekathitomune // ŚivP_1,25.3ab/ lokopakaraṇārthāyaśivena paramātmanā // ŚivP_1,25.3cd/ śiva uvāca śṛṇudevimaheśānirudrākṣamahimāśive // ŚivP_1,25.4ab/ kathayāmitavaprītyābhaktānāṃhitakāmyayā // ŚivP_1,25.4cd/ divyavarṣasahasrāṇi maheśānipunaḥpurā // ŚivP_1,25.5ab/ tapaḥprakurvatastrastaṃmanaḥ saṃyamyavai mama // ŚivP_1,25.5cd/ svataṃtreṇa pareśena lokopakṛtikāriṇā // ŚivP_1,25.6ab/ līlayāparameśāni cakṣurunmīlitaṃmayā // ŚivP_1,25.6cd/ puṭābhyāṃcārucakṣurbhyāṃpatitājalabiṃdavaḥ // ŚivP_1,25.7ab/ tatrāśrubindavojātāvṛkṣārudrākṣasaṃjñakāḥ // ŚivP_1,25.7cd/ sthāvaratvamanuprāpyabhaktānugrahakāraṇāt // ŚivP_1,25.8ab/ te dattāviṣṇubhaktebhyaścaturvarṇebhya eva ca // ŚivP_1,25.8cd/ bhūmaugauṃḍodbhavāṃścakrerudrākṣāñchivavallabhān // ŚivP_1,25.9ab/ mathurāyāmayodhyāyālaṃkāyāṃmalaye tathā // ŚivP_1,25.9cd/ sahyādraucatathākāśyāṃdaśeṣvanyeṣuvātathā // ŚivP_1,25.10ab/ parānasahyapāpaughabhedanāñchrutinodanāt // ŚivP_1,25.10cd/ brāhmaṇāḥkṣatriyāvaiśyāḥśūdrājātāmamājñayā // ŚivP_1,25.11ab/ rudrākṣāstepṛthivyāṃtutajjātīyāḥ śubhākṣakāḥ // ŚivP_1,25.11cd/ śvetaraktāḥ pītakṛṣṇāvarṇājñeyāḥ kramādbudhaiḥ // ŚivP_1,25.12ab/ svajātīyaṃnṛbhirdhāryaṃ rudrākṣaṃvarṇataḥ kramāt // ŚivP_1,25.12cd/ varṇaistutatphalaṃdhāryaṃbhuktimuktiphalepsubhiḥ // ŚivP_1,25.13ab/ śivabhaktairviśeṣeṇaśivayoḥ prītayesadā // ŚivP_1,25.13cd/ dhātrīphalapramāṇaṃyacchreṣṭhametadudāhṛtam // ŚivP_1,25.14ab/ badarīphalamātraṃtumadhyamaṃsaṃprakīrtitam // ŚivP_1,25.14cd/ adhamaṃcaṇamātraṃsyātprakriyaiṣāparocyate // ŚivP_1,25.15ab/ śṛṇupārvatisuprītyābhaktānāṃhitakāmyayā // ŚivP_1,25.15cd/ badarīphalamātraṃcayatsyātkilamaheśvari // ŚivP_1,25.16ab/ tathāpiphaladaṃlokesukhasaubhāgyavardhanam // ŚivP_1,25.16cd/ dhātrīphalasamaṃyatsyātsarvāriṣṭavināśanam // ŚivP_1,25.17ab/ guṃjayāsadṛśaṃyatsyātsarvārthaphalasādhanam // ŚivP_1,25.17cd/ yathāyathālaghuḥsyādvaitathādhikaphalapradam // ŚivP_1,25.18ab/ ekaikataḥphalaṃproktaṃdaśāṃśairadhikaṃbudhaiḥ // ŚivP_1,25.18cd/ rudrākṣadhāraṇaṃproktaṃpāpanāśanahetave // ŚivP_1,25.19ab/ tasmāccadhāraṇīyovaisarvārthasādhanodhruvam // ŚivP_1,25.19cd/ yathācadṛśyatelokerudrākṣaphaladaḥ śubhaḥ // ŚivP_1,25.20ab/ natathādṛśyate 'nyācamālikāparameśvari // ŚivP_1,25.20cd/ samāḥsnigdhādṛḍhāḥsthūlāḥkaṃṭakaiḥsaṃyutāḥśubhāḥ // ŚivP_1,25.21ab/ rudrākṣāḥkāmadādevibhuktimuktipradāḥ sadā // ŚivP_1,25.21cd/ krimiduṣṭaṃchinnabhinnaṃkaṃṭakairhīnamevaca // ŚivP_1,25.22ab/ vraṇayuktamavṛttaṃcarudrākṣānṣaḍvivarjayet // ŚivP_1,25.22cd/ svayamevakṛtadvāraṃrudrākṣaṃsyadihottamam // ŚivP_1,25.23ab/ yattupauruṣayatnenakṛtaṃtanmadhyamaṃbhavet // ŚivP_1,25.23cd/ rudrākṣadhāraṇaṃprāptaṃmahāpātakanāśanam // ŚivP_1,25.24ab/ rudrasaṃkhyāśataṃdhṛtvarudrarūpobhavennaraḥ // ŚivP_1,25.24cd/ ekādaśaśatānīhadhṛtvāyatphalamāpyate // ŚivP_1,25.25ab/ tatphalaṃśakyatenaiva vaktuṃ varṣaśatairapi // ŚivP_1,25.25cd/ śatārdhenayuteḥ pañcaśatairvai mukuṭaṃ matam // ŚivP_1,25.26ab/ rudrākṣairviracetsamyagbhaktimānpuruṣo varaḥ // ŚivP_1,25.26cd/ tribhiḥ śataiḥ ṣaṣṭiyuktaistrirāvṛttyā tathā punaḥ // ŚivP_1,25.27ab/ rudrākṣairupavītaṃ va nirmīyādbhaktitatparaḥ // ŚivP_1,25.27cd/ śikhāyāṃcatrayaṃproktaṃrudrakṣāṇāṃ maheśvari // ŚivP_1,25.28ab/ karṇayoḥ ṣaṭ ca ṣaṭcaivavāmadakṣiṇayostathā // ŚivP_1,25.28cd/ śatamekottaraṃkaṃṭhebāhvorvairudrasaṃkhyayā // ŚivP_1,25.29ab/ kūrparadvārayostatramaṇibaṃdhetathāpunaḥ // ŚivP_1,25.29cd/ upavītetrayaṃdhāryaṃśivabhaktiratairnaraiḥ // ŚivP_1,25.30ab/ śeṣānurvaritānpañcasammitāndhārayetkaṭau // ŚivP_1,25.30cd/ etatsaṃkhyādhṛtāyenarudrākṣāḥ parameśvari // ŚivP_1,25.31ab/ tadrūpaṃ tu praṇamyaṃhistutyaṃsarvairmaheśavat // ŚivP_1,25.31cd/ evaṃbhūtaṃsthitaṃdhyāneyadākṛtvāsanairjanam // ŚivP_1,25.32ab/ śivetivyāharaṃścaivadṛṣṭvāpāpaiḥ pramucyate // ŚivP_1,25.32cd/ śatādikasahasrasyavidhireṣaprakīrtitaḥ // ŚivP_1,25.33ab/ tadabhāveprakāronyaḥ śubhaḥ saṃprocyatemayā // ŚivP_1,25.33cd/ śikhāyāmekarudrākṣaṃśirasātriṃśataṃvahet // ŚivP_1,25.34ab/ pañcāśaccagaledadhyādbāhvoḥ ṣoḍaśaṣoḍaśa // ŚivP_1,25.34cd/ maṇibaṃdhe dvādaśadviskaṃdhe pañcaśataṃvahet // ŚivP_1,25.35ab/ aṣṭottaraśatairmālyamupavītaṃprakalpayet // ŚivP_1,25.35cd/ evaṃsahasrarudrākṣāndhārayedyodṛḍhavrataḥ // ŚivP_1,25.36ab/ taṃnamaṃtisurāḥsarveyathārudrastathaiva saḥ // ŚivP_1,25.36cd/ ekaṃśikhāyāṃrudrākṣaṃcatvāriṃśattumastake // ŚivP_1,25.37ab/ dvātriṃśatkaṇṭhadeśetuvakṣasyaṣṭottaraṃśatam // ŚivP_1,25.37cd/ ekaikaṃkarṇayoḥ ṣaṭṣaḍbāhvoḥṣoḍaśaṣoḍaśa // ŚivP_1,25.38ab/ karayoravimānenadviguṇenamunīśvara // ŚivP_1,25.38cd/ saṃkhyāprītirdhṛyāyenasopiśaivajanaḥparaḥ // ŚivP_1,25.39ab/ śivavatpūjanīyohivaṃdyassarvairabhīkṣṇaśaḥ // ŚivP_1,25.39cd/ śirasīśānamaṃtreṇakarṇetatpuruṣeṇa ca // ŚivP_1,25.40ab/ aghoreṇagaledhāryaṃtenaivahṛdayepi ca // ŚivP_1,25.40cd/ aghorabījamaṃtreṇa karayordhārayetsudhīḥ // ŚivP_1,25.41ab/ pañcadaśākṣagrathitāṃvāmadevenacodare // ŚivP_1,25.41cd/ pañcabrahmabhiraṃgaścatrimālāṃ pañcasapta ca // ŚivP_1,25.42ab/ athavāmūlamaṃtreṇa sarvānakṣāṃstudhārayet // ŚivP_1,25.42cd/ madyaṃmāṃsaṃtulaśunaṃpalāṇḍuṃśigrumeva ca // ŚivP_1,25.43ab/ śleṣmāṃtakaṃ viḍvarāhaṃbhakṣaṇe varjayettataḥ // ŚivP_1,25.43cd/ valakṣaṃrudrākṣaṃdvijatanubhirevehavihitaṃsuraktaṃkṣatrāṇāṃpramuditamumepītamasakṛt // ŚivP_1,25.44ab/ chinnaṃ khaṃḍitaṃ bhinnaṃ vidīrṇa tatovaiśyairdhāyapratidivasabhāvaśyakamahotathākṛṣṇaṃśūdraiḥśrutigaditamārgoyamagaje // ŚivP_1,25.44cd/ varṇīvanīgṛhayatīrniyamenadadhyādetadrahasyaparamonahijātutiṣṭhet // ŚivP_1,25.45ab/ rudrākṣadhāraṇamidaṃsukṛtaiścalabhyaṃtyaktvedametadakhilānnarakānprayāṃti // ŚivP_1,25.45cd/ ādāvāmalakātsvato laghutarā rugṇāstataḥkaṃṭakaiḥsaṃdaṣṭāḥkrimibhistanūpakaraṇacchidreṇa hīnāstathā // ŚivP_1,25.46ab/ dhāryānaiva śubhepsubhiścaṇakavadrudrākṣamapyaṃtatorudrākṣomamaliṃgamaṃgalamumesūkṣmaṃpraśastaṃsadā // ŚivP_1,25.46cd/ sarvāśramāṇāṃvarṇānāṃstrīśūdraṇāṃśivājñayā // ŚivP_1,25.47ab/ dhāryāḥ sadaivarudrākṣāyatīnāṃ praṇavena hi // ŚivP_1,25.47cd/ divābibhradrātrikṛtairātrauvibhraddivākṛtaiḥ // ŚivP_1,25.48ab/ prātarmadhyāhnasāyāhnemucyatesarvapātakaiḥ // ŚivP_1,25.48cd/ ye tripuṇḍra dharāloke jaṭādhāriṇa eva ye // ŚivP_1,25.49ab/ ye rudrākṣadharāstevaiyamalokaṃprayāṃtina // ŚivP_1,25.49cd/ rudrākṣamekaṃśirasābibhartitathātripuṇḍraṃcalalāṭamadhye // ŚivP_1,25.50ab/ pañcākṣaraṃyehijapaṃtimaṃtraṃpūjyābhavadbhiḥ khalutehisādhavaḥ // ŚivP_1,25.50cd/ yasyāṅgenāstirudrākṣastripuṇḍraṃbhālapaṭṭake // ŚivP_1,25.51ab/ mukhepañcākṣaraṃnāstitamānayayamālayam // ŚivP_1,25.51cd/ jñātvājñātvātatprabhāvaṃbhasmarudrākṣadhāriṇaḥ // ŚivP_1,25.52ab/ tepūjyāḥ sarvadāsmākaṃnonetavyāḥ kadācana // ŚivP_1,25.52cd/ evamājñāpayāmāsakālopinijakiṅkarān // ŚivP_1,25.53ab/ tathetimattvātesarvetūṣṇīmāsansuvismitāḥ // ŚivP_1,25.53cd/ ata evamahādevirudrākṣotyaghanāśanaḥ // ŚivP_1,25.54ab/ taddharomatpriyaḥ śuddho 'tyaghavānapipārvati // ŚivP_1,25.54cd/ hastebāhautathāmūrdhnirudrākṣaṃdhārayettuyaḥ // ŚivP_1,25.55ab/ avadhyaḥsarvabhūtānāṃrudrarūpīcaredbhuvi // ŚivP_1,25.55cd/ surāsurāṇāṃsarveṣāṃ vaṃdanīyaḥsadāsavai // ŚivP_1,25.56ab/ pūjanīyo hi dṛṣṭasyapāpahācayathāśivaḥ // ŚivP_1,25.56cd/ dhyānajñānāvamuktopirudrākṣaṃdhārayettuyaḥ // ŚivP_1,25.57ab/ sarvapāpavinirmuktaḥsayātiparamāṃgatim // ŚivP_1,25.57cd/ rudrākṣeṇajapanmantraṃ puṇyaṃkoṭi guṇaṃ bhavet // ŚivP_1,25.58ab/ daśakoṭiguṇaṃpuṇyaṃdhāraṇāllabhate naraḥ // ŚivP_1,25.58cd/ yāvatkālaṃhijīvasyaśarīrasthobhavetsavai // ŚivP_1,25.59ab/ tāvatkālaṃsvalpamṛtyurnataṃdevibādhate // ŚivP_1,25.59cd/ tripuṃḍreṇacasaṃyuktaṃrudrākṣāvilasāṃgakam // ŚivP_1,25.60ab/ mṛtyuṃjayaṃjapaṃtaṃcadṛṣṭvārudraphalaṃlabhet // ŚivP_1,25.60cd/ pañcadevapriyaścaivasarvadevapriyastathā // ŚivP_1,25.61ab/ sarvamantrāñjapedbhaktorudrākṣamālayāpriye // ŚivP_1,25.61cd/ viṣṇvādidevabhaktāścadhārayeyurnasaṃśayaḥ // ŚivP_1,25.62ab/ rudrabhakto viśeṣeṇarudrākṣāndhārayetsadā // ŚivP_1,25.62cd/ rudrākṣāvividhāḥproktāsteṣāṃ bhedānvadāmyaham // ŚivP_1,25.63ab/ śṛṇupārvati sadbhaktyā bhuktimuktiphalapradān // ŚivP_1,25.63cd/ ekavaktraḥ śivaḥ sākṣādbhuktimuktiphalapradaḥ // ŚivP_1,25.64ab/ tasyadarśanamātreṇabrahmahatyāvyapohati // ŚivP_1,25.64cd/ yatrasaṃpūjitastatralakṣmīrdūratarā nahi // ŚivP_1,25.65ab/ naśyaṃtyupadravāḥsarvesarvakāmābhavaṃtihi // ŚivP_1,25.65cd/ dvivaktrodevadeveśassarvakāmaphalapradaḥ // ŚivP_1,25.66ab/ viśeṣataḥ sarudrākṣogovadhaṃnāśayeddrutam // ŚivP_1,25.66cd/ trivaktroyohirudrākṣaḥ sākṣātsādhanadassadā // ŚivP_1,25.67ab/ tatprabhāvādbhaveyurvaividyāḥ sarvāḥ pratiṣṭhitāḥ // ŚivP_1,25.67cd/ caturvaktraḥ svayaṃbrahmānarahatyāṃvyapohati // ŚivP_1,25.68ab/ darśanātsparśanātsadyaścaturvargaphalapradaḥ // ŚivP_1,25.68cd/ pañcavaktraḥ svayaṃrudraḥ kālāgnirnāmataḥ prabhuḥ // ŚivP_1,25.69ab/ sarvamuktipradaścaivasarvakāmaphalapradaḥ // ŚivP_1,25.69cd/ agamyāgamanaṃpāpamabhakṣyasya ca bhakṣaṇam // ŚivP_1,25.70ab/ ityādi sarvapāpāni pañcavaktrovyapohati // ŚivP_1,25.70cd/ ṣaḍvaktraḥkārtikeyastudhāraṇāddakṣiṇebhuje // ŚivP_1,25.71ab/ brahmahatyādikaiḥ pāpairmucyatenātra saṃśayaḥ // ŚivP_1,25.71cd/ saptavaktromaheśāni hyanaṃgonāmanāmataḥ // ŚivP_1,25.72ab/ dhāraṇāttasya deveśidaridropīśvarobhavet // ŚivP_1,25.72cd/ rudrākṣaścāṣṭavaktraśca vasumūrtiśca bhairavaḥ // ŚivP_1,25.73ab/ dhāraṇāttasya pūrṇāyurmṛto bhavati śūlabhṛt // ŚivP_1,25.73cd/ bhairavonavavaktraśca kapilaścamuniḥsmṛtaḥ // ŚivP_1,25.74ab/ durgāvātadadhiṣṭhātrī navarūpāmaheśvarī // ŚivP_1,25.74cd/ taṃ dhārayedvāmahaste rudrākṣaṃbhaktitatparaḥ // ŚivP_1,25.75ab/ sarveśvarobhavennūnaṃmama tulyo na saṃśayaḥ // ŚivP_1,25.75cd/ daśavaktro maheśāni svayaṃ devo janārdanaḥ // ŚivP_1,25.76ab/ dhāraṇāttasya deveśi sarvānkāmānavāpnuyāt // ŚivP_1,25.76cd/ ekādaśamukhoyasturudrākṣaḥparameśvari // ŚivP_1,25.77ab/ sarudrodhāraṇāttasyasarvatravijayībhavet // ŚivP_1,25.77cd/ dvādaśāsyaṃ tu rudrākṣaṃ dhārayetkeśadeśake // ŚivP_1,25.78ab/ ādityāścaiva te sarvedvādaśaiva sthitāstathā // ŚivP_1,25.78cd/ trayodaśamukho viśvedevastaddhāraṇānnaraḥ // ŚivP_1,25.79ab/ sarvānkāmānavāpnoti saubhāgyaṃ maṃgalaṃlabhet // ŚivP_1,25.79cd/ caturdaśamukho yo hi rudrākṣaḥ paramaḥśivaḥ // ŚivP_1,25.80ab/ dhārayenmūrdhni taṃ bhaktyāsarvapāpaṃ praṇaśyati // ŚivP_1,25.80cd/ itirudrākṣabhedā hi proktāvaimukhabhedataḥ // ŚivP_1,25.81ab/ tattanmaṃtrāñchṛṇu prītyā kramācchailleśvarātmaje // ŚivP_1,25. 81cd/ aṃ hrīnamaḥ 1 aṃnamaḥ 2 aṃklīṃnamaḥ 3 aṃhrīṃnamaḥ 4 aṃhrīṃnamaḥ 5 aṃhrīṃ huṃ namaḥ 6 aṃhuṃnamaḥ 7 aṃhuṃnamaḥ 8 aṃhrīṃhuṃnamaḥ 9 aṃhrīṃnamaḥ namaḥ 10 aṃhrīṃhuṃnamaḥ 11 aṃkroṃ kṣauṃ rauṃ namaḥ 12 aṃhrīṃnamaḥ 13 aṃnama 14 bhaktiśraddhāyutaścaiva sarvakāmārthasiddhaye // ŚivP_1,25.82ab/ rudrākṣāndhārayenmaṃtrairdevanālasya varjitaḥ // ŚivP_1,25.82cd/ vinā maṃtreṇa ho dhatte rudrākṣaṃ bhuvimānavaḥ // ŚivP_1,25.83ab/ sa yāti narakaṃ ghoraṃ yāvadindrāścaturdaśa // ŚivP_1,25.83cd/ rudrākṣamālinaṃdṛṣṭvā bhūtapretapiśācakāḥ // ŚivP_1,25.84ab/ ḍākinīśākinī caiva ye cānye drohakārakāḥ // ŚivP_1,25.84cd/ kṛtrimaṃ caiva yatkiṃcidabhicārādikaṃcayāt // ŚivP_1,25.85ab/ tatsarvaṃdūratoyātidṛṣṭvā śaṃkitavigraham // ŚivP_1,25.85cd/ rudrākṣamālinaṃ dṛṣṭvā śivo viṣṇuḥ prasīdati // ŚivP_1,25.86ab/ devīgaṇapatissūryaḥsurāścānyepipārvati // ŚivP_1,25.86cd/ evaṃjñātvātumāhātmyaṃrudrākṣasyamaheśvari // ŚivP_1,25.87ab/ samyagdhāryāssamaṃtrāścabhaktyādharmavivṛddhaye // ŚivP_1,25.87cd/ ityuktaṃgirijāgrehiśivenaparamātmanā // ŚivP_1,25.88ab/ bhasmarūdrākṣamāhātmyaṃ bhuktimuktiphalapradam // ŚivP_1,25.88cd/ śivasyātipriyaujñeyau bhasmarudrākṣadhāriṇau // ŚivP_1,25.89ab/ taddhāraṇaprabhāvaddhi bhuktirmuktirna saṃśayaḥ // ŚivP_1,25.89cd/ bhasmarudrākṣadhārī yaḥ śivabhaktassa ucyate // ŚivP_1,25.90ab/ pañcākṣarajapāsaktaḥ paripūrṇaścasanmukhe // ŚivP_1,25.90cd/ vinābhasmatripuṃḍreṇavinārudrākṣamālayā // ŚivP_1,25.91ab/ pūjitopimahādevonābhīṣṭaphaladāyakaḥ // ŚivP_1,25.91cd/ tatsarvaṃ ca samākhyātaṃ yatpṛṣṭaṃhimunīśvara // ŚivP_1,25.92ab/ bhasmarudrākṣamāhātmyaṃ sarvakāmasamṛddhidam // ŚivP_1,25.92cd/ etadyaḥśṛṇuyānnityaṃmāhātmyaparamaṃśubham // ŚivP_1,25.93ab/ rudrākṣabhasmanorbhaktyāsarvānkāmānavāpnuyāt // ŚivP_1,25.93cd/ iha sarvasukhaṃ bhuktvā putrapautrādisaṃyutaḥ // ŚivP_1,25.94ab/ labhetparatra sanmokṣaṃ śivasyātipriyo bhavet // ŚivP_1,25.94cd/ vidyeśvarasaṃhiteyaṃ kathitā vo munīśvarāḥ // ŚivP_1,25.95ab/ sarvasiddhipradā nityaṃmuktidā śivaśāsanāt // ŚivP_1,25.95cd/ iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe rudrākṣamahātmyavarṇanonāma pañcaviṃśo 'dhyāyaḥ vāyavīyasaṃhitā atha śrīśivamahāpurāṇe saptamī vāyavīyasaṃhitā prārabhyate || śrīgaṇeśāya namaḥ || śrīgaurīśaṃkarābhyāṃ namaḥ || atha saptamī vāyavīyasaṃhitā prārabhyate || Chapter 1 vyāsa uvāca namaśśivāya somāya sagaṇāya sasūnave
प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे
pradhānapuruṣeśāya sargasthityaṃtahetave
शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम्
śaktirapratimā yasya hyaiśvaryaṃ cāpi sarvagam
स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते
svāmitvaṃ ca vibhutvaṃ ca svabhāvaṃ saṃpracakṣate
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम्
tamajaṃ viśvakarmāṇaṃ śāśvataṃ śivamavyayam
महादेवं महात्मानं व्रजामि शरणं शिवम्
mahādevaṃ mahātmānaṃ vrajāmi śaraṇaṃ śivam
धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे
dharmakṣetre mahātīrthe gaṃgākāliṃdisaṃgame
प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि
prayāge naimiṣāraṇye brahmalokasya vartmani
मुनयश्शंसितात्मानः सत्यव्रतपरायणाः
munayaśśaṃsitātmānaḥ satyavrataparāyaṇāḥ
महौजसो महाभागा महासत्रं वितेनिरे
mahaujaso mahābhāgā mahāsatraṃ vitenire
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम्
tatra satraṃ samākarṇya teṣāmakliṣṭakarmaṇām
साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः
sākṣātsatyavatīsūnorvedavyāsasya dhīmataḥ
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः
śiṣyo mahātmā medhāvī triṣu lokeṣu viśrutaḥ
पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्
pañcāvayavayuktasya vākyasya guṇadoṣavit
उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः
uttarottaravaktā ca bruvato 'pi bṛhaspateḥ
मधुरः श्रवणानां च मनोज्ञपदपर्वणाम्
madhuraḥ śravaṇānāṃ ca manojñapadaparvaṇām
कथानां निपुणो वक्ता कालविन्नयवित्कविः
kathānāṃ nipuṇo vaktā kālavinnayavitkaviḥ
आजगाम स तं देशं सूतः पौराणिकोत्तमः
ājagāma sa taṃ deśaṃ sūtaḥ paurāṇikottamaḥ
तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः
taṃ dṛṣṭvā sūtamāyāṃtaṃ munayo hṛṣṭamānasāḥ
तस्मै साम च पूजां च यथावत्प्रत्यपादयन्
tasmai sāma ca pūjāṃ ca yathāvatpratyapādayan
प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम्
pratigṛhya satāṃ pūjāṃ munibhiḥ pratipāditām
उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः
uddiṣṭamānasaṃ bheje niyukto yuktamātmanaḥ
ततस्तत्संगमादेव मुनीनां भावितात्मनाम्
tatastatsaṃgamādeva munīnāṃ bhāvitātmanām
सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम्
sotkaṃṭhamabhavaccitaṃ śrotuṃ paurāṇikīṃ kathām
तदा तमनुकूलाभिर्वाग्भिः पूज्य 1 महर्षयः
tadā tamanukūlābhirvāgbhiḥ pūjya 1 maharṣayaḥ
अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन्
atīvābhimukhaṃ kṛtvā vacanaṃ cedamabruvan
ऋषय ऊचुः रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात्
ṛṣaya ūcuḥ romaharṣaṇa sarvajña bhavānno bhāgyagauravāt
संप्राप्तोद्य महाभाग शैवराज महामते
saṃprāptodya mahābhāga śaivarāja mahāmate
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान्
purāṇavidyāmakhilāṃ vyāsātpratyakṣamīyivān
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम्
tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam
रत्नानामुरुसाराणां रत्नाकर इवार्णवः
ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ
यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते
yacca bhūtaṃ yacca bhavyaṃ yaccānyadvastu vartate
न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते
na tavāviditaṃ kiñcittriṣu lokeṣu vidyate
त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः
tvamadṛṣṭavaśādasmaddarśanārthamihāgataḥ
अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि
akurvankimapi śreyo na vṛthā gantumarhasi
तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम्
tasmācchrāvyataraṃ puṇyaṃ satkathājñānasaṃhitam
वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः
vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayāśu naḥ
एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः
evamabhyarthitassūto munibhirvedavādibhiḥ
श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम्
ślakṣṇāṃ ca nyāyasaṃyuktāṃ pratyuvāca śubhāṃ giram
502अ सूत उवाच पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः
502a sūta uvāca pūjito 'nugṛhītaśca bhavadbhiriti coditaḥ
कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम्
kasmātsamyaṅna vibrūyāṃ purāṇamṛṣipūjitam
अभिवंद्य महादेवं देवीं स्कंदं विनायकम्
abhivaṃdya mahādevaṃ devīṃ skaṃdaṃ vināyakam
नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम्
naṃdinaṃ ca tathā vyāsaṃ sākṣātsatyavatīsutam
वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम्
vakṣyāmi paramaṃ puṇyaṃ purāṇaṃ vedasaṃmitam
शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम्
śivajñānārṇavaṃ sākṣādbhaktimuktiphalapradam
शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम्
śabdārthanyāyasaṃyuktai rāgamārthairvibhūṣitam
श्वेतकल्पप्रसंगेन वायुना कथितं पुरा
śvetakalpaprasaṃgena vāyunā kathitaṃ purā
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा
vidyāsthānāni sarvāṇi purāṇānukramaṃ tathā
तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत
tatpurāṇasya cotpattiṃ bruvato me nibodhata
अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः
aṃgāni vedāścatvāro mīmāṃsānyāyavistaraḥ
पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश
purāṇaṃ dharmaśāstraṃ ca vidyāścetāścaturdaśa
आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात्
āyurvedo dhanurvedo gāṃdharvaścetyanukramāt
अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः
arthaśāstraṃ paraṃ tasmādvidyā hyaṣṭādaśa smṛtāḥ
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम्
aṣṭādaśānāṃ vidyānāmetāsāṃ bhinnavartmanām
आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः
ādikartā kavissākṣācchūlapāṇiriti śrutiḥ
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत्
sa hi sarvajagannāthaḥ sisṛkṣurakhilaṃ jagat
ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम्
brahmāṇaṃ vidadhe sākṣātputramagre sanātanam
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये
tasmai prathamaputrāya brahmaṇe viśvayonaye
विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः
vidyāścemā dadau pūrvaṃ viśvasṛṣṭyarthamīśvaraḥ
पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः
pālanāya hariṃ devaṃ rakṣāśaktiṃ dadau tataḥ
मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि
madhyamaṃ tanayaṃ viṣṇuṃ pātāraṃ brahmaṇo 'pi hi
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता
labdhavidyena vidhinā prajāsṛṣṭiṃ vitanvatā
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम्
prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam
अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः
anaṃtaraṃ tu vaktrebhyo vedāstasya vinirgatāḥ
प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः
pravṛttissarvaśāstrāṇāṃ tanmukhādabhavattataḥ
यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि
yadāsya vistaraṃ śaktā nādhigaṃtuṃ prajā bhuvi
तदा विद्यासमासार्थं विश्वेश्वरनियोगतः
tadā vidyāsamāsārthaṃ viśveśvaraniyogataḥ
द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः
dvāparāṃteṣu viśvātmā viṣṇurviśvaṃbharaḥ prabhuḥ
व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले
vyāsanāmnā caratyasminnavatīrya mahītale
एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः
evaṃ vyastāśca vedāśca dvāparedvāpare dvijāḥ
निर्मितानि पुराणानि अन्यानि च ततः परम्
nirmitāni purāṇāni anyāni ca tataḥ param
स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया
sa punardvāpare cāsminkṛṣṇadvaipāyanākhyayā
अरण्यामिव हव्याशी सत्यवत्यामजायत
araṇyāmiva havyāśī satyavatyāmajāyata
संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः
saṃkṣipya sa punarvedāṃścaturdhā kṛtavānmuniḥ
व्यस्तवेदतया लोके वेदव्यास इति श्रुतः
vyastavedatayā loke vedavyāsa iti śrutaḥ
पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः
purāṇānāñca saṃkṣiptaṃ caturlakṣapramāṇataḥ
अद्यापि देवलोके तच्छतकोटिप्रविस्तरम्
adyāpi devaloke tacchatakoṭipravistaram
यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः
yo vidyāccaturo vedān sāṃgopaṇiṣadāndvijaḥ
न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः
na cetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति
bibhetyalpaśrutādvedo māmayaṃ pratariṣyati
सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च
sargaśca pratisargaśca vaṃśo manvaṃtarāṇi ca
वंशानुचरितं चैव पुराणं पञ्चलक्षणम्
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते
daśadhā cāṣṭadhā caitatpurāṇamupadiśyate
502ब् बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः
502b bṛhatsūkṣmaprabhedena munibhistattvavittamaiḥ
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā
भविष्यं नारदीयं च मार्कंडेयमतः परम्
bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param
आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च
āgneyaṃ brahmavaivartaṃ laiṃgaṃ vārāhameva ca
स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम्
skāndaṃ ca vāmanaṃ caiva kaurmyaṃ mātsyaṃ ca gāruḍam
ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः
brahmāṃḍaṃ ceti puṇyo 'yaṃ purāṇānāmanukramaḥ
तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम्
tatra śaivaṃ turīyaṃ yacchārvaṃ sarvārthasādhakam
ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम्
graṃtho lakṣapramāṇaṃ tadvyastaṃ dvādaśasaṃhitam
निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः
nirmitaṃ tacchivenaiva tatra dharmaḥ pratiṣṭhitaḥ
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः
taduktenaiva dharmeṇa śaivāstraivarṇikā narāḥ
तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत्
tasmādvimukutimanvicchañcchivameva samāśrayet
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा
tamāśrityaiva devānāmapi muktirna cānyathā
यदिदं शैवमाख्यातं पुराणं वेदसंमितम्
yadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam
तस्य भेदान्समासेन ब्रुवतो मे निबोधत
tasya bhedānsamāsena bruvato me nibodhata
विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम्
vidyeśvaraṃ tathā raudraṃ vaināyakamanuttamam
औमं मातृपुराणं च रुद्रैकादशकं तथा
aumaṃ mātṛpurāṇaṃ ca rudraikādaśakaṃ tathā
कैलासं शतरुद्रं च शतरुद्राख्यमेव च
kailāsaṃ śatarudraṃ ca śatarudrākhyameva ca
सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम्
sahasrakoṭirudrākhyaṃ vāyavīyaṃ tataḥparam
धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः
dharmasaṃjñaṃ purāṇaṃ cetyevaṃ dvādaśa saṃhitāḥ
विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया
vidyeśaṃ daśasāhasramuditaṃ graṃthasaṃkhyayā
रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम्
raudraṃ vaināyakaṃ caumaṃ mātṛkākhyaṃ tataḥ param
प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम्
pratyekamaṣṭasāhasraṃ trayodaśasahasrakam
रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम्
raudrakādaśakākhyaṃ yatkailāsaṃ ṣaṭsahasrakam
शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम्
śatarudraṃ trisāhasraṃ koṭirudraṃ tataḥ param
सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम्
sahasrairnavabhiryuktaṃ sarvārthajñānasaṃyutam
सहस्रकोटिरुद्राख्यमेकादशसहस्रकम्
sahasrakoṭirudrākhyamekādaśasahasrakam
चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम्
catussahasrasaṃkhyeyaṃ vāyavīyamanuttamam
धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम्
dharmasaṃjñaṃ purāṇaṃ yattaddvādaśasahasrakam
तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः
tadevaṃ lakṣamuddiṣṭaṃ śaivaṃ śākhāvibhedataḥ
पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम्
purāṇaṃ vedasāraṃ tadbhuktimuktiphalapradam
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम्
vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam
शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम्
śaivantatra purāṇaṃ vai caturthaṃ saptasaṃhitam
विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता
vidyeśvarākhyā tatrādyā dvitīyā rudrasaṃhitā
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका
tṛtīyā śatarudrākhyā koṭirudrā caturthikā
पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता
pañcamī kathitā comā ṣaṣṭhī kailāsasaṃhitā
सप्तमी वायवीयाख्या सप्तैवं संहिता इह
saptamī vāyavīyākhyā saptaivaṃ saṃhitā iha
विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम्
vidyeśvaraṃ dvisāhasraṃ raudraṃ pañcaśatāyutam
त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम्
triṃśattathā dvisāhasraṃ sārdhaikaśatamīritam
शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम्
śatarudrantathā koṭirudraṃ vyomayugādhikam
द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम्
dvisāhasraṃ ca dviśataṃ tathomaṃ bhūsahasrakam
चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम्
catvāriṃśatsāṣṭaśataṃ kailāsaṃ bhūsahasrakam
चत्वारिंशच्च द्विशतं वायवीयमतः परम्
catvāriṃśacca dviśataṃ vāyavīyamataḥ param
चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः
catussāhasrasaṃkhyākamevaṃ saṃkhyāvibhedataḥ
श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम्
śrutamparamapuṇyantu purāṇaṃ śivasaṃjñakam
चतुःसाहस्रकं यत्तु वायवीयमुदीरितम्
catuḥsāhasrakaṃ yattu vāyavīyamudīritam
तदिदं वर्तयिष्यामि भागद्वयसमन्वितम्
tadidaṃ vartayiṣyāmi bhāgadvayasamanvitam
नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम्
nāvedaviduṣe vācyamidaṃ śāstramanuttamam
न चैवाश्रद्धधानाय नापुराणविदे तथा
na caivāśraddhadhānāya nāpurāṇavide tathā
परीक्षिताय शिष्याय धार्मिकायानसूयवे
parīkṣitāya śiṣyāya dhārmikāyānasūyave
प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे
pradeyaṃ śivabhaktāya śivadharmānusāriṇe
पुराणसंहिता यस्य प्रसादान्मयि वर्तते
purāṇasaṃhitā yasya prasādānmayi vartate
नमो भगवते तस्मै व्यासायामिततेजसे
namo bhagavate tasmai vyāsāyāmitatejase
